सामग्री पर जाएँ

श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०८

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०७ श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०९ →



उत्तरागर्भे द्रौण्यस्त्रतः परीक्षितो रक्षणम्
कुन्तिकृता श्रीकृष्णस्तुतिः, युधिष्ठिरानुतापश्च -


सूत उवाच ।
(अनुष्टुप्)
अथ ते सम्परेतानां स्वानामुदकमिच्छताम् ।
 दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥। १ ॥
 ते निनीयोदकं सर्वे विलप्य च भृशं पुनः ।
 आप्लुता हरिपादाब्जः अजःपूतसरिज्जले ॥। २ ॥
 तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् ।
 गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥। ३ ॥
 सांत्वयामास मुनिभिः हतबंधून् शुचार्पितान् ।
 भूतेषु कालस्य गतिं दर्शयन् अप्रतिक्रियाम् ॥। ४ ॥
 साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् ।
 घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥। ५ ॥
 याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।
 तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥। ६ ॥
 आमंत्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः ।
 द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥। ७ ॥
 गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः ।
 उपलेभेऽभिधावन्तीं उत्तरां भयविह्वलाम् ॥। ८ ॥
 उत्तरोवाच
 पाहि पाहि महायोगिन् देवदेव जगत्पते ।
 नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ ९ ॥
 अभिद्रवति मामीश शरस्तप्तायसो विभो ।
 कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ १० ॥
 सूत उवाच ।
 उपधार्य वचस्तस्या भगवान् भक्तवत्सलः ।
 अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ११ ॥
 तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् ।
 आत्मनोऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः ॥ १२ ॥
 व्यसनं वीक्ष्य तत्तेषां अनन्यविषयात्मनाम् ।
 सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ १३ ॥
 अन्तःस्थः सर्वभूतानां आत्मा योगेश्वरो हरिः ।
 स्वमाययाऽऽवृणोद्‍गर्भं वैराट्याः कुरुतन्तवे ॥ १४ ॥
 यद्यप्यस्त्रं ब्रह्मशिरः त्वमोघं चाप्रतिक्रियम् ।
 वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥ १५ ॥
 मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते ।
 य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ १६ ॥
 ब्रह्मतेजोविनिर्मुक्तैः आत्मजैः सह कृष्णया ।
 प्रयाणाभिमुखं कृष्णं इदमाह पृथा सती ॥ १७ ॥
 कुन्त्युवाच ।
 नमस्ये पुरुषं त्वाऽऽद्यं ईश्वरं प्रकृतेः परम् ।
 अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम् ॥ १८ ॥
 मायाजवनिकाच्छन्नं अज्ञाधोक्षजमव्ययम् ।
 न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ १९ ॥
 तथा परमहंसानां मुनीनां अमलात्मनाम् ।
 भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ २० ॥
 कृष्णाय वासुदेवाय देवकीनंदनाय च ।
 नंदगोपकुमाराय गोविंदाय नमो नमः ॥ २१ ॥
 नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
 नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २२ ॥
(वंशस्थ)
यथा हृषीकेश खलेन देवकी
     कंसेन रुद्धातिचिरं शुचार्पिता ।
 विमोचिताहं च सहात्मजा विभो
     त्वयैव नाथेन मुहुर्विपद्‍गणात् ॥ २३ ॥
 विषान्महाग्नेः पुरुषाददर्शनाद्
     असत्सभाया वनवासकृच्छ्रतः ।
 मृधे मृधेऽनेकमहारथास्त्रतो
     द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥ २४ ॥
(अनुष्टुप्)
विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्‍गुरो ।
 भवतो दर्शनं यत्स्याद् अपुनर्भवदर्शनम् ॥ २५ ॥
 जन्मैश्वर्यश्रुतश्रीभिः एधमानमदः पुमान् ।
 नैवार्हत्यभिधातुं वै त्वां अकिञ्चनगोचरम् ॥ २६ ॥
 नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।
 आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ २७ ॥
 मन्ये त्वां कालमीशानं अनादिनिधनं विभुम् ।
 समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ २८ ॥
(वंशस्थ)
न वेद कश्चिद् भगवंश्चिकीर्षितं
     तवेहमानस्य नृणां विडम्बनम् ।
 न यस्य कश्चिद् दयितोऽस्ति कर्हिचिद्
     द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम् ॥ २९ ॥
(अनुष्टुप्)
जन्म कर्म च विश्वात्मन् अजस्याकर्तुरात्मनः ।
 तिर्यङ् नृषिषु यादःसु तद् अत्यन्तविडम्बनम् ॥ ३० ॥
(वसंततिलका)
गोप्याददे त्वयि कृतागसि दाम तावद्
     या ते दशाश्रुकलिल अञ्जन संभ्रमाक्षम् ।
 वक्त्रं निनीय भयभावनया स्थितस्य
     सा मां विमोहयति भीरपि यद्‌बिभेति ॥ ३१ ॥
(अनुष्टुप्)
केचिद् आहुः अजं जातं पुण्यश्लोकस्य कीर्तये ।
 यदोः प्रियस्य अन्ववाये मलयस्येव चन्दनम् ॥ ३२ ॥
 अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।
 अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३ ॥
 भारावतारणायान्ये भुवो नाव इवोदधौ ।
 सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ ३४ ॥
 भवेऽस्मिम् क्लिश्यमानानां अविद्याकामकर्मभिः ।
 श्रवण स्मरणार्हाणि करिष्यम् इति केचन ॥ ३५ ॥
(वंशस्थ)
श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः
     स्मरन्ति नन्दन्ति तवेहितं जनाः ।
 त एव पश्यन्त्यचिरेण तावकं
     भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६ ॥
 अप्यद्य नस्त्वं स्वकृतेहित प्रभो
     जिहाससि स्वित् सुहृदोऽनुजीविनः ।
 येषां न चान्यत् भवतः पदाम्बुजात्
     परायणं राजसु योजितांहसाम् ॥ ३७ ॥
(अनुष्टुप्)
के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।
 भवतोऽदर्शनं यर्हि हृषीकाणां इव ईशितुः ॥ ३८ ॥
 नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।
 त्वत्पदैः अङ्‌किता भाति स्वलक्षणविलक्षितैः ॥ ३९ ॥
 इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।
 वनाद्रि नदी उदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ ४० ॥
 अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।
 स्नेहपाशं इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ ४१ ॥
 त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।
 रतिं उद्वहतात् अद्धा गङ्गेवौघं उदन्वति ॥ ४२ ॥
(वसंततिलका)
श्रीकृष्ण कृष्णसख वृष्णि ऋषभावनिध्रुग्
     राजन्यवंशदहन अनपवर्ग वीर्य ।
 गोविन्द गोद्विजसुरार्तिहरावतार
     योगेश्वराखिलगुरो भगवन् नमस्ते ॥ ४३ ॥

 सूत उवाच ।
(अनुष्टुप्)
पृथयेत्थं कलपदैः परिणूताखिलोदयः ।
 मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४ ॥
 तां बाढं इति उपामंत्र्य प्रविश्य गजसाह्वयम् ।
 स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥ ४५ ॥
 व्यासाद्यैरीश्वरेहा ज्ञैः कृष्णेनाद्‍भुत कर्मणा ।
 प्रबोधितोऽपि इतिहासैः नाबुध्यत शुचार्पितः ॥ ४६ ॥
 आह राजा धर्मसुतः चिन्तयन् सुहृदां वधम् ।
 प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ ४७ ॥
 अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः ।
 पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः ॥ ४८ ॥
 बालद्विजसुहृन् मित्र पितृभ्रातृगुरु द्रुहः ।
 न मे स्यात् निरयात् मोक्षो ह्यपि वर्ष अयुत आयुतैः ॥ ४९ ॥
 नैनो राज्ञः प्रजाभर्तुः धर्मयुद्धे वधो द्विषाम् ।
 इति मे न तु बोधाय कल्पते शासनं वचः ॥ ५० ॥
 स्त्रीणां मत् हतबंधूनां द्रोहो योऽसौ इहोत्थितः ।
 कर्मभिः गृहमेधीयैः नाहं कल्पो व्यपोहितुम् ॥ ५१ ॥
 यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् ।
 भूतहत्यां तथैवैकां न यज्ञैः मार्ष्टुमर्हति ॥ ५२ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे कुन्तीस्तुतिर्युधिष्ठिरानुतापो नाम अष्टमोऽध्यायः ॥ ८ ॥


 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥