श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः १ श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः २
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः ३ →


ऋषयः ऊचुः -
शाण्डिल्ये तौ समादिश्य परावृत्ती स्वमाश्रमम् ।
 किं कथं चक्रतुस्तौ तु राजानौ सूत तद् वद ॥ १ ॥
 सूत उवाच -
ततस्तु विष्णुरातेन श्रेणीमुख्याः सहस्रशः ।
 इन्द्रप्रस्थान् समानाय्य मथुरास्थानमापिताः ॥ २ ॥
 माथुरान् ब्राह्मणान् तत्र वानरांश्च पुरातनान् ।
 विज्ञाय माननीयत्वं तेषु स्थापैतवान् स्वराट् ॥ ३ ॥
 वज्रस्तु तत्सहायेन शाण्डिल्यस्याप्यनुग्रहात् ।
 गोविन्दगोपगोपीनां लीलास्थानान्यनुक्रमात् ॥ ४ ॥
 विज्ञायाभिधयाऽऽस्थाप्य ग्रामानावासयद् बहून् ।
 कुण्डकूपादिपूर्तेन शिवादिस्थापनेन च ॥ ५ ॥
 गोविन्दहरिदेवादि स्वरूपारोपणेन च ।
 कृष्णाइकभक्तिं स्वे राज्ये ततान च मुमोद ह ॥ ६ ॥
 प्रजास्तु मुदितास्तस्य कृष्णकीर्तनतत्पराः ।
 परमानन्दसम्पन्ना राज्यं तस्यैव तुष्टुवुः ॥ ७ ॥
 एकदा कृष्णपत्‍न्यस्तु श्रीकृष्णविरहातुराः ।
 कालिन्दीं मुदितां वीक्ष्य तत्तासां करुणापरमानसा ॥ १० ॥
 कालिन्दी उवाच -
आत्मारामस्य कृष्णस्य ध्रुवमात्मास्ति राधिका ।
 तस्या दास्यप्रभावेण विरहोऽस्मान् न संस्पृशेत् ॥ ११ ॥
 तस्या एवांशविस्ताराः सर्वाः श्रीकृष्णनायिकाः ।
 नित्यसम्भोग एवास्ति तस्याः साम्मुख्ययोगतः ॥ १२ ॥
 स एव सा स सैवास्ति वंशी तत्प्रेमरूपिका ।
 श्रीकृष्णनखचन्द्रालि सङ्‌घाच्चन्द्रावली स्मृता ॥ १३ ॥
 रूपान्तरमगृह्णाना तयोः सेवातिलालसा ।
 रुक्मिण्यादिसमावेशो मयात्रैव विलोकितः ॥ १४ ॥
 युष्माकमपि कृष्णेन विरहो नैव सर्वतः ।
 किन्तु एवं न जानीथ तस्माद् व्याकुलतामिताः ॥ १५ ॥
 एवमेवात्र गोपीनां अक्रूरावसरे पुरा ।
 विरहाभास एवासीद् उद्धवेन समाहितः ॥ १६ ॥
 तेनैव भवतीनां चेद् भवेदत्र समागमः ।
 तर्हि नित्यं स्वकान्तेन विहारमपि पल्स्यथ ॥ १७ ॥
 सूत उवाच -
एवमुक्तास्तु ताः पत्‍न्यः प्रसन्नां पुनरब्रुवन् ।
 उद्धवालोकनेनात्म प्रेष्ठसङ्‌गमलालसाः ॥ १८ ॥
 श्रीकृष्णपत्‍न्य ऊचुः -
धन्यासि सखि कान्तेन यस्या नैवास्ति विच्युतिः ।
 यतस्ते स्वार्थसंसिद्धिः तस्या दास्यो बभूविम ॥ १९ ॥
 परन्तूद्धवलाभे स्याद् अस्मत् सर्वार्थसाधनम् ।
 तथा वदस्व कालिन्दि तल्लाभोऽपि यथा भवेत् ॥ २० ॥
 सूत उवाच -
एवमुक्ता तु कालिन्दी प्रत्युवाचाथ तास्तथा ।
 स्मरन्ती कृष्णचन्द्रस्य कलाः षोडशरूपिणीः ॥ २१ ॥
 साधनभूमिर्बदरी व्रजता कृष्णेन मंत्रिणे प्रोक्ता ।
 तत्रास्ते स तु साक्षात् तद् वयुनं ग्राहयन् लोकान् ॥ २२ ॥
 फलभूमिर्व्रजब्ःउमिः दत्ता तस्मै पुरैव सरहस्यम् ।
 फलमिह तिरोहितं सत्तद् इहेदानीं स उद्धवोऽलक्ष्यः ॥ २३ ॥
 गोवर्द्धनगिरिनिकटे सखीस्थले तद्‍६रजः कामः ।
 तत्रत्याङ्‌‍कुरवल्लीरूपेणास्ते स उद्धवो नूनम् ॥ २४ ॥
 आत्मोत्सवरूपत्वं हरिणा तस्मै समार्पितं नियतम् ।
 तस्मात् तत्र स्थित्वा कुसुमसरःपरिसरे सवज्राभिः ॥ २५ ॥
 वीणावेणुमृदङ्‌गैः कीर्तनकाव्यादिसरससङ्‌गीतैः ।
 उत्सव आरब्धव्यो हरिरतलोकान् समानाय्य ॥ २६ ॥
 तत्रोद्धवावलोको भविता नियतं महोत्सवे वितते ।
 यौष्माकीणां अभिमतसिद्धिं सविता स एव सवितानाम् ॥ २७ ॥
 सूत उवाच -
इति श्रुत्वा प्रसन्नास्ताः कालिन्दीं अभिवन्द्य तत् ।
 कथयामासुरागत्य वज्रं प्रति परीक्षितम् ॥ २८ ॥
 विष्णुरातस्तु तत् श्रुत्वा प्रसन्नस्तद्युतस्तदा ।
 तत्रैवागत्य तत् सर्वं कारयामास सत्वरम् ॥ २९ ॥
 गोवर्द्धनाददूरेण वृन्दारण्ये सखीस्थले ।
 प्रवृत्तः कुसुमाम्भोधौ कृष्णसंकीर्तनोत्सवः ॥ ३० ॥
 वृषभानुसुताकान्त विहारे कीर्तनश्रिया ।
 साक्षादिव समावृत्ते सर्वेऽनन्यदृशोऽभवन् ॥ ३१ ॥
 ततः पश्यत्सु सर्वेषु तृणगुल्मलताचयात् ।
 आजगामोद्धवः स्रग्वी श्यामः पीताम्बरावृतः ॥ ३२ ॥
 गुञ्जमालाधरो गायन् वल्लवीवल्लभं मुहुः ।
 तदागमनतो रेजे भृशं सङ्‌कीर्तनोत्सवः ॥ ३३ ॥
 चन्द्रिकागमतो यद्वत् स्फाटिकाट्टालभूमणिः ।
 अथ सर्वे सुखाम्भोधौ मग्नाः सर्वं विसस्मरुः ॥ ३४ ॥
 क्षणेनागतविज्ञाना दृष्ट्वा श्रीकृष्णरूपिणम् ।
 उद्धवं पूजयाञ्चक्रुः प्रतिलब्धमनोरथाः ॥ ३५ ॥


इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे
श्रीमद् भागवतमाहात्म्ये गोवर्धनपर्वतसमीपे परीक्षिदादीनां उद्धवदर्शनवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥