श्रीमद्भागवतपुराणम्/माहात्म्य (पाद्मे)/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२ श्रीमद्भागवतपुराणम्
माहात्म्य (पाद्मे)/अध्यायः ०३
[[लेखकः :|]]
अध्यायः ०४ →


 श्रीमद्‌भागवतमाहात्म्यम् - तृतीयोऽध्यायः

सनकादिमुखात् श्रीमद्‌भागवतश्रवणेन भक्त्तेस्तुष्टीर्ज्ञानवैराग्ययोः पुष्टिश्च -

नारद उवाच -
(अनुष्टुप्)
ज्ञानयज्ञं करिष्यामि शुकशास्त्रकथोज्ज्वलम् ।
भक्तिर्ज्ञानविरागाणां स्थापनार्थं प्रयत्‍नतः ॥ १ ॥
कुत्र कार्यो मया यज्ञः स्थलं तद्‌वाच्यतामिह ।
महिमा शुकशास्त्रस्य वक्तव्यो वेदपारगैः ॥ २ ॥
कियद्‌भिः दिवसैः श्राव्या श्रीमद्‌भागवती कथा ।
को विधिः तत्र कर्तव्यो ममेदं ब्रुवतामितः ॥ ३ ॥
कुमारा ऊचुः -
श्रृणु नारद वक्ष्यामो विनम्राय विवेकिने ।
गंगाद्वारसमीपे तु तटं आनन्दनामकम् ॥ ४ ॥
नानाऋषिगणैर्जुष्टं देवसिद्धनिषेवनम् ।
नानातरुलताकीर्णं नवकोमलवालुकम् ॥ ५ ॥
रम्यं एकान्तदेशस्थं हेमपद्मसुसौरभम् ।
यत्समीपस्थजीवानां वैरं चेतसि न स्थितम् ॥ ६ ॥
ज्ञानयज्ञस्त्वया तत्र कर्तव्यो हि अप्रयत्‍नतः ।
अपूर्वरसरूपा च कथा तत्र भविष्यति ॥ ७ ॥
पुरःस्थं निर्बलं चैव जराजीर्णकलेवरम् ।
तद्‌द्वयं च पुरस्कृत्य भक्तिस्तत्रागमिष्यति ॥ ८ ॥
यत्र भागवती वार्ता तत्र भक्त्यादिकं व्रजेत् ।
कथाशब्दं समाकर्ण्य तत्त्रिकं तरुणायते ॥ ९ ॥
सूत उवाच -
एवमुक्त्वा कुमारास्ते नारदेन समं ततः ।
गंगातटं समाजग्मुः कथापानाय सत्वराः ॥ १० ॥
यदा यातास्तटं ते तु तदा कोलाहलोऽप्यभूत् ।
भूर्लोके देवलोके च ब्रह्मलोके तथैव च ॥ ११ ॥
श्रीभागवतपीयूष पानाय रसलम्पटाः ।
धावन्तोऽप्याययुः सर्वे प्रथमं ये च वैष्णवाः ॥ १२ ॥
(वंशस्थ)
भृगुर्वसिष्ठश्च्यवनश्च गौतमो
     मेधातिथिर्देवलदेवरातौ ।
रामस्तथा गाधिसुतश्च शाकलो
     मृकण्डुपुत्रात्रिजपिप्पलादाः ॥ १३ ॥
(इंद्रवज्रा)
योगेश्वरौ व्यासपराशरौ च
     छायाशुको जाजलिजह्नुमुख्याः ।
सर्वेऽप्यमी मुनिगणाः सहपुत्रशिष्याः
     स्वस्त्रीभिराययुरतिप्रणयेन युक्ताः ॥ १४ ॥
(अनुष्टुप्)
वेदान्तानि च वेदाश्च मन्त्रास्तन्त्राः समूर्तयः ।
दशसप्तपुराणानि षट्शास्त्राणि तथाऽऽययुः ॥ १५ ॥
गंगाद्या सरितस्तत्र पुष्करादिसरांसि च ।
क्षेत्राणि च दिशः सर्वा दण्डकादि वनानि च ॥ १६ ॥
नगादयो ययुस्तत्र देवगन्धर्वदानवाः ।
गुरुत्वात्तत्र नायातान् भृगुः सम्बोध्य चानयत् ॥ १७ ॥
दीक्षिता नारदेनाथ दत्तं आसनमुत्तमम् ।
कुमारा वन्दिताः सर्वैः निषेदुः कृष्णतत्पराः ॥ १८ ॥
वैष्णवाश्च विरक्ताश्च न्यासिनो ब्रह्मचारिणः ।
मुखभागे स्थितास्ते च तदग्रे नारदः स्थितः ॥ १९ ॥
एकभागे ऋषिगणाः तद् अन्यत्र दिवौकसः ।
वेदोपनिषदो अन्यत्र तीर्थान् यत्र स्त्रियोऽन्यतः ॥ २० ॥
जयशब्दो नमःशब्दोः शंखशब्दस्तथैव च ।
चूर्णलाजा प्रसूनानां निक्षेपः सुमहान् अभूत् ॥ २१ ॥
विमानानि समारुह्य कियन्तो देवनायकाः ।
कल्पवृक्ष प्रसूनैस्तान् सर्वान् तत्र समाकिरन् ॥ २२ ॥
सूत उवाच -
एवं तेष्वकचित्तेषु श्रीमद्‌भागवस्य च ।
माहात्म्यं ऊचिरे स्पष्टं नारदाय महात्मने ॥ २३ ॥
कुमारा ऊचुः -
अथ ते वर्ण्यतेऽस्माभिः महिमा शुकशास्त्रजः ।
यस्य श्रवणमात्रेण मुक्तिः करतले स्थिता ॥ २४ ॥
सदा सेव्या सदा सेव्या श्रीमद्‌भागवती कथा ।
यस्याः श्रवणमात्रेण हरिश्चित्तं समाश्रयेत् ॥ २५ ॥
ग्रन्थोऽष्टादशसाहस्त्रो द्वादशस्कन्धसम्मितः ।
परीक्षित् शुकसंवादः श्रृणु भागवतं च तत् ॥ २६ ॥
तात संसारचक्रेऽस्मिन् भ्रमतेऽज्ञानतः पुमान् ।
यावत् कर्णगता नास्ति शुकशास्त्रकथा क्षणम् ॥ २७ ॥
किं श्रुतैबहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः ।
एकं भागवतं शास्त्रं मुक्तिदानेन गर्जति ॥ २८ ॥
कथा भागवतस्यापि नित्यं भवति यद्‌गृहे ।
तद्‌गृहं तीर्थरूपं हि वसतां पापनाशनम् ॥ २९ ॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
शुकशास्त्रकथायाश्च कलां नार्हन्ति षोडशीम् ॥ ३० ॥
तावत् पापानि देहेस्मिन् निवसन्ति तपोधनाः ।
यावत् न श्रूयते सम्यक् श्रीमद्‌भागवतं नरैः ॥ ३१ ॥
न गंगा न गया काशी पुष्करं न प्रयागकम् ।
शुकशास्त्रकथायाश्च फलेन समतां नयेत् ॥ ३२ ॥
श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्‌भवम् ।
पठस्व स्वमुखेनैव यदीच्छसि परां गतिम् ॥ ३३ ॥
वेदादिः वेदमाता च पौरुषं सूक्तमेव च ।
त्रयी भागवतं चैव द्वादशाक्षर एव च ॥ ३४ ॥
द्वादशात्मा प्रयागश्च कालं संवत्सरात्मकः ।
ब्राह्मणाश्चाग्निहोत्रं च सुरभिर्द्वादशी तथा ॥ ३५ ॥
तुलसी च वसन्तश्च पुरुषोत्तम एव च ।
एतेषां तत्त्वतः प्राज्ञैः न पृथ्ग्भाव इष्यते ॥ ३६ ॥
यश्च भागवतं शास्त्रं वाचयेत् अर्थतोऽनिशम् ।
जन्मकोटिकृतं पापं नश्यते नात्र संशयः ॥ ३७ ॥
श्लोकार्धं श्लोकपादं वा पठेत् भागवतं च यः ।
नित्यं पुण्यं अवाप्नोति राजसूयाश्वमेधयोः ॥ ३८ ॥
उक्तं भागवतं नित्यं कृतं च हरिचिन्तनम् ।
तुलसीपोषणं चैव धेनूनां सेवनं समम् ॥ ३९ ॥
अन्तकाले तु येनैव श्रूयते शुकशास्त्रवाक् ।
प्रीत्या तस्यैव वैकुण्ठं गोविन्दोऽपि प्रयच्छति ॥ ४० ॥
हेमसिंहयुतं चैतत् वैष्णवाय ददाति च ।
कृष्णेन सह सायुज्यं स पुमान् लभते ध्रुवम् ॥ ४१ ॥
(वसंततिलका)
आजन्ममात्रमपि येन शठेन किंचित्
     चित्तं विधाय शुकशास्त्रकथा न पीता ।
चाण्डालवत् च खरवत् बत तेन नीतं
     मिथ्या स्वजन्म जननी जनिदुःखभाजा ॥ ४२ ॥
जीवच्छवो निगदितः स तु पापकर्मा
     येन श्रुतं शुककथावचनं न किंचित् ।
धिक् तं नरं पशुसमं भुवि भाररूपम्
     एवं वदन्ति दिवि देवसमाजमुख्याः ॥ ४३ ॥
(अनुष्टुप्)
दुर्लभैव कथा लोके श्रीमद्‌भागवतोद्‌भवा ।
कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते ॥ ४४ ॥
तेन योगनिधे धीमन् श्रोतव्या सा प्रयत्‍नतः ।
दिनानां नियमो नास्ति सर्वदा श्रवणं मतम् ॥ ४५ ॥
सत्येन ब्रह्मचर्येण सर्वदा श्रवणं मतम् ।
अशक्यत्वात् कलौ बोध्यो विशेषोऽत्र शुकाज्ञया ॥ ४६ ॥
मनोवृत्तिजयश्चैव नियमाचरणं तथा ।
दीक्षां कर्तुं अशक्यत्वात् सप्ताहश्रवणं मतम् ॥ ४७ ॥
श्रद्धातः श्रवणे नित्यं माघे तावद्धि यत्फलम् ।
तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम् ॥ ४८ ॥
मनसश्च अजयात् रोगात् पुंसां चैवायुषः क्षयात् ।
कलेर्दोषबहुत्वाच्च सप्ताहश्रवणं मतम् ॥ ४९ ॥
यत्फलं नास्ति तपसा न योगेन समाधिना ।
अनायासेन तत्सर्वं सप्ताहश्रवणे लभेत् ॥ ५० ॥
यज्ञात् गर्जति सप्ताहः सप्ताहो गर्जति व्रतात् ।
तपसो गर्जति प्रोच्चैः तीर्थान्नित्यं हि गर्जति ॥ ५१ ॥
योगात् गर्जति सप्ताहो ध्यानात् ज्ञानाच्च गर्जति ।
किं ब्रूमो गर्जनं तस्य रे रे गर्जति गर्जति ॥ ५२ ॥
शौनक उवाच -
(इंद्रवंशा)
साश्चर्यमेतत्कथितं कथानकं
     ज्ञानादिधर्मान् विगणय्य साम्प्रतम् ।
निःश्रेयसे भागवतं पुराणं
     जातं कुतो योगविदादिसूचकम् ॥ ५३ ॥
सूत उवाच -
(अनुष्टुप्)
यदा कृष्णो धरां त्यक्त्वा स्वपदं गन्तुमुद्यतः ।
एकादशं परिश्रुत्यापि उद्धवो वाक्यमब्रवीत् ॥ ५४ ॥
उद्धव उवाच -
त्वं तु यास्यसि गोविन्द भक्तकार्यं विधाय च ।
मच्चित्ते महती चिन्ता तां श्रुत्वा सुखमावह ॥ ५५ ॥
आगतोऽयं कलिर्घोरो भविष्यन्ति पुनः खलाः ।
तत्संगेनैव सन्तोऽपि गमिष्यन्ति उग्रतां यदा ॥ ५६ ॥
तदा भारवती भूमिः गोरूपेयं कमाश्रयेत् ।
अन्यो न दृश्यते त्राता त्वत्तः कमललोचन ॥ ५७ ॥
अतः सस्तु दयां कृत्वा भक्तवत्सल मा व्रज ।
भक्तार्थं सगुणो जातो निराकारोऽपि चिन्मयः ॥ ५८ ॥
त्वद् वियोगेन ते भक्ताः कथं स्थास्यन्ति भूतले ।
निर्गुणोपासने कष्टं अतः किंचिद् विचारय ॥ ५९ ॥
इति उद्धववचः श्रुत्वा प्रभासेऽचिन्तयत् हरिः ।
भक्तावलम्बनार्थाय किं विधेयं मयेति च ॥ ६० ॥
स्वकीयं यद् भवेत् तेजः तच्च भागवतेऽदधात् ।
तिरोधाय प्रविष्टोऽयं श्रीमद् भागवतार्णवम् ॥ ६१ ॥
तेनेयं वाङ्‌मयी मूर्तिः प्रत्यक्षा वर्तते हरेः ।
सेवनात् श्रवणात् पाठात् दर्शनात् पापनाशिनी ॥ ६२ ॥
सप्ताहश्रवणं तेन सर्वेभ्योऽप्यधिकं कृतम् ।
साधनानि तिरस्कृत्य कलौ धर्मोऽयमीरितः ॥ ६३ ॥
दुःखदारिद्र्य दौर्भाग्य पापप्रक्षालनाय च ।
कामक्रोध जयार्थं हि कलौ धर्मोऽयमीरितः ॥ ६४ ॥
अन्यथा वैष्णवी माया देवैरपि सुदुस्त्यजा ।
कथं त्याज्या भवेत् पुम्भिः सप्ताहोऽतः प्रकीर्तितः ॥ ६५ ॥
सूत उवाच -
(इंद्रवज्रा)
एवं नगाहश्रवणोरुधर्मे
     प्रकाश्यमाने ऋषिभिः सभायाम् ।
आश्चर्यमेकं समभूत् तदानीं
     तदुच्यते संश्रृणु शौनको त्वम् ॥ ६६ ॥
भक्तिः सुतौ तौ तरुणौ गृहीत्वा
     प्रेमैकरूपा सहसाऽविरासीत् ।
श्रीकृष्ण गोविन्द हरे मुरारे
     नाथेति नामानि मुहुर्वदन्ती ॥ ६७ ॥
तां चागतां भागवतार्थभूषां
     सुचारुवेषां ददृशुः सदस्याः ।
कथं प्रविष्टा कथमागतेयं
     मध्ये मुनीनामिति तर्कयन्तः ॥ ६८ ॥
ऊचुः कुमारा वचनं तदानीं
     कथार्थतो निश्पतिताधुनेयम् ।
एवं गिरः सा ससुता निशम्य
     सनत्कुमारं निजगाद नम्रा ॥ ६९ ॥
भक्तिरुवाच -
(उपेंद्रवज्रा)
भवद्‌भिः अद्यैव कृतास्मि पुष्टा
     कलिप्रणष्टापि कथारसेन ।
क्वाहं तु तिष्ठाम्यधुना ब्रुवन्तु
     ब्राह्मा इदं तां गिरमूचिरे ते ॥ ७० ॥
(इंद्रवज्रा)
भक्तेषु गोविन्दसरूपकर्त्री
     प्रेमैकधर्त्री भवरोगहन्त्री ।
सा त्वं च तिष्ठस्व सुधैर्यसंश्रया
     निरंतरं वैष्णवमानसानि ॥ ७१ ॥
(उपेंद्रवज्रा)
ततोऽपि दोषाः कलिजा इमे त्वां
     द्रष्टुं न शक्ताः प्रभवोऽपि लोके ।
एवं तदाज्ञावसरेऽपि भक्तिः
     तदा निषण्णा हरिदासचित्ते ॥ ७२ ॥
(मालिनी)
सकलभुवनमध्ये निर्धनास्तेऽपि धन्या
     निवसति हृदि येषां श्रीहरेर्भक्तिरेका ।
हरिरपि निजलोकं सर्वथातो विहाय
     प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः ॥ ७३ ॥
(वसंततिलका)
ब्रूमोऽद्य ते किमधिकं महमानमेवं
     ब्रह्मात्मकस्य भुवि भागवताभिधस्य ।
यत्संश्रयात् निगदिते लभते सुवक्ता
     श्रोतापि कृष्णसमतामलमन्यधर्मैः ॥ ७४ ॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्‌भागवतमाहात्म्ये
भक्तिकष्टनिवर्तनं नाम तृतीयोऽध्यायः ॥ ३ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥