श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३२ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०१ →


देवहूतिकृता भगवत्स्तुतिः, कपिलस्य प्रस्थानम्, देवहूतेर्ब्रह्मभावापत्तिश्च -

मैत्रेय उवाच -
एवं निशम्य कपिलस्य वचो जनित्री
     सा कर्दमस्य दयिता किल देवहूतिः ।
 विस्रस्तमोहपटला तमभिप्रणम्य
     तुष्टाव तत्त्वविषयाङ्कित सिद्धिभूमिम् ॥ १ ॥
 देवहूतिरुवाच -
अथाप्यजोऽन्तःसलिले शयानं
     भूतेन्द्रियार्थात्ममयं वपुस्ते ।
 गुणप्रवाहं सदशेषबीजं
     दध्यौ स्वयं यत् जठराब्जजातः ॥ २ ॥
 स एव विश्वस्य भवान् विधत्ते
     गुणप्रवाहेण विभक्तवीर्यः ।
 सर्गाद्यनीहोऽवितथाभिसन्धिः
     आत्मेश्वरोऽतर्क्य सहस्रशक्तिः ॥ ३ ॥
 स त्वं भृतो मे जठरेण नाथ
     कथं नु यस्योदर एतदासीत् ।
 विश्वं युगान्ते वटपत्र एकः
     शेते स्म मायाशिशुरङ्‌घ्रिपानः ॥ ४ ॥
 त्वं देहतन्त्रः प्रशमाय पाप्मनां
     निदेशभाजां च विभो विभूतये ।
 यथावतारास्तव सूकरादयः
     तथायमप्यात्म पथोपलब्धये ॥ ५ ॥
 यन्नामधेयश्रवणानुकीर्तनाद्
     यत्प्रह्वणाद् यत् स्मरणादपि क्वचित् ।
 श्वादोऽपि सद्यः सवनाय कल्पते
     कुतः पुनस्ते भगवन्नु दर्शनात् ॥ ६ ॥
 अहो बत श्वपचोऽतो गरीयान्
     यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ।
 तेपुस्तपस्ते जुहुवुः सस्नुरार्या
     ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ ७ ॥
 तं त्वामहं ब्रह्म परं पुमांसं
     प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् ।
 स्वतेजसा ध्वस्तगुणप्रवाहं
     वन्दे विष्णुं कपिलं वेदगर्भम् ॥ ८ ॥
 मैत्रेय उवाच -
ईडितो भगवानेवं कपिलाख्यः परः पुमान् ।
 वाचाविक्लवयेत्याह मातरं मातृवत्सलः ॥ ९ ॥
 कपिल उवाच -
मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे ।
 आस्थितेन परां काष्ठां अचिराद् अवरोत्स्यसि ॥ १० ॥
 श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्‍ब्रह्मवादिभिः ।
 येन मां अभयं याया मृत्युमृच्छन्त्यतद्विदः ॥ ११ ॥
 मैत्रेय उवाच -
इति प्रदर्श्य भगवान् सतीं तां आत्मनो गतिम् ।
 स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ ॥ १२ ॥
 सा चापि तनयोक्तेन योगादेशेन योगयुक् ।
 तस्मिन् आश्रम आपीडे सरस्वत्याः समाहिता ॥ १३ ॥
 अभीक्ष्ण अवगाहकपिशान् जटिलान् कुटिलालकान् ।
 आत्मानं च उग्रतपसा बिभ्रती चीरिणं कृशम् ॥ १४ ॥
 प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् ।
 स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि ॥ १५ ॥
 पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।
 आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ १६ ॥
 स्वच्छस्फटिककुड्येषु महामारकतेषु च ।
 रत्‍नप्रदीपा आभान्ति ललना रत्‍नसंयुताः ॥ १७ ॥
 गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः ।
 कूजद् विहङ्गमिथुनं गायन् मत्तमधुव्रतम् ॥ १८ ॥
 यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः ।
 वाप्यां उत्पलगन्धिन्यां कर्दमेनोपलालितम् ॥ १९ ॥
 हित्वा तदीप्सिततमं अप्याखण्डलयोषिताम् ।
 किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा ॥ २० ॥
 वनं प्रव्रजिते पत्यौ अपत्यविरहातुरा ।
 ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ॥ २१ ॥
 तमेव ध्यायती देवं अपत्यं कपिलं हरिम् ।
 बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥ २२ ॥
 ध्यायती भगवद्‌रूपं यदाह ध्यानगोचरम् ।
 सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥ २३ ॥
 भक्तिप्रवाहयोगेन वैराग्येण बलीयसा ।
 युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ॥ २४ ॥
 विशुद्धेन तदात्मानं आत्मना विश्वतोमुखम् ।
 स्वानुभूत्या तिरोभूत मायागुणविशेषणम् ॥ २५ ॥
 ब्रह्मण्यवस्थितमतिः भगवति आत्मसंश्रये ।
 निवृत्तजीवापत्तित्वात् क्षीणक्लेशाऽऽप्त निर्वृतिः ॥ २६ ॥
 नित्यारूढसमाधित्वात् परावृत्तगुणभ्रमा ।
 न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टमिवोत्थितः ॥ २७ ॥
 तद्देहः परतः पोषोऽपि अकृशश्चाध्यसम्भवात् ।
 बभौ मलैरवच्छन्नः सधूम इव पावकः ॥ २८ ॥
 स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् ।
 दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ॥ २९ ॥
 एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् ।
 आत्मानं ब्रह्मनिर्वाणं भगवन्तं अवाप ह ॥ ३० ॥
 तद्वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् ।
 नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी ॥ ३१ ॥
 तस्यास्तद्योगविधुतं आर्त्यं मर्त्यमभूत्सरित् ।
 स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता ॥ ३२ ॥
 कपिलोऽपि महायोगी भगवान् पितुराश्रमात् ।
 मातरं समनुज्ञाप्य प्राग् उदीचीं दिशं ययौ ॥ ३३ ॥
 सिद्धचारण गन्धर्वैः मुनिभिश्च अप्सरोगणैः ।
 स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः ॥ ३४ ॥
 आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः ।
 त्रयाणामपि लोकानां उपशान्त्यै समाहितः ॥ ३५ ॥
 एतन्निगदितं तात यत्पृष्टोऽहं तवानघ ।
 कपिलस्य च संवादो देवहूत्याश्च पावनः ॥ ३६ ॥
 य इदमनुशृणोति योऽभिधत्ते
     कपिलमुनेर्मतं आत्मयोगगुह्यम् ।
 भगवति कृतधीः सुपर्णकेतौ
     उपलभते भगवत् पदारविन्दम् ॥ ३७ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे कापिलेयोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥