श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २२ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २४ →



समाधिस्तस्य कर्दमस्य देवहूतिकृता परिचर्या, कर्दमद्वारा
दिव्यविमाननिर्माणम्, तत्र दमप्त्य्र्विहारो नवकन्यानां उत्पत्तिश्च -

मैत्रेय उवाच ।
 पितृभ्यां प्रस्थिते साध्वी पतिं इङ्‌कितकोविदा ।
 नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम् ॥ १ ॥
 विश्रम्भेणात्मशौचेन गौरवेण दमेन च ।
 शुश्रूषया सौहृदेन वाचा मधुरया च भोः ॥ २ ॥
 विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् ।
 अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत् ॥ ३ ॥
 स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् ।
 दैवाद्‍गरीयसः पत्युः आशासानां महाशिषः ॥ ४ ॥
 कालेन भूयसा क्षामां कर्शितां व्रतचर्यया ।
 प्रेमगद्‍गदया वाचा पीडितः कृपयाब्रवीत् ॥ ५ ॥
 कर्दम उवाच -
तुष्टोऽहमद्य तव मानवि मानदायाः
     शुश्रूषया परमया परया च भक्त्या ।
 यो देहिनामयमतीव सुहृत्स देहो
     नावेक्षितः समुचितः क्षपितुं मदर्थे ॥ ६ ॥
 ये मे स्वधर्मनिरतस्य तपःसमाधि
     विद्यात्मयोगविजिता भगवत्प्रसादाः ।
 तानेव ते मदनुसेवनयावरुद्धान्
     दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥ ७ ॥
 अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ
     विभ्रंशितार्थरचनाः किमुरुक्रमस्य ।
 सिद्धासि भुङ्क्ष्व विभवान् निजधर्मदोहान्
     दिव्यान् नरैर्दुरधिगान् नृपविक्रियाभिः ॥ ८ ॥
 एवं ब्रुवाणमबलाखिलयोगमाया
     विद्याविचक्षणमवेक्ष्य गताधिरासीत् ।
 सम्प्रश्रयप्रणयविह्वलया गिरेषद्
     व्रीडावलोकविलसद् हसिताननाह ॥ ९ ॥
 देवहूतिरुवाच -
राद्धं बत द्विजवृषैतदमोघयोग
     मायाधिपे त्वयि विभो तदवैमि भर्तः ।
 यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो
     भूयाद्‍गरीयसि गुणः प्रसवः सतीनाम् ॥ १० ॥
 तत्रेतिकृत्यमुपशिक्ष यथोपदेशं
     येनैष मे कर्शितोऽतिरिरंसयाऽऽत्मा ।
 सिद्ध्येत ते कृतमनोभवधर्षिताया
     दीनस्तदीश भवनं सदृशं विचक्ष्व ॥ ११ ॥
 मैत्रेय उवाच -
प्रियायाः प्रियमन्विच्छन् कर्दमो योगमास्थितः ।
 विमानं कामगं क्षत्तः तर्ह्येवाविरचीकरत् ॥ १२ ॥
 सर्वकामदुघं दिव्यं सर्वरत्‍नसमन्वितम् ।
 सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम् ॥ १३ ॥
 दिव्योपकरणोपेतं सर्वकालसुखावहम् ।
 पट्टिकाभिः पताकाभिः विचित्राभिः अलङ्कृतम् ॥ १४ ॥
 स्रग्भिर्विचित्रमाल्याभिः मञ्जुशिञ्जत् षडङ्‌घ्रिभिः ।
 दुकूलक्षौमकौशेयैः नानावस्त्रैः विराजितम् ॥ १५ ॥
 उपर्युपरि विन्यस्त निलयेषु पृथक्पृथक् ।
 क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः ॥ १६ ॥
 तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितम् ।
 महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥ १७ ॥
 द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत् ।
 शिखरेषु इन्द्रनीलेषु हेमकुम्भैः अधिश्रितम् ॥ १८ ॥
 चक्षुष्मत् पद्मरागाग्र्यैः वज्रभित्तिषु निर्मितैः ।
 जुष्टं विचित्रवैतानैः महार्हैः हेमतोरणैः ॥ १९ ॥
 हंसपारावतव्रातैः तत्र तत्र निकूजितम् ।
 कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च ॥ २० ॥
 विहारस्थानविश्राम संवेशप्राङ्गणाजिरैः ।
 यथोपजोषं रचितैः व्प्स्मापनं इवात्मनः ॥ २१ ॥
 ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा ।
 सर्वभूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम् ॥ २२ ॥
 निमज्ज्यास्मिन् ह्रदे भीरु विमानं इदमारुह ।
 इदं शुक्लकृतं तीर्थं आशिषां यापकं नृणाम् ॥ २३ ॥
 सा तद्‍भर्तुः समादाय वचः कुवलयेक्षणा ।
 सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान् ॥ २४ ॥
 अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम् ।
 आविवेश सरस्वत्याः सरः शिवजलाशयम् ॥ २५ ॥
 सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः ।
 सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः ॥ २६ ॥
 तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः ।
 वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् ॥ २७ ॥
 स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् ।
 दुकूले निर्मले नूत्‍ने ददुरस्यै च मानदाः ॥ २८ ॥
 भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च ।
 अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ॥ २९ ॥
 अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् ।
 विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३० ॥
 स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम् ।
 निष्कग्रीवं वलयिनं कूजत् काञ्चननूपुरम् ॥ ३१ ॥
 श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्‍नया ।
 हारेण च महार्हेण रुचकेन च भूषितम् ॥ ३२ ॥
 सुदता सुभ्रुवा श्लक्ष्ण स्निग्धापाङ्गेन चक्षुषा ।
 पद्मकोशस्पृधा नीलैः अलकैश्च लसन्मुखम् ॥ ३३ ॥
 यदा सस्मार ऋषभं ऋषीणां दयितं पतिम् ।
 तत्र चास्ते सह स्त्रीभिः यत्रास्ते स प्रजापतिः ॥ ३४ ॥
 भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा ।
 निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥ ३५ ॥
 स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् ।
 आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ॥ ३६ ॥
 विद्याधरीसहस्रेण सेव्यमानां सुवाससम् ।
 जातभावो विमानं तद् आरोहयद् अमित्रहन् ॥ ३७ ॥
 तस्मिन् अलुप्तमहिमा प्रिययानुरक्तो
     विद्याधरीभिरुपचीर्णवपुर्विमाने ।
 बभ्राज उत्कचकुमुद्‍गणवानपीच्यः
     ताराभिरावृत इव उडुपतिः नभःस्थः ॥ ३८ ॥
 तेनाष्टलोकपविहारकुलाचलेन्द्र
     द्रोणीष्वनङ्गसखमारुतसौभगासु ।
 सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु
     रेमे चिरं धनदवल्ललनावरूथी ॥ ३९ ॥
 वैश्रम्भके सुरसने नन्दने पुष्पभद्रके ।
 मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥ ४० ॥
 भ्राजिष्णुना विमानेन कामगेन महीयसा ।
 वैमानिकानत्यशेत चरन् लोकान यथानिलः ॥ ४१ ॥
 किं दुरापादनं तेषां पुंसां उद्दामचेतसाम् ।
 यैराश्रितस्तीर्थपदः चरणो व्यसनात्ययः ॥ ४२ ॥
 प्रेक्षयित्वा भुवो गोलं पत्‍न्यै यावान् स्वसंस्थया ।
 बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत ॥ ४३ ॥
 विभज्य नवधाऽऽत्मानं मानवीं सुरतोत्सुकाम् ।
 रामां निरमयन् रेमे वर्षपूगान् मुहूर्तवत् ॥ ४४ ॥
 तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता ।
 न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ॥ ४५ ॥
 एवं योगानुभावेन दम्पत्यो रममाणयोः ।
 शतं व्यतीयुः शरदः कामलालसयोर्मनाक् ॥ ४६ ॥
 तस्यां आधत्त रेतस्तां भावयन् आत्मनाऽऽत्मवित् ।
 नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः ॥ ४७ ॥
 अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः ।
 सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः ॥ ४८ ॥
 पतिं सा प्रव्रजिष्यन्तं तदाऽऽलक्ष्योशती बहिः ।
 स्मयमाना विक्लवेन हृदयेन विदूयता ॥ ४९ ॥
 लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया ।
 उवाच ललितां वाचं निरुध्याश्रुकलां शनैः ॥ ५० ॥
 देवहूतिरुवाच -
सर्वं तद्‍भगवान् मह्यं उपोवाह प्रतिश्रुतम् ।
 अथापि मे प्रपन्नाया अभयं दातुमर्हसि ॥ ५१ ॥
 ब्रह्मन् दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः ।
 कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ ५२ ॥
 एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो ।
 इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः ॥ ५३ ॥
 इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः ।
 अजानन्त्या परं भावं तथाप्यस्तु अभयाय मे ॥ ५४ ॥
 सङ्गो यः संसृतेर्हेतुः असत्सु विहितोऽधिया ।
 स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ ५५ ॥
 नेह यत्कर्म धर्माय न विरागाय कल्पते ।
 न तीर्थपदसेवायै जीवन्नपि मृतो हि सः ॥ ५६ ॥
 साहं भगवतो नूनं वञ्चिता मायया दृढम् ।
 यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॥ ५७ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे त्रयोविंशोऽध्यायः ॥ २३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥