श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः ९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ८ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →



गंगावतरणकथा, भगीरथवृत्तं सौदासचरितं च -

श्रीशुक उवाच ।
 अंशुमांश्च तपस्तेपे गंगानयनकाम्यया ।
 कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः ॥ १ ॥
 दिलीपस्तत्सुतस्तद्वद् अशक्तः कालमेयिवान् ।
 भगीरथस्तस्य पुत्रः तेपे स सुमहत् तपः ॥ २ ॥
 दर्शयामास तं देवी प्रसन्ना वरदास्मि ते ।
 इत्युक्तः स्वं अभिप्रायं शशंसावनतो नृपः ॥ ३ ॥
 कोऽपि धारयिता वेगं पतन्त्या मे महीतले ।
 अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् ॥ ४ ॥
 किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् ।
 मृजामि तदघं क्वाहं राजन् तत्र विचिन्त्यताम् ॥ ५ ॥
 श्रीभगीरथ उवाच ।
 साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः ।
 हरन्ति अघं ते अंगसंगात् तेष्वास्ते ह्यघभित् हरिः ॥ ६ ॥
 धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् ।
 यस्मिन् ओतं इदं प्रोतं विश्वं शाटीव तन्तुषु ॥ ७ ॥
 इत्युक्त्वा स नृपो देवं तपसा तोषयच्छिवम् ।
 कालेनाल्पीयसा राजन् तस्येशः समतुष्यत ॥ ८ ॥
 तथेति राज्ञाभिहितं सर्वलोकहितः शिवः ।
 दधारावहितो गंगां पादपूतजलां हरेः ॥ ९ ॥
 भगीरथः स राजर्षिः निन्ये भुवनपावनीम् ।
 यत्र स्वपितॄणां देहा भस्मीभूताः स्म शेरते ॥ १० ॥
 रथेन वायुवेगेन प्रयान्तं अनुधावती ।
 देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगरात्मजान् ॥ ११ ॥
 यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि ।
 सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः ॥ १२ ॥
 भस्मीभूतांगसंगेन स्वर्याताः सगरात्मजाः ।
 किं पुनः श्रद्धया देवीं सेवन्ते ये धृतव्रताः ॥ १३ ॥
 न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् ।
 अनन्तचरणाम्भोज प्रसूताया भवच्छिदः ॥ १४ ॥
 सन्निवेश्य मनो यस्मिन् श्रद्धया मुनयोऽमलाः ।
 त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् ॥ १५ ॥
 श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत् ।
 सिन्धुद्वीपः ततस्तस्मात् अयुतायुः ततोऽभवत् ॥ १६ ॥
 ऋतूपर्णो नलसखो योऽश्वविद्यामयान्नलात् ।
 दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम् ॥ १७ ॥
 ततः सुदासः तत्पुत्रो मदयन्तीपतिर्नृपः ।
 आहुर्मित्रसहं यं वै कल्माषाङ्‌घ्रिमुत क्वचित् ।
 वसिष्ठशापाद्रक्षोऽभूत् अनपत्यः स्वकर्मणा ॥ १८ ॥
 श्रीराजोवाच ।
 किं निमित्तो गुरोः शापः सौदासस्य महात्मनः ।
 एतद् वेदितुमिच्छामः कथ्यतां न रहो यदि ॥ १९ ॥
 श्रीशुक उवाच ।
 सौदासो मृगयां किञ्चित् चरन् रक्षो जघान ह ।
 मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया ॥ २० ॥
 सञ्चिन्तयन् अघं राज्ञः सूदरूपधरो गृहे ।
 गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् ॥ २१ ॥
 परिवेक्ष्यमाणं भगवान् विलोक्य अभक्ष्यमञ्जसा ।
 राजानं अशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि ॥ २२ ॥
 रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम् ।
 सोऽपि अपोऽञ्जलिनादाय गुरुं शप्तुं समुद्यतः ॥ २३ ॥
 वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ ।
 दिशः खमवनीं सर्वं पश्यन् जीवमयं नृपः ॥ २४ ॥
 राक्षसं भावमापन्नः पादे कल्माषतां गतः ।
 व्यवायकाले ददृशे वनौकोदम्पती द्विजौ ॥ २५ ॥
 क्षुधार्तो जगृहे विप्रं तत्पत्‍न्याहाकृतार्थवत् ।
 न भवान् राक्षसः साक्षात् इक्ष्वाकूणां महारथः ॥ २६ ॥
 मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि ।
 देहि मेऽपत्यकामाया अकृतार्थं पतिं द्विजम् ॥ २७ ॥
 देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थदः ।
 तस्मादस्य वधो वीर सर्वार्थवध उच्यते ॥ २८ ॥
 एष हि ब्राह्मणो विद्वान् तपःशीलगुणान्वितः ।
 आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् ।
 सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः ॥ २९ ॥
 सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद् विभो ।
 कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः ॥ ३० ॥
 तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः ।
 कथं वधं यथा बभ्रोः मन्यते सन्मतो भवान् ॥ ३१ ॥
 यइ अयं क्रियते भक्षः तर्हि मां खाद पूर्वतः ।
 न जीविष्ये विना येन क्षणं च मृतकं यथा ॥ ३२ ॥
 एवं करुणभाषिण्या विलपन्त्या अनाथवत् ।
 व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः ॥ ३३ ॥
 ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् ।
 शोचन्ति आत्मानमुर्वीशं अशपत् कुपिता सती ॥ ३४ ॥
 यस्मान्मे भक्षितः पाप कामार्तायाः पतिस्त्वया ।
 तवापि मृत्युः आधानाद् अकृतप्रज्ञ दर्शितः ॥ ३५ ॥
 एवं मित्रसहं शप्त्वा पतिलोकपरायणा ।
 तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गता ॥ ३६ ॥
 विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः ।
 विज्ञाय ब्राह्मणीशापं महिष्या स निवारितः ॥ ३७ ॥
 अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः ।
 वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् ॥ ३८ ॥
 सा वै सप्त समा गर्भं अबिभ्रन्न व्यजायत ।
 जघ्नेऽश्मनोदरं तस्याः सोऽश्मकस्तेन कथ्यते ॥ ३९ ॥
 अश्मकान् मूलको जज्ञे यः स्त्रीभिः परिरक्षितः ।
 नारीकवच इत्युक्तो निःक्षत्रे मूलकोऽभवत् ॥ ४० ॥
 ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः ।
 राजा विश्वसहो यस्य खट्वांगश्चक्रवर्त्यभूत् ॥ ४१ ॥
 यो देवैरर्थितो दैत्यान् अवधीद् युधि दुर्जयः ।
 मुहूर्तं आयुः ज्ञात्वैत्य स्वपुरं सन्दधे मनः ॥ ४२ ॥
 न मे ब्रह्मकुलात् प्राणाः कुलदैवान्न चात्मजाः ।
 न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः ॥ ४३ ॥
 न बाल्येऽपि मतिर्मह्यं अधर्मे रमते क्वचित् ।
 नापश्यं उत्तमश्लोकात् अन्यत् किञ्चन वस्त्वहम् ॥ ४४ ॥
 देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः ।
 न वृणे तमहं कामं भूतभावनभावनः ॥ ४५ ॥
 ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् ।
 न विन्दन्ति प्रियं शश्वद् आत्मानं किमुतापरे ॥ ४६ ॥
 अथेशमायारचितेषु संगं
     गुणेषु गन्धर्वपुरोपमेषु ।
 रूढं प्रकृत्यात्मनि विश्वकर्तुः
     भावेन हित्वा तमहं प्रपद्ये ॥ ४७ ॥
 इति व्यवसितो बुद्ध्या नारायणगृहीतया ।
 हित्वान्यभावमज्ञानं ततः स्वं भावमास्थितः ॥ ४८ ॥
 यत्तद्‍ब्रह्म परं सूक्ष्मं अशून्यं शून्यकल्पितम् ।
 भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः ॥ ४९ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे नवमोऽध्यायः ॥ ९ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥