श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १३

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १२ श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १४ →



विदुरोपदेशेन गान्धार्यासह धृतराष्ट्रस्य वनाय प्रस्थानम् -


सूत उवाच ।
 विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् ।
 ज्ञात्वागाt हास्तिनपुरं तयावाप्तविवित्सितः ॥ १ ॥
 यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः ।
 जातैकभक्तिः गोविन्दे तेभ्यश्चोपरराम ह ॥ २ ॥
 तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः ।
 धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा ॥ ३ ॥
 गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी ।
 अन्याश्च जामयः पाण्डोः ज्ञातयः ससुताः स्त्रियः ॥ ४ ॥
 प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् ।
 अभिसङ्‌गम्य विधिवत् परिष्वङ्‌गाभिवादनैः ॥ ५ ॥
 मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्य कातराः ।
 राजा तमर्हयां चक्रे कृतासन परिग्रहम् ॥ ६ ॥
 तं भुक्तवन्तं विश्रान्तं आसीनं सुखमासने ।
 प्रश्रयावनतो राजा प्राह तेषां च श्रृण्वताम् ॥ ७ ॥
 युधिष्ठिर उवाच ।
 अपि स्मरथ नो युष्मत् पक्षच्छायासमेधितान् ।
 विपद्‍गणाद् विषाग्न्यादेः मोचिता यत्समातृकाः ॥ ८ ॥
 कया वृत्त्या वर्तितं वः चरद्‌भिः क्षितिमण्डलम् ।
 तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९ ॥
 भवद्विधा भागवताः तीर्थभूताः स्वयं विभो ।
 तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥ १० ॥
 अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः ।
 दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते ॥ ११ ॥
 इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् ।
 यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥ १२ ॥
 नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम् ।
 नावेदयत् सकरुणो दुःखितान् द्रष्टुमक्षमः ॥ १३ ॥
 कञ्चित् कालमथ अवात्सीत् सत्कृतो देववत्सुखम् ।
 भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां सुखमावहन् ॥ १४ ॥
 अबिभ्रदर्यमा दण्डं यथावत् अघकारिषु ।
 यावद् दधार शूद्रत्वं शापात् वर्षशतं यमः ॥ १५ ॥
 युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् ।
 भ्रातृभिर्लोकपालाभैः मुमुदे परया श्रिया ॥ १६ ॥
 एवं गृहेषु सक्तानां प्रमत्तानां तदीहया ।
 अत्यक्रामत् अविज्ञातः कालः परमदुस्तरः ॥ १७ ॥
 विदुरस्तत् अभिप्रेत्य धृतराष्ट्रं अभाषत ।
 राजन् निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥ १८ ॥
 प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो ।
 स एष भगवान् कालः सर्वेषां नः समागतः ॥ १९ ॥
 येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि ।
 जनः सद्यो वियुज्येत किमुतान्यैः धनादिभिः ॥ २० ॥
 पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः ।
 आत्मा च जरया ग्रस्तः परगेहमुपाससे ॥ २१ ॥
 अहो महीयसी जन्तोः जीविताशा यया भवान् ।
 भीमापवर्जितं पिण्डं आदत्ते गृहपालवत् ॥ २२ ॥
 अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः ।
 हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् ॥ २३ ॥
 तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः ।
 परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ २४ ॥
 गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः ।
 अविज्ञातगतिः जह्यात् स वै धीर उदाहृतः ॥ २५ ॥
 यः स्वकात्परतो वेह जातनिर्वेद आत्मवान् ।
 हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः ॥ २६ ॥
 अथोदीचीं दिशं यातु स्वैरज्ञात गतिर्भवान् ।
 इतोऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः ॥ २७ ॥
 एवं राजा विदुरेणानुजेन
     प्रज्ञाचक्षुर्बोधित आजमीढः ।
 छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो
     निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २८ ॥
 पतिं प्रयान्तं सुबलस्य पुत्री
     पतिव्रता चानुजगाम साध्वी ।
 हिमालयं न्यस्तदण्डप्रहर्षं
     मनस्विनामिव सत्सम्प्रहारः ॥ २९ ॥
 अजातशत्रुः कृतमैत्रो हुताग्निः
     विप्रान् नत्वा तिलगोभूमिरुक्मैः ।
 गृहं प्रविष्टो गुरुवन्दनाय
     न चापश्यत् पितरौ सौबलीं च ॥ ३० ॥
 तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः ।
 गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥ ३१ ॥
 अम्बा च हतपुत्राऽऽर्ता पितृव्यः क्व गतः सुहृत् ।
 अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया ।
 आशंसमानः शमलं गङ्‌गायां दुःखितोऽपतत् ॥ ३२ ॥
 पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् ।
 अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३३ ॥
 सूत उवाच ।
 कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शितः ।
 आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः ॥ ३४ ॥
 विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना ।
 अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥ ३५ ॥
 सञ्जय उवाच ।
 नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन ।
 गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः ॥ ३७ ॥
 अथाजगाम भगवान् नारदः सहतुम्बुरुः ।
 प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन् मुनिम् ॥ ३८ ॥
 युधिष्ठिर उवाच ।
 नाहं वेद गतिं पित्रोः भगवन् क्व गतावितः ।
 अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी ॥ ३९ ॥
 कर्णधार इवापारे भगवान् पारदर्शकः ।
 अथाबभाषे भगवान् नारदो मुनिसत्तमः ॥ ४० ॥
 नारद उवाच ।
 मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् ।
 लोकाः सपाला यस्येमे वहन्ति बलिमीशितुः ।
 स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४० ॥
 यथा गावो नसि प्रोताः तन्त्यां बद्धाः स्वदामभिः ।
 वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः ॥ ४१ ॥
 यथा क्रीडोपस्कराणां संयोगविगमाविह ।
 इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥ ४२ ॥
 यन्मन्यसे ध्रुवं लोकं अध्रुवं वा न चोभयम् ।
 सर्वथा न हि शोच्यास्ते स्नेहात् अन्यत्र मोहजात् ॥ ४३ ॥
 तस्माज्जह्यङ्‌ग वैक्लव्यं अज्ञानकृतमात्मनः ।
 कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना ॥ ४४ ॥
 कालकर्म गुणाधीनो देहोऽयं पाञ्चभौतिकः ।
 कथमन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम् ॥ ४५ ॥
 अहस्तानि सहस्तानां अपदानि चतुष्पदाम् ।
 फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४६ ॥
 तदिदं भगवान् राजन् एक आत्मात्मनां स्वदृक् ।
 अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥ ४७ ॥
 सोऽयमद्य महाराज भगवान् भूतभावनः ।
 कालरूपोऽवतीर्णोऽस्यां अभावाय सुरद्विषाम् ॥ ४८ ॥
 निष्पादितं देवकृत्यं अवशेषं प्रतीक्षते ।
 तावद् यूयं अवेक्षध्वं भवेद् यावदिहेश्वरः ॥ ४९ ॥
 धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया ।
 दक्षिणेन हिमवत ऋषीणां आश्रमं गतः ॥ ५० ॥
 स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् ।
 सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते ॥ ५१ ॥
 स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन्यथाविधि ।
 अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥ ५२ ॥
 जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः ।
 हरिभावनया ध्वस्तः अजःसत्त्वतमोमलः ॥ ५३ ॥
 विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।
 ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५४ ॥
 ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः ।
 निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः ।
 तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः ॥ ५५ ॥
 स वा अद्यतनाद् राजन् परतः पञ्चमेऽहनि ।
 कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥ ५६ ॥
 दह्यमानेऽग्निभिर्देहे पत्युः पत्‍नी सहोटजे ।
 बहिः स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति ॥ ५७ ॥
 विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।
 हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवकः ॥ ५८ ॥
 इत्युक्त्वाथारुहत् स्वर्गं नारदः सहतुम्बुरुः ।
 युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः ॥ ५९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे नैमिषीयोपाख्याने त्रयोदशोऽध्यायः ॥ १३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥