श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १३ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः १४
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १५ →



चंद्रवंशवर्णनं, बुधस्य जन्म, तस्मान्मनुपुत्र्यामिलायां जातस्य पुरूरवस उपाख्यानं च -

श्रीशुक उवाच ।
 अथातः श्रूयतां राजन् वंशः सोमस्य पावनः ।
 यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः ॥ १ ॥
 सहस्रशिरसः पुंसो नाभिह्रद सरोरुहात् ।
 जातस्यासीत् सुतो धातुः अत्रिः पितृसमो गुणैः ॥ २ ॥
 तस्य दृग्भ्योऽभवत् पुत्रः सोमोऽमृतमयः किल ।
 विप्रौषध्युडुगणानां ब्रह्मणा कल्पितः पतिः ॥ ३ ॥
 सोऽयजद् राजसूयेन विजित्य भुवनत्रयम् ।
 पत्‍नीं बृहस्पतेर्दर्पात् तारां नामाहरद् बलात् ॥ ४ ॥
 यदा स देवगुरुणा याचितोऽभीक्ष्णशो मदात् ।
 नात्यजत् तत्कृते जज्ञे सुरदानवविग्रहः ॥ ५ ॥
 शुक्रो बृहस्पतेर्द्वेषाद् अग्रहीत् सासुरोडुपम् ।
 हरो गुरुसुतं स्नेहात् सर्वभूतगणावृतः ॥ ६ ॥
 सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् ।
 सुरासुरविनाशोऽभूत् समरस्तारकामयः ॥ ७ ॥
 निवेदितोऽथाङ्‌गिरसा सोमं निर्भर्त्स्य विश्वकृत् ।
 तारां स्वभर्त्रे प्रायच्छद् अन्तर्वत्‍नीमवैत् पतिः ॥ ८ ॥
 त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रात् आहितं परैः ।
 नाहं त्वां भस्मसात्कुर्यां स्त्रियं सान्तानिकः सति ॥ ९ ॥
 तत्याज व्रीडिता तारा कुमारं कनकप्रभम् ।
 स्पृहामाङ्‌गिरसश्चक्रे कुमारे सोम एव च ॥ १० ॥
 ममायं न तवेत्युच्चैः तस्मिन् विवदमानयोः ।
 पप्रच्छुः ऋषयो देवा नैवोचे व्रीडिता तु सा ॥ ११ ॥
 कुमारो मातरं प्राह कुपितोऽलीकलज्जया ।
 किं न वोचस्यसद्‌वृत्ते आत्मावद्यं वदाशु मे ॥ १२ ॥
 ब्रह्मा तां रह आहूय समप्राक्षीच्च सान्त्वयन् ।
 सोमस्येत्याह शनकैः सोमस्तं तावदग्रहीत् ॥ १३ ॥
 तस्यात्मयोनिरकृत बुध इत्यभिधां नृप ।
 बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण्मुदम् ॥ ॥
 ततः पुरूरवा जज्ञे इलायां य उदाहृतः ।
 तस्य रूपगुणौदार्य शीलद्रविणविक्रमान् ॥ १५ ॥
 श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा ।
 तदन्तिकमुपेयाय देवी स्मरशरार्दिता ॥ १६ ॥
 मित्रावरुणयोः शापाद् आपन्ना नरलोकताम् ।
 निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् ।
 धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके ॥ १७ ॥
 स तां विलोक्य नृपतिः हर्षेणोत्फुल्ललोचनः ।
 उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुहः ॥ १८ ॥
 श्रीराजोवाच ।
 स्वागतं ते वरारोहे आस्यतां करवाम किम् ।
 संरमस्व मया साकं रतिर्नौ शाश्वतीः समाः ॥ १९ ॥
 उर्वश्युवाच ।
 कस्यास्त्वयि न सज्जेत मनो दृष्टिश्च सुन्दर ।
 यदङ्‌गान्तरमासाद्य च्यवते ह रिरंसया ॥ २० ॥
 एतौ उरणकौ राजन् न्यासौ रक्षस्व मानद ।
 संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः ॥ २१ ॥
 घृतं मे वीर भक्ष्यं स्यात् नेक्षे त्वान्यत्र मैथुनात् ।
 विवाससं तत् तथेति प्रतिपेदे महामनाः ॥ २२ ॥
 अहो रूपमहो भावो नरलोकविमोहनम् ।
 को न सेवेत मनुजो देवीं त्वां स्वयमागताम् ॥ २३ ॥
 तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हतः ।
 रेमे सुरविहारेषु कामं चैत्ररथादिषु ॥ २४ ॥
 रममाणस्तया देव्या पद्मकिञ्जल्क गन्धया ।
 तन्मुखामोदमुषितो मुमुदेऽहर्गणान् बहून् ॥ २५ ॥
 अपश्यन् उर्वशीं इन्द्रो गन्धर्वान् समचोदयत् ।
 उर्वशीरहितं मह्यं आस्थानं नातिशोभते ॥ २६ ॥
 ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते ।
 उर्वश्या उरणौ जह्रुः न्यस्तौ राजनि जायया ॥ २७ ॥
 निशम्याक्रन्दितं देवी पुत्रयोः नीयमानयोः ।
 हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ॥ २८ ॥
 यद् विश्रम्भादहं नष्टा हृतापत्या च दस्युभिः ।
 यः शेते निशि संत्रस्तो यथा नारी दिवा पुमान् ॥ २९ ॥
 इति वाक् सायकैर्बिद्धः प्रतोत्त्रैरिव कुञ्जरः ।
 निशि निस्त्रिंशमादाय विवस्त्रोऽभ्यद्रवद् रुषा ॥ ३० ॥
 ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः ।
 आदाय मेषावायान्तं नग्नमैक्षत सा पतिम् ॥ ३१ ॥
 ऐलोऽपि शयने जायां अपश्यन् विमना इव ।
 तच्चित्तो विह्वलः शोचन् बभ्रामोन्मत्तवन् महीम् ॥ ३२ ॥
 स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखीः ।
 पञ्च प्रहृष्टवदनाः प्राह सूक्तं पुरूरवाः ॥ ३३ ॥
 अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि ।
 मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै ॥ ३४ ॥
 सुदेहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया ।
 खादन्त्येनं वृका गृध्राः त्वत्प्रसादस्य नास्पदम् ॥ ३५ ॥
 उर्वश्युवाच ।
 मा मृथाः पुरुषोऽसि त्वं मा स्म त्वाद्युर्वृका इमे ।
 क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥ ३६ ॥
 स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः ।
 घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत ॥ ३७ ॥
 विधायालीकविश्रम्भं अज्ञेषु त्यक्तसौहृदाः ।
 नवं नवमभीप्सन्त्यः पुंश्चल्यः स्वैरवृत्तयः ॥ ३८ ॥
 संवत्सरान्ते हि भवान् एकरात्रं मयेश्वरः ।
 वस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भोः ॥ ३९ ॥
 अन्तर्वत्‍नीमुपालक्ष्य देवीं स प्रययौ पुरीम् ।
 पुनस्तत्र गतोऽब्दान्ते उर्वशीं वीरमातरम् ॥ ४० ॥
 उपलभ्य मुदा युक्तः समुवास तया निशाम् ।
 अथैनमुर्वशी प्राह कृपणं विरहातुरम् ॥ ४१ ॥
 गन्धर्वान् उपधावेमान् तुभ्यं दास्यन्ति मामिति ।
 तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप ।
 उर्वशीं मन्यमानस्तां सोऽबुध्यत चरन् वने ॥ ४२ ॥
 स्थालीं न्यस्य वने गत्वा गृहानाध्यायतो निशि ।
 त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ॥ ४३ ॥
 स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य सः ।
 तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ॥ ४४ ॥
 उर्वशीं मन्त्रतो ध्यायन् अधरारणिमुत्तराम् ।
 आत्मानं उभयोर्मध्ये यत्तत् प्रजननं प्रभुः ॥ ४५ ॥
 तस्य निर्मन्थनात् जातो जातवेदा विभावसुः ।
 त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् ॥ ४६ ॥
 तेनायजत यज्ञेशं भगवन्तं अधोक्षजम् ।
 उर्वशीलोकमन्विच्छन् सर्वदेवमयं हरिम् ॥ ४७ ॥
 एक एव पुरा वेदः प्रणवः सर्ववाङ्‌मयः ।
 देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च ॥ ४८ ॥
 पुरूरवस एवासीत् त्वयी त्रेतामुखे नृप ।
 अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् ॥ ४९ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥