सामग्री पर जाएँ

श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १८

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १७ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः १८
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १९ →


ययातिचरितम् -

श्रीशुक उवाच ।
 यतिर्ययातिः संयातिः आयतिर्वियतिः कृतिः ।
 षडिमे नहुषस्यासन् इन्द्रियाणीव देहिनः ॥ १ ॥
 राज्यं नैच्छद् यतिः पित्रा दत्तं तत्परिणामवित् ।
 यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते ॥ २ ॥
 पितरि भ्रंशिते स्थानाद् इन्द्राण्या धर्षणाद्‌ द्विजैः ।
 प्रापितेऽजगरत्वं वै ययातिरभवन्नृपः ॥ ३ ॥
 चतसृष्वादिशद् दिक्षु भ्रातॄन् भ्राता यवीयसः ।
 कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः ॥ ४ ॥
 श्रीराजोवाच ।
 ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः ।
 राजन्यविप्रयोः कस्माद् विवाहः प्रतिलोमकः ॥ ५ ॥
 श्रीशुक उवाच ।
 एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका ।
 सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥ ६ ॥
 देवयान्या पुरोद्याने पुष्पितद्रुमसंकुले ।
 व्यचरत् कलगीतालि नलिनीपुलिनेऽबला ॥ ७ ॥
 ता जलाशयम आसाद्य कन्याः कमललोचनाः ।
 तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः ॥ ८ ॥
 वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् ।
 सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः ॥ ९ ॥
 शर्मिष्ठाजानती वासो गुरुपुत्र्याः समव्ययत् ।
 स्वीयं मत्वा प्रकुपिता देवयानी इदमब्रवीत् ॥ १० ॥
 अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् ।
 अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥ ११ ॥
 यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये ।
 धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः ॥ १२ ॥
 यान् वन्दन्ति उपतिष्ठन्ते लोकनाथाः सुरेश्वराः ।
 भगवानपि विश्वात्मा पावनः श्रीनिकेतनः ॥ १३ ॥
 वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः ।
 अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ १४ ॥
 एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीं अभाषत ।
 रुषा श्वसन्ति उरंगीघ्गीव धर्षिता दष्टदच्छदा ॥ १५ ॥
 आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि ।
 किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा ॥ १६ ॥
 एवंविधैः सुपरुषैः क्षिप्त्वाऽऽचार्यसुतां सतीम् ।
 शर्मिष्ठा प्राक्षिपत् कूपे वासे आदाय मन्युना ॥ १७ ॥
 तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् ।
 प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह ॥ १८ ॥
 दत्त्वा स्वमुत्तरं वासः तस्यै राजा विवाससे ।
 गृहीत्वा पाणिना पाणिं उज्जहार दयापरः ॥ १९ ॥
 तं वीरमाहौशनसी प्रेमनिर्भरया गिरा ।
 राजन् त्वया गृहीतो मे पाणिः परपुरञ्जय ॥ २० ॥
 हस्तग्राहोऽपरो मा भूद् गृहीतायास्त्वया हि मे ।
 एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः ।
 यदिदं कूपमग्नाया भवतो दर्शनं मम ॥ २१ ॥
 न ब्राह्मणो मे भविता हस्तग्राहो महाभुज ।
 कचस्य बार्हस्पत्यस्य शापाद् यमशपं पुरा ॥ २२ ॥
 ययातिरनभिप्रेतं दैवोपहृतमात्मनः ।
 मनस्तु तद्‍गतं बुद्ध्वा प्रतिजग्राह तद्वचः ॥ २३ ॥
 गते राजनि सा धीरे तत्र स्म रुदती पितुः ।
 न्यवेदयत् ततः सर्वं उक्तं शर्मिष्ठया कृतम् ॥ २४ ॥
 दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् ।
 स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥ २५ ॥
 वृषपर्वा तमाज्ञाय प्रत्यनीक विवक्षितम् ।
 गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥ २६ ॥
 क्षणार्ध मन्युर्भगवान् शिष्यं व्याचष्ट भार्गवः ।
 कामोऽस्याः क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥ २७ ॥
 तथेति अवस्थिते प्राह देवयानी मनोगतम् ।
 पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥ २८ ॥
 स्वानां तत् संकटं वीक्ष्य तदर्थस्य च गौरवम् ।
 देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् ॥ २९ ॥
 नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना ।
 तमाह राजन् शर्मिष्ठां आधास्तल्पे न कर्हिचित् ॥ ३० ॥
 विलोक्यौशनसीं राजन् शर्मिष्ठा सप्रजां क्वचित् ।
 तमेव वव्रे रहसि सख्याः पतिमृतौ सती ॥ ३१ ॥
 राजपुत्र्यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् ।
 स्मरन् शुक्रवचः काले दिष्टमेवाभ्यपद्यत ॥ ३२ ॥
 यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
 द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ३३ ॥
 गर्भसंभवमासुर्या भर्तुर्विज्ञाय मानिनी ।
 देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ॥ ३४ ॥
 प्रियां अनुगतः कामी वचोभिः उपमन्त्रयन् ।
 न प्रसादयितुं शेके पादसंवाहनादिभिः ॥ ३५ ॥
 शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष ।
 त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ॥ ३६ ॥
 श्रीययातिरुवाच ।
 अतृप्तोऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते ।
 व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति ॥ ३७ ॥
 इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत ।
 यदो तात प्रतीच्छेमां जरां देहि निजं वयः ॥ ३८ ॥
 मातामहकृतां वत्स न तृप्तो विषयेष्वहम् ।
 वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥ ३९ ॥
 श्रीयदुरुवाच ।
 नोत्सहे जरसा स्थातुं अन्तरा प्राप्तया तव ।
 अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः ॥ ४० ॥
 तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत ।
 प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः ॥ ४१ ॥
 अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् ।
 न त्वं अग्रजवद् वत्स मां प्रत्याख्यातुमर्हसि ॥ ४२ ॥
 श्रीपूरुरुवाच ।
 को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् ।
 प्रतिकर्तुं क्षमो यस्य प्रसादाद् विन्दते परम् ॥ ४३ ॥
 उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः ।
 अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितं पितुः ॥ ४४ ॥
 इति प्रमुदितः पूरुः प्रत्यगृह्णाज्जरां पितुः ।
 सोऽपि तद्वयसा कामान् यथावज्जुजुषे नृप ॥ ४५ ॥
 सप्तद्वीपपतिः सम्यक् पितृवत् पालयन् प्रजाः ।
 यथोपजोषं विषयान् जुजुषेऽव्याहतेन्द्रियः ॥ ४६ ॥
 देवयान्यप्यनुदिनं मनोवाग् देहवस्तुभिः ।
 प्रेयसः परमां प्रीतिं उवाह प्रेयसी रहः ॥ ४७ ॥
 अयजद् यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः ।
 सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥ ४८ ॥
 यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः ।
 नानेव भाति नाभाति स्वप्नमायामनोरथः ॥ ४९ ॥
 तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् ।
 नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥ ५० ॥
 एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम् ।
 विदधानोऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः ॥ ५१ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥