श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः २ श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः ३
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः ४ →


उद्धवमुखेन श्रीमद् भागवतमाहात्म्यवर्णनं
भागवतोपदेशस्य सम्प्रदायकर्मकथनं परीक्षितः
कलिनिग्रहायोद्योगः, भागवतश्रवणेन वजादीनां भगवद्दर्शनं च -


सूत उवाच -
अयोद्धवस्तु तान् दृष्ट्वा कृष्णकीर्तनतत्परान् ।
 सत्कृत्याथ परिष्वज्य परीक्षितमुवाच ह ॥ १ ॥
 धन्योऽसि राजन् कृष्णैक भक्त्या पूर्णोऽसि नित्यदा ।
 यस्त्वं निमग्नचित्तोऽसि कृष्णसंङ्‌कीर्तनोत्सवे ॥ २ ॥
 कृष्णपत्‍नीषु वज्रे च दिष्ट्या प्रीतिः प्रवर्तिता ।
 तवोचितमिदं तात कृष्णदत्ताङ्‌गवैभव ॥ ३ ॥
 द्वारकास्थेषु सर्वेषु धन्या एते न संशयः ।
 येषां व्रजनिवासाय पार्थमादिष्टवान् प्रभुः ॥ ४ ॥
 श्रीकृष्णस्य मनश्चन्द्रो राधास्यप्रभयान्वितः ।
 तद् विहारवनं गोभिः मण्डयन् रोचते सदा ॥ ५ ॥
 कृष्णचन्द्रः सदा पूर्णः तस्य षोडश या कलाः ।
 चित्सहस्रप्रभभिन्ना अत्रास्ते तत्स्वरूपता॥ ६ ॥
 एवं वज्रस्तु राजेन्द्र प्रपन्नभयभञ्जकः ।
 श्रीकृष्णदक्षिणे पादे स्थानमेतस्य वर्तते ॥ ७ ॥
 अवतारेऽत्र कृष्णेन योगमायातिभाविताः ।
 तद्‌बलेनात्मविस्मृत्या सीदन्त्येते न संशयः ॥ ८ ॥
 ऋते कृष्णप्रकाशं तु स्वात्मुबोधो न कस्यचित् ।
 तत्प्रकाशस्तु जीवानां मायया पिहितः सदा ॥ ९ ॥
 अष्टाविंशे द्वापरान्ते स्वयमेव यदा हरिः ।
 उत्सारयेन्निजां मायां तत्प्रकाशो भवेत्तदा ॥ १० ॥
 स तु कालो व्यतिक्रान्तः तेनेदमपरं श्रृणु ।
 अन्यदा तत्प्रकाशस्तु श्रीमद् भागवताद् भवेत् ॥ ११ ॥
 श्रीमद् भागवतं शास्त्रं यत्र भागवतैर्यदा ।
 कीर्त्यते श्रूयते चापि श्रीकृष्णस्तत्र निश्चितम् ॥ १२ ॥
 श्रीमद् भागवतं यत्र श्लोकं श्लोकार्द्धमेव च ।
 तत्रापि भगवान् कृष्णो वल्लवीभिर्वराजते ॥ १३ ॥
 भारते पानवं जन्म प्राप्य भागवतं न यैः ।
 श्रुतं पापपराधीनैः आत्मघातस्तु तैः कृतः ॥ १४ ॥
 श्रीमद् भागवतं शास्त्र्॒अं नित्यं यैः परिसेवितम् ।
 पिर्मातुश्च भार्यायाः कुलपङ्‌क्तिः सुतारिता ॥ १५ ॥
 विद्याप्रकाशो विप्राणां राज्ञां शत्रुजयो विशाम् ।
 धनं स्वास्थ्यं च शूद्राणां श्रीमद् भागवताद् भवेत् ॥ १६ ॥
 योषितां अपरेषां च सर्ववाञ्छितपूरणम् ।
 अतो भागवतं नित्यं को न सेवेत भाग्यवान् ॥ १७ ॥
 अनेकजन्मसंसिद्धः श्रीम भागवतं लभेत् ।
 प्रकाशो भगवद्‌भक्तेः उद्‌भवस्तत्र जायते ॥ १८ ॥
 सांख्यायनप्रसादाप्तं श्रीमद्‌भागवतं पुरा ।
 बृहस्पतिर्दत्तवान् मे तेनाहं कृष्णवल्लभः ॥ १९ ॥
 अखायिकां च तेनोक्तां विष्णुरात निबोध ताम् ।
 ज्ञायते सम्प्रदायोऽपि यत्र भागवतश्रुतेः ॥ २० ॥
 बृहस्पतिरुवाच -
ईक्षाञ्चक्रे यदा कृष्णो मायापुरुषरूपधृक् ।
 ब्रह्मा विष्णुः शिवश्चापि रजः सत्त्वतमोगुणैः ॥ २१ ॥
 पुरुषास्त्रय उत्तस्थुः अधिकारान् तदादिशत् ।
 उत्पत्तौ पालने चैव संहारे प्रक्रमेण तान् ॥ २२ ॥
 ब्रह्मा तु नाभिकमलात् उत्पन्नस्तं व्यजिज्ञपत् ।
 ब्रह्मोवाच -
नारायणादिपुरुष परमात्मन् नमोऽस्तु ते ॥ २३ ॥
 त्वया सर्गे नियुक्तोऽस्मि पपीयान् मां रजोगुणः ।
 त्वत्स्मृतौ नैव बाधेत तथैव कृपया प्रभो ॥ २४ ॥
 बृहस्पतिरुवाच -
यदा तु भगवान् तस्मै श्रीमद्‌भागवतं पुरा ।
 उपदिश्याब्रवीद् ब्रह्मन् सेवस्वैनत् स्वसिद्धये ॥ २५ ॥
 ब्रह्मा तु परमप्रीतः तेन कृष्णाप्तयेऽनिशम् ।
 सप्तावरणभङ्‌गाय सप्ताहं समवर्तयत् ॥ २६ ॥
 श्रीभागवतसप्ताह सेवनाप्तमनोरथः ।
 सृष्टिं वितनुते नित्यं ससप्ताहः पुनः पुनः ॥ २७ ॥
 विष्णुरप्यर्थयामास पुमांसं स्वार्थसिद्धये ।
 प्रजानां पालने पुंसा यदनेनापि कल्पितः ॥ २८ ॥
 विष्णुरुवाच -
प्रजानां पालनं देव करिष्यामि यथोचितम् ।
 प्रवृत्त्या च निवृत्त्या च कर्मज्ञानप्रयोजनात् ॥ २९ ॥
 यदा यदैव कालेन धर्मग्लानिर्भविष्यति ।
 धर्मं संस्थापयिष्यामि ह्यवतारैस्तदा तदा ॥ ३० ॥
 भोगार्थिभ्यस्तु यज्ञादि फलं दास्यामि निश्चितम् ।
 भोगार्थिभ्यो विरक्तेभ्यो मुक्तिं पञ्चविधां तथा ॥ ३१ ॥
 येऽपि मोक्षं न वाञ्छन्ति तान् कथं पालयाम्यहम् ।
 आत्मानं च श्रियं चापि पालयामि कथं वद ॥ ३२ ॥
 तस्मा अपि पुमानाद्यः श्रीभागवतमादिशत् ।
 उवाच च पठस्वैनत् तव सर्वार्थसिद्धये ॥ ३३ ॥
 ततो विष्णुः प्रसन्नात्मा परमार्थकपालने ।
 समर्थोऽभूच्छ्रिया मासि मासि भागवतं स्मरन् ॥ ३४ ॥
 यदा विष्णुः स्वयं वक्ता लक्ष्मीश्च श्रवणे रतः ।
 तदा भागवतश्रावो मासेनैव पुनः पुनः ॥ ३५ ॥
 यदा लक्ष्मीः स्वयं वक्त्री विष्णुश्च श्रवने रतः ।
 मासद्वयं रसास्वादः तदातीव सुशोभते ॥ ३६ ॥
 अधिकारे स्थितो विष्णूह् लक्ष्मीर्निश्चिन्तमानसा ।
 तेन भागवतास्वादः तस्या भूरि प्रकाशते ॥ ३७ ॥
 अथ रुद्रोऽपि तं देवं संहाराधिकृतः पुरा ।
 पुमांसं प्रार्थयामास स्वसामर्थ्यविवृद्धये ॥ ३८ ॥
 रुद्र उवाच -
नित्ये नैमित्तिके चैव संहारे प्राकृते तथा ।
 शक्तयो मम विद्यन्ते देवदेव मम प्रभो ॥ ३९ ॥
 आत्यन्तिके तु संहारे मम शक्तिर्न विद्यते ।
 महद्‌दुःखं ममेतत्तु तेन त्वां प्रार्थयाम्यहम् ॥ ४० ॥
 बृहस्पतिरुवाच -
श्रीमद् भागवतं तस्मा अपि नारायणो ददौ ।
 स तु संसेवनादस्य जिग्ये चापि तमोगुणम् ॥ ४१ ॥
 कथा भागवती तेने सेविता वर्षमात्रतः ।
 लये त्वात्यन्तिके तेनौ आप शक्तिं सदाशिवः ॥ ४२ ॥
 उद्धव उवाच -
श्रीभागवतमाहात्म्य इमां आख्यायिकां गुरोः ।
 श्रुत्वा भागवतं लब्ध्वा मुमुदेऽहं प्रणम्य तम् ॥ ४३ ॥
 ततस्तु वैष्णवीं रीतिं गृहीत्वा मासमात्रतः ।
 श्रीमद् भागवतास्वादो मया सम्यङ्‍६निषेवितः ॥ ४४ ॥
 तावतैव बभूवाहं कृष्णस्य दयितः सखा ।
 कृष्णेनाथ नियुक्तोऽहं व्रजे स्वप्रेयसीगणे ॥ ४५ ॥
 विरहार्त्तासु गोपीषु स्वयं नित्यविहारिणा ।
 श्रीमागवतसन्देशो मन्मुखेन प्रयोजितः ॥ ४६ ॥
 तं यथामति लब्ध्वा ता आसन् विरहवर्जिताः ।
 नाज्ञासिषं रहस्यं तत् चमत्कारस्तु लोकितः ॥ ४७ ॥
 स्वर्वासं प्रार्थ्य कृष्णं च ब्रह्माद्येषु गतेषु मे ।
 श्रीमद्‌भागवते कृष्णः तद् रहस्यं स्वयं ददौ ॥ ४८ ॥
 पुरतोऽश्वत्थमूलस्य चकार मयि तद् दृढम् ।
 तेनात्र व्रजवल्लीषु वसामि बदरीं गतः ॥ ४९ ॥
 तस्मात् नारदकुण्डेऽत्र तिष्ठामि स्वेच्छया सदा ।
 कृष्णप्रकाशो भक्तानां श्रीमद्‌भागवताद् भवेत् ॥ ५० ॥
 तदेषामपि कार्यार्थं श्रीमद्‌भागवतं त्वहम् ।
 प्रवक्ष्यामि सहायोऽत्र त्वयैवानुष्ठितो भवेत् ॥ ५१ ॥
 सूत उवाच -
विष्णुरातस्तु श्रुत्वा तद् उद्धवं प्रणतोऽब्रवीत् ।
 परीक्षिदुवाच -
हरिदास त्वया कार्य श्रीभागवतकीर्तनम् ॥ ५२ ॥
 आज्ञाप्योऽहं यथा कार्यः सहायोऽत्र मया तथा ।
 सूत उवाच -
श्रुत्वैतद् उद्धवो वाक्यं उवाच प्रीतमानसः ॥ ५३ ॥
 उद्धव उवाच -
श्रीकृष्णेन परित्यक्ते भूतले बलवान कलिः ।
 करिष्यति परं विघ्नं सत्कार्ये समुपस्थिते ॥ ५४ ॥
 तस्माद् दिग्विजयं याहि कलिनिग्रहमाचर ।
 अहं तु मासमात्रेण वैष्णवीं रीतिमास्थितः ॥ ५५ ॥
 श्रीमद्‌भागवतास्वादं प्रचार्यं त्वत्सहायतः ।
 एतान् सम्प्रापयिष्यामि नित्यधाम्नि मधुद्विषः ॥ ५६ ॥
 सूत उवाच -
श्रुत्वैवं तद्वचो राजा मुदितश्चिन्तयाऽऽतुरः ।
 तदा विज्ञापयामास स्वाभिप्रायं तमुद्धवम् ॥ ५७ ॥
 परीक्शिदुवाच -
कलिं तु निग्रहीष्यामि तात ते वचसि स्थितः ।
 श्रीभागवतसम्प्राप्तिः कथं मम भविष्यति ॥ ५८ ॥
 अहं तु समनुग्राह्यः तव पादतले श्रितः ।
 सूत उवाच -
श्रुत्वैतद् वचनं भूयोऽपि उद्धवस्तं उवाच ह ॥ ५९ ॥
 उद्धव उवाच -
राजन् चिन्ता तु ते कापि नैव कार्या कथञ्चन ।
 तवैव भगवत् शास्त्रे यतो मुख्याधिकारिता ॥ ६० ॥
 एतावत् काल पर्यंतं प्रायो भागवतश्रुतेः ।
 वार्तामपि न जानन्ति मनुष्याः कर्मतत्पराः ॥ ६१ ॥
 त्वत्प्रसादेन बहवो मनुष्या भारताजिरे ।
 श्रीमद्भागवतप्राप्तौ सुखं प्राप्स्यन्ति शाश्वतम् ॥ ६२ ॥
 नन्दनन्दनरूपस्तु श्रीशुको भगवान् ऋषिः ।
 श्रीमद् भागवतं तुभ्यं श्रावयिष्यत्यसंशयम् ॥ ६३ ॥
 तेन प्राप्स्यसि राजन् त्वं नित्यं धाम व्रजेशितुः ।
 श्रीभागवतसञ्चारः ततो भुवि भविष्यति ॥ ६४ ॥
 तस्मात्त्वं गच्छ राजेन्द्र कलिनिग्रहमाचर ।
 सूत उवाच -
इत्युक्तस्तं परिक्रम्य गतो राजा दिशां जये ॥ ६५ ॥
 वज्रस्तु निजराज्येशं प्रतिबाहुं विधाय च ।
 तत्रैव मातृभिः साकं तस्थौ भागवताशया ॥ ६६ ॥
 अथ वृन्दावने मासं गोवर्धनसमीपतः ।
 श्रीमद् भागवास्वादस्तु उद्धवेन प्रवर्तितः ॥ ६७ ॥
 तस्मिन् आस्वाद्यमाने तु सच्चिदानन्दरूपिणी ।
 प्रचकाशे हरेर्लीला सर्वतः कृष्ण एव च ॥ ६८ ॥
 आत्मानं च तदन्तःस्थं सर्वेऽपि ददृशुस्तदा ।
 वज्रस्तु दक्षिणे दृष्ट्वा कृष्णपादसरोप्रुहे ॥ ६९ ॥
 स्वात्मानं कृष्णवैधुर्यान् मुक्तस्तद्‌भुव्यशोभत ।
 ताश्च तन्मातरं कृष्णे रासरात्रिप्रकाशिनि ॥ ७० ॥
 चन्द्रे कलाप्रभारूपं आत्मानं वीक्ष्य विस्मिताः ।
 स्वप्रेष्ठविरहव्याधिविमुक्ताः स्वपदं ययुः ॥ ७१ ॥
 येऽन्ये च तत्र ते सर्वे नित्यलीलान्तरं गताः ।
 व्यावहारिकलोकेभ्यः सद्योऽदर्शनमागताः ॥ ७२ ॥
 गोवर्धननिकुञ्जेषु गोषु वृन्दावनादिषु ।
 नित्यं कृष्णेन मोदन्ते दृश्यन्ते प्रेमतत्परैः ॥ ७३ ॥
 सूत उवाच -
ये एतां भगवत्‌प्राप्तिं श्रुणुयाच्चापि कीर्तयेत् ।
 तस्य वै भगवत् प्राप्तिः दुःखहानिश्च जायते ॥ ७४ ॥


इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे
परीक्षिद् उद्धवसंवादे श्रीमद् भागवतमाहात्म्ये तृतीयोऽध्यायः ॥ ३ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥