श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १९ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २१ →



ब्रह्मकृतविविधसृष्टिवर्णनम् -

शौनक उवाच -
महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः ।
 कानि अन्वतिष्ठद् द्वाराणि मार्गाय अवर जन्मनाम् ॥ १ ॥
 क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् ।
 यस्तत्याजाग्रजं कृष्णे सापत्यं अघवानिति ॥ २ ॥
 द्वैपायनादनवरो महित्वे तस्य देहजः ।
 सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः ॥ ३ ॥
 किं अन्वपृच्छन् मैत्रेयं विरजास्तीर्थसेवया ।
 उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ ४ ॥
 तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः ।
 आपो गाङ्‌गा इवाघघ्नीः हरेः पादाम्बुजाश्रयाः ॥ ५ ॥
 ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः ।
 रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन् ॥ ६ ॥
 एवं उग्रश्रवाः पृष्ट ऋषिभिः नैमिषायनैः ।
 भगवति अर्पिताध्यात्मः तान् आह श्रूयतामिति ॥ ७ ॥
 सूत उवाच -
हरेर्धृतक्रोडतनोः स्वमायया
     निशम्य गोरुद्धरणं रसातलात् ।
 लीलां हिरण्याक्षमवज्ञया हतं
     सञ्जातहर्षो मुनिमाह भारतः ॥ ८ ॥
 विदुर उवाच -
प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन् ।
 किं आरभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित् ॥ ९ ॥
 ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः ।
 ते वै ब्रह्मण आदेशात् कथं एतद् अभावयन् ॥ १० ॥
 सद्वितीयाः किमसृजन् स्वतन्त्रा उत कर्मसु ।
 आहो स्वित्संहताः सर्व इदं स्म समकल्पयन् ॥ ११ ॥
 मैत्रेय उवाच -
दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।
 जातक्षोभाद् भगवतो महान् आसीद्‌ गुणत्रयात् ॥ १२ ॥
 रजःप्रधानान् महतः त्रिलिङ्‌गो दैवचोदितात् ।
 जातः ससर्ज भूतादिः वियदादीनि पञ्चशः ॥ १३ ॥
 तानि चैकैकशः स्रष्टुं असमर्थानि भौतिकम् ।
 संहत्य दैवयोगेन हैमं अण्डं अवासृजन् ॥ १४ ॥
 सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः ।
 साग्रं वै वर्षसाहस्रं अन्ववात्सीत् तं ईश्वरः ॥ १५ ॥
 तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति ।
 सर्वजीवनिकायौको यत्र स्वयं अभूत्स्वराट् ॥ १६ ॥
 सोऽनुविष्टो भगवता यः शेते सलिलाशये ।
 लोकसंस्थां यथा पूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥
 ससर्ज च्छाययाविद्यां पञ्चपर्वाणमग्रतः ।
 तामिस्रं अन्धतामिस्रं तमो मोहो महातमः ॥ १८ ॥
 विससर्जात्मनः कायं नाभिनन्दन् तमोमयम् ।
 जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्‍भवाम् ॥ १९ ॥
 क्षुत्तृड्भ्यां उपसृष्टास्ते तं जग्धुमभिदुद्रुवुः ।
 मा रक्षतैनं जक्षध्वं इति ऊचुः क्षुत्तृडर्दिताः ॥ २० ॥
 देवस्तानाह संविग्नो मा मां जक्षत रक्षत ।
 अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ ॥ २१ ॥
 देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत् ।
 ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः ॥ २२ ॥
 देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान् ।
 ते एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥
 ततो हसन् स भगवान् असुरैर्निरपत्रपैः ।
 अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४ ॥
 स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् ।
 अनुग्रहाय भक्तानां अनुरूपात्मदर्शनम् ॥ २५ ॥
 पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः ।
 ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ २६ ॥
 त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः ।
 त्वमेकः क्लेशदस्तेषां अनासन्न पदां तव ॥ २७ ॥
 सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः ।
 विमुञ्चात्मतनुं घोरां इत्युक्तो विमुमोच ह ॥ २८ ॥
 तां क्वणच्चरणाम्भोजां मदविह्वल लोचनाम् ।
 काञ्चीकलापविलसद् दुकूलत् छन्न रोधसम् ॥ २९ ॥
 अन्योन्यश्लेषयोत्तुङ्‌ग निरन्तरपयोधराम् ।
 सुनासां सुद्विजां स्निग्ध हासलीलावलोकनाम् ॥ ३० ॥
 गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम् ।
 उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥ ३१ ॥
 अहो रूपमहो धैर्यं अहो अस्या नवं वयः ।
 मध्ये कामयमानानां अकामेव विसर्पति ॥ ३२ ॥
 वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् ।
 अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः ॥ ३३ ॥
 कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि ।
 रूपद्रविणपण्येन दुर्भगान्नो विबाधसे ॥ ३४ ॥
 या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव ।
 उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः ॥ ३५ ॥
 नैकत्र ते जयति शालिनि पादपद्मं
     घ्नन्त्या मुहुः करतलेन पतत्पतङ्‌गम् ।
 मध्यं विषीदति बृहत्स्तनभारभीतं
     शान्तेव दृष्टिरमला सुशिखासमूहः ॥ ३६ ॥
 इति सायन्तनीं सन्ध्यां असुराः प्रमदायतीम् ।
 प्रलोभयन्तीं जगृहुः मत्वा मूढधियः स्त्रियम् ॥ ३७ ॥
 प्रहस्य भावगम्भीरं जिघ्रन्ति आत्मानमात्मना ।
 कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ ३८ ॥
 विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् ।
 ते एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥ ३९ ॥
 सृष्ट्वा भूतपिशाचांश्च भगवान् आत्मतन्द्रिणा ।
 दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् दृशौ ॥ ४० ॥
 जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः ।
 निद्रां इन्द्रियविक्लेदो यया भूतेषु दृश्यते ।
 येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते ॥ ४१ ॥
 ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः ।
 साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभुः ॥ ४२ ॥
 ते आत्मसर्गं तं कायं पितरः प्रतिपेदिरे ।
 साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ॥ ४३ ॥
 सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् ।
 तेभ्योऽददात् तं आत्मानं अन्तर्धानाख्यमद्‍भुतम् ॥ ४४ ॥
 स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभुः ।
 मानयन् नात्मनात्मानं आत्माभासं विलोकयन् ॥ ४५ ॥
 ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना ।
 मिथुनीभूय गायन्तः तं एवोषसि कर्मभिः ॥ ४६ ॥
 देहेन वै भोगवता शयानो बहुचिन्तया ।
 सर्गेऽनुपचिते क्रोधात् उत्ससर्ज ह तद्वपुः ॥ ४७ ॥
 येऽहीयन्तामुतः केशा अहयस्तेऽङ्‌ग जज्ञिरे ।
 सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः ॥ ४८ ॥
 स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः ।
 तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥
 तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् ।
 तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५० ॥
 अहो एतत् जगत्स्रष्टः सुकृतं बत ते कृतम् ।
 प्रतिष्ठिताः क्रिया यस्मिन् साकं अन्नमदाम हे ॥ ५१ ॥
 तपसा विद्यया युक्तो योगेन सुसमाधिना ।
 ऋषीन् ऋषिः हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२ ॥
 तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः ।
 यत्तत् समाधियोगर्द्धि तपोविद्याविरक्तिमत् ॥ ५३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे विंशोऽध्यायः ॥ २० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥