श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →



श्रीरामचरितम् -


श्रीशुक उवाच ।
 खट्वांगात दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः ।
 अजस्ततो महाराजः तस्मात् दशरथोऽभवत् ॥ १ ॥
 तस्यापि भगवान् एष साक्षाद् ब्रह्ममयो हरिः ।
 अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः ।
 रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया ॥ २ ॥
 तस्यानुचरितं राजन् ऋषिभिः तत्त्वदर्शिभिः ।
 श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः ॥ ३ ॥
 गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं
     पद्मपद्‍भ्यां प्रियायाः ।
 पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो
     यो हरीन्द्रानुजाभ्याम् ।
 वैरूप्यात् शूर्पणख्याः प्रियविरहरुषाऽऽ
     रोपितभ्रूविजृम्भ ।
 त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः
     कोसलेन्द्रोऽवतान्नः ॥ ४ ॥
 विश्वामित्राध्वरे येन मारीचाद्या निशाचराः ।
 पश्यतो लक्ष्मणस्यैव हता नैर्‌ऋतपुंगवाः ॥ ५ ॥
 यो लोकवीरसमितौ धनुरैशमुग्रं
     सीतास्वयंवरगृहे त्रिशतोपनीतम् ॥
 आदाय बालगजलील इवेक्षुयष्टिं
     सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥
 जित्वानुरूपगुणशीलवयोऽङ्‌गरूपां ।
     सीताभिधां श्रियमुरस्यभिलब्धमानाम् ॥
 मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं ।
     दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ ७ ॥
 यः सत्यपाशपरिवीतपितुर्निदेशं ।
     स्त्रैणस्य चापि शिरसा जगृहे सभार्यः ॥
 राज्यं श्रियं प्रणयिनः सुहृदो निवासं ।
     त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्‌गः ॥ ८ ॥
 रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेः ।
     तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ॥
 जघ्ने चतुर्दशसहस्रमपारणीय ।
     कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९ ॥
 सीताकथाश्रवणदीपितहृच्छयेन ।
     सृष्टं विलोक्य नृपते दशकन्धरेण ॥
 जघ्नेऽद्‍भुतैण वपुषाऽऽश्रमतोऽपकृष्टो ।
     मारीचमाशु विशिखेन यथा कमुग्रः ॥ १० ॥
 रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं ।
     वैदेहराजदुहितर्यपयापितायाम् ॥
 भ्रात्रा वने कृपणवत्प्रियया वियुक्तः ।
     स्त्रीसङ्‌गिनां गतिमिति प्रथयंश्चचार ॥ ११ ॥
 दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन् कबन्धं ।
     सख्यं विधाय कपिभिर्दयितागतिं तैः ॥
 बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यैः ।
     वेलामगात् स मनुजोऽजभवार्चिताङ्‌घ्रि ॥ १२ ॥
 यद्रोषविभ्रमविवृत्तकटाक्षपात ।
     सम्भ्रान्तनक्रमकरो भयगीर्णघोषः ॥
 सिन्धुः शिरस्यर्हणं परिगृह्य रूपी ।
     पादारविन्दमुपगम्य बभाष एतत् ॥ १३ ॥
 न त्वां वयं जडधियो नु विदाम भूमन् ।
     कूटस्थमादिपुरुषं जगतामधीशम् ॥
 यत्सत्त्वतः सुरगणा रजसः प्रजेशा ।
     मन्योश्च भूतपतयः स भवान्गुणेशः ॥ १४ ॥
 कामं प्रयाहि जहि विश्रवसोऽवमेहं ।
     त्रैलोक्य रावणमवाप्नुहि वीर पत्‍नीम् ॥
 बध्नीहि सेतुमिह ते यशसो वितत्यै ।
     गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥ १५ ॥
 बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः ।
     सेतुं कपीन्द्रकरकम्पितभूरुहाङ्‌गैः ॥
 सुग्रीवनीलहनुमत् प्रमुखैरनीकैः ।
     लङ्‌कां विभीषणदृशाविशदग्रदग्धाम् ॥ १६ ॥
 सा वानरेन्द्रबलरुद्धविहारकोष्ठ ।
     श्रीद्वारगोपुरसदोवलभीविटङ्‌का ॥
 निर्भज्यमानधिषणध्वजहेमकुम्भ ।
     श्रृङ्‌गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ १७ ॥
 रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ ।
     धूम्राक्ष दुर्मुख सुरान्तनरान्तकादीन् ॥
 पुत्रं प्रहस्त मतिकाय विकम्पनादीन् ।
     सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ १८ ॥
 तां यातुधानपृतनामसिशूलचाप ।
     प्रासर्ष्टिशक्तिशरतोमर खड्गदुर्गाम् ॥
 सुग्रीवलक्ष्मण मरुत्सुतगन्धमाद ।
     नीलाङ्‌गदर्क्षपनसादिभिः अन्वितोऽगात् ॥ १९ ॥
 तेऽनीकपा रघुपतेरभिपत्य सर्वे ।
     द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः ॥
 जघ्नुर्द्रुमैः गिरिगदेषुभिरङ्‌गदाद्याः ।
     सीताभिमर्षहतमङ्‌गल रावणेशान् ॥ २० ॥
 रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट ।
     आरुह्य यानकमथाभिससार रामम् ॥
 स्वःस्यन्दने द्युमति मातलिनोपनीते ।
     विभ्राजमानमहनन्निशितैः क्षुरप्रैः ॥ २१ ॥
 रामस्तमाह पुरुषादपुरीष यन्नः ।
     कान्तासमक्षमसतापहृता श्ववत् ते ॥
 त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य ।
     यच्छामि काल इव कर्तुरलंघ्यवीर्यः ॥ २२ ॥
 एवं क्षिपन्धनुषि संधितमुत्ससर्ज ।
     बाणं स वज्रमिव तद्‌हृदयं बिभेद ॥
 सोऽसृग् वमन् दशमुखैर्न्यपतद् विमानाद् ।
     हाहेति जल्पति जने सुकृतीव रिक्तः ॥ २३ ॥
(अनुष्टुप्)
ततो निष्क्रम्य लंकाया यातुधान्यः सहस्रशः ।
 मन्दोदर्या समं तस्मिन् प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥
 स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् ।
 रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ २५ ॥
 हा हताः स्म वयं नाथ लोकरावण रावण ।
 कं यायाच्छरणं लंका त्वद्विहीना परार्दिता ॥ २६ ॥
 न वै वेद महाभाग भवान् कामवशं गतः ।
 तेजोऽनुभावं सीताया येन नीतो दशामिमाम् ॥ २७ ॥
 कृतैषा विधवा लंका वयं च कुलनन्दन ।
 देहः कृतोऽन्नं गृध्राणां आत्मा नरकहेतवे ॥ २८ ॥
 श्रीशुक उवाच ।
 स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः ।
 पितृमेधविधानेन यदुक्तं सांपरायिकम् ॥ २९ ॥
 ततो ददर्श भगवान् अशोकवनिकाश्रमे ।
 क्षामां स्वविरहव्याधिं शिंशपामूलमास्थिताम् ॥ ३० ॥
 रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकंपत ।
 आत्मसंदर्शनाह्लाद विकसन् मुखपंकजाम् ॥ ३१ ॥
 आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः ।
 विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् ॥ ३२ ॥
 लंकामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् ।
 अवकीर्यमाणः कुसुमैः लोकपालार्पितैः पथि ॥ ३३ ॥
 उपगीयमानचरितः शतधृत्यादिभिर्मुदा ।
 गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ॥ ३४ ॥
 महाकारुणिकोऽतप्यत् जटिलं स्थण्डिलेशयम् ।
 भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः ॥ ३५ ॥
 पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् ।
 नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनिःस्वनैः ॥ ३६ ॥
 ब्रह्मघोषेण च मुहुः पठद्‌भिः ब्रह्मवादिभिः ।
 स्वर्णकक्षपताकाभिः हैमैश्चित्रध्वजै रथैः ॥ ३७ ॥
 सदश्वै रुक्मसन्नाहैः भटैः पुरटवर्मभिः ।
 श्रेणीभिर्वारमुख्याभिः भृत्यैश्चैव पदानुगैः ॥ ३८ ॥
 पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च ।
 पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः ॥ ३९ ॥
 पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः ।
 तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः ॥ ४० ॥
 रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमाः ।
 तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः ॥ ४१ ॥
 धुन्वन्त उत्तरासङ्‌गान् पतिं वीक्ष्य चिरागतम् ।
 उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा ॥ ४२ ॥
 पादुके भरतोऽगृह्णात् चामरव्यजनोत्तमे ।
 विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः ॥ ४३ ॥
 धनुर्निषङ्‌गान् शत्रुघ्नः सीता तीर्थकमण्डलुम् ।
 अबिभ्रदङ्‌गदः खड्गं हैमं चर्मर्क्षराण् नृप ॥ ४४ ॥
 पुष्पकस्थोऽन्वितः स्त्रीभिः स्तूयमानश्च वन्दिभिः ।
 विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः ॥ ४५ ॥
 भ्रात्राभिर्नन्दितः सोऽपि सोत्सवां प्राविशत् पुरीम् ।
 प्रविश्य राजभवनं गुरुपत्‍नीः स्वमातरम् ॥ ४६ ॥
 गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् ।
 वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः ॥ ४७ ॥
 पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः ।
 आरोप्याङ्‌केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः ॥ ४८ ॥
 जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः ।
 अभ्यषिञ्चद् यथैवेन्द्रं चतुःसिन्धुजलादिभिः ॥ ४९ ॥
 एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलंकृतः ।
 स्वलंकृतैः सुवासोभिः भ्रातृभिर्भार्यया बभौ ॥ ५० ॥
 अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः ।
 प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः ।
 जुगोप पितृवद् रामो मेनिरे पितरं च तम् ॥ ५१ ॥
 त्रेतायां वर्तमानायां कालः कृतसमोऽभवत् ।
 रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥ ५२ ॥
 वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः ।
 सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥ ५३ ॥
 नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः ।
 मृत्युश्च अनिच्छतां नासीद् रामे राजन्यधोक्षजे ॥ ५४ ॥
 एकपत्‍नीव्रतधरो राजर्षिचरितः शुचिः ।
 स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥ ५५ ॥
 प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।
 भिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः ॥ ५६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे दशमोऽध्यायः ॥ १० ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥