सामग्री पर जाएँ

श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १६

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १५ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः १६
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १७ →



जमदग्निवधः, परशुरामद्वारा क्षत्रियाणां संहारः, विश्वामित्र वंशवर्णनं च -

श्रीशुक उवाच ।
 पित्रोपशिक्षितो रामः तथेति कुरुनन्दन ।
 संवत्सरं तीर्थयात्रां चरित्वाऽऽश्रममाव्रजत् ॥ १ ॥
 कदाचित् रेणुका याता गंगायां पद्ममालिनम् ।
 गन्धर्वराजं क्रीडन्तं अप्सरोभिरपश्यत ॥ २ ॥
 विलोकयन्ती क्रीडन्तं उदकार्थं नदीं गता ।
 होमवेलां न सस्मार किञ्चित् चित्ररथस्पृहा ॥ ३ ॥
 कालात्ययं तं विलोक्य मुनेः शापविशंकिता ।
 आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः ॥ ४ ॥
 व्यभिचारं मुनिर्ज्ञात्वा पत्‍न्याः प्रकुपितोऽब्रवीत् ।
 घ्नतैनां पुत्रकाः पापां इत्युक्तास्ते न चक्रिरे ॥ ५ ॥
 रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सहावधीत् ।
 प्रभावज्ञो मुनेः सम्यक् समाधेस्तपसश्च सः ॥ ६ ॥
 वरेण च्छन्दयामास प्रीतः सत्यवतीसुतः ।
 वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥
 उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा ।
 पितुर्विद्वान् तपोवीर्यं रामश्चक्रे सुहृद्वधम् ॥ ८ ॥
 येऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम् ।
 रामवीर्यपराभूता लेभिरे शर्म न क्वचित् ॥ ९ ॥
 एकदाश्रमतो रामे सभ्रातरि वनं गते ।
 वैरं सिसाधयिषवो लब्धच्छिद्रा उपागमन् ॥ १० ॥
 दृष्ट्वाग्न्यगार आसीनं आवेशितधियं मुनिम् ।
 भगवति उत्तमश्लोके जघ्नुस्ते पापनिश्चयाः ॥ ११ ॥
 याच्यमानाः कृपणया राममात्रातिदारुणाः ।
 प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धवः ॥ १२ ॥
 रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना ।
 राम रामेति तातेति विचुक्रोशोच्चकैः सती ॥ १३ ॥
 तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत्स्वनम् ।
 त्वरयाऽऽश्रममासाद्य ददृशुः पितरं हतम् ॥ १४ ॥
 ते दुःखरोषामर्षार्ति शोकवेगविमोहिताः ।
 हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्गतो भवान् ॥ १५ ॥
 विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् ।
 प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे ॥ १६ ॥
 गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् ।
 तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम् ॥ १७ ॥
 तद् रक्तेन नदीं घोरां अब्रह्मण्यभयावहाम् ।
 हेतुं कृत्वा पितृवधं क्षत्रेऽमंगलकारिणि ॥ १८ ॥
 त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।
 समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नृप ॥ १९ ॥
 पितुः कायेन सन्धाय शिर आदाय बर्हिषि ।
 सर्वदेवमयं देवं आत्मानं अयजन्मखैः ॥ २० ॥
 ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् ।
 अध्वर्यवे प्रतीचीं वै उद्‍गात्रे उत्तरां दिशम् ॥ २१ ॥
 अन्येभ्योऽवान्तरदिशः कश्यपाय च मध्यतः ।
 आर्यावर्तं उपद्रष्ट्रे सदस्येभ्यस्ततः परम् ॥ २२ ॥
 ततश्चावभृथस्नान विधूताशेषकिल्बिषः ।
 सरस्वत्यां महानद्यां रेजे व्यभ्र इवांशुमान् ॥ २३ ॥
 स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् ।
 ऋषीणां मण्डले सोऽभूत् सप्तमो रामपूजितः ॥ २४ ॥
 जामदग्न्योऽपि भगवान् रामः कमललोचनः ।
 आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ २५ ॥
 आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः ।
 उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥ २६ ॥
 एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वरः ।
 अवतीर्य परं भारं भुवोऽहन् बहुशो नृपान् ॥ २७ ॥
 गाधेरभूत् महातेजाः समिद्ध इव पावकः ।
 तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥ २८ ॥
 विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप ।
 मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ २९ ॥
 पुत्रं कृत्वा शुनःशेपं देवरातं च भार्गवम् ।
 आजीगर्तं सुतानाह ज्येष्ठ एष प्रकल्प्यताम् ॥ ३० ॥
 यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः ।
 स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥ ३१ ॥
 यो रातो देवयजने देवैर्गाधिषु तापसः ।
 देवरात इति ख्यातः शुनःशेपस्तु भार्गवः ॥ ३२ ॥
 ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् ।
 अशपत् तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः ॥ ३३ ॥
 स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः ।
 यन्नो भवान् संजानीते तस्मिन् तिष्ठामहे वयम् ॥ ३४ ॥
 ज्येष्ठं मन्त्रदृशं चक्रुः त्वां अन्वञ्चो वयं स्म हि ।
 विश्वामित्रः सुतानाह वीरवन्तो भविष्यथ ।
 ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त माम् ॥ ३५ ॥
 एष वः कुशिका वीरो देवरातस्तमन्वित ।
 अन्ये चाष्टकहारीत जयक्रतुमदादयः ॥ ३६ ॥
 एवं कौशिकगोत्रं तु विश्वामित्रैः पृथग्विधम् ।
 प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् ॥ ३७ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे षोडशोऽध्यायः ॥ १६ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥