श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०९ श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ११ →


भगवतः श्रीकृष्णस्य द्वारकागमनम् -


शौनक उवाच ।
(वंशस्थ)
हत्वा स्वरिक्थस्पृध आततायिनो
     युधिष्ठिरो धर्मभृतां वरिष्ठः ।
 सहानुजैः प्रत्यवरुद्धभोजनः
     कथं प्रवृत्तः किमकारषीत्ततः ॥ १ ॥
 सूत उवाच ।
 वंशं कुरोर्वंशदवाग्निनिर्हृतं
     संरोहयित्वा भवभावनो हरिः ।
 निवेशयित्वा निजराज्य ईश्वरो
     युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥
 निशम्य भीष्मोक्तमथाच्युतोक्तं
     प्रवृत्त विज्ञान विधूत विभ्रमः ।
 शशास गामिन्द्र इवाजिताश्रयः
     परिध्युपान्तां अनुजानुवर्तितः ॥ ३ ॥
(अनुष्टुप्)
कामं ववर्ष पर्जन्यः सर्वकामदुघा मही ।
 सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ ४ ॥
 नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः ।
 फलन्त्योषधयः सर्वाः कामं अन्वृतु तस्य वै ॥ ५ ॥
 नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः ।
 अजातशत्रौ अवभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥
 उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः ।
 सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७ ॥
 आमंत्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् ।
 आरुरोह रथं कैश्चित् परिष्वक्तोऽभिवादितः ॥ ८ ॥
 सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।
 गान्धारी धृतराष्ट्रश्च युयुत्सुः गौतमो यमौ ॥ ९ ॥
 वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः ।
 न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ १० ॥
 सत्सङ्गात् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः ।
 कीर्त्यमानं यशो यस्य सकृत् आकर्ण्य रोचनम् ॥ ११ ॥
 तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् ।
 दर्शनस्पर्शसंलाप शयनासन भोजनैः ॥ १२ ॥
 सर्वे तेऽनिमिषैः अक्षैः तं अनु द्रुतचेतसः ।
 वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३ ॥
 न्यरुन्धन् उद्‍गलत् बाष्पं औत्कण्ठ्यात् देवकीसुते ।
 निर्यात्यगारात् नोऽभद्रं इति स्यात् बान्धवस्त्रियः ॥ १४ ॥
 मृदङ्गशङ्खभेर्यश्च वीणापणव गोमुखाः ।
 धुन्धुर्यानक घण्टाद्या नेदुः दुन्दुभयस्तथा ॥ १५ ॥
 प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया ।
 ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥ १६ ॥
 सितातपत्रं जग्राह मुक्तादामविभूषितम् ।
 रत्‍नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ १७ ॥
 उद्धवः सात्यकिश्चैव व्यजने परमाद्‍भुते ।
 विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ १८ ॥
 अश्रूयन्ताशिषः सत्याः तत्र तत्र द्विजेरिताः ।
 नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ १९ ॥
 अन्योन्यमासीत् संजल्प उत्तमश्लोकचेतसाम् ।
 कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ २० ॥
(वंशस्थ)
स वै किलायं पुरुषः पुरातनो
     य एक आसीदविशेष आत्मनि ।
 अग्रे गुणेभ्यो जगदात्मनीश्वरे
     निमीलितात्मन्निशि सुप्तशक्तिषु ॥ २१ ॥
 स एव भूयो निजवीर्यचोदितां
     स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।
 अनामरूपात्मनि रूपनामनी
     विधित्समानोऽनुससार शास्त्रकृत् ॥ २२ ॥
 स वा अयं यत्पदमत्र सूरयो
     जितेन्द्रिया निर्जितमातरिश्वनः ।
 पश्यन्ति भक्ति उत्कलितामलात्मना
     नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३ ॥
 स वा अयं सख्यनुगीत सत्कथो
     वेदेषु गुह्येषु च गुह्यवादिभिः ।
 य एक ईशो जगदात्मलीलया
     सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४ ॥
 यदा ह्यधर्मेण तमोधियो नृपा
     जीवन्ति तत्रैष हि सत्त्वतः किल ।
 धत्ते भगं सत्यमृतं दयां यशो
     भवाय रूपाणि दधत् युगे युगे ॥ २५ ॥
 अहो अलं श्लाघ्यतमं यदोः कुलं
     अहो अलं पुण्यतमं मधोर्वनम् ।
 यदेष पुंसां ऋषभः श्रियः पतिः
     स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ २६ ॥
 अहो बत स्वर्यशसः तिरस्करी
     कुशस्थली पुण्ययशस्करी भुवः ।
 पश्यन्ति नित्यं यदनुग्रहेषितं
     स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ २७ ॥
 नूनं व्रतस्नानहुतादिनेश्वरः
     समर्चितो ह्यस्य गृहीतपाणिभिः ।
 पिबंति याः सख्यधरामृतं मुहुः
     व्रजस्त्रियः सम्मुमुहुः यदाशयाः ॥ २८ ॥
 या वीर्यशुल्केन हृताः स्वयंवरे
     प्रमथ्य चैद्यः प्रमुखान्हि शुष्मिणः ।
 प्रद्युम्न साम्बाम्ब सुतादयोऽपरा
     याः चाहृता भौमवधे सहस्रशः ॥ २९ ॥
 एताः परं स्त्रीत्वमपास्तपेशलं
     निरस्तशौचं बत साधु कुर्वते ।
 यासां गृहात् पुष्करलोचनः पतिः
     न जातु अपैत्याहृतिभिः हृदि स्पृशन् ॥ ३० ॥
(अनुष्टुप्)
एवंविधा गदन्तीनां स गिरः पुरयोषिताम् ।
 निरीक्षणेन अभिनन्दन् सस्मितेन ययौ हरिः ॥ ३१ ॥
 अजातशत्रुः पृतनां गोपीथाय मधुद्विषः ।
 परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्‌गिणीम् ॥ ३२ ॥
 अथ दूरागतान् शौरिः कौरवान् विरहातुरान् ।
 सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियैः ॥ ३३ ॥
 कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् ।
 ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४ ॥
 मरुधन्वमतिक्रम्य सौवीराभीरयोः परान् ।
 आनर्तान् भार्गवोपागात् श्रान्तवाहो मनाग्विभुः ॥ ३५ ॥
 तत्र तत्र ह तत्रत्यैः हरिः प्रत्युद्यतार्हणः ।
 सायं भेजे दिशं पश्चात् गविष्ठो गां गतस्तदा ॥ ३६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः ॥ १० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥