श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २१ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २३ →



मनुकर्दमसंवादः, कर्दमदेवहूतिविवाहः, मनोर्ब्रह्मावर्ताय प्रस्थानं च -

मैत्रेय उवाच -
एवं आविष्कृताशेष गुणकर्मोदयो मुनिम् ।
 सव्रीड इव तं सम्राड् उपारतमुवाच ह ॥ १ ॥
 मनुरुवाच -
ब्रह्मासृजत्स्वमुखतो युष्मान् आत्मपरीप्सया ।
 छन्दोमयस्तपोविद्या योगयुक्तानलम्पटान् ॥ २ ॥
 तत्त्राणायासृजत् चास्मान् दोः सहस्रात्सहस्रपात् ।
 हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते ॥ ३ ॥
 अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षतः ।
 रक्षति स्माव्ययो देवः स यः सदसदात्मकः ॥ ४ ॥
 तव सन्दर्शनादेव च्छिन्ना मे सर्वसंशयाः ।
 यत्स्वयं भगवान् प्रीत्या धर्ममाह रिरक्षिषोः ॥ ५ ॥
 दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम् ।
 दिष्ट्या पादरजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् ॥ ६ ॥
 दिष्ट्या त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान् ।
 अपावृतैः कर्णरन्ध्रैः जुष्टा दिष्ट्योशतीर्गिरः ॥ ७ ॥
 स भवान् दुहितृस्नेह परिक्लिष्टात्मनो मम ।
 श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने ॥ ८ ॥
 प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम ।
 अन्विच्छति पतिं युक्तं वयःशीलगुणादिभिः ॥ ९ ॥
 यदा तु भवतः शील श्रुतरूपवयोगुणान् ।
 अशृणोत् नारदाद् एषा त्वय्यासीत् कृतनिश्चया ॥ १० ॥
 तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया ।
 सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु ॥ ११ ॥
 उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।
 अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुनः ॥ १२ ॥
 य उद्यतमनादृत्य कीनाशं अभियाचते ।
 क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः ॥ १३ ॥
 अहं त्वाश्रृणवं विद्वन् विवाहार्थं समुद्यतम् ।
 अतस्त्वं उपकुर्वाणः प्रत्तां प्रतिगृहाण मे ॥ १४ ॥
 ऋषिरुवाच ।
 बाढमुद्वोढुकामोऽहं अप्रत्ता च तवात्मजा ।
 आवयोः अनुरूपोऽसौ आद्यो वैवाहिको विधिः ॥ १५ ॥
 कामः स भूयान् नरदेव तेऽस्याः
     पुत्र्याः समाम्नायविधौ प्रतीतः ।
 क एव ते तनयां नाद्रियेत
     स्वयैव कान्त्या क्षिपतीमिव श्रियम् ॥ १६ ॥
 यां हर्म्यपृष्ठे क्वणदङ्‌घ्रिशोभां
     विक्रीडतीं कन्दुकविह्वलाक्षीम् ।
 विश्वावसुर्न्यपतत् स्वात् विमानात्
     विलोक्य सम्मोहविमूढचेताः ॥ १७ ॥
 तां प्रार्थयन्तीं ललनाललामं
     असेवितश्रीचरणैरदृष्टाम् ।
 वत्सां मनोरुच्चपदः स्वसारं
     को नानुमन्येत बुधोऽभियाताम् ॥ १८ ॥
 अतो भजिष्ये समयेन साध्वीं
     यावत्तेजो बिभृयाद् आत्मनो मे ।
 अतो धर्मान् पारमहंस्यमुख्यान्
     शुक्लप्रोक्तान् बहु मन्येऽविहिंस्रान् ॥ १९ ॥
 यतोऽभवद्‌विश्वमिदं विचित्रं
     संस्थास्यते यत्र च वावतिष्ठते ।
 प्रजापतीनां पतिरेष मह्यं
     परं प्रमाणं भगवान् अनन्तः ॥ २० ॥
 मैत्रेय उवाच -
स उग्रधन्वन् नियदेवाबभाषे
     आसीच्च तूष्णीं अरविन्दनाभम् ।
 धियोपगृह्णन् स्मितशोभितेन
     मुखेन चेतो लुलुभे देवहूत्याः ॥ २१ ॥
(अनुष्टुप्)
सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् ।
 तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षितः ॥ २२ ॥
 शतरूपा महाराज्ञी पारिबर्हान् महाधनान् ।
 दम्पत्योः पर्यदात् प्रीत्या भूषावासः परिच्छदान् ॥ २३ ॥
 प्रत्तां दुहितरं सम्राट् सदृक्षाय गतव्यथः ।
 उपगुह्य च बाहुभ्यां औत्कण्ठ्योन्मथिताशयः ॥ २४ ॥
 अशक्नुवन् तद्विरहं मुञ्चन् बाष्पकलां मुहुः ।
 आसिञ्चद् अम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः ॥ २५ ॥
 आमन्त्र्य तं मुनिवं अमनुज्ञातः सहानुगः ।
 प्रतस्थे रथमारुह्य सभार्यः स्वपुरं नृपः ॥ २६ ॥
 उभयोः ऋषिकुल्यायाः सरस्वत्याः सुरोधसोः ।
 ऋषीणां उपशान्तानां पश्यन् आश्रमसम्पदः ॥ २७ ॥
 तं आयान्तं अभिप्रेत्य ब्रह्मावर्तात्प्रजाः पतिम् ।
 गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥ २८ ॥
 बर्हिष्मती नाम पुरी सर्वसंपत् समन्विता ।
 न्यपतन्यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ २९ ॥
 कुशाः काशास्त एवासन् शश्वद्धरितवर्चसः ।
 ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे ॥ ३० ॥
 कुशकाशमयं बर्हिः आस्तीर्य भगवान् मनुः ।
 अयजद् यज्ञपुरुषं लब्धा स्थानं यतो भुवम् ॥ ३१ ॥
 बर्हिष्मतीं नाम विभुः यां निर्विश्य समावसत् ।
 तस्यां प्रविष्टो भवनं तापत्रयविनाशनम् ॥ ३२ ॥
 सभार्यः सप्रजः कामान् बुभुजेऽन्याविरोधतः ।
 सङ्गीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः ।
 प्रत्यूषेष्वनुबद्धेन हृदा श्रृण्वन् हरेः कथाः ॥ ३३ ॥
 निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् ।
 यदाभ्रंशयितुं भोगा न शेकुर्भगवत्परम् ॥ ३४ ॥
 अयातयामाः तस्यासन् यामाः स्वान्तरयापनाः ।
 श्रृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ ३५ ॥
 स एवं स्वान्तरं निन्ये युगानां एकसप्ततिम् ।
 वासुदेवप्रसङ्गेन परिभूतगतित्रयः ॥ ३६ ॥
 शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।
 भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७ ॥
 यः पृष्टो मुनिभिः प्राह धर्मान् नानाविधान् शुभान् ।
 नृणां वर्णाश्रमाणां च सर्वभूतहितः सदा ॥ ३८ ॥
 एतत्ते आदिराजस्य मनोश्चरितमद्‍भुतम् ।
 वर्णितं वर्णनीयस्य तदपत्योदयं श्रृणु ॥ ३९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे द्वाविंशोऽध्यायः ॥ २२ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥