श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १७

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १६ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः १७
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १८ →




क्षत्रवृद्धरजिरम्भानेनां वंशवर्णनम् -


श्रीशुक उवाच ।
 यः पुरूरवसः पुत्र आयुः तस्याभवन् सुताः ।
 नहुषः क्षत्रवृद्धश्च रजी रंभश्च वीर्यवान् ॥ १ ॥
 अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम् ।
 क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः ॥ २ ॥
 काश्यः कुशो गृत्समद इति गृत्समदादभूत् ।
 शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः ॥ ३ ॥
 काश्यस्य काशिः तत्पुत्रो राष्ट्रो दीर्घतमःपिता ।
 धन्वन्तरिर्दैर्घतम आयुर्वेदप्रवर्तकः ॥ ४ ॥
 यज्ञभुग् वासुदेवांशः स्मृतमात्रार्तिनाशनः ।
 तत्पुत्रः केतुमानस्य जज्ञे भीमरथस्ततः ॥ ५ ॥
 दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः ।
 स एव शत्रुजिद् वत्स ऋतध्वज इतीरितः ।
 तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ॥ ६ ॥
 षष्टि वर्षसहस्राणि षष्टि वर्षशतानि च ।
 नालर्काद् अपरो राजन् मेदिनीं बुभुजे युवा ॥ ७ ॥
 अलर्कात् सन्ततिस्तस्मात् सुनीथोऽथ निकेतनः ।
 धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत ॥ ८ ॥
 धृष्टकेतुः सुतस्तस्मात् सुकुमारः क्षितीश्वरः ।
 वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ॥ ९ ॥
 इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः ।
 रम्भस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः ॥ १० ॥
 तस्य क्षेत्रे ब्रह्म जज्ञे श्रृणु वंशमनेनसः ।
 शुद्धस्ततः शुचिस्तस्मात् त्रिककुद् धर्मसारथिः ॥ ११ ॥
 ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान् ।
 रजेः पञ्चशतान्यासन् पुत्राणां अमितौजसाम् ॥ १२ ॥
 देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद् दिवम् ।
 इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः ॥ १३ ॥
 आत्मानमर्पयामास प्रह्रादाद्यरिशंकितः ।
 पितरि उपरते पुत्रा याचमानाय नो ददुः ॥ १४ ॥
 त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददुः ।
 गुरुणा हूयमानेऽग्नौ बलभित् तनयान् रजेः ॥ १५ ॥
 अवधीद् भ्रंशितान् मार्गान् न कश्चित् अवशेषितः ।
 कुशात् प्रतिः क्षात्रवृद्धात् संजयस्तत्सुतो जयः ॥ १६ ॥
 ततः कृतः कृतस्यापि जज्ञे हर्यवनो नृपः ।
 सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः ॥ १७ ॥
 सङ्‌कृतिस्तस्य च जयः क्षत्रधर्मा महारथः ।
 क्षत्रवृद्धान्वया भूपा इमे श्रृणु वंशं च नाहुषात् ॥ १८ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥