श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः १३ श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः १
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः २ →


श्रीसच्चिदानन्दघन स्वरूपिणे
     कृष्णाय चानन्तसुखाभिवर्षिणे ।
 विश्वोद्‌भवस्थाननिरोधहेतवे
     नुमो नु वयं भक्तिरसाप्तयेऽनिशम् ॥ १ ॥
 नैमिषे सूतमासीनं अभिवाद्य महामतिम् ।
 कथामृतरसास्वाद कुशला ऋषयोऽब्रुवन् ॥ २ ॥
 ऋषयः ऊचुः -
वज्रं श्रीमाथुरे देशे स्वपौत्रं हस्तिनापुरे ।
 अभिषिच्य गते राज्ञि तौ कथं किंच चक्रतुः ॥ ३ ॥
 सूत उवाच -
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
 देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ४ ॥
 महापथं गते राज्ञि परीक्षित् पृथिवीपतिः ।
 जगाम मथुरां विप्रा वज्रनाभदिदृक्षया ॥ ५ ॥
 पितृव्यमागतं ज्ञात्वा वज्रः प्रेमपरिप्लुतः ।
 अभिगम्याभिवाद्याथ निनाय निजमन्दिरम् ॥ ६ ॥
 परिष्वज्य स तं वीरः कृष्णैकगतमानसः ।
 रोहिण्याद्या हरेः पत्‍नीः ववन्दायतनागतः ॥ ७ ॥
 ताभिः संमानितोऽत्यर्थं परीक्षित् पृथिवीपतिः ।
 विश्रान्तः सुखमासीनो वज्रनाभमुवाच ह ॥ ८ ॥
 परीक्षिदुवाच -
तात त्वत्पितृभिः नूनं अस्मत् पितृपितामहाः ।
 उद्‌धृता भूरिदुःखौघादहं च परिरक्षितः ॥ ९ ॥
 न पारयाम्यहं तात साधु कृत्वोपकारतः ।
 त्वामतः प्रार्थयाम्यङ्‌ग सुखं राज्येऽनुयुज्यताम् ॥ १० ॥
 कोशसैन्यादिजा चिन्ता तथारिदमनादिजा ।
 मनागपि न कार्या ए सुसेव्याः किन्तु मातरः ॥ ११ ॥
 निवेद्य मयि कर्तव्यं सर्वाधिपरिवर्जनम् ।
 श्रुत्वैतत् परमप्रीतो वज्रस्तं प्रत्युवाच ह ॥ १२ ॥
 वज्रनाभ उवाच -
राज उचितमेतत्ते यदस्मासु प्रभाषसे ।
 त्वत्पित्रोपकृतश्चाहं धनुर्विद्याप्रदानतः ॥ १३ ॥
 तस्मात् नाल्पापि मे चिन्ता क्षात्रं दृढमुपेयुषः ।
 किन्त्वेका परमा चिन्ता तत्र किञ्चिद् विचार्यताम् ॥ १४ ॥
 माथुरे त्वभिषिक्तोऽपि स्थितोऽहं निर्जने वने ।
 क्व गता वै प्रजात्रत्या अत्र राज्यं प्ररोचते ॥ १५ ॥
 इत्युक्तो विष्णुरातस्तु नदादीनां पुरोहितम् ।
 शाण्डिल्यमाजुहावाशु वज्रसन्देहमुत्तये ॥ १६ ॥
 अथोटजं विहायाशु शाण्डिल्यः समुपागतः ।
 पूजितो वज्रनाभेन निषसादासनोत्तमे ॥ १७ ॥
 उपोद्‌घातं विष्णुरातः चकाराशु ततस्त्वसौ ।
 उवाच परमप्रीतस्तावुभौ परिसान्त्वयन् ॥ १८ ॥
 शाण्डिल्य उवाच -
श्रृणुतं दत्तचित्तौ मे रहस्यं व्रजभूमिजम् ।
 व्रजनं व्याप्तिरित्युक्त्या व्यापनाद् व्रज उच्यते ॥ १९ ॥
 गुणातीतं परं ब्रह्म व्यापकं व्रज उच्यते ।
 सदानन्दं परं ज्योतिः मुक्तानां पदमव्ययम् ॥ २० ॥
 तस्मिन् नन्दात्मजः कृष्णः सदानन्दाङ्‍‌गविग्रहः ।
 आत्मारामस्चाप्तकामः प्रेमाक्तैरनुभूयते ॥ २१ ॥
 आत्मा तु राधिका तस्य तयैव रमणादसौ ।
 आत्मारामतया प्राज्ञैः प्रोच्यते बूढवेदिभिः ॥ २२ ॥
 कामास्तु वाञ्छितास्तस्य गावो गोपाश्च गोपिकाः ।
 नित्यां सर्वे विहाराद्या आप्तकामस्ततस्त्वयम् ॥ २३ ॥
 रहस्यं त्विदमेतस्य प्रकृतेः परमुच्यते ।
 प्रकृत्या खेलतस्तस्य लीलान्यैरनुभूयते ॥ २४ ॥
 सर्गस्थित्यप्यया जत्र रजःसत्त्वतमोगुणैः ।
 लीलैवं द्विविधा तस्य वास्तवी व्यावहारिकी ॥ २५ ॥
 वास्तवी तत्स्वसंवेद्या जीवानां व्यावहारिकी ।
 आद्यां विना द्वितीया न द्वितीया नाद्यगा क्वचित् ॥ २६ ॥
 युवयोः गोचरेयं तु तल्लीला व्यावहारिकी ।
 यत्र भूरादयो लोका भुवि माथुरमण्डलम् ॥ २७ ॥
 अत्रैव व्रजभूमिः सा यत्र तत्वं सुगोपितम् ।
 भासते प्रेमपूर्णानां कदाचिदपि सर्वतः ॥ २८ ॥
 कदाचित् द्वापरस्यान्ते रहोलीलाधिकारिणः ।
 समवेता यदात्र स्युः यथेदानीं तदा हरिः ॥ २९ ॥
 स्वैः सहावतरेत् स्वेषु समावेशार्थमीप्सिताः ।
 तदा देवादयोऽप्यन्ये ऽवरन्ति समन्ततः ॥ ३० ॥
 सर्वेषां वाञ्छितं कृत्वा हरिरन्तर्हितोऽभवत् ।
 तेनात्र त्रिविधा लोकाः स्थिताः पूर्वं न संशयः ॥ ३१ ॥
 नित्यास्तल्लिप्सवश्चैव देवाद्याश्चेति भेदतः ।
 देवाद्यास्तेषु कृष्णेन द्वारिकां प्रापिताः पुरा ॥ ३२ ॥
 पुनर्मौसलमार्गेण स्वाधिकारेषु चापिताः ।
 तल्लिप्सूंश्च सदा कृष्णः प्रेमानन्दैकरूपिणः ॥ ३३ ॥
 विधाय स्वीयनित्येषु समावेशितवांस्तदा ।
 नित्याः सर्वेऽप्ययोग्येषु दर्शनाभावतां गताः ॥ ३४ ॥
 व्यावकारिकलीलास्थाः तत्र यन्नाधिकारिणः ।
 पश्यन्त्यत्रागतास्तत्मात् निर्जनत्वं समन्ततः ॥ ३५ ॥
 तस्माच्चिन्ता न ते कार्या वज्रनाभ मदाज्ञया ।
 वासयात्र बहून् ग्रामान् संसिद्धिस्ते भविष्यति ॥ ३६ ॥
 कृष्णलीलानुसारेण कृत्वा नामानि सर्वतः ।
 त्वया वासयता ग्रामान् संसेव्या भूरियं परा ॥ ३७ ॥
 गोवर्द्धने दीर्घपुरे मथुरायां महावने ।
 नन्दिग्रामे बृहत्सानौ कार्या राज्यस्थितिस्त्वया ॥ ३८ ॥
 नद्यद्रिद्रोणिकुण्डादि कुञ्जान् संसेवतस्तव ।
 राज्ये प्रजाः सुसम्पन्नास्त्वं च प्रीतो भविष्यसि ॥ ३९ ॥
 सच्चिदानन्दभूरेषा त्वया सेव्या प्रयत्‍नतः ।
 तव कृष्णस्थलान्यत्र स्फुरन्तु मदनुग्रहात् ॥ ४० ॥
 वज्र संसेवनादस्य उद्धवस्त्वां मिलिष्यति ।
 ततो रहस्यमेतस्मात् प्राप्स्यसि त्वं समातृकः ॥ ४१ ॥
 एवमुक्त्वा तु शाण्डिल्यो गतः कृष्णमनुस्मरन् ।
 विष्णूरातोऽथ वज्रश्च परां प्रीत्तिमवापतुः ॥ ४२ ॥


इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे
श्रीमद् भागवतमाहात्म्ये शाण्डील्योपदिष्ट व्रजभूमिमाहात्म्यवर्णनं नाम प्रथोमोऽध्यायः ॥ १ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥