श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ७१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७० श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ७१
[[लेखकः :|]]
अध्यायः ७२ →



उद्धवमंत्रणया श्रीकृष्णस्येन्द्रप्रस्थगमनम् -

श्रीशुक उवाच -
( अनुष्टुप् )
इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत् ।
 सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः ॥ १ ॥
 श्रीउद्धव उवाच -
यदुक्तं ऋषिणा देव साचिव्यं यक्ष्यतस्त्वया ।
 कार्यं पैतृष्वसेयस्य रक्षा च शरणैषिणाम् ॥ २ ॥
 यष्टव्यम्राजसूयेन दिक् चक्रजयिना विभो ।
 अतो जरासुतजय उभयार्थो मतो मम ॥ ३ ॥
 अस्माकं च महानर्थो ह्येतेनैव भविष्यति ।
 यशश्च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः ॥ ४ ॥
 स वै दुर्विषहो राजा नागायुतसमो बले ।
 बलिनामपि चान्येषां भीमं समबलं विना ॥ ५ ॥
 द्‌वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः ।
 ब्रह्मण्योऽभ्यर्थितो विप्रैः न प्रत्याख्याति कर्हिचित् ॥ ६ ॥
 ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः ।
 हनिष्यति न सन्देहो द्‌वैरथे तव सन्निधौ ॥ ७ ॥
 निमित्तं परमीशस्य विश्वसर्गनिरोधयोः ।
 हिरण्यगर्भः शर्वश्च कालस्यारूपिणस्तव ॥ ८ ॥
( वसंततिलका )
गायन्ति ते विशदकर्म गृहेषु देव्यो
     राज्ञां स्वशत्रुवधमात्मविमोक्षणं च ।
 गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः
     पित्रोश्च लब्धशरणा मुनयो वयं च ॥ ९ ॥
( अनुष्टुप् )
जरासन्धवधः कृष्ण भूर्यर्थायोपकल्पते ।
 प्रायः पाकविपाकेन तव चाभिमतः क्रतुः ॥ १० ॥
 श्रीशुक उवाच -
इत्युद्धव वचो राजन् सर्वतोभद्रमच्युतम् ।
 देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥ ११ ॥
 अथादिशत् प्रयाणाय भगवान् देवकीसुतः ।
 भृत्यान् दारुकजैत्रादीन् अनुज्ञाप्य गुरून् विभुः ॥ १२ ॥
 निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छदान् ।
 सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन् ।
 सूतोपनीतं स्वरथं आरुहद् गरुडध्वजम् ॥ १३ ॥
( प्रभावती )
ततो रथद्‌विपभटसादिनायकैः
     करालया परिवृत आत्मसेनया ।
 मृदङ्‌ग भेर्यानक शङ्खगोमुखैः
     प्रघोषघोषितककुभो निराक्रमत् ॥ १४ ॥
 नृवाजिकाञ्चन शिबिकाभिरच्युतं
     सहात्मजाः पतिमनु सुव्रता ययुः ।
 वरांबराभरणविलेपनस्रजः
     सुसंवृता नृभिरसिचर्मपाणिभिः ॥ १५ ॥
 नरोष्ट्रगोमहिषखराश्वतर्यनः
     करेणुभिः परिजनवारयोषितः ।
 स्वलङ्कृताः कटकुटिकम्बलाम्बराद्
     उपस्करा ययुरधियुज्य सर्वतः ॥ १६ ॥
 बलं बृहद्ध्वजपटछत्रचामरैः
     वरायुधाभरणकिरीटवर्मभिः ।
 दिवांशुभिस्तुमुलरवं बभौ रवेः
     यथार्णवः क्षुभिततिमिङ्‌गिलोर्मिभिः ॥ १७ ॥
 अथो मुनिर्यदुपतिना सभाजितः
     प्रणम्य तं हृदि विदधद् विहायसा ।
 निशम्य तद्‌व्यवसितमाहृतार्हणो
     मुकुन्दसन्दर्शननिर्वृतेन्द्रियः ॥ १८ ॥
( अनुष्टुप् )
राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा ।
 मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ १९ ॥
 इत्युक्तः प्रस्थितो दूतो यथावद् अवदन् नृपान् ।
 तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन्मुमुक्षवः ॥ २० ॥
 आनर्तसौवीरमरून् तीर्त्वा विनशनं हरिः ।
 गिरीन् नदीरतीयाय पुरग्रामव्रजाकरान् ॥ २१ ॥
 ततो दृषद्‌वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् ।
 पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥ २२ ॥
 तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम् ।
 अजातशत्रुर्निरगात् सोपाध्यायः सुहृद्‌वृतः ॥ २३ ॥
 गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।
 अभ्ययात् स हृषीकेशं प्राणाः प्राणमिवादृतः ॥ २४ ॥
 दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः ।
 चिराद् दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः ॥ २५ ॥
( मिश्र )
दोर्भ्यां परिष्वज्य रमामलालयं
     मुकुन्दगात्रं नृपतिर्हताशुभः ।
 लेभे परां निर्वृतिमश्रुलोचनो
     हृष्यत्तनुर्विस्मृत लोकविभ्रमः ॥ २६ ॥
 तं मातुलेयं परिरभ्य निर्वृतो
     भीमः स्मयन् प्रेमजलाकुलेन्द्रियः ।
 यमौ किरीटी च सुहृत्तमं मुदा
     प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् ॥ २७ ॥
( अनुष्टुप् )
अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः ।
 ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः ॥ २८ ॥
 मानिनो मानयामास कुरुसृञ्जयकैकयान् ।
 सूतमागधगन्धर्वा वन्दिनश्चोपमंत्रिणः ॥ २९ ॥
 मृदङ्‌गशङ्खपटह वीणापणवगोमुखैः ।
 ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः ॥ ३० ॥
 एवं सुहृद्‌भिः पर्यस्तः पुण्यश्लोकशिखामणिः ।
 संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥ ३१ ॥
( वसंततिलका )
संसिक्तवर्त्म करिणां मदगन्धतोयैः
     चित्रध्वजैः कनकतोरणपूर्णकुम्भैः ।
 मृष्टात्मभिर्नवदुकूलविभूषणस्रग्
     गन्धैर्नृभिर्युवतिभिश्च विराजमानम् ॥ ३२ ॥
 उद्दीप्तदीपबलिभिः प्रतिसद्म जाल
     निर्यातधूपरुचिरं विलसत्पताकम् ।
 मूर्धन्यहेमकलशै रजतोरुशृङ्‌गैः
     जुष्टं ददर्श भवनैः कुरुराजधाम ॥ ३३ ॥
 प्राप्तं निशम्य नरलोचनपानपात्रम्
     औत्सुक्यविश्लथितकेश दुकूलबन्धाः ।
 सद्यो विसृज्य गृहकर्म पतींश्च तल्पे
     द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे ॥ ३४ ॥
 तस्मिन् सुसङ्कुल इभाश्वरथद्‌विपद्‌भिः
     कृष्णंसभार्यमुपलभ्य गृहाधिरूढाः ।
 नार्यो विकीर्य कुसुमैर्मनसोपगुह्य
     सुस्वागतं विदधुरुत्स्मयवीक्षितेन ॥ ३५ ॥
 ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्‍नीः
     तारा यथोडुपसहाः किमकार्यमूभिः ।
 यच्चक्षुषां पुरुषमौलिरुदारहास
 लीलावलोककलयोत्सवमातनोति ॥ ३६ ॥
 तत्र तत्रोपसङ्‌गम्य पौरा मङ्‌गलपाणयः ।
( अनुष्टुप् )
चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः ॥ ३७ ॥
 अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः ।
 ससम्भ्रमैरभ्युपेतः प्राविशद् राजमन्दिरम् ॥ ३८ ॥
 पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् ।
 प्रीतात्मोत्थाय पर्यङ्कात् सस्नुषा परिषस्वजे ॥ ३९ ॥
 गोविन्दं गृहमानीय देवदेवेशमादृतः ।
 पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः ॥ ४० ॥
 पितृस्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम् ।
 स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः ॥ ४१ ॥
 श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्‍नीश्च सर्वशः ।
 आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ ४२ ॥
 कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।
 अन्याश्चाभ्यागता यास्तु वासःस्रङ्‌मण्डनादिभिः ॥ ४३ ॥
 सुखं निवासयामास धर्मराजो जनार्दनम् ।
 ससैन्यं सानुगामत्यं सभार्यं च नवं नवम् ॥ ४४ ॥
 तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः ।
 मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥ ४५ ॥
 उवास कतिचिन् मासान् राज्ञः प्रियचिकीर्षया ।
 विहरन् रथमारुह्य फाल्गुनेन भटैर्वृतः ॥ ४६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 कृष्णस्य इंद्रप्रस्थगमनं नाम एकसप्ततितमोऽध्यायः ॥ ७१ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥