श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३५

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३४ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३५
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३६ →



युग्मगीतं; गोचारणाय वनं गतस्य भगवतो गोपीजनकृतं गुणगानम् -

श्रीशुक उवाच -
( अनुष्टुप् )
गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः ।
 कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् ॥ १ ॥
 श्रीगोप्य ऊचुः -
( स्वागता )
वामबाहुकृतवामकपोलो
     वल्गितभ्रुरधरार्पितवेणुम् ।
 कोमलाङ्‌गुलिभिराश्रितमार्गं
     गोप्य ईरयति यत्र मुकुन्दः ॥ २ ॥
 व्योमयानवनिताः सह सिद्धैः
     विस्मितास्तदुपधार्य सलज्जाः ।
 काममार्गणसमर्पितचित्ताः
     कश्मलं ययुरपस्मृतनीव्यः ॥ ३ ॥
 हन्त चित्रमबलाः श्रृणुतेदं
     हारहास उरसि स्थिरविद्युत् ।
 नन्दसूनुरयमार्तजनानां
     नर्मदो यर्हि कूजितवेणुः ॥ ४ ॥
 वृन्दशो व्रजवृषा मृगगावो
     वेणुवाद्यहृतचेतस आरात् ।
 दन्तदष्टकवला धृतकर्णा
     निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥
 बर्हिणस्तबकधातुपलाशैः
     बद्धमल्लपरिबर्हविडम्बः ।
 कर्हिचित्सबल आलि स गोपैः
     गाः समाह्वयति यत्र मुकुन्दः ॥ ६ ॥
 तर्हि भग्नगतयः सरितो वै
     तत्पदाम्बुजरजोऽनिलनीतम् ।
 स्पृहयतीर्वयमिवाबहुपुण्याः
     प्रेमवेपितभुजाः स्तिमितापः ॥ ७ ॥
( मिश्र )
अनुचरैः समनुवर्णितवीर्य
     आदिपूरुष इवाचलभूतिः ।
 वनचरो गिरितटेषु चरन्तीः
     वेणुनाह्वयति गाः स यदा हि ॥ ८ ॥
 वनलतास्तरव आत्मनि विष्णुं
     व्यञ्जयन्त्य इव पुष्पफलाढ्याः ।
 प्रणतभारविटपा मधुधाराः
     प्रेमहृष्टतनवः ससृजुः स्म ॥ ९ ॥
 दर्शनीयतिलको वनमाला
     दिव्यगन्धतुलसीमधुमत्तैः ।
 अलिकुलैरलघु गीतामभीष्टं
     आद्रियन् यर्हि सन्धितवेणुः ॥ १० ॥
 सरसि सारसहंसविहङ्‌गाः
     चारुगीतहृतचेतस एत्य ।
 हरिमुपासत ते यतचित्ता
     हन्त मीलितदृशो धृतमौनाः ॥ ११ ॥
 सहबलः स्रगवतंसविलासः
     सानुषु क्षितिभृतो व्रजदेव्यः ।
 हर्षयन् यर्हि वेणुरवेण
     जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥
 महदतिक्रमणशङ्‌कितचेता
     मन्दमन्दमनुगर्जति मेघः ।
 सुहृदमभ्यवर्षत् सुमनोभिः
     छायया च विदधत्प्रतपत्रम् ॥ १३ ॥
 विविधगोपचरणेषु विदग्धो
     वेणुवाद्य उरुधा निजशिक्षाः ।
 तव सुतः सति यदाधरबिम्बे
     दत्तवेणुरनयत् स्वरजातीः ॥ १४ ॥
 सवनशस्तदुपधार्य सुरेशाः
     शक्रशर्वपरमेष्ठिपुरोगाः ।
 कवय आनतकन्धरचित्ताः
     कश्मलं ययुरनिश्चिततत्त्वाः ॥ १५ ॥
 निजपदाब्जदलैर्ध्वजवज्र
     नीरजाङ्‌कुशविचित्रललामैः ।
 व्रजभुवः शमयन् खुरतोदं
     वर्ष्मधुर्यगतिरीडितवेणुः ॥ १६ ॥
 व्रजति तेन वयं सविलास
     वीक्षणार्पितमनोभववेगाः ।
 कुजगतिं गमिता न विदामः
     कश्मलेन कवरं वसनं वा ॥ १७ ॥
 मणिधरः क्वचिदागणयन् गा
     मालया दयितगन्धतुलस्याः ।
 प्रणयिनोऽनुचरस्य कदांसे
     प्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥
 क्वणितवेणुरववञ्चितचित्ताः
     कृष्णमन्वसत कृष्णगृहिण्यः ।
 गुणगणार्णमनुगत्य हरिण्यो
     गोपिका इव विमुक्तगृहाशाः ॥ १९ ॥
( स्वागता )
कुन्ददामकृतकौतुकवेषो
     गोपगोधनवृतो यमुनायाम् ।
 नन्दसूनुरनघे तव वत्सो
     नर्मदः प्रणयिणां विजहार ॥ २० ॥
 मन्दवायुरुपवात्यनकूलं
     मानयन् मलयजस्पर्शेन ।
 वन्दिनस्तमुपदेवगणा ये
     वाद्यगीतबलिभिः परिवव्रुः ॥ २१ ॥
 वत्सलो व्रजगवां यदगध्रो
     वन्द्यमानचरणः पथि वृद्धैः ।
 कृत्स्नगोधनमुपोह्य दिनान्ते
     गीतवेणुरनुगेडितकीर्तिः ॥ २२ ॥
 उत्सवं श्रमरुचापि दृशीनां
     उन्नय खुररजश्छुरितस्रक् ।
 दित्सयैति सुहृदासिष एष
     देवकीजठरभूरुडुराजः ॥ २३ ॥
( मिश्र )
मदविघूर्णितलोचन ईषन्
     मानदः स्वसुहृदां वनमाली ।
 बदरपाण्डुवदनो मृदुगण्डं
     मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥
 यदुपतिर्द्विरदराजविहारो
     यामिनीपतिरिवैष दिनान्ते ।
 मुदितवक्त्र उपयाति दुरन्तं
     मोचयन् व्रजगवां दिनतापम् ॥ २५ ॥
 श्रीशुक उवाच -
( अनुष्टुप् )
एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायतीः ।
 रेमिरेऽहःसु तच्चित्ताः तन्मनस्का महोदयाः ॥ २६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥