श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १० श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ११
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १२ →



द्वारकावासिभिः कृतं भगवतोऽभिनंदनम्, पुरप्रवेशवर्णनं च -




सूत उवाच ।
 आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् ।
 दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १ ॥
 स उच्चकाशे धवलोदरो दरोऽपि
     उरुक्रमस्य अधरशोण शोणिमा ।
 दाध्मायमानः करकञ्जसम्पुटे
     यथाब्जखण्डे कलहंस उत्स्वनः ॥ २ ॥
 तमुपश्रुत्य निनदं जगद्‍भयभयावहम् ।
 प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥ ३ ॥
 तत्रोपनीतबलयो रवेर्दीपमिवादृताः ।
 आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४ ॥
 प्रीत्युत्फुल्लमुखाः प्रोचुः हर्षगद्‍गदया गिरा ।
 पितरं सर्वसुहृदं अवितारं इवार्भकाः ॥ ५ ॥
 नताः स्म ते नाथ सदाङ्‌घ्रिपङ्‌कजं
     विरिञ्चवैरिञ्च्य सुरेन्द्र वन्दितम् ।
 परायणं क्षेममिहेच्छतां परं
     न यत्र कालः प्रभवेत्परः प्रभुः ॥ ६ ॥
 भवाय नस्त्वं भव विश्वभावन
     त्वमेव माताथ सुहृत्पतिः पिता ।
 त्वं सद्‍गुरुर्नः परमं च दैवतं
     यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७ ॥
 अहो सनाथा भवता स्म यद्वयं
     त्रैविष्टपानामपि दूरदर्शनम् ।
 प्रेमस्मित स्निग्ध निरीक्षणाननं
     पश्येम रूपं तव सर्वसौभगम् ॥ ८ ॥
 यर्ह्यम्बुजाक्षापससार भो भवान्
     कुरून् मधून् वाथ सुहृद् दिदृक्षया ।
 तत्राब्दकोटिप्रतिमः क्षणो भवेद्
     रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९ ॥
 इति चोदीरिता वाचः प्रजानां भक्तवत्सलः ।
 शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरम् ॥ १० ॥
 मधुभोजदशार्हार्ह कुकुरान्धक वृष्णिभिः ।
 आत्मतुल्य बलैर्गुप्तां नागैर्भोगवतीमिव ॥ ११ ॥
 सर्वर्तु सर्वविभव पुण्यवृक्षलताश्रमैः ।
 उद्यानोपवनारामैः वृत पद्माकर श्रियम् ॥ १२ ॥
 गोपुरद्वारमार्गेषु कृतकौतुक तोरणाम् ।
 चित्रध्वजपताकाग्रैः अन्तः प्रतिहतातपाम् ॥ १३ ॥
 सम्मार्जित महामार्ग रथ्यापणक चत्वराम् ।
 सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्‌कुरैः ॥ १४ ॥
 द्वारि द्वारि गृहाणां च दध्यक्षत फलेक्षुभिः ।
 अलङ्‌कृतां पूर्णकुम्भैः बलिभिः धूपदीपकैः ॥ १५ ॥
 निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः ।
 अक्रूरश्चोग्रसेनश्च रामश्चाद्‍भुतविक्रमः ॥ १६ ॥
 प्रद्युम्नः चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।
 प्रहर्षवेग उच्छशित शयनासन भोजनाः ॥ १७ ॥
 वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्‌गलैः ।
 शङ्‌खतूर्य निनादेन ब्रह्मघोषेण चादृताः ।
 प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागत साध्वसाः ॥ १८ ॥
 वारमुख्याश्च शतशो यानैः तत् दर्शनोत्सुकाः ।
 लसत्कुण्डल निर्भात कपोल वदनश्रियः ॥ १९ ॥
 नटनर्तकगन्धर्वाः सूत मागध वन्दिनः ।
 गायन्ति चोत्तमश्लोक चरितानि अद्‍भुतानि च ॥ २० ॥
 भगवान् तत्र बन्धूनां पौराणां अनुवर्तिनाम् ।
 यथाविधि उपसङ्‌गम्य सर्वेषां मानमादधे ॥ २१ ॥
 प्रह्वाभिवादन आश्लेष करस्पर्श स्मितेक्षणैः ।
 आश्वास्य चाश्वपाकेभ्यो वरैश्च अभिमतैर्विभुः ॥ २२ ॥
 स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि ।
 आशीर्भिः युज्यमानोऽन्यैः वन्दिभिश्चाविशत् पुरम् ॥ २३ ॥
 राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः ।
 हर्म्याण्यारुरुहुर्विप्र तदीक्षण महोत्सवाः ॥ २४ ॥
 नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् ।
 न वितृप्यन्ति हि दृशः श्रियो धामाङ्‌गमच्युतम् ॥ २५ ॥
 श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् ।
 बाहवो लोकपालानां सारङ्‌गाणां पदाम्बुजम् ॥ २६ ॥
 सितातपत्रव्यजनैः उपस्कृतः
     नवर्षैः अभिवर्षितः पथि ।
 पिशङ्‌गवासा वनमालया बभौ
     यथार्कोडुप चाप वैद्युतैः ॥ २७ ॥
 प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः ।
 ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ २८ ॥
 ताः पुत्रमङ्‌कं आरोप्य स्नेहस्नुत पयोधराः ।
 हर्षविह्वलितात्मानः सिषिचुः नेत्रजैर्जलैः ॥ २९ ॥
 अथाविशत् स्वभवनं सर्वकाममनुत्तमम् ।
 प्रासादा यत्र पत्‍नीनां सहस्राणि च षोडश ॥ ३० ॥
 पत्‍न्यः पतिं प्रोष्य गृहानुपागतं
     क्य सञ्जात मनोमहोत्सवाः ।
 उत्तस्थुरारात् सहसासनाशयात्
     व्रतैः व्रीडित लोचनाननाः ॥ ३१ ॥
 तं आत्मजैः दृष्टिभिरन्तरात्मना
     दुरन्तभावाः परिरेभिरे पतिम् ।
 निरुद्धमप्यास्रवदम्बु नेत्रयोः
     विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२ ॥
 यद्यप्यसौ पार्श्वगतो रहोगतः
     तथापि तस्याङ्‌घ्रियुगं नवं नवम् ।
 पदे पदे का विरमेत तत्पदात्
     चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ३३ ॥
 एवं नृपाणां क्षितिभारजन्मनां
     अक्षौहिणीभिः परिवृत्ततेजसाम् ।
 विधाय वैरं श्वसनो यथानलं
     मिथो वधेनोपरतो निरायुधः ॥ ३४ ॥
 स एष नरलोकेऽस्मिन् अवतीर्णः स्वमायया ।
 रेमे स्त्रीरत्‍नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५ ॥
 उद्दामभाव पिशुनामल वल्गुहास ।
     व्रीडावलोकनिहतो मदनोऽपि यासाम् ॥
 सम्मुह्य चापमजहात् प्रमदोत्तमास्ता ।
     यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ३६ ॥
 तमयं मन्यते लोको ह्यसङ्‌गमपि सङ्‌गिनम् ।
 आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥ ३७ ॥
 एतत् ईशनमीशस्य प्रकृतिस्थोऽपि तद्‍गुणैः ।
 न युज्यते सदाऽत्मस्थैः यथा बुद्धिस्तदाश्रया ॥ ३८ ॥
 तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः ।
 अप्रमाणविदो भर्तुः ईश्वरं मतयो यथा ॥ ३९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशो नाम एकादशोऽध्यायः ॥ ११ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥