श्रीमद्भागवतपुराणम्/माहात्म्य (पाद्मे)/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३ श्रीमद्भागवतपुराणम्
माहात्म्य (पाद्मे)/अध्यायः ०४
[[लेखकः :|]]
अध्यायः ०५ →


 श्रीमद्‌भागवतमाहात्म्यम् - चतुर्थोऽध्यायः

सप्ताहकथायां भगवतः प्रादुर्भावः, गोकर्णोपाख्यानारम्भश्च

सूत उवाच -
(अनुष्टुप्)
अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिं अलौकिकीम् ।
निजलोकं परित्यज्य भगवान् भक्तवत्सलः ॥ १ ॥
वनमाली घनश्यामः पीतवासा मनोहरः ।
काञ्चीकलापरुचिरो लसन् मुकुटकुण्डलः ॥ २ ॥
त्रिभङ्‌गललितश्चारु कौस्तुभेन विराजितः ।
कोटिमन्मथलावण्यो हरिचन्दनचर्चितः ॥ ३ ॥
परमानन्द चिन्मूर्तिः मधुरो मुरलीधरः ।
आविवेश स्वभक्तानां हृदयानि अमलानि च ॥ ४ ॥
वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः ।
तत्कथाश्रवणार्थं ते गूढरूपेण संस्थिताः ॥ ५ ॥
तदा जयजयारावो रसपुष्टिरलौकिकी ।
चूर्णप्रसून वृष्टिश्च मुहुः शंखरवोऽप्यभूत् ॥ ६ ॥
तत् सभासंस्थितानां च देहगेहात्मविस्मृतिः ।
दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवीत् ॥ ७ ॥
(वंशस्थ)
अलौकिकोऽयं महिमा मुनीश्वराः
     सप्ताहजन्योऽद्य विलोकितो मया ।
मूढाः शठा ये पशुपक्षिणोऽत्र
     सर्वेऽपि निष्पापतमा भवन्ति ॥ ८ ॥
(उपेंद्रवज्रा)
अतो नृलोके ननु नास्ति किंचित्
     चित्तस्य शोधाय कलौ पवित्रम् ।
अघौघविध्वंसकरं तथैव
     कथासमानं भुवि नास्ति चान्यत् ॥ ९ ॥
(इंद्रवज्रा)
के के विशुद्ध्यन्ति वदन्तु मह्यं
     सप्ताहयज्ञेन कथामयेन ।
कृपालुभिर्लोकहितं विचार्य
     प्रकाशितः कोऽपि नवीनमार्गः ॥ १० ॥
कुमारा ऊचुः -
(वंशस्थ)
ये मानवाः पापकृतस्तु सर्वदा
     सदा दुराचाररता विमार्गगाः ।
क्रोधाग्निदग्धाः कुटिलाश्च कामिनः
     सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ ११ ॥
सत्यन हीना पितृमातृदूषकाः
     तृष्णाकुलाचाश्रमधर्मवर्जिताः ।
ये दाम्भिका मत्सरिणोऽपि हिंसकाः
     सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १२ ॥
पञ्चोग्रपापात् छलछद्मकारिणः
     क्रूराः पिशाचा इव निर्दयाश्च ये ।
ब्रह्मस्वपुष्टा व्यभिचारकारिणः
     सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १३ ॥
कायेन वाचा मनसापि पातकं
     नित्यं प्रकुर्वन्ति शठा हठेन ये ।
परस्वपुष्टा मलिना दुराशयाः
     सप्ताहयज्ञेन कलौ पुनन्ति ते ॥ १४ ॥
(अनुष्टुप्)
अत्र ते कीर्तयिष्याम इतिहासं पुरातनम् ।
यस्य श्रवणमात्रेण पापहानिः प्रजायते ॥ १५ ॥
तुंगभद्रातटे पूर्वं अभूत् पत्तनमुत्तमम् ।
यत्र वर्णाः स्वधर्मेण सत्यसत्कर्मतत्पराः ॥ १६ ॥
आत्मदेवः पुरे तस्मिन् सर्ववेद विशारदः ।
श्रौतस्मार्तेषु निष्णातो द्वितीय इव भास्करः ॥ १७ ॥
भिक्षुको वित्तवान् लोके तत्प्रिया धुन्धुली स्मृता ।
स्ववाक्यस्थापिका नित्यं सुन्दरी सुकुलोद्‌भवा ॥ १८ ॥
लोकवार्तारता क्रूरा प्रायशो बहुजल्पिका ।
शूरा च गृहकृत्येषु कृपणा कलहप्रिया ॥ १९ ॥
एवं निवसतोः प्रेम्णा दंपत्यो रममाणयोः ।
अर्थाः कामास्तयोरासन् न सुखाय गृहादिकम् ॥ २० ॥
पश्चात् धर्माः समारब्धाः ताभ्यां संतानहेतवे ।
गोभूहिरण्यवासांसि दीनेभ्यो यच्छतः सदा ॥ २१ ॥
धनार्धं धर्ममार्गेण ताभ्यां नीतं तथापि च ।
न पुत्रो नापि वा पुत्री ततश्चिन्तातुरो भृशम् ॥ २२ ॥
एकदा स तु द्विजो दुःखाद् गृहं त्यक्त्वा वनं गतः ।
मध्याह्ने तृषितो जातः तडागं समुपेयिवान् ॥ २३ ॥
पीत्वा जलं निषण्णस्तु प्रजादुःखेन कर्शितः ।
मुहूर्तादपि तत्रैव संन्यासी कश्चित् आगतः ॥ २४ ॥
दृष्ट्वा पीतजलं तं तु विप्रो यातस्तदन्तिकम् ।
नत्वा च पादयोस्तस्य निःश्वसन् संस्थितः पुरः ॥ २५ ॥
यतिरुवाच -
कथं रोदिषि विप्र त्वं का ते चिन्ता बलीयसी ।
वद त्वं सत्वरम् मह्यं स्वस्य दुःखस्य कारणम् ॥ २६ ॥
ब्राह्मण उवाच -
किं ब्रवीमि ऋषे दुःखं पूर्वपापेन संचितम् ।
मदीयाः पूर्वजास्तोयं कवोष्णं उपभुञ्जते ॥ २७ ॥
मद्दत्तं नैव गृह्णन्ति प्रीत्या देवा द्विजातयः ।
प्रजादुःखेन शून्योऽहं प्राणान् त्यक्तुं इहागतः ॥ २८ ॥
धिक् जीवितं प्रजाहीनं धिक् गृहं च प्रजां विना ।
धिक् धनं चानपत्यस्य धिक्कुलं संततिं विना ॥ २९ ॥
पाल्यते या मया धेनुः सा वन्ध्या सर्वथा भवेत् ।
यो मया रोपितो वृक्षः सोऽपि वन्ध्यत्वमाश्रयेत् ॥ ३० ॥
यत्फलं मद्‌गृहायातं तच्च शीघ्रं विनश्यति ।
निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ॥ ३१ ॥
इत्युक्त्वा स रुरोदोच्चैः तत्पार्श्वं दुःखपीडितः ।
तदा तस्य यतेश्चित्ते करुणाभूत् गरीयसी ॥ ३२ ॥
तद्‌भालाक्षरमालां च वाचमायास योगवान् ।
सर्वं ज्ञात्वा यतिः पश्चात् विप्रं ऊचे सविस्तरम् ॥ ३३ ॥
यतिरुवाच -
मुञ्च अज्ञानं प्रजारूपं बलिष्ठा कर्मणो गतिः ।
विवेकं तु समासाद्य त्यज संसारवासनाम् ॥ ३४ ॥
श्रुणु विप्र मया तेऽद्य प्रारब्धं तु विलोकितम् ।
सप्तजन्मावधि तव पुत्रो नैव च नैव च ॥ ३५ ॥
संततेः सगरो दुःखं अवाप अङ्‌गः पुरा तथा ।
रे मुञ्चाद्य कुटुम्बाशां संन्यासे सर्वथा सुखम् ॥ ३६ ॥
ब्राह्मण उवाच -
विवेकेन भवेत्किं मे पुत्रं देहि बलादपि ।
नो चेत् त्यजाम्यहं प्राणान् त्वदग्रे शोकमूर्छितः ॥ ३७ ॥
पुत्रादिसुखहीनोऽयं संन्यासः शुष्क एव हि ।
गृहस्थः सरसो लोके पुत्रपौत्रसमन्वितः ॥ ३८ ॥
इति विप्राग्रहं दृष्ट्वा प्राब्रवीत् स तपोधनः ।
चित्रकेतुर्गतः कष्टं विधिलेखविमार्जनात् ॥ ३९ ॥
न यास्यसि सुखं पुत्रात् यथा दैवहतोद्यमः ।
अतो हठेन युक्तोऽसि ह्यर्थिनं किं वदाम्यहम् ॥ ४० ॥
तस्याग्रहं समालोक्य फलमेकं स दत्तवान् ।
इदं भक्षय पत्‍न्या त्वं ततः पुत्रो भविष्यति ॥ ४१ ॥
सत्यं शौचं दया दानं एकभक्तं तु भोजनम् ।
वर्षावधि स्त्रिया कार्यं तेन पुत्रोऽतिनिर्मलः ॥ ४२ ॥
एवमुक्त्वा ययौ योगी विप्रस्तु गृहमागतः ।
पत्‍न्याः पाणौ फलं दत्त्वा स्वयं यातस्तु कुत्रचित् ॥ ४३ ॥
तरुणी कुटिला तस्य सख्यग्रे च रुरोद ह ।
अहो चिन्ता ममोत्पन्ना फलं चाहं न भक्ष्यये ॥ ४४ ॥
फलभक्षेण गर्भः स्याद् गर्भेण उदरवृद्धिता ।
स्वल्पभक्षं ततोऽशक्तिः गृहकार्यं कथं भवेत् ॥ ४५ ॥
दैवाद् धाटी व्रजेद्‌ग्रामे पलायेद्‌गर्भिणी कथम् ।
शुकवत् निवसेत् गर्भः तं कुक्षेः कथमुत्सृजेत् ॥ ४६ ॥
तिर्यक् चेदागतो गर्भः तदा मे मरणं भवेत् ।
प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे ॥ ४७ ॥
मन्दायां मयि सर्वस्वं ननान्दा संहरेत् तदा ।
सत्यशौचादिनियमो दुराराध्यः स दृश्यते ॥ ४८ ॥
लालने पालने दुःखं प्रसूतायाश्च वर्तते ।
वन्ध्या वा विधवा नारी सुखिनी चेति मे मतिः ॥ ४९ ॥
एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् ।
पत्या पृष्टं फलं भुक्तं भुक्तं चेति तयेरितम् ॥ ५० ॥
एकदा भगिनी तस्याः तद्‌गृहः स्वेच्छयाऽऽगता ।
तदग्रे कथितं सर्वं चिन्तेयं महती हि मे ॥ ५१ ॥
दुर्बला तेन दुःखेन ह्यनुजे करवाणि किम् ।
साब्रवीत् मम गर्भोस्ति तं दास्यामि प्रसूतितः ॥ ५२ ॥
तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् ।
वित्तं त्वं मत्पतेर्यच्छ स ते दास्यति बालकम् ॥ ५३ ॥
षण्मासिको मृतो बाल इति लोको वदिष्यति ।
तं बालं पोषयिष्यामि नित्यमागत्य ते गृहे ॥ ५४ ॥
फलमर्पय धेन्वै त्वं परीक्षार्थं तु साम्प्रतम् ।
तत् तद् आचरितं सर्वं तथैव स्त्रीस्वभावतः ॥ ५५ ॥
अथ कालेन सा नारी प्रसूता बालकं तदा ।
आनीय जनको बालं रहस्ये धुन्धुलीं ददौ ॥ ५६ ॥
तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः ।
लोकस्य सुखमुत्पन्नं आत्मदेव प्रजोदयात् ॥ ५७ ॥
ददौ दानं द्विजातिभ्यो जातकर्म विधाय च ।
गीतवादित्रघोषोऽभूत् तद्‌द्वारं मंगलं बहु ॥ ५८ ॥
भर्तुरग्रेऽब्रवीत् वाक्यं स्तन्यं नास्ति कुचे मम ।
अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम् ॥ ५९ ॥
मत्स्वसुश्च प्रसूताया मृतो बालस्तु वर्तते ।
तामाकार्य गृहे रक्ष सा तेऽर्भं पोषयिष्यति ॥ ६० ॥
पतिना तत्कृतं सर्वं पुत्ररक्षणहेतवे ।
पुत्रस्य धुन्धुकारीति नाम मात्रा प्रतिष्ठितन् ॥ ६१ ॥
त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम् ।
सर्वांगसुन्दरं दिव्यं निर्मलं कनकप्रभम् ॥ ६२ ॥
दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान् स्वयमादधे ।
मत्वा‌ऽऽश्चर्यं जनाः सर्वे दिदृक्षार्थं समागताः ॥ ६३ ॥
भाग्योदयोऽधुना जात आत्मदेवस्य पश्यत ।
धेन्वा बालः प्रसूतस्तु देवरूपीति कौतुकम् ॥ ६४ ॥
न ज्ञातं तद्‍रहस्यं तु केनापि विधियोगतः ।
गोकर्णं तं सुतं दृष्ट्वा गोकर्णं नाम चाकरोत् ॥ ६५ ॥
कियत्कालेन तौ जातौ तरुणौ तनयावुभौ ।
गोकर्णः पण्डितो ज्ञानी धुन्धुकारी महाखलः ॥ ६६ ॥
स्नानशौचक्रियाहीनो दुर्भक्षी क्रोधवर्जितः ।
दुष्परिग्रहकर्ता च शवहस्तेन भोजनम् ॥ ६७ ॥
चौरः सर्वजनद्वेषी परवेश्मप्रदीपकः ।
लालनायार्भकान् धृत्वा सद्यः कूपे न्यपातयत् ॥ ६८ ॥
हिंसकः शस्त्रधारी च दीनान्धानां प्रपीडकः ।
चाण्डालाभिरतो नित्यं पाशहस्तः श्वसंगतः ॥ ६९ ॥
तेन वेश्याकुसंगेन पित्र्यं वित्तं तु नाशितम् ।
एकदा पितरौ ताड्य पात्राणि स्वयमाहरत् ॥ ७० ॥
तत्पिता कृपणः प्रोच्चैः धनहीनो रुरोद ह ।
वध्यतवं तु समीचीनं कुपुत्रो दुःखदायकः ॥ ७१ ॥
क्व तिष्ठामि क्व गच्छामि को मे दुःखं व्यपोहयेत् ।
प्राणान् त्यजामि दुःखेन हा कष्टं मम संस्थितम् ॥ ७२ ॥
तदानीं तु समागत्य गोकर्णो ज्ञानसंयुतः ।
बोधयामास जनकं वैराग्यं परिदर्शयन् ॥ ७३ ॥
असारः खलु संसारो दुःखरूपी विमोहकः ।
सुतः कस्य धनं कस्य स्नेहवान् ज्वलतेऽनिशम् ॥ ७४ ॥
ते च इंद्रस्य सुखं किंचित् न सुखं चक्रवर्तिनः ।
सुखमस्ति विरक्तस्य मुनेः एकान्तजीविनः ॥ ७५ ॥
मुञ्च अज्ञानं प्रजारूपं मोहतो नरके गतिः ।
निपतिष्यति देहोऽयं सर्वं त्यक्त्वा वनं व्रज ॥ ७६ ॥
तद्वाक्यं तु समाकर्ण्य गन्तुकामः पिताब्रवीत् ।
किंकर्तव्यं वने तात तत्त्वं वद सविस्तरम् ॥ ७७ ॥
अन्धकूपे स्नेहपाशे बद्धः पंगुरहं शठः ।
कर्मणा पतितो नूनं मामुद्धर दयानिधे ॥ ७८ ॥
(वसंततिलका)
देहेऽस्थिमांसरुधिरेऽभिमतिं त्यज त्वं
     जायासुतादिषु सदा ममतां विमुञ्च ।
पश्यानिशं जगदिदं क्षणभंगनिष्ठं
     वैराग्यरागरसिको भव भक्तिनिष्ठः ॥ ७९ ॥
धर्म भजस्व सततं त्यज लोकधर्मान्
     सेवस्व साधुपुरुषान् ‍जहि कामतृष्णाम् ।
अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा
     सेवाकथारसमहो नितरां पिब त्वम् ॥ ८० ॥
एवं सुतोक्तिवशतोऽपि गृहं विहाय
     यातो वनं स्थिरमतिर्गतषष्टिवर्षः ।
युक्तो हरेरनुदिनं परिचर्ययासौ
     श्रीकृष्णमाप नियतं दशमस्य पाठात् ॥ ८१ ॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्‌भागवतमाहात्म्ये
विप्रमोक्षो नाम चतुर्थोऽध्यायः ॥ ४ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥