श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३३

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३२ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३३
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३४ →



महारासवर्णनं; परीक्षित्कृत शंकायाः शुकद्वारा समाधानं च -

श्रीशुक उवाच -
( अनुष्टुप् )
इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।
 जहुर्विरहजं तापं तदङ्‌गोपचिताशिषः ॥ १ ॥
 तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः ।
 स्त्रीरत्‍नैरन्वितः प्रीतैः अन्योन्याबद्धबाहुभिः ॥ २ ॥
 रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः ।
 योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः ॥ ३ ॥
 प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ।
 यं मन्येरन् नभस्तावद् विमानशतसङ्‌कुलम् ॥ ४ ॥
 दिवौकसां सदाराणां औत्सुक्यापहृतात्मनाम् ।
 ततो दुन्दुभयो नेदुः निपेतुः पुष्पवृष्टयः ।
 जगुर्गन्धर्वपतयः सस्त्रीकास्तद् यशोऽमलम् ॥ ५ ॥
 वलयानां नूपुराणां किङ्‌किणीनां च योषिताम् ।
 सप्रियाणामभूत् शब्दः तुमुलो रासमण्डले ॥ ६ ॥
 तत्रातिशुशुभे ताभिः भगवान् देवकीसुतः ।
 मध्ये मणीनां हैमानां महामरकतो यथा ॥ ७ ॥
( शार्दूलविक्रीडित )
पादन्यासैर्भुजविधुतिभिः
     सस्मितैर्भ्रूविलासैः ।
 भज्यन्मध्यैश्चलकुचपटैः
     कुण्डलैर्गण्डलोलैः ।
 स्विद्यन्मुख्यः कवररसना
     ग्रन्थयः कृष्णवध्वो ।
 गायन्त्यस्तं तडित इव ता
     मेघचक्रे विरेजुः ॥ ८ ॥
( अनुष्टुप् )
उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ।
 कृष्णाभिमर्शमुदिता यद्‍गीतेनेदमावृतम् ॥ ९ ॥
 काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः ।
 उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।
 तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ १० ॥
 काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ।
 जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ ११ ॥
 तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।
 चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ १२ ॥
 कस्याश्चित् नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् ।
 गण्डं गण्डे सन्दधत्याः अदात्ताम्बूलचर्वितम् ॥ १३ ॥
 नृत्यती गायती काचित् कूजन् नूपुरमेखला ।
 पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् ॥ १४ ॥
 गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् ।
 गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १५ ॥
( वसंततिलका )
कर्णोत्पलालकविटङ्‌ककपोलघर्म
     वक्त्रश्रियो वलयनूपुरघोषवाद्यैः ।
 गोप्यः समं भगवता ननृतुः स्वकेश
     स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १६ ॥
( मिश्र )
एवं परिष्वङ्‌गकराभिमर्श
     स्निग्धेक्षणोद्दामविलासहासैः ।
 रेमे रमेशो व्रजसुन्दरीभिः
     यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ १७ ॥
 तदङ्‌गसङ्‌गप्रमुदाकुलेन्द्रियाः
     केशान् दूकूलं कुचपट्टिकां वा ।
 नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो
     विस्रस्तमालाभरणाः कुरूद्वह ॥ १८ ॥
( अनुष्टुप् )
कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः ।
 कामार्दिताः शशाङ्‌कश्च सगणो विस्मितोऽभवत् ॥ १९ ॥
 कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।
 रेमे स भगवान् ताभिः आत्मारामोऽपि लीलया ॥ २० ॥
 तासां अतिविहारेण श्रान्तानां वदनानि सः ।
 प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्‌ग पाणिना ॥ २१ ॥
( वसंततिलका )
गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड्
     गण्डश्रिया सुधितहासनिरीक्षणेन ।
 मानं दधत्य ऋषभस्य जगुः कृतानि
     पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ २२ ॥
 ताभिर्युतः श्रममपोहितुमङ्‌गसङ्‌ग
     घृष्टस्रजः स कुचकुङ्‌कुमरञ्जितायाः ।
 गन्धर्वपालिभिरनुद्रुत आविशद् वा
     श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥ २३ ॥
 सोऽम्भस्यलं युवतिभिः परिषिच्यमानः
     प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्‌ग ।
 वैमानिकैः कुसुमवर्षिभिरीड्यमानो
     रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ॥ २४ ॥
( मिश्र )
ततश्च कृष्णोपवने जलस्थल
     प्रसूनगन्धानिलजुष्टदिक्तटे ।
 चचार भृङ्‌गप्रमदागणावृतो
     यथा मदच्युद् द्विरदः करेणुभिः ॥ २५ ॥
 एवं शशाङ्‌कांशुविराजिता निशाः
     स सत्यकामोऽनुरताबलागणः ।
 सिषेव आत्मन्यवरुद्धसौरतः
     सर्वाः शरत्काव्यकथारसाश्रयाः ॥ २६ ॥
 श्रीपरीक्षिदुवाच -
( अनुष्टुप् )
संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।
 अवतीर्णो हि भगवानंन् अंशेन जगदीश्वरः ॥ २७ ॥
 स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ।
 प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २८ ॥
 आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् ।
 किमभिप्राय एतन्नः संशयं छिन्धि सुव्रत ॥ २९ ॥
 श्रीशुक उवाच -
धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
 तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ ३० ॥
 नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः ।
 विनश्यत्याचरन्मौढ्याद् यथारुद्रोऽब्धिजं विषम् ॥ ३१ ॥
 ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।
 तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ॥ ३२ ॥
 कुशलाचरितेनैषां इह स्वार्थो न विद्यते ।
 विपर्ययेण वानर्थो निरहङ्‌कारिणां प्रभो ॥ ३३ ॥
 किमुताखिलसत्त्वानां तिर्यङ्‌ मर्त्यदिवौकसाम् ।
 ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥ ३४ ॥
( वसंततिलका )
यत्पादपङ्‌कजपरागनिषेवतृप्ता
     योगप्रभावविधुताखिलकर्मबन्धाः ।
 स्वैरं चरन्ति मुनयोऽपि न नह्यमानाः
     तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः ॥ ३५ ॥
( अनुष्टुप् )
गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।
 योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ ३६ ॥
 अनुग्रहाय भूतानां मानुषं देहमास्थितः ।
 भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत् ॥ ३७ ॥
 नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।
 मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ ३८ ॥
 ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः ।
 अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥ ३९ ॥
( वसंततिलका )
विक्रीडितं व्रजवधूभिरिदं च विष्णोः
     श्रद्धान्वितोऽनुश्रृणुयादथ वर्णयेद्यः ।
 भक्तिं परां भगवति प्रतिलभ्य कामं
     हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम त्रयोत्रिंशोऽध्यायः ॥ ३३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥