श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २८

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २७ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २९ →



सबीजयोगलक्षणं सगुणस्य भगवतः पृथ्गवयव धानवर्णनं च -

श्रीभगवानुवाच -
योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।
 मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १ ॥
 स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् ।
 दैवाल्लब्धेन सन्तोष आत्मवित् चरणार्चनम् ॥ २ ॥
 ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ।
 मितमेध्यादनं शश्वद् विविक्तक्षेमसेवनम् ॥ ३ ॥
 अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः ।
 ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥ ४ ॥
 मौनं सदाऽऽसनजयः स्थैर्यं प्राणजयः शनैः ।
 प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५ ॥
 स्वधिष्ण्यानां एकदेशे मनसा प्राणधारणम् ।
 वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥ ६ ॥
 एतैः अन्यैश्च पथिभिः मनो दुष्टमसत्पथम् ।
 बुद्ध्या युञ्जीत शनकैः जितप्राणो ह्यतन्द्रितः ॥ ७ ॥
 शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ।
 तस्मिन् स्वस्ति समासीन ऋजुकायः समभ्यसेत् ॥ ८ ॥
 प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ।
 प्रतिकूलेन वा चित्तं यथा स्थिरं अचञ्चलम् ॥ ९ ॥
 मनोऽचिरात्स्याद् विरजं जितश्वासस्य योगिनः ।
 वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १० ॥
 प्राणायामैः दहेद् दोषान् धारणाभिश्च किल्बिषान् ।
 प्रत्याहारेण संसर्गान् ध्यानेनान् ईश्वरान्गुणान् ॥ ११ ॥
 यदा मनः स्वं विरजं योगेन सुसमाहितम् ।
 काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः ॥ १२ ॥
 प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् ।
 नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३ ॥
 लसत्पङ्कज किञ्जल्क पीतकौशेयवाससम् ।
 श्रीवत्सवक्षसं भ्राजत् कौस्तुभामुक्तकन्धरम् ॥ १४ ॥
 मत्तद्विरेफकलया परीतं वनमालया ।
 परार्ध्यहारवलय किरीटाङ्गदनूपुरम् ॥ १५ ॥
 काञ्चीगुणोल्लसत् श्रोणिं हृदयाम्भोजविष्टरम् ।
 दर्शनीयतमं शान्तं मनोनयन वर्धनम् ॥ १६ ॥
 अपीच्यदर्शनं शश्वत् सर्वलोकनमस्कृतम् ।
 सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७ ॥
 कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् ।
 ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ॥ १८ ॥
 स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् ।
 प्रेक्षणीयेहितं ध्यायेत् शुद्धभावेन चेतसा ॥ १९ ॥
 तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम् ।
 विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः ॥ २० ॥
 सञ्चिन्तयेद् भगवतश्चरणारविन्दं
     वज्राङ्कुशध्वज सरोरुह लाञ्छनाढ्यम् ।
 उत्तुङ्गरक्तविलसन् नखचक्रवाल
     ज्योत्स्नाभिराहतमहद् हृदयान्धकारम् ॥ २१ ॥
 यच्छौचनिःसृतसरित् प्रवरोदकेन ।
     तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् ।
 ध्यातुर्मनःशमलशैलनिसृष्टवज्रं
     ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२ ॥
 जानुद्वयं जलजलोचनया जनन्या
     लक्ष्म्याखिलस्य सुरवन्दितया विधातुः ।
 ऊर्वोर्निधाय करपल्लवरोचिषा यत्
     संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३ ॥
 ऊरू सुपर्णभुजयोरधि शोभमानौ
     वोजोनिधी अतसिकाकुसुमावभासौ ।
 व्यालम्बिपीतवरवाससि वर्तमान
     काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ॥ २४ ॥
 नाभिह्रदं भुवनकोशगुहोदरस्थं
     यत्रात्मयोनिधिषणाखिललोकपद्मम् ।
 व्यूढं हरिन्मणिवृषस्तनयोरमुष्य
     ध्यायेद् द्वयं विशदहारमयूखगौरम् ॥ २५ ॥
 वक्षोऽधिवासमृषभस्य महाविभूतेः
     पुंसां मनोनयननिर्वृतिमादधानम् ।
 कण्ठं च कौस्तुभमणेरधिभूषणार्थं
     कुर्यान्मनस्यखिल लोकनमस्कृतस्य ॥ २६ ॥
 बाहूंश्च मन्दरगिरेः परिवर्तनेन
     निर्णिक्तबाहुवलयान् अधिलोकपालान् ।
 सञ्चिन्तयेद् दशशतारमसह्यतेजः
     शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७ ॥
 कौमोदकीं भगवतो दयितां स्मरेत
     दिग्धामरातिभटशोणितकर्दमेन ।
 मालां मधुव्रतवरूथगिरोपघुष्टां
     चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८ ॥
 भृत्यानुकम्पितधियेह गृहीतमूर्तेः
     सञ्चिन्तयेद् भगवतो वदनारविन्दम् ।
 यद्विस्फुरन् मकरकुण्डलवल्गितेन ।
     विद्योतितामलकपोलमुदारनासम् ॥ २९ ॥
 यच्छ्रीनिकेतमलिभिः परिसेव्यमानं
     भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ।
 मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं
     ध्यायेन् मनोमयमतन्द्रित उल्लसद्‍भ्रु ॥ ३० ॥
 तस्यावलोकमधिकं कृपयातिघोर
     तापत्रयोपशमनाय निसृष्टमक्ष्णोः ।
 स्निग्धस्मितानुगुणितं विपुलप्रसादं
     ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१ ॥
 हासं हरेरवनताखिललोकतीव्र
     शोकाश्रुसागरविशोषणमत्युदारम् ।
 सम्मोहनाय रचितं निजमाययास्य
     भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२ ॥
 ध्यानायनं प्रहसितं बहुलाधरोष्ठ
     भासारुणायिततनुद्विजकुन्दपङ्‌क्ति ।
 ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोः
     भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ ३३ ॥
 एवं हरौ भगवति प्रतिलब्धभावो
     भक्त्या द्रवद्‌धृदय उत्पुलकः प्रमोदात् ।
 औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानः
     तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४ ॥
 मुक्ताश्रयं यर्हि निर्विषयं विरक्तं
     निर्वाणमृच्छति मनः सहसा यथार्चिः ।
 आत्मानमत्र पुरुषोऽव्यवधानमेकम्
     अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३५ ॥
 सोऽप्येतया चरमया मनसो निवृत्त्या
     तस्मिन् महिम्न्यवसितः सुखदुःखबाह्ये ।
 हेतुत्वमप्यसति कर्तरि दुःखयोर्यत्
     स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः ॥ ३६ ॥
 देहं च तं न चरमः स्थितमुत्थितं वा
     सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् ।
 दैवादुपेतमथ दैववशादपेतं
     वासो यथा परिकृतं मदिरामदान्धः ॥ ३७ ॥
 देहोऽपि दैववशगः खलु कर्म यावत्
     स्वारम्भकं प्रतिसमीक्षत एव सासुः ।
 तं सप्रपञ्चमधिरूढसमाधियोगः
     स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३८ ॥
(अनुष्टुप्)
यथा पुत्राच्च वित्ताच्च पृथङ्‌मर्त्यः प्रतीयते ।
 अप्यात्मत्वेनाभिमताद् देहादेः पुरुषस्तथा ॥ ३९ ॥
 यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद्वापि स्वसम्भवात् ।
 अप्यात्मत्वेनाभिमताद् यथाग्निः पृथगुल्मुकात् ॥ ४० ॥
 भूतेन्द्रियान्तःकरणात् प्रधानात् जीवसंज्ञितात् ।
 आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसंज्ञितः ॥ ४१ ॥
 सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
 ईक्षेतान् अन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२ ॥
 स्वयोनिषु यथा ज्योतिः एकं नाना प्रतीयते ।
 योनीनां गुणवैषम्यात् तथात्मा प्रकृतौ स्थितः ॥ ४३ ॥
 तस्माद् इमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् ।
 दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे अष्टाविंशोऽध्यायः ॥ २८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥