श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १८ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २० →


ब्रह्मणः प्रार्थनामङ्‌गीकृत्य वराहकृतो हिरण्याक्षवधः -

मैत्रेय उवाच -
अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः ।
 प्रहस्य प्रेमगर्भेण तदपाङ्‌गेन सोऽग्रहीत् ॥ १ ॥
 ततः सपत्‍नं मुखतः चरन्तं अकुतोभयम् ।
 जघानोत्पत्य गदया हनौ अवसुरमक्षजः ॥ २ ॥
 सा हता तेन गदया विहता भगवत्करात् ।
 विघूर्णित अपतद् रेजे तदद्‍भुतं इवाभवत् ॥ ३ ॥
 स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् ।
 मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् ॥ ४ ॥
 गदायां अपविद्धायां हाहाकारे विनिर्गते ।
 मानयामास तद् धर्मं सुनाभं चास्मरद्विभुः ॥ ५ ॥
 तं व्यग्रचक्रं दितिपुत्राधमेन
     स्वपार्षदमुख्येन विषज्जमानम् ।
 चित्रा वाचोऽतद्विदां खेचराणां
     तत्रास्मासन् स्वस्ति तेऽमुं जहीति ॥ ६ ॥
 स तं निशाम्यात्तरथाङ्‌गमग्रतो
     व्यवस्थितं पद्मपलाशलोचनम् ।
 विलोक्य चामर्ष परिप्लुतेन्द्रियो
     रुषा स्वदन्तच्छदमादशच्छ्वसन् ॥ ७ ॥
(अनुष्टुप्)
करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव ।
 अभिप्लुत्य स्वगदया हतोऽसीत्याहनद् हरिम् ॥ ८ ॥
 पदा सव्येन तां साधो भगवान् यज्ञसूकरः ।
 लीलया मिषतः शत्रोः प्राहरद् वातरंहसम् ॥ ९ ॥
 आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि ।
 इत्युक्तः स तदा भूयः ताडयन् व्यनदद् भृशम् ॥ १० ॥
 तां स आपततीं वीक्ष्य भगवान् समवस्थितः ।
 जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥ ११ ॥
 स्वपौरुषे प्रतिहते हतमानो महासुरः ।
 नैच्छद्‌गदां दीयमानां हरिणा विगतप्रभः ॥ १२ ॥
 जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम् ।
 यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा ॥ १३ ॥

 तदोजसा दैत्यमहाभटार्पितं
     चकासदन्तःख उदीर्णदीधिति ।
 चक्रेण चिच्छेद निशातनेमिना
     हरिर्यथा तार्क्ष्यपतत्रमुज्झितम् ॥ १४ ॥
 वृक्णे स्वशूले बहुधारिणा हरेः
     प्रत्येत्य विस्तीर्णमुरो विभूतिमत् ।
 प्रवृद्धरोषः स कठोरमुष्टिना
     नदन् प्रहृत्यान्तरधीयतासुरः ॥ १५ ॥
 तेनेत्थमाहतः क्षत्तः भगवान् आदिसूकरः ।
 नाकम्पत मनाक्क्वापि स्रजा हत इव द्विपः ॥ १६ ॥
 अथोरुधासृजन् मायां योगमायेश्वरे हरौ ।
 यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम् ॥ १७ ॥
 प्रववुर्वायवश्चण्डाः तमः पांसवमैरयन् ।
 दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव ॥ १८ ॥
 द्यौर्नष्टभगणाभ्रौघैः सविद्युत् स्तनयित्‍नुभिः ।
 वर्षद्‌भिः पूयकेशासृग् विण्मूत्रास्थीनि चासकृत् ॥ १९ ॥
 गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ ।
 दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः ॥ २० ॥
 बहुभिर्यक्षरक्षोभिः पत्त्यश्व रथकुञ्जरैः ।
 आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः ॥ २१ ॥
 प्रादुष्कृतानां मायानां आसुरीणां विनाशयत् ।
 सुदर्शनास्त्रं भगवान् प्रायुङ्‌क्त दयितं त्रिपात् ॥ २२ ॥
 तदा दितेः समभवत् सहसा हृदि वेपथुः ।
 स्मरन्त्या भर्तुः आदेशं स्तनात् च असृक् प्रसुस्रुवे ॥ २३ ॥
 विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम् ।
 रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः ॥ २४ ॥
 तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैः अधोक्षजः ।
 करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पतिः ॥ २५ ॥
 स आहतो विश्वजिता ह्यवज्ञया
     परिभ्रमद्‌गात्र उदस्तलोचनः ।
 विशीर्णबाह्वङ्‌‌घ्रिशिरोरुहोऽपतद्
     यथा नगेन्द्रो लुलितो नभस्वता ॥ २६ ॥
 क्षितौ शयानं तमकुण्ठवर्चसं
     करालदंष्ट्रं परिदष्टदच्छदम् ।
 अजादयो वीक्ष्य शशंसुरागता
     अहो इमं को नु लभेत संस्थितिम् ॥ २७ ॥
 यं योगिनो योगसमाधिना रहो
     ध्यायन्ति लिङ्‌गादसतो मुमुक्षया ।
 तस्यैष दैत्यऋषभः पदाहतो
     मुखं प्रपश्यन् तनुमुत्ससर्ज ह ॥ २८ ॥
(अनुष्टुप्)
एतौ तौ पार्षदावस्य शापाद् यातौ असद्‌गतिम् ।
 पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः ॥ २९ ॥
 देवा ऊचुः -
नमो नमस्तेऽखिलयज्ञतन्तवे
     स्थितौ गृहीतामलसत्त्वमूर्तये ।
 दिष्ट्या हतोऽयं जगतामरुन्तुदः
     त्वत् पादभक्त्या वयमीश निर्वृताः ॥ ३० ॥
 मैत्रेय उवाच -
एवं हिरण्याक्षमसह्यविक्रमं
     स सादयित्वा हरिरादिसूकरः ।
 जगाम लोकं स्वमखण्डितोत्सवं
     समीडितः पुष्करविष्टरादिभिः ॥ ३१ ॥
 मया यथानूक्तमवादि ते हरेः
     कृतावतारस्य सुमित्र चेष्टितम् ।
 यथा हिरण्याक्ष उदारविक्रमो
     महामृधे क्रीडनवन्निराकृतः ॥ ३२ ॥
 सूत उवाच -
(अनुष्टुप्)
इति कौषारवाख्यातां आश्रुत्य भगवत्कथाम् ।
 क्षत्तानन्दं परं लेभे महाभागवतो द्विज ॥ ३३ ॥
 अन्येषां पुण्यश्लोकानां उद्दामयशसां सताम् ।
 उपश्रुत्य भवेन्मोदः श्रीवत्साङ्‌कस्य किं पुनः ॥ ३४ ॥
 यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम् ।
 क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद्द्रुतम् ॥ ३५ ॥
 तं सुखाराध्यमृजुभिः अनन्यशरणैर्नृभिः ।
 कृतज्ञः को न सेवेत दुराराध्यं असाधुभिः ॥ ३६ ॥
 यो वै हिरण्याक्षवधं महाद्‍भुतं
     विक्रीडितं कारणसूकरात्मनः ।
 श्रृणोति गायत्यनुमोदतेऽञ्जसा
     विमुच्यते ब्रह्मवधादपि द्विजाः ॥ ३७ ॥
 एतन् महापुण्यमलं पवित्रं
     धन्यं यशस्यं पदमायुराशिषाम् ।
 प्राणेन्द्रियाणां युधि शौर्यवर्धनं
     नारायणोऽन्ते गतिरङ्‌ग श्रृण्वताम् ॥ ३८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥