श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ७०

विकिस्रोतः तः
← अध्यायः ६९ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ७०
[[लेखकः :|]]
अध्यायः ७१ →



श्रीकृष्णस्याह्निककृत्यवर्णनं; युधिष्ठिरसंदेशमादाय नारदस्य,
जरासंधकारानिबद्धनृपाणां संदेशमादाय दूतस्य चागमनम् -

श्रीशुक उवाच -
( अनुष्टुप् )
अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन् ।
 गृहीतकण्ठ्यः पतिभिः भाधव्यो विरहातुराः ॥ १ ॥
 वयांस्यरूरुवन् कृष्णं बोधयन्तीव वन्दिनः ।
 गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभिः ॥ २ ॥
 मुहूर्तं तं तु वैदर्भी नामृष्यद् अतिशोभनम् ।
 परिरम्भणविश्लेषात् प्रियबाह्वन्तरं गता ॥ ३ ॥
 ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः ।
 दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ॥ ४ ॥
( मिश्र )
एकं स्वयंज्योतिरनन्यमव्ययं
     स्वसंस्थया नित्यनिरस्तकल्मषम् ।
 ब्रह्माख्यमस्योद्‌भवनाशहेतुभिः
     स्वशक्तिभिर्लक्षितभावनिर्वृतिम् ॥ ५ ॥
 अथाप्लुतोऽम्भस्यमले यथाविधि
     क्रियाकलापं परिधाय वाससी ।
 चकार सन्ध्योपगमादि सत्तमो
     हुतानलो ब्रह्म जजाप वाग्यतः ॥ ६ ॥
( अनुष्टुप् )
उपस्थायार्कमुद्यन्तं तर्पयित्वात्मनः कलाः ।
 देवान् ऋषीन् पितॄन् वृद्धान् विप्रानभ्यर्च्य चात्मवान् ॥ ७ ॥
 धेनूनां रुक्मश्रृङ्गीणां साध्वीनां मौक्तिकस्रजाम् ।
 पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ ८ ॥
 ददौ रूप्यखुराग्राणां क्षौमाजिनतिलैः सह ।
 अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने ॥ ९ ॥
 गोविप्रदेवतावृद्ध गुरून् भूतानि सर्वशः ।
 नमस्कृत्यात्मसंभूतीः मङ्गलानि समस्पृशत् ॥ १० ॥
 आत्मानं भूषयामास नरलोकविभूषणम् ।
 वासोभिर्भूषणैः स्वीयैः दिव्यस्रग् अनुलेपनैः ॥ ११ ॥
 अवेक्ष्याज्यं तथाऽऽदर्शं गोवृषद्विजदेवताः ।
 कामांश्च सर्ववर्णानां पौरान्तःपुरचारिणाम् ।
 प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ १२ ॥
 संविभज्याग्रतो विप्रान् स्रक्‌ताम्बूलानुलेपनैः ।
 सुहृदः प्रकृतीर्दारान् उपायुङ्क्त ततः स्वयम् ॥ १३ ॥
 तावत् सूत उपानीय स्यन्दनं परमाद्‌भुतम् ।
 सुग्रीवाद्यैर्हयैर्युक्तं प्रणम्यावस्थितोऽग्रतः ॥ १४ ॥
 गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत् ।
 सात्यक्युद्धवसंयुक्तः पूर्वाद्रिमिव भास्करः ॥ १५ ॥
 ईक्षितोऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः ।
 कृच्छ्राद् विसृष्टो निरगात् जातहासो हरन् मनः ॥ १६ ॥
 सुधर्माख्यां सभां सर्वैः वृष्णिभिः परिवारितः ।
 प्राविशद् यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः ॥ १७ ॥
( वंशस्था )
तत्रोपविष्टः परमासने विभुः
     बभौ स्वभासा ककुभोऽवभासयन् ।
 वृतो नृसिंहैर्यदुभिर्यदूत्तमो
     यथोडुराजो दिवि तारकागणैः ॥ १८ ॥
( अनुष्टुप् )
तत्रोपमंत्रिणो राजन् नानाहास्यरसैर्विभुम् ।
 उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवैः पृथक् ॥ १९ ॥
 मृदङ्गवीणामुरज वेणुतालदरस्वनैः ।
 ननृतुर्जगुस्तुष्टुवुश्च सूतमागधवन्दिनः ॥ २० ॥
 तत्राहुर्ब्राह्मणाः केचित् आसीना ब्रह्मवादिनः ।
 पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथाः ॥ २१ ॥
 तत्रैकः पुरुषो राजन् आगतोऽपूर्वदर्शनः ।
 विज्ञापितो भगवते प्रतीहारैः प्रवेशितः ॥ २२ ॥
 स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः ।
 राज्ञामावेदयद् दुखं जरासन्धनिरोधजम् ॥ २३ ॥
 ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपाः ।
 प्रसह्य रुद्धास्तेनासन् अयुते द्वे गिरिव्रजे ॥ २४ ॥
 राजान ऊचुः -
कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन ।
 वयं त्वां शरणं यामो भवभीताः पृथग्धियः ॥ २५ ॥
( वसंततिलका )
लोको विकर्मनिरतः कुशले प्रमत्तः
     कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।
 यस्तावदस्य बलवानिह जीविताशां
     सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ २६ ॥
 लोके भवाञ्जगदिनः कलयावतीर्णः
     सद् रक्षणाय खलनिग्रहणाय चान्यः ।
 कश्चित् त्वदीयमतियाति निदेशमीश
     किं वा जनः स्वकृतमृच्छति तन्न विद्मः ॥ २७ ॥
 स्वप्नायितं नृपसुखं परतंत्रमीश
     शश्वद्‌भयेन मृतकेन धुरं वहामः ।
 हित्वा तदात्मनि सुखं त्वदनीहलभ्यं
     क्लिश्यामहेऽतिकृपणास्तव माययेह ॥ २८ ॥
 तन्नो भवान् प्रणतशोकहराङ्‌घ्रियुग्मो
     बद्धान् वियुङ्क्ष्व मगधाह्वयकर्मपाशात् ।
 यो भूभुजोऽयुतमतङ्गजवीर्यमेको
     बिभ्रद् रुरोध भवने मृगराडिवावीः ॥ २९ ॥
 यो वै त्वया द्विनवकृत्व उदात्तचक्र
     भग्नो मृधे खलु भवन्तमनन्तवीर्यम् ।
 जित्वा नृलोकनिरतं सकृदूढदर्पो
     युष्मत्प्रजा रुजति नोऽजित तद्विधेहि ॥ ३० ॥
 दूत उवाच -
( अनुष्टुप् )
इति मागधसंरुद्धा भवद्दर्शनकाङ्‌क्षिणः ।
 प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् ॥ ३१ ॥
 श्रीशुक उवाच -
राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः ।
 बिभ्रत् पिङ्गजटाभारं प्रादुरासीद् यथा रविः ॥ ३२ ॥
 तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः ।
 ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा ॥ ३३ ॥
 सभाजयित्वा विधिवत् कृतासनपरिग्रहम् ।
 बभाषे सुनृतैर्वाक्यैः श्रद्धया तर्पयन् मुनिम् ॥ ३४ ॥
 अपि स्विदद्य लोकानां त्रयाणां अकुतोभयम् ।
 ननु भूयान् भगवतो लोकान् पर्यटतो गुणः ॥ ३५ ॥
 न हि तेऽविदितं किञ्चित् लोकेषु ईश्वर कर्तृषु ।
 अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् ॥ ३६ ॥
 श्रीनारद उवाच -
( मिश्र )
दृष्टा माया ते बहुशो दुरत्यया
     माया विभो विश्वसृजश्च मायिनः ।
 भूतेषु भूमंश्चरतः स्वशक्तिभिः
     वह्नेरिवच्छन्नरुचो न मेऽद्‌भुतम् ॥ ३७ ॥
 तवेहितं कोऽर्हति साधु वेदितुं
     स्वमाययेदं सृजतो नियच्छतः ।
 यद् विद्यमानात् मतयावभासते
     तस्मै नमस्ते स्वविलक्षणात्मने ॥ ३८ ॥
 जीवस्य यः संसरतो विमोक्षणं
     न जानतोऽनर्थवहाच्छरीरतः ।
 लीलावतारैः स्वयशः प्रदीपकं
     प्राज्वालयत्त्वा तमहं प्रपद्ये ॥ ३९ ॥
( अनुष्टुप् )
अथाप्याश्रावये ब्रह्म नरलोकविडम्बनम् ।
 राज्ञः पैतृष्वसेयस्य भक्तस्य च चिकीर्षितम् ॥ ४० ॥
 यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः ।
 पारमेष्ठ्यकामो नृपतिः तद्‌भवाननुमोदताम् ॥ ४१ ॥
 तस्मिन् देव क्रतुवरे भवन्तं वै सुरादयः ।
 दिदृक्षवः समेष्यन्ति राजानश्च यशस्विनः ॥ ४२ ॥
 श्रवणात् कीर्तनाद् ध्यानात् पूयन्तेऽन्तेवसायिनः ।
 तव ब्रह्ममयस्येश किमुतेक्षाभिमर्शिनः ॥ ४३ ॥
( वसंततिलका )
यस्यामलं दिवि यशः प्रथितं रसायां
     भूमौ च ते भुवनमङ्गल दिग्वितानम् ।
 मन्दाकिनीति दिवि भोगवतीति चाधो
     गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥ ४४ ॥
 श्रीशुक उवाच -
( अनुष्टुप् )
तत्र तेष्वात्मपक्षेष्व गृह्णत्सु विजिगीषया ।
 वाचः पेशैः स्मयन् भृत्यमुद्धवं प्राह केशवः ॥ ४५ ॥
 श्रीभगवानुवाच -
त्वं हि नः परमं चक्षुः सुहृन् मंत्रार्थतत्त्ववित् ।
 अथात्र ब्रूह्यनुष्ठेयं श्रद्दध्मः करवाम तत् ॥ ४६ ॥
 इत्युपामंत्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् ।
 निदेशं शिरसाऽऽधाय उद्धवः प्रत्यभाषत ॥ ४७ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 भगवद्यानविचारे नाम सप्ततितमोऽध्यायः ॥ ७० ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥