श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०८ श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १० →



युधिष्ठिरादीनां भीष्मसमीपे गमनम्, तत्र विविधान्
धर्मानुपदिश्य श्रीकृष्णस्तवनपूर्वकं भीष्मश्च महाप्रस्थानं च -

सूत उवाच ।
(अनुष्टुप्)
इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया ।
 ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥। १ ॥
 तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः ।
 अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥। २ ॥
 भगवानपि विप्रर्षे रथेन सधनञ्जयः ।
 स तैर्व्यरोचत नृपः कुवेर इव गुह्यकैः ॥। ३ ॥
 दृष्ट्वा निपतितं भूमौ दिवश्च्युतं इवामरम् ।
 प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥। ४ ॥
 तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम ।
 राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥। ५ ॥
 पर्वतो नारदो धौम्यो भगवान् बादरायणः ।
 बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥। ६ ॥
 वसिष्ठ इन्द्रप्रमदः त्रितो गृत्समदोऽसितः ।
 कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ॥। ७ ॥
 अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमलाः ।
 शिष्यैरुपेता आजग्मुः कश्यपाङ्‌गिरसादयः ॥। ८ ॥
 तान् समेतान् महाभागान् उपलभ्य वसूत्तमः ।
 पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥
 कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।
 हृदिस्थं पूजयामास माययोपात्त विग्रहम् ॥ १० ॥
 पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् ।
 अभ्याचष्टानुरागाश्रैः अन्धीभूतेन चक्षुषा ॥ ११ ॥
 अहो कष्टमहोऽन्याय्यं यद् यूयं धर्मनन्दनाः ।
 जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ १२ ॥
 संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः ।
 युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ १३ ॥
 सर्वं कालकृतं मन्ये भवतां च यदप्रियम् ।
 सपालो यद्वशे लोको वायोरिव घनावलिः ॥ १४ ॥
 यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः ।
 कृष्णोऽस्त्री गाण्डिवं चापं सुहृत् कृष्णः ततो विपत् ॥ १५ ॥
 न ह्यस्य कर्हिचित् राजन् पुमान् वेद विधित्सितम् ।
 यत् विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥
 तस्मात् इदं दैवतंत्रं व्यवस्य भरतर्षभ ।
 तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो ॥ १७ ॥
 एष वै भगवान् साक्षात् आद्यो नारायणः पुमान् ।
 मोहयन् मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥
 अस्यानुभावं भगवान् वेद गुह्यतमं शिवः ।
 देवर्षिर्नारदः साक्षात् भगवान् कपिलो नृप ॥ १९ ॥
 यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।
 अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥
 सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः ।
 तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २१ ॥
 तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।
 यत् मे असून् त्यजतः साक्षात् कृष्णो दर्शनमागतः ॥ २२ ॥
 भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।
 त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ २३ ॥
(वंशस्थ)
स देवदेवो भगवान् प्रतीक्षतां
     कलेवरं यावदिदं हिनोम्यहम् ।
 प्रसन्नहासारुणलोचनोल्लसन्
     मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ २४ ॥
 सूत उवाच ।
(अनुष्टुप्)
युधिष्ठिरः तत् आकर्ण्य शयानं शरपञ्जरे ।
 अपृच्छत् विविधान् धर्मान् ऋषीणां चानुश्रृण्वताम् ॥ २५ ॥
 पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् ।
 वैराग्यराग उपाधिभ्यां आम्नात उभयलक्षणान् ॥ २६ ॥
 दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः ।
 स्त्रीधर्मान् भगवत् धर्मान् समास व्यास योगतः ॥ २७ ॥
 धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने ।
 नानाख्यान इतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥
 धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः ।
 यो योगिनः छन्दमृत्योः वाञ्छितस्तु उत्तरायणः ॥ २९ ॥
(वंशस्थ)
तदोपसंहृत्य गिरः सहस्रणीः
     विमुक्तसङ्गं मन आदिपूरुषे ।
 कृष्णे लसत्पीतपटे चतुर्भुजे
     पुरः स्थितेऽमीलित दृग् व्यधारयत् ॥ ३० ॥
 विशुद्धया धारणया हताशुभः
     तदीक्षयैवाशु गतायुधश्रमः ।
 निवृत्त सर्वेन्द्रिय वृत्ति विभ्रमः
     तुष्टाव जन्यं विसृजन् जनार्दनम् ॥ ३१ ॥
 श्रीभीष्म उवाच ।
(पुष्पिताग्रा)
इति मतिरुपकल्पिता वितृष्णा
     भगवति सात्वतपुङ्गवे विभूम्नि ।
 स्वसुखमुपगते क्वचित् विहर्तुं
     प्रकृतिमुपेयुषि यद्‍भवप्रवाहः ॥ ३२ ॥
 त्रिभुवनकमनं तमालवर्णं
     रविकरगौरवराम्बरं दधाने ।
 वपुरलककुलावृत आननाब्जं
     विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥
 युधि तुरगरजो विधूम्र विष्वक्
     कचलुलितश्रमवारि अलङ्कृतास्ये ।
 मम निशितशरैर्विभिद्यमान
     त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥
 सपदि सखिवचो निशम्य मध्ये
     निजपरयोर्बलयो रथं निवेश्य ।
 स्थितवति परसैनिकायुरक्ष्णा
     हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५ ॥
 व्यवहित पृतनामुखं निरीक्ष्य
     स्वजनवधात् विमुखस्य दोषबुद्ध्या ।
 कुमतिम अहरत् आत्मविद्यया यः
     चश्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ३६ ॥
 स्वनिगममपहाय मत्प्रतिज्ञां
     ऋतमधि कर्तुमवप्लुतो रथस्थः ।
 धृतरथ चरणोऽभ्ययात् चलद्‍गुः
     हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ३७ ॥
 शितविशिखहतो विशीर्णदंशः
     क्षतजपरिप्लुत आततायिनो मे ।
 प्रसभं अभिससार मद्वधार्थं
     स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ३८ ॥
 विजयरथकुटुम्ब आत्ततोत्रे
     धृतहयरश्मिनि तत् श्रियेक्षणीये ।
 भगवति रतिरस्तु मे मुमूर्षोः
     यमिह निरीक्ष्य हता गताः स्वरूपम् ॥ ३९ ॥
 ललित गति विलास वल्गुहास
     प्रणय निरीक्षण कल्पितोरुमानाः ।
 कृतमनुकृतवत्य उन्मदान्धाः
     प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ४० ॥
 मुनिगण नृपवर्यसङ्कुलेऽन्तः
     सदसि युधिष्ठिर राजसूय एषाम् ।
 अर्हणं उपपेद ईक्षणीयो
     मम दृशिगोचर एष आविरात्मा ॥ ४१ ॥
 तमिममहमजं शरीरभाजां
     हृदि हृदि धिष्ठितमात्म कल्पितानाम् ।
 प्रतिदृशमिव नैकधार्कमेकं
     समधिगतोऽस्मि विधूत भेदमोहः ॥ ४२ ॥
 सूत उवाच ।
(अनुष्टुप्)
कृष्ण एवं भगवति मनोवाक् दृष्टिवृत्तिभिः ।
 आत्मनि आत्मानमावेश्य सोऽन्तःश्वास उपारमत् ॥ ४३ ॥
 सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।
 सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४ ॥
 तत्र दुन्दुभयो नेदुः देवमानव वादिताः ।
 शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः ॥ ४५ ॥
 तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।
 युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ॥ ४६ ॥
 तुष्टुवुर्मुनयो हृष्टाः कृष्णं तत् गुह्यनामभिः ।
 ततस्ते कृष्णहृदयाः स्वाश्रमान्प्रययुः पुनः ॥ ४७ ॥
 ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।
 पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८ ॥
 पित्रा चानुमतो राजा वासुदेवानुमोदितः ।
 चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ ४९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः ॥ ९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥