श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः १३
← श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः १२ | श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः १३ [[लेखकः :|]] |
श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः १ → |
सूत उवाच -
(शार्दूलविक्रीडित)
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ १॥
पृष्ठे भ्राम्यदमन्दमन्दरगिरि ग्रावाग्रकण्डूयनान्
निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।
यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसां
यातायातमतन्द्रितं जलनिधेः नाद्यापि विश्राम्यति ॥ २ ॥
(अनुष्टुप्)
पुराणसङ्ख्यासंभूतिं अस्य वाच्यप्रयोजने ।
दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥ ३ ॥
ब्राह्मं दश सहस्राणि पाद्मं पञ्चोनषष्टि च ।
श्रीवैष्णवं त्रयोविंशत् चतुर्विंशति शैवकम् ॥ ४ ॥
दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति ।
मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम् ॥ ५ ॥
चतुर्दश भविष्यं स्यात् तथा पञ्चशतानि च ।
दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ॥ ६ ॥
चतुर्विंशति वाराहं एकाशीतिसहस्रकम् ।
स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ ७ ॥
कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश ।
एकोनविंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ ८ ॥
एवं पुराणसन्दोहः चतुर्लक्ष उदाहृतः ।
तत्राष्टदशसाहस्रं श्रीभागवतं इष्यते ॥ ९ ॥
इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे ।
स्थिताय भवभीताय कारुण्यात् संप्रकाशितम् ॥ १० ॥
आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् ।
हरिलीलाकथाव्रात अमृतानन्दितसत्सुरम् ॥ ११ ॥
सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।
वस्तु अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ १२ ॥
प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।
ददाति यो भागवतं स याति परमां गतिम् ॥ १३ ॥
राजन्ते तावदन्यानि पुराणानि सतां गणे ।
यावद् न दृष्यते साक्षात् श्रीमद् भागवतं परम् ॥ १४ ॥
सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।
तद् रसामृततृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ १५ ॥
निम्नगानां यथा गङ्गा देवानामच्युतो यथा ।
वैष्णवानां यथा शम्भुः पुराणानां इदं तथा ॥ १६ ॥
क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा ।
तथा पुराणव्रातानां श्रीमद्भागवतं द्विजाः ॥ १७ ॥
(शार्दूलविक्रीडित)
श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं
यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।
तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविस्कृतं
तत् श्रृण्वन् विपठन् विचारणपरो भक्त्या विमुच्येन्नरः ॥ १८ ॥
कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा
तद् रूपेण च नारदाय मुनये कृष्णाय तद् रूपिणा ।
योगीन्द्राय तदात्मनाथ भगवत् राताय कारुण्यतः
तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ १९ ॥
(अनुष्टुप्)
नमस्तस्मै भगवते वासुदेवाय साक्षिणे ।
य इदं कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ २० ॥
योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।
संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥ २१ ॥
भवे भवे यथा भक्तिः पादयोस्तव जायते ।
तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो ॥ २२ ॥
नामसङ्कीर्तनं यस्य सर्वपाप प्रणाशनम् ।
प्रणामो दुःखशमनः त नमामि हरिं परम् ॥ २३ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥