श्रीमद्भागवतपुराणम्/माहात्म्य (पाद्मे)/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१ श्रीमद्भागवतपुराणम्
माहात्म्य (पाद्मे)/अध्यायः ०२
[[लेखकः :|]]
अध्यायः ०३ →


 श्रीमद्‌भागवतमाहात्म्यम् - द्वितीयोऽध्यायः

भक्तेः क्लेशनिवृत्तये नारदस्य उद्योगः
नारद उवाच -
(अनुष्टुप्)
वृथा खेदयसे बाले अहो चिन्तातुरा कथम् ।
श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति ॥ १ ॥
द्रौपदी च परित्राता येन कौरवकश्मलात् ।
पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः ॥ २ ॥
त्वंतु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका ।
त्वयाऽऽहूतस्तु भगवान् याति नीचगृहेष्वपि ॥ ३ ॥
सत्यादित्रियुगे बोध वैराग्यौ मुक्तिसाधकौ ।
कलौ तु केवला भक्तिः ब्रह्मसायुज्यकारिणी ॥ ४ ॥
इति निश्चित्य चिद्‌रूपः सद्‌रूपां त्वां ससर्ज ह ।
परमानन्दचिन्मूर्ति सुंदरीं कृष्णवल्लभाम् ॥ ५ ॥
बद्ध्वांजलिं त्वया पृष्टं किं करोमीति चैकदा ।
त्वां तदाऽऽज्ञापयत् कृष्णो मद्‌भक्तान् पोषयेति च ॥ ६ ॥
अंगीकृतं त्वया तद्वै प्रसन्नोऽभूत् हरिस्तदा ।
मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकौ इमौ ॥ ७ ॥
पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च च ।
भूमौ भक्तविपोषाय छायारूपं त्वया कृतम् ॥ ८ ॥
मुक्तिं ज्ञानं विरक्तिं च सह कृत्वा गता भुवि ।
कृतादि द्वापरस्यान्तं महानन्देन संस्थिता ॥ ९ ॥
कलौ मुक्तिः क्षयं प्राप्ता पाखण्डामयपीडिता ।
त्वद् आज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा ॥ १० ॥
स्मृता त्वयापि चात्रैव मुक्तिरायाति याति च ।
पुत्रीकृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षितौ ॥ ११ ॥
उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव ।
तथापि चिन्तां मुञ्च त्वं उपायं चिन्तयाम्यहम् ॥ १२ ॥
कलिना सदृशः कोऽपि युगो नास्ति वरानने ।
तस्मिन् त्वां स्थापयिष्यामि गेहे गेहे जने जने ॥ १३ ॥
अन्यधर्मान् तिरस्कृत्य पुरस्कृत्य महोत्सवान् ।
तदा नाहं हरेर्दासो लोके त्वां न प्रवर्तये ॥ १४ ॥
त्वद् अन्विताश्च ये जीवा भविष्यन्ति कलौ इह ।
पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम् ॥ १५ ॥
येषां चित्ते वसेद्‌भक्तिः सर्वदा प्रेमरूपिणी ।
नते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ॥ १६ ॥
न प्रेतो न पिशाचो वा राक्षसो वासुरोऽपि वा ।
भक्तियुक्तमनस्कानां स्पर्शने न प्रभुर्भवेत् ॥ १७ ॥
न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा ।
हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः ॥ १८ ॥
नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते ।
कलौ भक्तिः कलौ भक्तिः भक्त्या कृष्णः पुरः स्थितः ॥ १९ ॥
भक्तिद्रोअकरा ये च ते सीदन्ति जगत्त्रये ।
दुर्वासा दुःखमापन्नः पुरा भक्तविनिन्दकः ॥ २० ॥
अलं व्रतैः अलं तीर्थैः अलं योगैरलं मखैः ।
अलं ज्ञानकथालापैः भक्तिरेकैव मुक्तिदा ॥ २१ ॥
सूत उवाच -
इति नारदनिर्णीतं स्वमायात्म्यं निशम्य सा ।
सर्वाङ्‍६गपुष्टिसंयुक्ता नारदं वाक्यमव्रवीत् ॥ २२ ॥
भक्तिरुवाच -
अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला ।
न कदाचिद् विमुञ्चामि चित्ते स्थास्यामि सर्वदा ॥ २३ ॥
कृपालुना त्वया साधो मद्‌बाधा ध्वंसिता क्षणात् ।
पुत्रयोश्चेतना नास्ति ततो बोधय बोधय ॥ २४ ॥
सूत उवाच -
तस्या वचः समाकर्ण्य कारुण्यं नारदो गतः ।
तयोर्बोधनमारेभे कराग्रेण विमर्दयन् ॥ २५ ॥
मुखं संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् ।
ज्ञान प्रबुध्यतां शीघ्रं रे वैराग्य प्रबुध्यताम् ॥ २६ ॥
वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः ।
बोध्यमानौ तदा तेन कथंचित् चोत्थितौ बलात् ॥ २७ ॥
नेत्रैः अनवलोकन्तौ जृम्भन्तौ सालसावुभौ ।
बकवत्पलितौ प्रायः शुष्ककाष्ठसमाङ्‍गकौ ॥ २८ ॥
क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापपरायणौ ।
ऋषिश्चिन्तापरो जातः किं विधेयं मयेति च ॥ २९ ॥
अहो निद्रा कथं याति वृद्धत्वं च महत्तरम् ।
चिन्तयन् इति गोविन्दं स्मारयामास भार्गव ॥ ३० ॥
व्योमवाणी तदैवाभूत् मा ऋषे खिद्यतामिति ।
उद्यमः सफलस्तेऽयं भविष्यति न संशयः ॥ ३१ ॥
एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर ।
तत्ते कर्माभिधास्यन्ति साधवः साधुभूषणाः ॥ ३२ ॥
सत्कर्मणि कृते तस्मिन् सनिद्रा वृद्धतानयोः ।
गमिष्यति क्षणाद्‌भक्तिः सर्वतः प्रसरिष्यति ॥ ३३ ॥
इत्याकाशवचः स्पष्टं तत्सर्वैरपि विश्रुतम् ।
नारदो विस्मयं लेभे नेदं ज्ञातमिति ब्रुवन् ॥ ३४ ॥
नारद उवाच -
अनयाऽऽकाशवाण्यापि गोप्यत्वेन निरूपितम् ।
किं वा तत्साधनं कार्यं येन कार्यं भवेत् तयोः ॥ ३५ ॥
क्व भविष्यन्ति सन्तस्ते कथं दास्यन्ति साधनम् ।
मयात्र किं प्रकर्तव्यं यदुक्तं व्योमभाषया ॥ ३६ ॥
सूत उवाच -
तत्र द्वौ अपि संस्थाप्य निर्गतो नारदो मुनिः ।
तीर्थं तीर्थं विनिष्क्रम्य पृच्छन् मार्गे मुनीश्वरान् ॥ ३७ ॥
वृत्तान्तः श्रूयते सर्वैः किंचित् निश्चित्य नोच्यते ।
असाध्यं केचन प्रोचुः दुर्ज्ञेयमिति चापरे ।
मूकीभूतास्तथान्ये तु कियन्तस्तु पलायिताः ॥ ३८ ॥
हाहाकारो महानासीत् त्रैलोक्ये विस्मयावहः ।
वेदवेदान्तघोषैश्च गीतापाठैर्विबोधितम् ॥ ३९ ॥
भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा
उपायो नापरोऽस्तीति कर्णे कर्णेऽजपञ्जनाः ॥ ४० ॥
योगिना नारदेनापि स्वयं न ज्ञायते तु यत् ।
तत्कथं शक्यते वक्तुं इतरैरिह मानुषैः ॥ ४१ ॥
एवं ऋषिगणैः पृष्टैः निर्णीयोक्तं दुरासदम् ॥ ४२ ॥
ततश्चिन्तातुरः सोऽथ बदरीवनमागतः ।
तपश्चरामि चात्रेति तदर्थं कृतनिश्चयः ॥ ४३ ॥
तावद् ददर्श पुरतः सनकादीन् मुनीश्वरान् ।
कोटिसूर्यसमाभासान् उवाच मुनिसत्तमः ॥ ४४ ॥
नारद उवाच -
इदानीं भूरिभाग्येन भवद्‌भिः संगमोऽभवत् ।
कुमारा ब्रुवतां शीघ्रं कृपां कृत्वा ममोपरि ॥ ४५ ॥
भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः ।
पञ्चहायनसंयुक्ताः पूर्वेषामपि पूर्वजाः ॥ ४६ ॥
सदा वैकुण्ठनिलया हरिकीर्तनतत्पराः ।
लीलामृतरसोन्मत्ताः कथामात्रैकजीविनः ॥ ४७ ॥
हरिः शरणमेव हि नित्यं येषां मुखे वचः ।
अथ कालसमादिष्टा जरा युष्मान्न बाधते ॥ ४८ ॥
येषां भ्रूभङ्‍गमात्रेण द्वारपालौ हरेः पुरा ।
भ्रूमौ निपतितौ सद्यो यत्कृपातः पुरं गतौ ॥ ४९ ॥
अहो भाग्यस्य योगेन दर्शनं भवतामिह ।
अनुग्रहस्तु कर्तव्यो मयि दीने दयापरैः ॥ ५० ॥
अशरीरगिरोक्तं यत् तत्किं साधनमुच्यताम् ।
अनुष्ठेयं कथं तावत् प्रब्रुवन्तु सविस्तरम् ॥ ५१ ॥
भक्तिज्ञानविरागाणां सुखं उत्पद्यते कथम् ।
स्थापनं सर्ववर्णेषु प्रेमपूर्वं प्रयत्‍नतः ॥ ५२ ॥
कुमारा ऊचुः -
मा चिन्तां कुरु देवर्षे हर्षं चित्ते समावह ।
उपायः सुखसाध्योऽत्र वर्तते पूर्व एव हि ॥ ५३ ॥
अहो नारद धन्योऽसि विरक्तानां शिरोमणिः ।
सदा श्रीकृष्णदासानां अग्रणीः योगभास्करः ॥ ५४ ॥
त्वयि चित्रं न मन्तव्यं भक्त्यर्थं अनुवर्तिनि ।
घटते कृष्णदासस्य भक्तेः संस्थापना सदा ॥ ५५ ॥
ऋषिर्बहवो लोके पन्थानः प्रकटीकृताः ।
श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः ॥ ५६ ॥
वैकुण्ठसाधकं पन्थाः स तु गोप्यो हि वर्तते ।
तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते ॥ ५७ ॥
सत्कर्म तव निर्दिष्टं व्योमवाचा तु यत्पुरा ।
तदुच्यते श्रृणुष्वाद्य स्थिरचित्तः प्रसन्नधीः ॥ ५८ ॥
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च ते तु कर्मविसूचकाः ॥ ५९ ॥
सत्कर्मसूचको नूनं ज्ञानयज्ञः स्मृतो बुधैः ।
श्रीमद्‌भागवतालापः स तु गीतः शुकादिभिः ॥ ६० ॥
भक्तिज्ञानविरागाणां तद्‌घोषेण बलं महत् ।
व्रजिष्यति द्वयोः कष्टं सुखं भक्तेर्भविष्यति ॥ ६१ ॥
प्रलयं हि गमिष्यन्ति श्रीमद्‌भागवतध्वनेः ।
कलेर्दोषा इमे सर्व सिंहशब्दाद् वृका इव ॥ ६२ ॥
ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा ।
प्रतिगेहं प्रतिजनं ततः क्रीडां करिष्यति ॥ ६३ ॥
नारद उवाच -
वेदवेदान्तघोषैश्च गीतापाठैः प्रबोधितम् ।
भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा ॥ ६४ ॥
श्रीमद्‌भागवत आलापात् तत्कथं बोधमेष्यति ।
तत्कथासु तु वेदार्थः श्लोके श्लोके पदे पदे ॥ ६५ ॥
छिन्दन्तु संशयं ह्येनं भवन्तोऽमोघदर्शनाः ।
विलम्बो नात्र कर्तव्यः शरणागतवत्सलाः ॥ ६६ ॥
कुमारा ऊचुः -
वेदोपनिषदां सारात् जाता भागवती कथा ।
अत्युत्तमा ततो भाति पृथग्भूता फलाकृतिः ॥ ६७ ॥
आमूलाग्रं रसस्तिष्ठन् नास्ते न स्वाद्यते यथा ।
सभूयः संपृथग्भूतः फले विश्वमनोहरः ॥ ६८ ॥
यथा दुग्धे स्थितं सर्पिः न स्वादायोपकल्पते ।
पृथग्भूतं हि तद्‌गव्यं देवानां रसवर्धनम् ॥ ६९ ॥
इक्षूणामपि मध्यान्तं शर्करा व्याप्य तिष्ठति ।
पृथग्भूता च सा मिष्टा तथा भागवती कथा ॥ ७० ॥
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
भक्तिज्ञानविरागाणां स्थापनाय प्रकाशितम् ॥ ७१ ॥
वेदान्तवेदसुस्नाते गीताया अपि कर्तरि ।
परितापवति व्यासे मुह्यत्यज्ञानसागरे ॥ ७२ ॥
तदा त्वया पुरा प्रोक्तं चतुःश्लोकसमन्वितम् ।
तदीयश्रवणात् सद्यो निर्बाधो बादरायणः ॥ ७३ ॥
तत्र ते विस्मयः केन यतः प्रश्नकरो भवान् ।
श्रीमद्‌भागवतं श्राव्य शोकदुःखविनाशनम् ॥ ७४ ॥
नारद उवाच -
(वसंतितिलका)
यद्दर्शनं च विनिहन्त्यशुभानि सद्यः
     श्रेयस्तनोति भवदुःखदवार्दितानाम् ।
निःशेषशेषमुखगीतकथैकपानाः
     प्रेमप्रकाशकृतये शरणं गतोऽस्मि ॥ ७५ ॥
भाग्योदयेन बहुजन्मसमर्जितेन
     सत्संगमं च लभते पुरुषो यदा वै ।
अज्ञानहेतुकृतमोहमदान्धकार
     नाशं विधाय हि तदोदयते विवेकः ॥ ७६ ॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्‌भागवतमाहात्म्ये
कुमारनारदसंवादो नाम द्वितीयोऽध्यायः ॥ २ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥