श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १४ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः १५
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १६ →



ऋचीकजमदग्निपरशुरामचरितं, सहस्रार्जुन वधश्च -

श्रीशुक उवाच ।
 ऐलस्य च उर्वशीगर्भात् षडासन्नात्मजा नृप ।
 आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥ १ ॥
 श्रुतायोर्वसुमान्पुत्रः सत्यायोश्च श्रुतञ्जयः ।
 रयस्य सुत एकश्च जयस्य तनयोऽमितः ॥ २ ॥
 भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः ।
 तस्य जह्नुः सुतो गंगां गण्डूषीकृत्य योऽपिबत् ।
 जह्नोस्तु पूरुस्तस्याथ बलाकश्चात्मजोऽजकः ॥ ३ ॥
 ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः ।
 कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः ॥ ४ ॥
 तस्य सत्यवतीं कन्यां ऋचीकोऽयाचत द्विजः ।
 वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत् ॥ ५ ॥
 एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
 सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् ॥ ६ ॥
 इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम् ।
 आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम् ॥ ७ ॥
 स ऋषिः प्रार्थितः पत्‍न्या श्वश्र्वा चापत्यकाम्यया ।
 श्रपयित्वोभयैर्मन्त्रैः चरुं स्नातुं गतो मुनिः ॥ ८ ॥
 तावत् सत्यवती मात्रा स्वचरुं याचिता सती ।
 श्रेष्ठं मत्वा तयायच्छन् मात्रे मातुरदत् स्वयम् ॥ ९ ॥
 तद् विज्ञाय मुनिः प्राह पत्‍नीं कष्टमकारषीः ।
 घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः ॥ १० ॥
 प्रसादितः सत्यवत्या मैवं भूरिति भार्गवः ।
 अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत् ॥ ११ ॥
 सा चाभूत् सुमहपुण्या कौशिकी लोकपावनी ।
 रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम् ॥ १२ ॥
 तस्यां वै भार्गवऋषेः सुता वसुमदादयः ।
 यवीयान्जज्ञ एतेषां राम इत्यभिविश्रुतः ॥ १३ ॥
 यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् ।
 त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥ १४ ॥
 दुष्टं क्षत्रं भुवो भारं अब्रह्मण्यं अनीनशत् ।
 रजस्तमोवृतमहन् फल्गुन्यपि कृतेंऽहसि ॥ १५ ॥
 श्रीराजोवाच ।
 किं तदंहो भगवतो राजन्यैरजितात्मभिः ।
 कृतं येन कुलं नष्टं क्षत्रियाणां अभीक्ष्णशः ॥ १६ ॥
 श्रीशुक उवाच ।
 हैहयानां अधिपतिः अर्जुनः क्षत्रियर्षभः ।
 दत्तं नारायण अंशांशं आराध्य परिकर्मभिः ॥ १७ ॥
 बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु ।
 अव्याहतेन्द्रियौजः श्री तेजोवीर्ययशोबलम् ॥ १८ ॥
 योगेश्वरत्वं ऐश्वर्यं गुणा यत्राणिमादयः ।
 चचार अव्याहतगतिः लोकेषु पवनो यथा ॥ १९ ॥
 स्त्रीरत्‍नैः आवृतः क्रीडन् रेवाम्भसि मदोत्कटः ।
 वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं भुजैः ॥ २० ॥
 विप्लावितं स्वशिबिरं प्रतिस्रोतःसरिज्जलैः ।
 नामृष्यत् तस्य तद् वीर्यं वीरमानी दशाननः ॥ २१ ॥
 गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः ।
 माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा ॥ २२ ॥
 स एकदा तु मृगयां विचरन् विजने वने ।
 यदृच्छयाऽऽश्रमपदं जमदग्नेरुपाविशत् ॥ २३ ॥
 तस्मै स नरदेवाय मुनिरर्हणमाहरत् ।
 ससैन्यामात्यवाहाय हविष्मत्या तपोधनः ॥ २४ ॥
 स वै रत्‍नं तु तद् दृष्ट्वा आत्मैश्वर्यातिशायनम् ।
 तन्नाद्रियताग्निहोत्र्यां साभिलाषः स हैहयः ॥ २५ ॥
 हविर्धानीं ऋषेर्दर्पान् नरान् हर्तुमचोदयत् ।
 ते च माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात् ॥ २६ ॥
 अथ राजनि निर्याते राम आश्रम आगतः ।
 श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः ॥ २७ ॥
 घोरमादाय परशुं सतूणं चर्म कार्मुकम् ।
 अन्वधावत दुर्धर्षो मृगेन्द्र इव यूथपम् ॥ २८ ॥
 तं आपतन्तं भृगुवर्यमोजसा
     धनुर्धरं बाणपरश्वधायुधम् ।
 ऐणेयचर्माम्बरमर्कधामभिः
     युतं जटाभिर्ददृशे पुरीं विशन् ॥ २९ ॥
 अचोदयद्धस्तिरथाश्वपत्तिभिः
     गदासिबाणर्ष्टिशतघ्निशक्तिभिः ।
 अक्षौहिणीः सप्तदशातिभीषणाः
     ता राम एको भगवानसूदयत् ॥ ३० ॥
 यतो यतोऽसौ प्रहरत्परश्वधो
     मनोऽनिलौजाः परचक्रसूदनः ।
 ततस्ततश्छिन्नभुजोरुकन्धरा
     निपेतुरुर्व्यां हतसूतवाहनाः ॥ ३१ ॥
 दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे
     रणाजिरे रामकुठारसायकैः ।
 विवृक्णचर्मध्वजचापविग्रहं
     निपातितं हैहय आपतद् रुषा ॥ ३२ ॥
 अथार्जुनः पञ्चशतेषु बाहुभिः
     धनुःषु बाणान् युगपत् स सन्दधे ।
 रामाय रामोऽस्त्रभृतां समग्रणीः
     तान्येकधन्वेषुभिराच्छिनत् समम् ॥ ३३ ॥
 पुनः स्वहस्तैरचलान्मृधेङ्‌घ्रिपान्
     उत्क्षिप्य वेगाद् अभिधावतो युधि ।
 भुजान् कुठारेण कठोरनेमिना
     चिच्छेद रामः प्रसभं त्वहेरिव ॥ ३४ ॥
 कृत्तबाहोः शिरस्तस्य गिरेः श्रृङमिवाहरत् ।
 हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ॥ ३५ ॥
 अग्निहोत्रीं उपावर्त्य सवत्सां परवीरहा ।
 समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ॥ ३६ ॥
 स्वकर्म तत्कृतं रामः पित्रे भ्रातृभ्य एव च ।
 वर्णयामास तत् श्रुत्वा जमदग्निरभाषत ॥ ३७ ॥
 राम राम महाबाहो भवान् पापमकारषीत् ।
 अवधीत् नरदेवं यत् सर्वदेवमयं वृथा ॥ ३८ ॥
 वयं हि ब्राह्मणास्तात क्षमयार्हणतां गताः ।
 यया लोकगुरुर्देवः पारमेष्ठ्यमगात् पदम् ॥ ३९ ॥
 क्षमया रोचते लक्ष्मीः ब्राह्मी सौरी यथा प्रभा ।
 क्षमिणामाशु भगवान् तुष्यते हरिरीश्वरः ॥ ४० ॥
 राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद् गुरुः ।
 तीर्थसंसेवया चांहो जह्यङ्‌गाच्युतचेतनः ॥ ४१ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥