श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३४

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३३ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३४
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३५ →



अजगरमुखात् अनन्दस्य मोचनम्,अजगरस्य पूर्वविद्याधरप्राप्ति; शंखचूड वधः

श्रीशुक उवाच
एकदा देवयात्रायां गोपाला जातकौतुकाः
अनोभिरनडुद्युक्तैः प्रययुस्तेऽम्बिकावनम् १
तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं विभुम्
आनर्चुरर्हणैर्भक्त्या देवीं च णृपतेऽम्बिकाम् २
गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः
ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति ३
ऊषुः सरस्वतीतीरे जलं प्राश्य यतव्रताः
रजनीं तां महाभागा नन्दसुनन्दकादयः ४
कश्चिन्महानहिस्तस्मिन्विपिनेऽतिबुभुक्षितः
यदृच्छयागतो नन्दं शयानमुरगोऽग्रसीत् ५
स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम्
सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ६
तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः
ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुरुल्मुकैः ७
अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गमः
तमस्पृशत्पदाभ्येत्य भगवान्सात्वतां पतिः ८
स वै भगवतः श्रीमत्पादस्पर्शहताशुभः
भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ९
तमपृच्छद्धृषीकेशः प्रणतं समवस्थितम्
दीप्यमानेन वपुषा पुरुषं हेममालिनम् १०
को भवान्परया लक्ष्म्या रोचतेऽद्भुतदर्शनः
कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवशः ११
सर्प उवाच
अहं विद्याधरः कश्चित्सुदर्शन इति श्रुतः
श्रिया स्वरूपसम्पत्त्या विमानेनाचरन्दिशः १२
ऋषीन्विरूपाङ्गिरसः प्राहसं रूपदर्पितः
तैरिमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना १३
शापो मेऽनुग्रहायैव कृतस्तैः करुणात्मभिः
यदहं लोकगुरुणा पदा स्पृष्टो हताशुभः १४
तं त्वाहं भवभीतानां प्रपन्नानां भयापहम्
आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन् १५
प्रपन्नोऽस्मि महायोगिन्महापुरुष सत्पते
अनुजानीहि मां देव सर्वलोकेश्वरेश्वर १६
ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात्
यन्नाम गृह्णन्नखिलान्श्रोतॄनात्मानमेव च
सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते १७
इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च
सुदर्शनो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः १८
निशाम्य कृष्णस्य तदात्मवैभवं
व्रजौकसो विस्मितचेतसस्ततः
समाप्य तस्मिन्नियमं पुनर्व्रजं
नृपाययुस्तत्कथयन्त आदृताः १९
कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः
विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् २०
उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः
स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ २१
निशामुखं मानयन्तावुदितोडुपतारकम्
मल्लिकागन्धमत्तालि जुष्टं कुमुदवायुना २२
जगतुः सर्वभूतानां मनःश्रवणमङ्गलम्
तौ कल्पयन्तौ युगपत्स्वरमण्डलमूर्च्छितम् २३
गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन्नृप
स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः २४
एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत्
शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् २५
तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम्
क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कितः २६
क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम्
यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् २७
मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ
आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् २८
स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन्
विसृज्य स्त्रीजनं मूढः प्राद्रवज्जीवितेच्छया २९
तमन्वधावद्गोविन्दो यत्र यत्र स धावति
जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन्स्त्रियो बलः ३०
अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मनः
जहार मुष्टिनैवाङ्ग सहचूडमणिं विभुः ३१
शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम्
अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम् ३२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम चतुस्त्रिंशोऽध्यायः