श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः ३ श्रीमद्भागवतपुराणम्/श्रीस्कान्दे माहात्म्यम्/अध्यायः ४
[[लेखकः :|]]
श्रीमद्भागवतपुराणम् →


श्रीमद् भागवतस्य वक्तृश्रोतॄणां लक्षणानि, भागवतश्रवणस्य फलं विधिश्च -


ऋषयः ऊचुः -
साधु सूत चिरं जीव चिरमेवं प्रशाधि नः ।
 श्रीभागवमाहात्म्यं अपूर्वं त्वन् मुखाच्छ्रुतम् ॥ १ ॥
 तत्स्वरूपं प्रमाणं च विधिं च श्रवणे वद ।
 तद्वक्तुर्लक्षणं सूत श्रोतुश्चापि वदाधुना ॥ २ ॥
 सूत उवाच -
श्रीमद् भागवतस्याथ श्रीमद्‌भगवतः सदा ।
 स्वरूपमेकमेवास्ति सच्चिदानन्दलक्षणम् ॥ ३ ॥
 श्रीकृष्णासक्तभक्तानां तन्माधुर्यप्रकाशकम् ।
 समुज्जृम्भति यद्वाक्यं विद्धि भागवतं हि तत् ॥ ४ ॥
 ज्ञानविज्ञान भक्त्यङ्‌ग चतुष्टयपरं वचः ।
 मायामर्दनदक्षं च विद्धि भागवतं च तत् ॥ ५ ॥
 प्रमाणं तस्य को वेद ह्यनन्तस्याक्षरात्मनः ।
 ब्रह्मणे हरिणा तद्दिक् चतुःश्लोक्या प्रदर्शिता ॥ ६ ॥
 तदानन्त्यावगाहेन स्वेप्सितावहनक्षमाः ।
 ते एव सन्ति भो विप्रा ब्रह्मविष्णुशिवादयः ॥ ७ ॥
 मितबुद्ध्यादिवृत्तीनां मनुष्याणां हिताय च ।
 परीक्षिच्छुकसंवादो योऽसौ व्यासेन कीर्तितः ॥ ८ ॥
 ग्रन्तोऽष्टादशसाहस्रो योऽसौ भागवताभिधः ।
 कलिग्राहगृहीतानां स एव परमाश्रयः ॥ ९ ॥
 श्रोतारोऽथ निरूप्यन्ते श्रीमद् विष्णुकथाश्रयाः ।
 प्रवरा अवराश्चेति श्रोतारो द्विविधा पताः ॥ १० ॥
 प्रवराश्चातको हंसः शुको मीनादयस्तथा ।
 अवरा वृकभूरुण्डवृषोष्ट्राद्याः प्रकीर्तिताः ॥ ११ ॥
 अखिलोपेक्षया यस्तु कृष्णशास्त्रश्रुतौ व्रती ।
 सः चातको यथाम्भोदमुक्ते पाथसि चातकः ॥ १२ ॥
 हंसः स्यात् सारमादत्ते यः श्रोता विविधाच्छ्रुतात् ।
 दुग्धेनैक्यं गतात्तोयाद् यथा हंसोऽमलं पयः ॥ १३ ॥
 शुकः सुष्ठु मितं वक्ति व्यासम् श्रोतॄंश्च हर्षयन् ।
 सुपाठितः शुको यद्वत् शिक्षकं पार्श्वगानपि ॥ १४ ॥
 शब्दं नानिमिषो जातु करोत्यास्वादयन् रसम् ।
 श्रोता स्निग्धो भवेन्मीनो मीनः क्षीरनिधौ यथा ॥ १५ ॥
 यस्तुदन् रसिकान् श्रोतॄन् व्रौत्यज्ञो वृको हि सः ।
 वेणुस्वनरसासक्तान् वृकोऽरण्ये मृगान् हथा ॥ १६ ॥
 भूरुण्डः शिक्षयेदन्यात् श्रुत्वा न स्वयमाचरेत् ।
 यथा हिमवतः श्रृंगे भूरुण्डाखो विहंगमः ॥ १७ ॥
 सर्वं श्रुतमुपादत्ते सारासारान्धधीर्वृषः ।
 स्वादुद्राक्षां खलिं चापि निर्विशेषं यथा वृषः ॥ १८ ॥
 स उष्ट्रो मधुरं मुञ्चन् विपरीते रमेत यः ।
 यथा निम्बं चरत्युष्ट्रो हित्वाम्रमपि तद्‌युतम् ॥ १९ ॥
 अन्येऽपि बहवो भेदा द्वयोर्भृङ्‌गखरादयः ।
 विज्ञेयास्तत्तदाचारैः तत्तत्प्रकृतिसम्भवैः ॥ २० ॥
 यः स्थित्वाभिमुखं प्रणम्य विधिवत्
     त्यक्तान्यवादो हरेः ।
 लीलाः श्रोतुमभीप्सतेऽतिनिपुणो
     नम्रोऽथ कॢपाञ्जलिः ।
 शिष्यो विश्वसितोऽनुचिन्तनपरः
     प्रश्नेऽनुरक्तः शुचिः ।
 नित्यं कृष्णजनप्रियो निगदितः
     श्रोता स वै वक्तृभिः ॥ २१ ॥
 भावगन्मतिरनपेक्षः सुहृदो दीनेषु स्मानुकम्पो यः ।
 बहुधा बोधनचतुरो वक्ता सम्मानितो मुनिभिः ॥ २२ ॥
 अथ भारतभृस्थाने श्रीभागवतसेवने ।
 विधिं श्रृणुत भो विप्रा येन स्यात् सुखसन्ततिः ॥ २३ ॥
 राजसं सत्त्विकं चापि तामसं निर्गुणं तथा ।
 चतुर्विधं तु विज्ञेयं श्रीभागवतसेवनम् ॥ २४ ॥
 सप्ताहं यज्ञवद् यत्तु सश्रमं सत्वरं मुदा ।
 सेवितं राजसं तत्तु बहुपूजादिशोभनम् ॥ २५ ॥
 मासेन ऋतुना वापि श्रवणं स्वादसंयुतम् ।
 सात्त्विकं यदनायासं समस्तानन्दवर्धनम् ॥ २६ ॥
 तामसं यत्तु वर्षेण सालसं श्रद्धया युतम् ।
 विस्मृतिस्मृतिसंयुक्तं सेवनं तच्च सौख्यदम् ॥ २७ ॥
 वर्षमासदिनानां तु विमुच्य नियमाग्रहम् ।
 सर्वदा प्रेमभक्त्यैव सेवनं निर्गुणं मतम् ॥ २८ ॥
 पारीक्षितेऽपि संवादे निर्गुणं तत् प्रकीर्तितम् ।
 तत्र सप्तदिनाख्यानं तदायुर्दिनसंखय्या ॥ २९ ॥
 अन्यत्र त्रिगुणं चापि निर्गुणं च यथेच्छया
 यथा कथञ्चित् कर्तव्यं सेवनं भगवच्छ्रुतेः ॥ ३० ॥
 ये श्रीकृष्णविहारैक भजनास्वादलोलुपाः ।
 मुक्तावपि निराकाङ्‌क्षाः तेषां भागवतं धनम् ॥ ३१ ॥
 येऽपि संसारसन्तापनिर्विण्णा मोक्षकाङ्‌क्षिणः ।
 तेषां भवौषधं चैतत् कलौ सेव्यं प्रयत्‍नतः ॥ ३२ ॥
 ये चापि विषयारामाः सांसारिकसुखस्पृहाः ।
 तेषां तु कर्म मार्गेण या सिद्धिः साधुना कलौ ॥ ३३ ॥
 सामर्थ्यधनविज्ञानाभावादत्यन्तदुर्लभा ।
 तस्मात्तैरपि संसेव्या श्रीमद्‌भागवती कथा ॥ ३४ ॥
 धनं पुत्रांस्तथा दारान् वाहनादि यशो गृहान् ।
 असापत्‍न्यं च राज्यं च दद्यात् भागवती कथा ॥ ३५ ॥
 इह लोके वरान् भुक्त्वा भोगान् वै मनसेप्सितान् ।
 श्रीभागवतसंगेन यात्यन्ते श्रीहरेः पदम् ॥ ३६ ॥
 यत्र भागवती वार्ता ये च तच्छ्रवणे रताः ।
 तेषां संसेवनं कुर्याद् देहेन च धनेन च ॥ ३७ ॥
 तदनुग्रहतोऽस्यापि श्रीभागवतसेवनम् ।
 श्रीकृष्णव्यतिरिक्तं यत्तत् सर्वं धनसंज्ञितम् ॥ ३८ ॥
 कृष्णार्थीति धनार्थीति श्रोता वक्ता द्विधा मतः ।
 यथा वक्ता तथा श्रोता तत्र सौख्यं विवर्धते ॥ ३९ ॥
 उभयोर्वैपरीत्ये तु रसाभासे फलच्युतिः ।
 किन्तु कृष्णार्थिनां सिद्धिः विलम्बेनापि जायते ॥ ४० ॥
 धनार्थिनस्तु संसिद्धिः विधिसंपूर्णतावशात् ।
 कृष्णार्थिनोऽगुणस्यापि प्रेमैव विधिरुत्तमः ॥ ४१ ॥
 आसमाप्ति सकामेन कर्त्तव्यो हि विधिः स्वयम् ।
 स्नातो नित्यक्रियां कृत्वा प्राश्य पादोदकं हरेः ॥ ४२ ॥
 पुस्तकं च गुरुं चैव पूजयित्वोपचारतः ।
 ब्रूयाद् वा श्रृणुयाद् वापि श्रीमद्‌भागवतं मुदा ॥ ४३ ॥
 पयसा वा हविषेण मौनं भोजमाचरेत् ।
 ब्रह्मचर्यमधःसुप्तिं क्रोधलोभादिवर्जनम् ॥ ४४ ॥
 कथान्ते कीर्तनं नित्यं समाप्तौ जागरं चरेत् ।
 ब्रह्मणान् भोजयित्वा तु दक्षिणाभिः प्रतोषयेत् ॥ ४५ ॥
 गुरवे वस्त्रभूषादि दत्त्वा गां च समर्पयेत् ।
 एवं कृते विधाने तु लभते वाञ्छितं फलम् ॥ ४६ ॥
 दारागारसुतान् राज्यं धनादि च यदीप्सितम् ।
 परंतु शोभते नात्र सकामत्वं विडम्बनम् ॥ ४७ ॥
 कृष्णप्राप्तिकरं शश्वत् प्रेमानन्दफलप्रदम् ।
 श्रीमद्‌भागवतं शास्त्रं कलौ कीरेण भाषितम् ॥ ४८ ॥


इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे
श्रीमद् भागवतमाहात्म्ये भागवत श्रोतृवक्तृ लक्षणविधिनिरूपणं नाम चतुर्थोऽध्यायः ॥ ४ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥