शुक्‍लयजुर्वेदः/अध्यायः ०५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


अध्याय 5
अग्निष्टोमे आतिथ्यमारभ्य यूपनिर्माणपर्यन्तम् मन्त्राः
5.1
अग्नेस् तनूर् असि विष्णवे त्वा सोमस्य तनूर् असि विष्णवे त्वातिऽतिथेर् आतिथ्यम् असि विष्णवे श्येनाय त्वा सोमभृते विष्णवे त्वाऽग्नये त्वा रायस्पोषदे विष्णवे त्वा ॥

5.2
अग्नेर् जनित्रम् असि ।
वृषणौ स्थः ।
ऽउर्वश्य् असि ।
आयुर् असि ।
ऽ पुरूरवा असि ।
गायत्रेण त्वा छन्दसा मन्थामि ।
त्रैष्टुभेन त्वा छन्दसा मन्थामि ।
जागतेन त्वा छन्दसा मन्थामि ॥

5.3
भवतं नः समनसौ सचेतसाव् अरेपसौ ।
मा यज्ञम्̐ हिम्̐सिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥

5.4
अग्नाव् अग्निश् चरति प्रविष्ट ऽ ऋषीणां पुत्रो ऽअभिशस्तिपावा ।
स नः स्योनः सुयजा यजेह देवेभ्यो हव्यम्̐ सदम् अप्रयुच्छन्त् स्वाहा ॥

5.5
आपतये त्वा परिपतये गृह्णामि तनूनप्त्र्ये शाक्वराय शक्वन ऽ ओजिष्ठाय ।
अनाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजो ऽनभिशस्त्य् अभिशस्तिपा ऽ अनभिशस्तेन्यम् अञ्जसा सत्यम् उप गेषम्̐ स्विते मा धाः ॥

5.6
अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् इयम्̐ सा मयि यो मम तनूर् एषा सा त्वयि ।
सह नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिः ॥

5.7
अम्̐शुर्-अम्̐शुष्टे देव सोमाप्यायताम् इन्द्रायैकधनविदे ।
आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व ।
आ प्याययास्मान्त् सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय ।
एष्टा रायः प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो द्यावापृथिवीभ्याम् ॥

5.8
या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ।
या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ।
या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ॥

5.9
तप्तायनी मे ऽसि ।
वित्तायनी मे ऽसि ।
अवतान् मा नाथितात् ।
अवतान् मा व्यथितात् ।
विदेद् अग्निर् नभो नाम ।
अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि ।
योऽस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
विदेद् अग्निर् नभो नाम ।
अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि ।
यो द्वितीयस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
विदेद् अग्निर् नभो नाम ।
अग्नेऽअङ्गिर ऽ आयुना नाम्नेहि ।
यस् तृतीयस्यां पृथिव्याम् असि यत् ते ऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
अनु त्वा देववीतये ॥

5.10
सिम्̐ह्य् असि सपत्नसाही देवेभ्यः कल्पस्व ।
सिम्̐ह्य् असि सपत्नसाही देवेभ्यः शुन्धस्व ।
सिम्̐ह्य् असि सपत्नसाही देवेभ्यः शुम्भस्व ॥

5.11
इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पातु ।
प्रचेतास् त्वा रुद्रैः पश्चात् पातु ।
मनोजवास् त्वा पितृभिर् दक्षिणतः पातु ।
विश्वकर्मा त्वादित्यैर् उत्तरतः पातु ।
इदम् अहं तप्तं वार् बहिर्धा यज्ञान् निः सृजामि ॥

5.12
सिम्̐ह्य् असि स्वाहा ।
सिम्̐ह्य् अस्य् आदित्यवनिः स्वाहा ।
सिम्̐ह्य् असि ब्रह्मवनिः क्षत्रवनिः स्वाहा ।
सिम्̐ह्य् असि सुप्रजावनी रायस्पोषवनिः स्वाहा ।
सिम्̐ह्य् अस्य् आवह देवान् यजमानाय स्वाहा ।
भूतेभ्यस् त्वा ॥

5.13
ध्रुवो ऽसि पृथिवीं दृम्̐ह ।
ध्रुवक्षिद् अस्य् अन्तरिक्षं दृम्̐ह ।
अच्युतक्षिद् असि दिवं दृम्̐ह ।
अग्नेः पुरीषम् असि ॥

5.14
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एक ऽइन् मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥

5.15
इदं विष्णुर् विचक्रमे त्रेधा नि दधे पदम् ।
समूढम् अस्य पासुरे स्वाहा ॥

5.16
इरावती धेनुमती हि भूतम्̐ सूयवसिनी मनवे दशस्या ।
व्यस्कभ्ना रोदसी विष्णव् एते दाधर्त्थ पृथिवीम् अभितो मयूखैः स्वाहा ॥

5.17
देवश्रुतौ देवेष्व् आ घोषतम् ।
प्राची प्रेतम् अध्वरं कल्पयन्ती ऽ ऊर्ध्वं यज्ञं नयतं मा जिह्वरतम् ।
स्वं गोष्ठम् आ वदतं देवी दुर्ये ऽ आयुर् मा निर्वादिष्टं प्रजां मा निर्वादिष्टम् ।
अत्र रमेथां वर्ष्मन् पृथिव्याः ॥

5.18
विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजाम्̐सि ।
यो ऽ अस्कभायद् उत्तरम्̐ सधस्थं विचक्रमाणस् त्रेधोरुगायः ।
विष्णवे त्वा ॥

5.19
दिवो वा विष्ण ऽ उत वा पृथिव्या महो वा विष्णऽउरोरन्तरिक्षात् ।
उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणाद् ओत सव्यात् ।
विष्णवे त्वा ॥

5.20
प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ॥

5.21
विष्णो रराटम् असि ।
विष्णोः श्नप्त्रे स्थः ।
विष्णोः स्यूर् असि ।
विष्णोर् ध्रुवो सि ।
वैष्णवम् असि विष्णवे त्वा ॥

5.22
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे नार्य् असि ।
इदम् अहम्̐ रक्षसां ग्रीवा ऽ अपिकृन्तामि ।
बृहन्न् असि बृहद्रवा बृहतीम् इन्द्राय वाचं वद ॥

5.23
रक्षोहणं वलगहनं वैष्णवीम् ।
इदम् अहं तं वलगम् उत् किरामि यं मे निष्ट्यो यम् अमात्यो निचखान ।
इदम् अहं तं वलगम् उत् किरामि यं मे समानो यम् असमानो निचखान ।
इदम् अहं तं वलगम् उत् किरामि यं मे सबन्धुर् यम् असबन्धुर् निचखान ।
इदम् अहं तं वलगम् उत् किरामि यं मे सजातो यम् असजातो निचखान ।
उत् कृत्यां किरामि ॥

5.24
स्वराड् असि सपत्नहा ।
सत्रराड् अस्य् अभिमातिहा ।
जनराड् असि रक्षोहा ।
सर्वराड् अस्य् अमित्रहा ॥

5.25
रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवान् ।
रक्षोहणो वो वलगहनो ऽव नयामि वैष्णवान् ।
रक्षोहणो वो वलगहनो ऽव स्तृणामि वैष्णवान् ।
रक्षोहणौ वां वलगहना ऽ उप दधामि वैष्णवी ।
रक्षोहणौ वां वलगहनौ पर्य् ऊहामि वैष्णवी ।
वैष्णवम् असि ।
वैष्णवा स्थ ॥

5.26
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे नार्य् असि ।
इदम् अहम्̐ रक्षसां ग्रीवा ऽ अपि कृन्तामि ।
यवो ऽसि यवयास्मद् द्वेषो यवयारातीः ।
दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा ।
शुन्धन्तां लोकाः पितृषदनाः ।
पितृषदनम् असि ॥

5.27
उद् दिवम्̐ स्तभानान्तरिक्षं पृण दृम्̐हस्व पृथिव्याम् ।
द्युतानास् त्वा मारुतो मिनोतु मित्रावरुणौ ध्रुवेण धर्मणा ।
ब्रह्मवनि त्वा क्षत्रवनि त्वा रायस्पोषवनि पर्य् ऊहामि ।
ब्रह्म दृम्̐ह क्षत्रं दृम्̐हायुर् दृम्̐ह प्रजां दृम्̐ह ॥

5.28
ध्रुवासि ध्रुवो ऽयं यजमानो ऽस्मिन्न् आयतने प्रजया पशुभिर् भूयात् ।
घृतेन द्यावापृथिवी पूर्येथाम् ।
इन्द्रस्य छदिर् असि विश्वजनस्य छाया ॥

5.29
परि त्वा गिर्वणो गिर ऽ इमा भवन्तु विश्वतः ।
वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥

5.30
इन्द्रस्य स्यूर् असि ।
इन्द्रस्य ध्रुवो ऽसि ।
ऐन्द्रम् असि ।
वैश्वदेवम् असि ॥

5.31
विभूर् असि प्रवाहणः ।*
वह्निर् असि हव्यवाहनः ।
श्वात्रो ऽसि प्रचेताः ।
तुथो ऽसि विश्ववेदाः ॥

5.32
उशिग् असि कविः ।
अङ्घारिर् असि बम्भारिः ।
अवस्यूर् असि दुवस्वान् ।
शुन्ध्यूर् असि मार्जालीयः ।
सम्राड् असि कृशानुः ।
परिषद्योऽसि पवमानः ।
नभोऽसि प्रतक्वा ।
मृष्टो ऽसि हव्यसूदनः ।
ऽऋतधामासि स्वर्ज्योतिः ॥

5.33
समुद्रो ऽसि विश्वव्यचाः ।
ऽअजो ऽस्य् एकपात् ।
अहिर् असि बुध्न्यः ।
वाग् अस्य् ऐन्द्रम् असि सदो ऽसि ।
ऋतस्य द्वारौ मा मा संताप्तम् ।
अध्वनाम् अध्वपते प्र मा तिर स्वस्ति मे ऽस्मिन् पथि देवयाने भूयात् ॥

5.34
मित्रस्य मा चक्षुषेक्षध्वम् ।
अग्नयः सगराः सगरा स्थ सगरेण नाम्ना रुद्रेणानीकेन पात माग्नयः पिपृत माग्नयो गोपायत मा नमो वो स्तु मा मा हिम्̐सिष्ट ॥

5.35
ज्योतिर् असि विश्वरूपं विश्वेषां देवाना समित् ।
त्वम्̐ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य ऽउरु यन्तासि वरूथम्̐ स्वाहा ।
जुषाणो ऽअप्तुर् आज्यस्य वेतु स्वाहा ॥

5.36
अग्ने नय सुपथा राये ऽअस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम ॥

5.37
अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽएतु प्रभिन्दन् ।
अयं वाजान् जयतु वाजसाताव् अयम्̐ शत्रून् जयतु जर्हृषाणः स्वाहा ॥

5.38
उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि ।
घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा ॥

5.39
देव सवितर् एष ते सोमस् तम्̐ रक्षस्व मा त्वा दभन् ।
एतत् त्वं देव सोम देवो देवाँ2 ऽ उपागा ऽ इदम् अहं मनुष्यान्त् सह रायस्पोषेण स्वाहा निर् वरुणस्य पाशान् मुच्ये ॥

5.40
अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् मय्य् अभूद् एषा सा त्वयि यो मम तनूस् त्वय्य् अभूद् इयम्̐ सा मयि ।
यथायथं नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् अमम्̐स्तानु तपस् तपस्पतिः ॥

5.41
उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि ।
घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा ॥

5.42
अत्य् अन्याम्̐ ऽ अगां नान्याम्̐ ऽ उपागाम् अर्वाक् त्वा परेभ्यो ऽविदं परो ऽवरेभ्यः ।
तं त्वा जुषामहे देव वनस्पते देवयज्यायै देवास् त्वा देवयज्यायै जुषन्तां विष्णवे त्वा ।
ओषधे त्रायस्व ।
स्वधिते मैनम्̐ हिम्̐सीः ॥

5.43
द्यां मा लेखीर् अन्तरिक्षं मा हिम्̐सीः पृथिव्या सं भव ।
अयम्̐ हि त्वा स्वधितिस् तेतिजानः प्रणिनाय महते सौभगाय ।
अतस् त्वं देव वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयम्̐ रुहेम ॥


[सम्पाद्यताम्]

५.३१-५.३२ : द्रष्टव्यम् - ब्रह्माण्डपुराणम् १.२.१२.२७, वायुपुराणम् २९.२६