श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २७

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २६ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २८ →




प्रकृतिपुरुषयोर्विवेकद्वारा मोक्षप्राप्तिवर्णनं भक्तियोगेन प्रकृतेस्तिरोधानकथनं च -

श्रीभगवानुवाच -
प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः ।
 अविकारात् अकर्तृत्वात् निर्गुणत्वाज्जलार्कवत् ॥ १ ॥
 स एष यर्हि प्रकृतेः गुणेष्वभिविषज्जते ।
 अहङ्क्रियाविमूढात्मा कर्तास्मीति अभिमन्यते ॥ २ ॥
 तेन संसारपदवीं अवशोऽभ्येत्यनिर्वृतः ।
 प्रासङ्गिकैः कर्मदोषैः सदसन् मिश्रयोनिषु ॥ ३ ॥
 अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते ।
 ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ४ ॥
 अत एव शनैश्चित्तं प्रसक्तं असतां पथि ।
 भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् ॥ ५ ॥
 यमादिभिः योगपथैः अभ्यसन् श्रद्धयान्वितः ।
 मयि भावेन सत्येन मत्कथाश्रवणेन च ॥ ६ ॥
 सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः ।
 ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ॥ ७ ॥
 यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ् मुनिः ।
 विविक्तशरणः शान्तो मैत्रः करुण आत्मवान् ॥ ८ ॥
 सानुबन्धे च देहेऽस्मिन् अकुर्वन् असदाग्रहम् ।
 ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च ॥ ९ ॥
 निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः ।
 उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक् ॥ १० ॥
 मुक्तलिङ्गं सदाभासं असति प्रतिपद्यते ।
 सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम् ॥ ११ ॥
 यथा जलस्थ आभासः स्थलस्थेनावदृश्यते ।
 स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः ॥ १२ ॥
 एवं त्रिवृद् अहङ्कारो भूतेन्द्रियमनोमयैः ।
 स्वाभासैः लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १३ ॥
 भूतसूक्ष्मेन्द्रियमनो बुद्ध्यादिष्विह निद्रया ।
 लीनेष्वसति यस्तत्र विनिद्रो निरहङ्‌क्रियः ॥ १४ ॥
 मन्यमानस्तदात्मानं अनष्टो नष्टवन्मृषा ।
 नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ १५ ॥
 एवं प्रत्यवमृश्यादौ आत्मानं प्रतिपद्यते ।
 साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १६ ॥
 देवहूतिरुवाच -
पुरुषं प्रकृतिर्ब्रह्मन् न विमुञ्चति कर्हिचित् ।
 अन्योन्यापाश्रयत्वाच्च नित्यत्वाद् अनयोः प्रभो ॥ १७ ॥
 यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः ।
 अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥ १८ ॥
 अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः ।
 गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम् ॥ १९ ॥
 क्वचित् तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् ।
 अनिवृत्तनिमित्तत्वात् पुनः प्रत्यवतिष्ठते ॥ २० ॥
 श्रीभगवानुवाच -
अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ।
 तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥ २१ ॥
 ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा ।
 तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ २२ ॥
 प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् ।
 तिरोभवित्री शनकैः अग्नेर्योनिरिवारणिः ॥ २३ ॥
 भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः ।
 नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ २४ ॥
 यथा हि अप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।
 स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ २५ ॥
 एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् ।
 युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ २६ ॥
 यदैवमध्यात्मरतः कालेन बहुजन्मना ।
 सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः ॥ २७ ॥
 मद्‍भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा ।
 निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ॥ २८ ॥
 प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः ।
 यद्‍गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे ॥ २९ ॥
 यदा न योगोपचितासु चेतो
     मायासु सिद्धस्य विषज्जतेऽङ्ग ।
 अनन्यहेतुष्वथ मे गतिः स्याद्
     आत्यन्तिकी यत्र न मृत्युहासः ॥ ३० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे सप्तविंशोऽध्यायः ॥ २७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥