श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०६ श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः ०८ →


नारदोपदेशेन व्यासद्वारा श्रीमद्‌भागवतारंभः
तत्र परीक्षित् जन्मप्रस्तावे अश्वत्थामा कृतः
सुप्तानां द्रौपदीसुतानां वधः, अश्वत्थाम्नः पराभवश्च -


शौनक उवाच ।
(अनुष्टुप्)
निर्गते नारदे सूत भगवान् बादरायणः ।
 श्रुतवांस्तदभिप्रेतं ततः किमकरोद् विभुः ।
 सूत उवाच ।
 ब्रह्मनद्यां सरस्वत्यां आश्रमः पश्चिमे तटे ।
 शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥। २ ॥
 तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते ।
 आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥। ३ ॥
 भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले ।
 अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम् ॥। ४ ॥
 यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् ।
 परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥। ५ ॥
 अनर्थोपशमं साक्षाद् भक्तियोगमधोक्षजे ।
 लोकस्याजानतो विद्वांन् चक्रे सात्वतसंहिताम् ॥। ६ ॥
 यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे ।
 भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥। ७ ॥
 स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् ।
 शुकं अध्यापयामास निवृत्तिनिरतं मुनिः ॥। ८ ॥
 शौनक उवाच ।
 स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः ।
 कस्य वा बृहतीं एतां आत्मारामः समभ्यसत् ॥ ९ ॥
 सूत उवाच ।
 आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
 कुर्वन्ति अहैतुकीं भक्तिं इत्थंभूतगुणो हरिः ॥ १० ॥
 हरेर्गुणाक्षिप्तमतिः भगवान् बादरायणिः ।
 अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः ॥ ११ ॥
 परीक्षितोऽथ राजर्षेः जन्मकर्मविलापनम् ।
 संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ १२ ॥
(इंद्रवज्रा)
यदा मृधे कौरवसृञ्जयानां
     वीरेष्वथो वीरगतिं गतेषु ।
 वृकोदराविद्धगदाभिमर्श
     भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥
 भर्तुः प्रियं द्रौणिरिति स्म पश्यन्
     कृष्णासुतानां स्वपतां शिरांसि ।
 उपाहरद् विप्रियमेव तस्य
     जुगुप्सितं कर्म विगर्हयन्ति ॥ १४ ॥
 माता शिशूनां निधनं सुतानां
     निशम्य घोरं परितप्यमाना ।
 तदारुदद् बाष्पकलाकुलाक्षी
     तां सांत्वयन्नाह किरीटमाली ॥ १५ ॥
 तदा शुचस्ते प्रमृजामि भद्रे
     यद्‍ब्रह्मबंधोः शिर आततायिनः ।
 गाण्डीवमुक्तैः विशिखैरुपाहरे
     त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा ॥ १६ ॥
(उपेंद्रवज्रा)
इति प्रियां वल्गुविचित्रजल्पैः
     स सान्त्वयित्वाच्युतमित्रसूतः ।
 अन्वाद्रवद् दंशित उग्रधन्वा
     कपिध्वजो गुरुपुत्रं रथेन ॥ १७ ॥
 तमापतन्तं स विलक्ष्य दूरात्
     कुमारहोद्विग्नमना रथेन ।
 पराद्रवत् प्राणपरीप्सुरुर्व्यां
     यावद्‍गमं रुद्रभयाद् यथार्कः ॥ १८ ॥
(अनुष्टुप्)
यदाशरणमात्मानं ऐक्षत श्रान्तवाजिनम् ।
 अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः ॥ १९ ॥
 अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः ।
 अजानन् उपसंहारं प्राणकृच्छ्र उपस्थिते ॥ २० ॥
 ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् ।
 प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥
 अर्जुन उवाच ।
 कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर ।
 त्वमेको दह्यमानानां अपवर्गोऽसि संसृतेः ॥ २२ ॥
 त्वमाद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः ।
 मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३ ॥
 स एव जीवलोकस्य मायामोहितचेतसः ।
 विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४ ॥
 तथायं चावतारस्ते भुवो भारजिहीर्षया ।
 स्वानां चानन्यभावानां अनुध्यानाय चासकृत् ॥ २५ ॥
 किमिदं स्वित्कुतो वेति देवदेव न वेद्‌म्यहम् ।
 सर्वतो मुखमायाति तेजः परमदारुणम् ॥ २६ ॥
 श्रीभगवानुवाच ।
 वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् ।
 नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ २७ ॥
 न ह्यस्यान्यतमं किञ्चिद् अस्त्रं प्रत्यवकर्शनम् ।
 जह्यस्त्रतेज उन्नद्धं अस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥
 सूत उवाच ।
 श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा ।
 स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय संदधे ॥ २९ ॥
 संहत्य अन्योन्यं उभयोः तेजसी शरसंवृते ।
 आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥
 दृष्ट्वास्त्रतेजस्तु तयोः त्रिँल्लोकान् प्रदहन्महत् ।
 दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत ॥ ३१ ॥
 प्रजोपप्लवमालक्ष्य लोकव्यतिकरं च तम् ।
 मतं च वासुदेवस्य संजहारार्जुनो द्वयम् ॥ ३२ ॥
 तत आसाद्य तरसा दारुणं गौतमीसुतम् ।
 बबंधामर्षताम्राक्षः पशुं रशनया यथा ॥ ३३ ॥
 शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् ।
 प्राहार्जुनं प्रकुपितो भगवान् अंबुजेक्षणः ॥ ३४ ॥
 मैनं पार्थार्हसि त्रातुं ब्रह्मबंधुमिमं जहि ।
 यो असौ अनागसः सुप्तान् अवधीन्निशि बालकान् ॥ ३५ ॥
 मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् ।
 प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६ ॥
 स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः खलः ।
 तद् वधस्तस्य हि श्रेयो यद् दोषाद्यात्यधः पुमान् ॥ ३७ ॥
 प्रतिश्रुतं च भवता पाञ्चाल्यै श्रृण्वतो मम ।
 आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८ ॥
 तदसौ वध्यतां पाप आतताय्यात्मबंधुहा ।
 भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः ॥ ३९ ॥
 सूत उवाच ।
 एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः ।
 नैच्छद् हन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४० ॥
 अथोपेत्य स्वशिबिरं गोविंदप्रियसारथिः ।
 न्यवेदयत् तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१ ॥
(वंशस्थ)
तथाहृतं पशुवत्पाशबद्धं
     अवाङ्मुखं कर्मजुगुप्सितेन ।
 निरीक्ष्य कृष्णापकृतं गुरोः सुतं
     वामस्वभावा कृपया ननाम च ॥ ४२ ॥
(अनुष्टुप्)
उवाच चासहन्त्यस्य बंधनानयनं सती ।
 मुच्यतां मुच्यतां एष ब्राह्मणो नितरां गुरुः ॥ ४३ ॥
 सरहस्यो धनुर्वेदः सविसर्गोपसंयमः ।
 अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४ ॥
 स एष भगवान् द्रोणः प्रजारूपेण वर्तते ।
 तस्यात्मनोऽर्धं पत्‍न्याः ते नान्वगाद् वीरसूः कृपी ॥ ४५ ॥
 तद् धर्मज्ञ महाभाग भवद्‌भिः र्गौरवं कुलम् ।
 वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥ ४६ ॥
 मा रोदीदस्य जननी गौतमी पतिदेवता ।
 यथाहं मृतवत्साऽर्ता रोदिम्यश्रुमुखी मुहुः ॥ ४७ ॥
 यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः ।
 तत् कुलं प्रदहत्याशु सानुबंधं शुचार्पितम् ॥ ४८ ॥
 सूत उवाच ।
 धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् ।
 राजा धर्मसुतो राज्ञ्याः प्रत्यनंदद् वचो द्विजाः ॥ ४९ ॥
 नकुलः सहदेवश्च युयुधानो धनंजयः ।
 भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः ॥ ५० ॥
 तत्राहामर्षितो भीमः तस्य श्रेयान् वधः स्मृतः ।
 न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥
 निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः ।
 आलोक्य वदनं सख्युः इदमाह हसन्निव ॥ ५२ ॥
 श्रीभगवानुवाच ।
 ब्रह्मबंधुर्न हन्तव्य आततायी वधार्हणः ।
 मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ ५३ ॥
 कुरु प्रतिश्रुतं सत्यं यत्तत् सांत्वयता प्रियाम् ।
 प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ॥ ५४ ॥
 सूत उवाच ।
 अर्जुनः सहसाऽऽज्ञाय हरेर्हार्दमथासिना ।
 मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ ५५ ॥
 विमुच्य रशनाबद्धं बालहत्याहतप्रभम् ।
 तेजसा मणिना हीनं शिबिरान् निरयापयत् ॥ ५६ ॥
 वपनं द्रविणादानं स्थानान् निर्यापणं तथा ।
 एष हि ब्रह्मबंधूनां वधो नान्योऽस्ति दैहिकः ॥ ५७ ॥
 पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया ।
 स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥ ५८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे द्रौणिनिग्रहो नाम सप्तमोऽध्यायः ॥। ७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥