श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः १२ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →



निमिवंशवर्णनं - निमेर्देहत्यागो विदेहवंशश्च -

श्रीशुक उवाच ।
 निमिरिक्ष्वाकुतनयो वसिष्ठं अवृतर्त्विजम् ।
 आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भोः ॥ १ ॥
 तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय ।
 तूष्णीं आसीद् गृहपतिः सोऽपीन्द्रस्याकरोन् मखम् ॥ २ ॥
 निमिश्चलमिदं विद्वान् सत्रमारभतामात्मवान् ।
 ऋत्विग्भिः अपरैस्तावत् नागमद्यावता गुरुः ॥ ३ ॥
 शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्य गुरुरागतः ।
 अशपत् पतताद् देहो निमेः पण्डितमानिनः ॥ ४ ॥
 निमिः प्रतिददौ शापं गुरवेऽधर्मवर्तिने ।
 तवापि पतताद् देहो लोभाद् धर्ममजानतः ॥ ५ ॥
 इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः ।
 मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः ॥ ६ ॥
 गन्धवस्तुषु तद् देहं निधाय मुनिसत्तमाः ।
 समाप्ते सत्रयागेऽथ देवान् ऊचुः समागतान् ॥ ७ ॥
 राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि ।
 तथेत्युक्ते निमिः प्राह मा भून्मे देहबन्धनम् ॥ ८ ॥
 यस्य योगं न वाञ्छन्ति वियोगभयकातराः ।
 भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥ ९ ॥
 देहं नावरुरुत्सेऽहं दुःखशोकभयावहम् ।
 सर्वत्रास्य यतो मृत्युं मत्स्यानां उदके यथा ॥ १० ॥
 देवा ऊचुः ।
 विदेह उष्यतां कामं लोचनेषु शरीरिणाम् ।
 उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः ॥ ११ ॥
 अराजकभयं नॄणां मन्यमाना महर्षयः ।
 देहं ममन्थुः स्म निमेः कुमारः समजायत ॥ १२ ॥
 जन्मना जनकः सोऽभूद् वैदेहस्तु विदेहजः ।
 मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥ ॥
 तस्माद् उदावसुस्तस्य पुत्रोऽभूत् नन्दिवर्धनः ।
 ततः सुकेतुस्तस्यापि देवरातो महीपते ॥ १४ ॥
 तस्माद् बृहद्रथस्तस्य महावीर्यः सुधृत्पिता ।
 सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः ॥ १५ ॥
 मरोः प्रतीपकस्तस्मात् जातः कृतरथो यतः ।
 देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृतिः ॥ १६ ॥
 कृतिरातः ततस्तस्मात् महारोमा च तत्सुतः ।
 स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ १७ ॥
 ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् ।
 सीता शीराग्रतो जाता तस्मात् सीरध्वजः स्मृतः ॥ १८ ॥
 कुशध्वजस्तस्य पुत्रः ततो धर्मध्वजो नृपः ।
 धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ १९ ॥
 कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् ।
 कृतध्वजसुतो राजन् आत्मविद्याविशारदः ॥ २० ॥
 खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद् द्रुतः ।
 भानुमांस्तस्य पुत्रोऽभूत् शतद्युम्नस्तु तत्सुतः ॥ २१ ॥
 शुचिस्तु तनयस्तस्मात् सनद्वाजः सुतोऽभवत् ।
 ऊर्जकेतुः सनद्वाजाद् अजोऽथ पुरुजित्सुतः ॥ २२ ॥
 अरिष्टनेमिस्तस्यापि श्रुतायुः तत्सुपार्श्वकः ।
 ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः ॥ २३ ॥
 तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः ।
 आसीद् उपगुरुस्तस्माद् उपगुप्तोऽग्निसंभवः ॥ २४ ॥
 वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषणः ।
 श्रुतस्ततो जयस्तस्माद् विजयोऽस्मादृतः सुतः ॥ २५ ॥
 शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः ।
 बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ २६ ॥
 एते वै मैथिला राजन् आत्मविद्याविशारदाः ।
 योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि ॥ २७ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥