श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →



श्रीरामचरितम्

श्रीशुक उवाच ।
 भगवान् आत्मनात्मानं राम उत्तमकल्पकैः ।
 सर्वदेवमयं देवं ईजे आचार्यवान् मखैः ॥ १ ॥
 होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः ।
 अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः ॥ २ ॥
 आचार्याय ददौ शेषां यावती भूस्तदन्तरा ।
 मन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति निःस्पृहः ॥ ३ ॥
 इत्ययं तदलङ्‌कार वासोभ्यामवशेषितः ।
 तथा राज्ञ्यपि वैदेही सौमङ्‌गल्या अवशेषिता ॥ ४ ॥
 ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् ।
 प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे ॥ ५ ॥
 अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर ।
 यन्नोऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा ॥ ६ ॥
 नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे ।
 उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्‌घ्र्यये ॥ ७ ॥
 कदाचित् लोकजिज्ञासुः गूढो रात्र्यामलक्षितः ।
 चरन् वाचोऽश्रृणोद् रामो भार्यां उद्दिश्य कस्यचित् ॥ ८ ॥
 नाहं बिभर्मि त्वां दुष्टां असतीं परवेश्मगाम् ।
 स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः ॥ ९ ॥
 इति लोकाद् बहुमुखाद् दुराराध्यादसंविदः ।
 पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥ १० ॥
 अन्तर्वत्‍न्यागते काले यमौ सा सुषुवे सुतौ ।
 कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः ॥ ॥
 अङ्‌गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।
 तक्षः पुष्कल इत्यास्तां भरतस्य महीपते ॥ १२ ॥
 सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः ।
 गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥ १३ ॥
 तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् ।
 शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् ।
 हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥ १४ ॥
 मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।
 ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ १५ ॥
 तर् श्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः ।
 स्मरंस्तस्या गुणान् तान् तान् नाशक्नोत् रोद्धुमीश्वरः ॥ १६ ॥
 स्त्रीपुंप्रसङ्‌ग एतादृक् सर्वत्र त्रासमावहः ।
 अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः ॥ १७ ॥
 तत ऊर्ध्वं ब्रह्मचर्यं धारयन् अजुहोत् प्रभुः ।
 त्रयोदशाब्दसाहस्रं अग्निहोत्रं अखण्डितम् ॥ १८ ॥
 स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः ।
 स्वपादपल्लवं राम आत्मज्योतिरगात् ततः ॥ १९ ॥
 नेदं यशो रघुपतेः सुरयाच्ञयात्त ।
     लीलातनोरधिकसाम्यविमुक्तधाम्नः ॥
 रक्षोवधो जलधिबन्धनमस्त्र पूगैः ।
     किं तस्य शत्रुहनने कपयः सहायाः ॥ २० ॥
 यस्यामलं नृपसस्सु यशोऽधुनापि ।
     गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् ॥
 तं नाकपालवसुपालकिरीटजुष्ट ।
     पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ २१ ॥
 स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा ।
 कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥ २२ ॥
 पुरुषो रामचरितं श्रवणैरुपधारयन् ।
 आनृशंस्यपरो राजन् कर्मबन्धैः विमुच्यते ॥ २३ ॥
 श्रीराजोवाच ।
 कथं स भगवान् रामो भ्रातॄन् वा स्वयमात्मनः ।
 तस्मिन् वा तेऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे ॥ २४ ॥
 श्रीशुक उवाच ।
 अथादिशद् दिग्विजये भ्रातॄन् त्रिभुवनेश्वरः ।
 आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुगः ॥ २५ ॥
 आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः ।
 स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव ॥ २६ ॥
 प्रासादगोपुरसभा चैत्यदेवगृहादिषु ।
 विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम् ॥ २७ ॥
 पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् ।
 आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम् ॥ २८ ॥
 तं उपेयुस्तत्र तत्र पौरा अर्हणपाणयः ।
 आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्‌धृताम् ॥ २९ ॥
 ततः प्रजा वीक्ष्य पतिं चिरागतं
     दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः ।
 आरुह्य हर्म्याण्यरविन्दलोचनं
     अतृप्तनेत्राः कुसुमैरवाकिरन् ॥ ३० ॥
 अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः ।
 अनन्ताखिलकोषाढ्यं मनर्घ्योरुपरिच्छदम् ॥ ३१ ॥
 विद्रुमोदुम्बरद्वारैः वैदूर्य स्तंभपङ्‌क्तिभिः ।
 स्थलैर्मारकतैः स्वच्छैः भाजत्स्फटिकभित्तिभिः ॥ ३२ ॥
 चित्रस्रग्भिः पट्टिकाभिः वासोमणिगणांशुकैः ।
 मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः ॥ ३३ ॥
 धूपदीपैः सुरभिभिः मण्डितं पुष्पमण्डनैः ।
 स्त्रीपुम्भिः सुरसङ्‌काशैः जुष्टं भूषणभूषणैः ॥ ३४ ॥
 तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया ।
 रेमे स्वारामधीराणां ऋषभः सीतया किल ॥ ३५ ॥
 बुभुजे च यथाकालं कामान् धर्ममपीडयन् ।
 वर्षपूगान् बहून् नृणां अभिध्यातांघ्रिपल्लवः ॥ ३६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे एकादशोऽध्यायः ॥ ११ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥