श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३६

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३५ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३६
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३७ →



अरिष्टासुरवधः, कंसस्य अक्रूरं प्रति नन्दगोकुल गमनायादेशश्च -

श्री शुक उवाच -
( अनुष्टुप् )
अथ तर्ह्यागतो गोष्ठं अरिष्टो वृषभासुरः ।
 महीं महाककुत्कायः कम्पयन् खुरविक्षताम् ॥ १ ॥
 रम्भमाणः खरतरं पदा च विलिखन् महीम् ।
 उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् ॥ २ ॥
 किञ्चित्किञ्चित् शकृन् मुञ्चन् मूत्रयन् स्तब्धलोचनः ।
 यस्य निर्ह्रादितेनाङ्‌ग निष्ठुरेण गवां नृणाम् ॥ ३ ॥
 पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै ।
 निर्विशन्ति घना यस्य ककुद्यचलशङ्‌कया ॥ ४ ॥
 तं तीक्ष्णशृङ्‌गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः ।
 पशवो दुद्रुवुर्भीता राजन् संत्यज्य गोकुलम् ॥ ५ ॥
 कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः ।
 भगवानपि तद्वीक्ष्य गोकुलं भयविद्रुतम् ॥ ६ ॥
 मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् ।
 गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम ॥ ७ ॥
 बलदर्पहाहं दुष्टानां त्वद्विधानां दुरात्मनाम् ।
 इत्यास्फोट्याच्युतोऽरिष्टं तलशब्देन कोपयन् ॥ ८ ॥
 सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः ।
 सोऽप्येवं कोपितोऽरिष्टः खुरेणावनिमुल्लिखन् ।
 उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत् ॥ ९ ॥
 अग्रन्यस्तविषाणाग्रः स्तब्धासृग् लोचनोऽच्युतम् ।
 कटाक्षिप्याद्रवत् तूर्ण् इन्द्रमुक्तोऽशनिर्यथा ॥ १० ॥
 गृहीत्वा शृङ्‌गयोस्तं वा अष्टादश पदानि सः ।
 प्रत्यपोवाह भगवान् गजः प्रतिगजं यथा ॥ ११ ॥
 सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम् ।
 आपतत् स्विन्नसर्वाङ्‌गो निःश्वसन् क्रोधमूर्च्छितः ॥ १२ ॥
( मिश्र )
तं आपतन्तं स निगृह्य शृङ्‌गयोः
     पदा समाक्रम्य निपात्य भूतले ।
 निष्पीडयामास यथाऽऽर्द्रमम्बरं
     कृत्वा विषाणेन जघान सोऽपतत् ॥ १३ ॥
 असृग् वमन् मूत्रशकृत् समुत्सृजन्
     क्षिपंश्च पादाननवस्थितेक्षणः ।
 जगाम कृच्छ्रं निर्‌ऋतेरथ क्षयं
     पुष्पैः किरन्तो हरिमीडिरे सुराः ॥ १४ ॥
( अनुष्टुप् )
एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः ।
 विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ १५ ॥
 अरिष्टे निहते दैत्ये कृष्णेनाद्‍भुतकर्मणा ।
 कंसायाथाह भगवान् नारदो देवदर्शनः ॥ १६ ॥
 यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च ।
 रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता ॥ १७ ॥
 न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः ।
 निशम्य तद्‍भोजपतिः कोपात् प्रचलितेन्द्रियः ॥ १८ ॥
 निशातमसिमादत्त वसुदेवजिघांसया
 निवारितो नारदेन तत्सुतौ मृत्युमात्मनः ॥ १९ ॥
 ज्ञात्वा लोहमयैः पाशैः बबन्ध सह भार्यया ।
 प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् ॥ २० ॥
 प्रेषयामास हन्येतां भवता रामकेशवौ ।
 ततो मुष्टिकचाणूर शलतोशलकादिकान् ॥ २१ ॥
 अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् ।
 भो भो निशम्यतामेतद् वीरचाणूरमुष्टिकौ ॥ २२ ॥
 नन्दव्रजे किलासाते सुतावानकदुन्दुभेः ।
 रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः ॥ २३ ॥
 भवद्‍भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया ।
 मञ्चाः क्रियन्तां विविधा मल्लरङ्‌गपरिश्रिताः ।
 पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् ॥ २४ ॥
 महामात्र त्वया भद्र रङ्‌गद्वार्युपनीयताम् ।
 द्विपः कुवलयापीडो जहि तेन ममाहितौ ॥ २५ ॥
 आरभ्यतां धनुर्यागः चतुर्दश्यां यथाविधि ।
 विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे ॥ २६ ॥
 इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्‌गवम् ।
 गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह ॥ २७ ॥
 भो भो दानपते मह्यं क्रियतां मैत्रमादृतः ।
 नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ २८ ॥
 अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् ।
 यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभुः ॥ २९ ॥
 गच्छ नन्दव्रजं तत्र सुतौ आवानकदुन्दुभेः ।
 आसाते तौ इहानेन रथेनानय मा चिरम् ॥ ३० ॥
 निसृष्टः किल मे मृत्युः देवैर्वैकुण्ठसंश्रयैः ।
 तावानय समं गोपैः नन्दाद्यैः साभ्युपायनैः ॥ ३१ ॥
 घातयिष्य इहानीतौ कालकल्पेन हस्तिना ।
 यदि मुक्तौ ततो मल्लैः घातये वैद्युतोपमैः ॥ ३२ ॥
 तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् ।
 तद्‍बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ ३३ ॥
 उग्रसेनं च पितरं स्थविरं राज्यकामुकम् ।
 तद्‍भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ ३४ ॥
 ततश्चैषा मही मित्र भवित्री नष्टकण्टका ।
 जरासन्धो मम गुरुः द्विविदो दयितः सखा ॥ ३५ ॥
 शम्बरो नरको बाणो मय्येव कृतसौहृदाः ।
 तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ ३६ ॥
 एतज्ज्ञात्वाऽनय क्षिप्रं रामकृष्णाविहार्भकौ ।
 धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ ३७ ॥
 श्रीअक्रूर उवाच -
राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् ।
 सिद्ध्यसिद्ध्योः समं कुर्याद् दैवं हि फलसाधनम् ॥ ३८ ॥
 मनोरथान् करोत्युच्चैः जनो दैवहतानपि ।
 युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते ॥ ३९ ॥
 श्रीशुक उवाच -
एवमादिश्य चाक्रूरं मन्त्रिणश्च विषृज्य सः ।
 प्रविवेश गृहं कंसः तथाक्रूरः स्वमालयम् ॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरसंप्रेषणं नाम षट्‌त्रिंशोऽध्यायः ॥ ३६ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥