श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ११ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १३ →



इन्द्रवृत्रयुद्धं वृत्रस्य वधश्च -


श्रीऋषिरुवाच -
एवं जिहासुर्नृप देहमाजौ
     मृत्युं वरं विजयान्मन्यमानः ।
 शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं
     यथा महापुरुषं कैटभोऽप्सु ॥ १ ॥
 ततो युगान्ताग्निकठोरजिह्वं
     आविध्य शूलं तरसासुरेन्द्रः ।
 क्षिप्त्वा महेन्द्राय विनद्य वीरो
     हतोऽसि पापेति रुषा जगाद ॥ २ ॥
 ख आपतत् तद् विचलद् ग्रहोल्कवद्
     निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः ।
 वज्रेण वज्री शतपर्वणाच्छिनद्
     भुजं च तस्योरगराजभोगम् ॥ ३ ॥
 छिन्नैकबाहुः परिघेण वृत्रः
     संरब्ध आसाद्य गृहीतवज्रम् ।
 हनौ तताडेन्द्रमथामरेभं
     वज्रं च हस्तान् न्यपतन् मघोनः ॥ ४ ॥
 वृत्रस्य कर्मातिमहाद्‍भुतं तत्
     सुरासुराश्चारणसिद्धसङ्‌घाः ।
 अपूजयंस्तत् पुरुहूतसङ्‌कटं
     निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ ५ ॥
 इन्द्रो न वज्रं जगृहे विलज्जितः
     च्युतं स्वहस्तादरिसन्निधौ पुनः ।
 तमाह वृत्रो हर आत्तवज्रो
     जहि स्वशत्रुं न विषादकालः ॥ ६ ॥
 युयुत्सतां कुत्रचिदाततायिनां
     जयः सदैकत्र न वै परात्मनाम् ।
 विनैकमुत्पत्तिलयस्थितीश्वरं
     सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७ ॥
 लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे ।
 द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥ ८ ॥
 ओजः सहो बलं प्राणं अमृतं मृत्युमेव च ।
 तमज्ञाय जनो हेतुं आत्मानं मन्यते जडम् ॥ ९ ॥
 यथा दारुमयी नारी यथा यंत्रमयो मृगः ।
 एवं भूतानि मघवन् नीशतन्त्राणि विद्धि भोः ॥ १० ॥
 पुरुषः प्रकृतिर्व्यक्तं आत्मा भूतेन्द्रियाशयाः ।
 शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ॥ ११ ॥
 अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ।
 भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ १२ ॥
 आयुः श्रीः कीर्तिरैश्वर्यं आशिषः पुरुषस्य याः ।
 भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ १३ ॥
 तस्मादकीर्तियशसोः जयापजययोरपि ।
 समः स्यात्सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥ १४ ॥
 सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।
 तत्र साक्षिणमात्मानं यो वेद स न बध्यते ॥ १५ ॥
 पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे ।
 घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ १६ ॥
 प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः ।
 अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥ १७ ॥
 श्रीशुक उवाच -
इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् ।
 गृहीतवज्रः प्रहसन् तमाह गतविस्मयः ॥ १८ ॥
 इन्द्र उवाच -
अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी ।
 भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम् ॥ १९ ॥
 भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् ।
 यद् विहायासुरं भावं महापुरुषतां गतः ॥ २० ॥
 खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव ।
 वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥ २१ ॥
 यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे ।
 विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ २२ ॥
 श्रीशुक उवाच -
इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप ।
 युयुधाते महावीर्यौ इन्द्रवृत्रौ युधाम्पती ॥ २३ ॥
 आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः ।
 इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष ॥ २४ ॥
 स तु वृत्रस्य परिघं करं च करभोपमम् ।
 चिच्छेद युगपद् देवो वज्रेण शतपर्वणा ॥ २५ ॥
 दोर्भ्यां उत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः ।
 छिन्नपक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः ॥ २६ ॥
 कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम्
 नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥ २७ ॥
 दंष्ट्राभिः कालकल्पाभिः ग्रसन्निव जगत्त्रयम् ।
 अतिमात्रमहाकाय आक्षिपन् तरसा गिरीन् ॥ २८ ॥
 गिरिराट् पादचारीव पद्‍भ्यां निर्जरयन् महीम् ।
 जग्रास स समासाद्य वज्रिणं सहवाहनम् ॥ २९ ॥
 वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः ।
 महाप्राणो महावीर्यो महासर्प एव द्विपम् ।
 हा कष्टमिति निर्विण्णाः चुक्रुशुः समहर्षयः ॥ ३० ॥
 निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः ।
 महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१ ॥
 भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभुः ।
 उच्चकर्त शिरः शत्रोः गिरिश्रृङ्‌गमिवौजसा ॥ ३२ ॥
 वज्रस्तु तत्कन्धरमाशुवेगः
     कृन्तन् समन्तात् परिवर्तमानः ।
 न्यपातयत् तावदहर्गणेन
     यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥
 तदा च खे दुन्दुभयो विनेदुः
     गन्धर्वसिद्धाः समहर्षिसङ्‌घाः ।
 वार्त्रघ्नलिङ्‌गैस्तमभिष्टुवाना
     मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ ३४ ॥
 वृत्रस्य देहान् निष्क्रान्तं आत्मज्योतिररिन्दम ।
 पश्यतां सर्वदेवानां अलोकं समपद्यत ॥ ३५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे वृत्रोवधो नाम द्वादशोऽध्या‍यः ॥ १२ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥