श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ६९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६८ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ६९
[[लेखकः :|]]
अध्यायः ७० →




देवर्षिनारदकर्तृकं भगवतो गृहचर्यादर्शनम् -

श्रीशुक उवाच -
( अनुष्टुप् )
नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् ।
 कृष्णेनैकेन बह्वीनां तद् दिदृक्षुः स्म नारदः ॥ १ ॥
 चित्रं बतैतदेकेन वपुषा युगपत् पृथक् ।
 गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत् ॥ २ ॥
 इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् ।
 पुष्पितोपवनाराम द्विजालिकुलनादिताम् ॥ ३ ॥
 उत्फुल्लेन्दीवराम्भोज कह्लारकुमुदोत्पलैः ।
 छुरितेषु सरःसूच्चैः कूजितां हंससारसैः ॥ ४ ॥
 प्रासादलक्षैर्नवभिः जुष्टां स्फाटिकराजतैः ।
 महामरकतप्रख्यैः स्वर्णरत्‍नपरिच्छदैः ॥ ५ ॥
( मिश्र )
विभक्तरथ्यापथचत्वरापणैः
     शालासभाभी रुचिरां सुरालयैः ।
 संसिक्तमार्गाङ्गनवीथिदेहलीं
     पतत्पताका ध्वजवारितातपाम् ॥ ६ ॥
( अनुष्टुप् )
तस्यामन्तःपुरं श्रीमद् अर्चितं सर्वधिष्ण्यपैः ।
 हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥ ७ ॥
 तत्र षोडशभिः सद्म सहस्रैः समलङ्कृतम् ।
 विवेशैकतमं शौरेः पत्‍नीनां भवनं महत् ॥ ८ ॥
 विष्टब्धं विद्रुमस्तंभैः वैदूर्यफलकोत्तमैः ।
 इन्द्रनीलमयैः कुड्यैः जगत्या चाहतत्विषा ॥ ९ ॥
 वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः ।
 दान्तैरासनपर्यङ्कैः मण्युत्तमपरिष्कृतैः ॥ १० ॥
 दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम् ।
 पुम्भिः सकञ्चुकोष्णीष सुवस्त्रमणिकुण्डलैः ॥ ११ ॥
( वसंततिलका )
रत्‍नप्रदीपनिकरद्युतिभिर्निरस्त
     ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।
 नृत्यन्ति यत्र विहितागुरुधूपमक्षैः
     निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्तः ॥ १२ ॥
 तस्मिन्समानगुणरूपवयःसुवेष
     दासीसहस्रयुतयानुसवं गृहिण्या ।
 विप्रो ददर्श चमरव्यजनेन रुक्म
     दण्डेन सात्वतपतिं परिवीजयन्त्या ॥ १३ ॥
 तं सन्निरीक्ष्य भगवान् सहसोत्थितश्री
     पर्यङ्कतः सकलधर्मभृतां वरिष्ठः ।
 आनम्य पादयुगलं शिरसा किरीट
     जुष्टेन साञ्जलिरवीविशदासने स्वे ॥ १४ ॥
 तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना
     बिभ्रज्जगद्‌गुरुतमोऽपि सतां पतिर्हि ।
 ब्रह्मण्यदेव इति यद्‌गुणनाम युक्तं
     तस्यैव यच्चरणशौचमशेषतीर्थम् ॥ १५ ॥
 संपूज्य देवऋषिवर्यमृषिः पुराणो
     नारायणो नरसखो विधिनोदितेन ।
 वाण्याभिभाष्य मितयामृतमिष्टया तं
     प्राह प्रभो भगवते करवाम हे किम् ॥ १६ ॥
 श्रीनारद उवाच -
नैवाद्‌भुतं त्वयि विभोऽखिललोकनाथे
     मैत्री जनेषु सकलेषु दमः खलानाम् ।
 निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां
     स्वैरावतार उरुगाय विदाम सुष्ठु ॥ १७ ॥
 दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं
     ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः ।
 संसारकूपपतितोत्तरणावलम्बं
     ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् ॥ १८ ॥
( अनुष्टुप् )
ततोऽन्यदाविशद्‌ गेहं कृष्णपत्‍न्याः स नारदः ।
 योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ॥ १९ ॥
 दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च ।
 पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ २० ॥
 पृष्टश्चाविदुषेवासौ कदाऽऽयातो भवानिति ।
 क्रियते किं नु पूर्णानां अपूर्णैरस्मदादिभिः ॥ २१ ॥
 अथापि ब्रूहि नो ब्रह्मन् जन्मैतच्छोभनं कुरु ।
 स तु विस्मित उत्थाय तूष्णीमन्यदगाद्‌ गृहम् ॥ २२ ॥
 तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान् शिशून् ।
 ततोऽन्यस्मिन्गृहेऽपश्यन् मज्जनाय कृतोद्यमम् ॥ २३ ॥
 जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर्मखैः ।
 भोजयन्तं द्विजान् क्वापि भुञ्जानमवशेषितम् ॥ २४ ॥
 क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् ।
 एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु ॥ २५ ॥
 अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम् ।
 क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥ २६ ॥
 मंत्रयन्तं च कस्मिंश्चित् मंत्रिभिश्चोद्धवादिभिः ।
 जलक्रीडारतं क्वापि वारमुख्याबलावृतम् ॥ २७ ॥
 कुत्रचिद्द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः ।
 इतिहासपुराणानि श्रृण्वन्तं मङ्गलानि च ॥ २८ ॥
 हसन्तं हासकथया कदाचित् प्रियया गृहे ।
 क्वापि धर्मं सेवमानं अर्थकामौ च कुत्रचित् ॥ २९ ॥
 ध्यायन्तमेकमासीनं पुरुषं प्रकृतेः परम् ।
 शुश्रूषन्तं गुरून् क्वापि कामैर्भोगैः सपर्यया ॥ ३० ॥
 कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् ।
 कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ ३१ ॥
 पुत्राणां दुहितॄणां च काले विध्युपयापनम् ।
 दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः ॥ ३२ ॥
 प्रस्थापनोपनयनैः अपत्यानां महोत्सवान् ।
 वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ ३३ ॥
 यजन्तं सकलान् देवान् क्वापि क्रतुभिरूर्जितैः ।
 पूर्तयन्तं क्वचिद् धर्मं कूर्पाराममठादिभिः ॥ ३४ ॥
 चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् ।
 घ्नन्तं तत्र पशून् मेध्यान् परीतं यदुपुङ्गवैः ॥ ३५ ॥
 अव्यक्तलिङ्गं प्रकृतिषु अन्तःपुरगृहादिषु ।
 क्वचिच्चरन्तं योगेशं तत्तद्‌भावबुभुत्सया ॥ ३६ ॥
 अथोवाच हृषीकेशं नारदः प्रहसन्निव ।
 योगमायोदयं वीक्ष्य मानुषीं ईयुषो गतिम् ॥ ३७ ॥
 विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम् ।
 योगेश्वरात्मन् निर्भाता भवत्पादनिषेवया ॥ ३८ ॥
 अनुजानीहि मां देव लोकांस्ते यशसाऽऽप्लुतान् ।
 पर्यटामि तवोद्‌गायन् लीला भुवनपावनीम् ॥ ३९ ॥
 श्रीभगवानुवाच -
ब्रह्मन्धन्नस्य वक्ताहं कर्ता तदनुमोदिता ।
 तच्छिक्षयन्लोकमिमं आस्थितः पुत्र मा खिदः ॥ ४० ॥
 श्रीशुक उवाच -
इत्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम् ।
 तमेव सर्वगेहेषु सन्तमेकं ददर्श ह ॥ ४१ ॥
 कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् ।
 मुहुर्दृष्ट्वा ऋषिरभूद् विस्मितो जातकौतुकः ॥ ४२ ॥
 इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना ।
 सम्यक् सभाजितः प्रीतः तमेवानुस्मरन् ययौ ॥ ४३ ॥
( वसंततिलका )
एवं मनुष्यपदवीमनुवर्तमानो
     नारायणोऽखिलभवाय गृहीतशक्तिः ।
 रेमेऽङ्ग षोडशसहस्रवराङ्गनानां
     सव्रीडसौहृदनिरीक्षणहासजुष्टः ॥ ४४ ॥
 यानीह विश्वविलयोद्‌भववृत्तिहेतुः
     कर्माण्यनन्यविषयाणि हरीश्चकार
 यस्त्वङ्ग गायति श्रृणोत्यनुमोदते वा
     भक्तिर्भवेद्‌भगवति ह्यपवर्गमार्गे ॥ ४५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 कृष्णगार्हस्थ्यदर्शनं नाम एकोनसप्ततिमोऽध्यायः ॥ ६९ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥