शुक्लयजुर्वेदः/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३ शुक्लयजुर्वेदः
अध्यायः ०४
[[लेखकः :|]]
अध्यायः ०५ →

अध्यायः 4
अग्निष्टोमे ऋत्विग् यजमानस्य शाला प्रवेशमारभ्य क्रीतसोमस्य शालाप्रवेशान्त मन्त्राः

4.1 एदम् अगन्म देवयजनं पृथिव्या यत्र देवासो ऽ अजुषन्त विश्वे । इमा ऽ आपः शम् उ मे सन्तु देवीः । ओषधे त्रायस्व ।
ऋक् सामाभ्या संतरन्तो यजुर्भी रायस् पोषेण सम् इषा मदेम ।
स्वधिते मैनꣳ हिꣳसीः ॥

4.2
आपो ऽ अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्वꣳ हि रिप्रं प्रवहन्ति देवीः ।
उद् इदाभ्यः शुचिर् आ पूत ऽ एमि ।
दीक्षातपसोस् तनूर् असि तं त्वा शिवाꣳ शग्मां परि दधे भद्रं वर्णं पुष्यन् ॥

4.3
महीनां पयो सि वर्चोदा ऽ असि वर्चो मे देहि ।
वृत्रस्यासि कनीनकश् चक्षुर्दा ऽ असि चक्षुर् मे देहि ॥

4.4
चित्पतिर् मा पुनातु ।
वाक्पतिर् मा पुनातु ।
देवो मा सविता पुनात्व् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच् छकेयम् ॥

4.5
आ वो देवास ऽ ईमहे वामं प्रयत्य् अध्वरे ।
आ वो देवास आशिषो ऽ यज्ञियासो हवामहे ॥

4.6
स्वाहा यज्ञं मनसः ।
स्वाहोरोर् अन्तरिक्षात् ।
स्वाहा द्यावापृथिवीभ्याम् ।
स्वाहा वाताद् आ रभे स्वाहा ॥

4.7
आकूत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा दीक्षायै तपसे ऽग्नये स्वाहा सरस्वत्यै पूष्णे ऽग्नये स्वाहा आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी ऽ उरो ऽ अन्तरिक्ष ।
बृहस्पतये हविषा विधेम स्वाहा ॥

4.8
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा ॥

4.9
ऋक्सामयोः शिल्पे स्थः ते वाम् आ रभे ते मा पातमास्य यज्ञस्योदृचः ।
शर्मासि शर्म मे यच्छ नमस् ते ऽ अस्तु मा मा हिꣳसीः ॥

4.10
ऊर्ग् अस्य् आङ्गिरस्यूर्णम्रदा ऽ ऊर्जं मयि धेहि ।
सोमस्य नीविर् असि ।
विष्णोः शर्मासि शर्म यजमानस्य ।
इन्द्रस्य योनिर् असि ।
सुसस्याः कृषीस् कृधि ।
उच् छ्रयस्व वनस्पत ऽऊर्ध्वो मा पाह्य् अꣳहसऽ आस्य यज्ञस्योदृचः ॥

4.11
व्रतं कृणुताग्निर् ब्रह्माग्निर् यज्ञो वनस्पतिर् यज्ञियः ।
दैवीं धियं मनामहे सुमृडीकाम् अभिष्टये वर्चोधां यज्ञवाहसꣳ सुतीर्था नो ऽअसद् वशे ।
ये देवा मनोजाता मनोयुजो दक्षक्रतवस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा ॥

4.12
श्वात्राः पीता भवत यूयम् आपो ऽअस्माकम् अन्तर् उदरे सुशेवाः ।
ता ऽअस्मभ्यम् अयक्ष्माऽ अनमीवा ऽअनागसः स्वदन्तु देवीर् अमृता ऽ ऋतावृधः ॥

4.13
इयं ते यज्ञिया तनूः ।
अपो मुञ्चामि न प्रजाम् ।
अꣳहोमुचः स्वाहाकृताः पृथिवीम् आविशत ।
पृथिव्या संभव ॥

4.14
अग्ने त्वꣳ सु जागृहि वयꣳ सु मन्दिषीमहि ।
रक्षा णो ऽ अप्रयुच्छन् प्रबुधे नः पुनस् कृधि ॥

4.15
पुनर् मनः पुनर् आयुर् म ऽआगन् पुनः प्राणः पुनर् आत्मा मऽ आगन् पुनश् चक्षुः पुनः श्रोत्रं म ऽआगन् ।
वैश्वानरोऽ अदब्धस् तनूपा ऽअग्निर् नः पातु दुरिताद् अवद्यात् ॥

4.16
त्वम् अग्ने व्रतपा ऽ असि देव ऽ आ मर्त्येष्व् आ त्वं यज्ञेष्व् ईड्यः ।
रास्वेयत्सोमा भूयो भर देवो नः सविता वसोर् दाता वस्व् अदात् ॥

4.17
एषा ते शुक्र तनूर् एतद् वर्चस् तया सं भव भ्राजं गच्छ ।
जूर् असि धृता मनसा जुष्टा विष्णवे ॥

4.18
तस्यास् ते सत्यसवसः प्रसवे तन्वो यन्त्रम् अशीय स्वाहा ।
शुक्रम् असि चन्द्रम् अस्य् अमृतम् असि वैश्वदेवम् असि ॥

4.19
चिद् असि मनासि धीर् असि दक्षिणासि क्षत्रियासि यज्ञियास्य् अदितिर् अस्य् उभयतःशीर्ष्णी ।
सा नः सुप्राची सुप्रतीच्य् एधि मित्रस् त्वा पदि बध्नीतां पूषाऽध्वनस् पात्व् इन्द्रायाध्यक्षाय ॥

4.20
अनु त्वा माता मन्यताम् अनु पिताऽनु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः ।
सा देवि देवम् अच्छेहीन्द्राय सोमꣳ रुद्रस् त्वा वर्तयतु स्वस्ति सोमसखा पुनर् एहि ॥

4.21
वस्व्य् अस्य् अदितिर् अस्यादित्यासि रुद्रासि चन्द्रासि ।
बृहस्पतिष् ट्वा सुम्ने रम्णातु रुद्रो वसुभिर् आ चके ॥

4.22
अदित्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजने पृथिव्याऽ इडायास् पदम् असि घृतवत् स्वाहा ।
अस्मे रमस्व ।
अस्मे ते बन्धुः ।
त्वे रायः ।
मे रायः ।
मा वयꣳ रायस्पोषेण वि यौष्म ।
तोतो रायः ॥

4.23
सम् अख्ये देव्या धिया सं दक्षिणयोरुचक्षसा ।
मा मऽ आयुः प्र मोषीर् मो ऽअहं तव ।
वीरं विदेय तव देवि संदृशि ॥

4.24
एष ते गायत्रो भागऽ इति मे सोमाय ब्रूताद् एष ते त्रैष्टुभो भागऽ इति मे सोमाय ब्रूताद् एष ते जागतो भागऽ इति मे सोमाय ब्रूताच् छन्दोनामानाꣳ साम्राज्यं गच्छेति मे सोमाय ब्रूतात् ।
आस्माकोऽ सि शुक्रस् ते ग्रह्यो विचितस् त्वा वि चिन्वन्तु ॥

4.25
अभि त्यं देवꣳ सवितारम् ओण्योः कविक्रतुम् अर्चामि सत्यसवꣳ रत्नधाम् अभि प्रियं मतिं कविम् ।
ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा स्वः ।
प्रजाभ्यस् त्वा ।
प्रजास् त्वाऽनुप्राणन्तु प्रजास् त्वम् अनुप्राणिहि ॥

4.26
शुक्रं त्वा शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतम् अमृतेन ।
सग्मे ते गोः ।
अस्मे ते चन्द्राणि ।
तपसस् तनूर् असि प्रजापतेर् वर्णः परमेण पशुना क्रीयसे सहस्रपोषं पुषेयम् ॥

4.27
मित्रो नऽ एहि सुमित्रधः ।
ऽ इन्द्रस्योरुम् आ विश दक्षिणम् उशन्न् उशन्तꣳ स्योनः स्योनम् ।
स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानो ।
एते वः सोमक्रयणास् तान् रक्षध्वं मा वो दभन् ॥

4.28
परि माग्ने दुश्चरिताद् बाधस्वा मा सुचरिते भज ।
उद् आयुषा स्वायुषोदस्थाम् अमृताꣳ ऽअनु ॥

4.29
प्रति पन्थाम् अपद्महि स्वस्तिगाम् अनेहसम् ।
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥

4.30
अदित्यास् त्वग् असि ।
अदित्यै सद ऽआ सीद ।
अस्तभ्नाद् द्यां वृषभो ऽ अन्तरिक्षम् अमिमीत वरिमाणं पृथिव्याः ।
आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥

4.31
वनेषु व्यन्तरिक्षं ततान वाजम् अर्वत्सु पय ऽउस्रियासु ।
हृत्सु क्रतुं वरुणो विक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ॥

4.32
सूर्यस्य चक्षुर् आरोहाग्नेर् अक्ष्णः कनीनकम् ।
यत्रैतशेभिर् ईयसे भ्राजमानो विपश्चिता ॥

4.33
उस्राव् एतं धूर्षाहौ युज्येथाम् अनश्रूऽ अवीरहणौ ब्रह्मचोदनौ ।
स्वस्ति यजमानस्य गृहान् गच्छतम् ॥

4.34
भद्रो मेऽ सि प्रच्यवस्व भुवस्पते विश्वान्य् अभि धामानि ।
मा त्वा परिपरिणो विदन् मा त्वा परिपन्थिनो विदन् मा वृकाऽ अघायवो विदन् ।
श्येनो भूत्वा परा पत यजमानस्य गृहान् गच्छ तन् नौ सँ̐स्कृतम् ॥

4.35
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतꣳ सपर्यत ।
दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शꣳसत ॥

4.36
वरुणस्योत्तम्भनम् असि ।
वरुणस्य स्कम्भसर्जनी स्थः ।
वरुणस्यऽ ऋतसदन्य् असि वरुणस्यऽ ऋतसदनम् असि ।
वरुणस्य ऽऋतसदनम् आ सीद ॥

4.37
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् ।
गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्रचरा सोम दुर्यान् ॥



भाष्यम्(उवट-महीधर)

चतुर्थोऽध्यायः।
तत्र प्रथमा।
एदम॑गन्म देव॒यज॑नं पृथि॒व्या यत्र॑ दे॒वासो॒ अजु॑षन्त॒ विश्वे॑ । ऋ॒क्सा॒माभ्या॑ᳪं᳭ सं॒तर॑न्तो॒ यजु॑र्भी रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । इ॒मा आप॒: शमु॑ मे सन्तु दे॒वी रोष॑धे॒ त्राय॑स्व॒ स्वधि॑ते मैन॑ᳪं᳭ हिᳪं᳭सीः ।। १ ।।
उ० एदमगन्म।आग्निष्टोमिका मन्त्रा अवभृथपर्यन्ताः। प्रजापतेरार्षम् । द्वे अप्येते ऋचौ अत्यष्टी त्र्यवसाने । शालस्तम्भमन्वारभ्य यजमानो जपति । द्वावर्धर्चौ देवयजनदैवत्यौ । आ इदम् एदं देवयजनम् अगन्म वयम् आगताः स्मः। पृथिव्या उत्कृष्टम् । यत्र यस्मिन्देवयजने । देवासः देवा एव देवासः । 'आज्जसेरसुक्' । अजुषन्त । 'जुषी प्रीतिसेवनयोः' । सेवितवन्तः कामान् । विश्वे सर्वे तमागत्य देवयजनम् । ऋक्सामाभ्यां प्लवभूताभ्यां यज्ञसमुद्रं सन्तरन्तः यजुर्भिश्च रायस्पोषेण धनस्य पुष्ट्या निमित्तभूतया इषा अन्नेन च संमदेम हृष्येमहि तुष्येमहि । उन्दति । इमा आपः शमु मे सन्तु देवीः । शमिति सुखनाम । उ इति पादपूरणे । इमा आपः सुखरूपा मम भवन्तु । देव्यो दानादिगुणयुक्ताः । अपां वज्रश्रुतौ वज्रसंस्तवेऽतः शमाशास्यते । कुशतरुणमन्तर्दधाति । ओषधे त्रायस्व । त्रायतिः पालनार्थः।हे ओषधे, पालय एनं यजमानं क्षुरात् । क्षुरस्यापि वज्रसंबन्धः। क्षुरेणाभिनिदधाति । स्वधिते मैनᳪं᳭ हिᳪं᳭सीः । स्वधितिर्वज्रः । वज्रकर्म कुर्वन्नवज्रोऽपि वज्रमुच्यते । हे स्वधिते, मा एनं हिंसीः ॥१॥
म० आधानाग्निहोत्राग्न्युपस्थानचातुर्मास्यमन्त्रास्तृतीयाध्याये प्रोक्ताः । चतुर्थाध्यायमारभ्याष्टमस्य द्वात्रिंशत्कण्डिकापर्यन्तमग्निष्टोममन्त्रा उच्यन्ते । तेषां प्रजापतिर्ऋषिः । तत्र चतुर्थे यजमानसंस्कारपूर्वकं सोमक्रयमन्त्राः प्राधान्येनोच्यन्ते । तत्रादौ यजमानः षोडशर्त्विजो वृत्वारण्योरग्नी समारोप्य शालां गच्छेत् । तथा च 'समारोह्याग्नी शालास्तम्भं पूर्वार्धं गृहीत्वारणिपाणिराहेदमगन्मेति' (का० ७।१।३६) । द्वे अत्यष्टी त्र्यवसाने । तयोः कण्डिकयोः सप्त मन्त्राः । आद्यावर्धर्चौ देवयजनदेवत्यौ ॥ आ इदम् अगन्मेति पदानि । 'व्यवहिताश्च' (पा. १ । ४ । ८२) इति उपसर्गक्रियापदयोर्व्यवधानम् । इदमिति हस्तेन प्रदर्श्यते । वयमिदं पृथिव्याः संबन्धि देवयजनं देवा इज्यन्ते यस्मिंस्तद्देवयजनं स्थानम् आ अगन्म आगताः स्मः । गच्छतेर्लङ्युत्तमबहुवचने व्यत्ययेन शपो लुकि 'मो नो धातोः' (पा० ८।२। ६४) इति मस्य नः अडागमश्च । इदं किम् । यत्र देवयजने विश्वेदेवासः सर्वे देवाः अजुषन्ताप्रीयन्त । प्रीत्या स्थिता इत्यर्थः । किंच । वयं रायो धनस्य पोषेण पुष्ट्या इषा इष्यमाणेनान्नेन च संमदेम । 'मदी हर्षे' व्यत्ययेन शप् । हृष्टा भवेम धनैरन्नैश्च तृप्येम । किं कुर्वन्तः । ऋक्सामाभ्याम् ऋक् च साम च ऋक्सामे 'अचतुर-(पा० ५।४ । ७७ ) इति सूत्रेणाजन्तो निपातः । ताभ्यां यजुर्भिश्च वेदत्रयगतमन्त्रैः संतरन्तः । समुद्रवद्गम्भीरं सोमयागं समापयन्त इत्यर्थः । 'दक्षिणं गोदानं वितार्योनत्तीमा आपः' (का. ७।२।९) इति । इमा आपः । आपो देवताः । इमा आपः शिरःक्लेदाय सिच्यमाना एता आपो मे मम यजमानस्य शमु । उ एवार्थे । शं सुखार्थमव्ययम् । शं सुखकारिण्य एव सन्तु भवन्तु । किंभूता आपः । देवीः देव्यः दीव्यन्ति ताः देव्यः द्योतनाः । निर्मला इत्यर्थः । 'यूपवत् कुशतरुणं क्षुरेण चाभिनिधाय छित्त्वेति' (का. ७ । २ । १०-११)। यथा पश्वर्थयूपस्य छेदे मन्त्रः एवमत्रापि तृणान्तर्धानं क्षुरस्थापनं च मन्त्रद्वयेन कर्तव्यमिति सूत्रार्थः । ओषधे । कुशतरुणं देवता । हे ओषधे कुशतरुण, त्वं यजमानं त्रायस्व क्षुराद्रक्ष । स्वधिते । क्षुरो देवता । हे स्वधिते क्षुर, एनं यजमानं मा हिंसीः ॥१॥

द्वितीया ।
आपो॑ अ॒स्मान्मा॒तर॑: शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्व॒: पुनन्तु ।
विश्व॒ᳪं᳭ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्य॒: शुचि॒रा पू॒त ए॑मि ।
दी॒क्षा॒त॒पसो॑स्त॒नूर॑सि॒ तां त्वा॑ शि॒वाᳪं᳭ श॒ग्मां परि॑ दधे भ॒द्रं वर्णं॒ पुष्य॑न् ।। २ ।।
उ० स्नाति।आपो अस्मान्मातरः शुन्धयन्तु। आप उच्यन्ते। या एता आपः जगतो निर्मात्र्यः ता अस्मान् शुन्धयन्तु शोधयन्तु । किंच घृतेन च नः अस्मान् । घृतप्वः घृतेन पुनन्तीति घृतप्वः । घृतं हि अपां परमं तेजः पवित्रं च । । 'तद्वै सुपूतं यं घृतेन पुनन्ति' इति श्रुतिः । 'सुवर्णप्राशो घृतप्राश इति मेध्यानि' इति गौतमः । पुनन्तु यज्ञयोग्यं कुर्वन्तु । स्तुतिपूर्वं हि याज्या क्रियते नचात्र स्तुतिरत आह। विश्वं हि रिप्रं प्रवहन्ति देवीः । हिशब्दो यस्मादर्थे । 'रपो रिप्रमिति पापनामनी भवतः'। यस्मात्स्वभावत एव सर्व पापं प्रकर्षेण दहन्ति देव्यः । उत्क्रामत्युत्तरपूर्वार्धम् । उदिदाभ्यः शुचिरापूत एमि । उदेमि उद्गच्छामि । इत्शब्दोऽनर्थकः ।। आभ्योऽद्भ्यः शुचिः सन् आपूतश्च यावत्पापं पावितः । वासः परिधत्ते । दीक्षातपसोः। दीक्षैव दीक्षा । तपःशब्देन उपसद उच्यन्ते तपःप्रधानत्वात् । वासः तन्वास्त्राणं तनूशब्देनोच्यते । या त्वं दीक्षातपसोस्तनूः शरीरं भवसि 'तां त्वा शिवां शान्तां शग्मां ससुखां साध्वीं वा' इति श्रुतेः । परिदधे आच्छादयामि । भद्रं कल्याणम् । वर्णं दीक्षितरूपम् पुष्यन् वर्धयन् । अनेन हि दीक्षितरूपमभिव्यज्यते ॥ २ ॥
म०. 'आपो अस्मानिति स्नात्वेति' ( का० ७ । २ । १५)। मातरः मिमते ता मातरो जगन्निर्मात्र्यो मातृवत्पालयित्र्यो वा आपः अस्मान् कृतक्षीरान् यजमानान् शुन्धयन्तु 'शुन्ध शुद्धौ' शोधयन्तु । क्षौरकर्मनिमित्तामपहतिं निवारयन्त्वित्यर्थः । किंच घृतप्वः 'घृ क्षरणे' जिघर्ति क्षरतीति घृतं तेन क्षरितजलेन पुनन्तीति घृतप्वः जलदेवतास्ताश्च घृतेन क्षरितजलेन नोऽस्मान् पुनन्तु शुद्धान् कुर्वन्तु । किंच देवीः द्योतमाना आपो विश्वं हि । हि एवार्थः । सर्वमेव रिप्रं पापं प्रवहन्ति प्रकर्षेणापनयन्तु । 'रपो रिप्रमिति पापनामनी भवतः' (निरु० ४ । २१) इति यास्कः । 'उदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्धमिति' ( का० ७ । २ । १५) । अहमाभ्योऽद्भ्यः उदेमि इत् । इत् एवार्थे । उद्गच्छाम्येव । जलान्निर्गच्छामीत्यर्थः । किंभूतोऽहम् । शुचिः शुद्धः स्नानेन । तथा आपूतः समन्ताद्भावेनान्तरपि शुद्ध आचमनेन । शुचिरापूत इति शब्दाभ्यां स्नानाचमनाभ्यां बहिरन्तश्च शुद्धिरुक्ता ॥ 'क्षौमं वस्ते निष्पेष्टवै ब्रूयादहतं चेदद्भिरभ्युक्ष्य स्नातवस्यं(?)वाऽमौत्रधीतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति' (का० ७ । २ । १६-१९) ॥ दीक्षातपसोः वासो देवता । हे क्षौम वस्त्र, त्वं दीक्षातपसोस्तनूरसि । दीक्षा दीक्षणीयेष्टिः । तप उपसदिष्टिः । दीक्षाभिमानिदेवतायास्तपोभिमानिदेवतायाश्च त्वं शरीरवत्प्रियमसि । तां दीक्षातपसोस्तनूं तद्देवताद्वयशरीरभूतां त्वामहं परिदधे धारयामि । किंभूतां त्वाम् । शिवां शग्मां द्वयोरपि शब्दयोः सुखवाचकवादत्यन्तसुखरूपां कोमलत्वात् । किंभूतोऽहम् । भद्रं वर्णं पुष्यन् त्वत्परिधानेन कल्याणीं कान्तिं पुष्यन् ॥ २॥

तृतीया।
म॒हीनां॒ पयो॑ऽसि वर्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । वृ॒त्रस्या॑सि क॒नीन॑कश्चक्षु॒र्दा अ॑सि॒ चक्षु॑र्मे देहि ।। ३ ।।
उ० तमभ्यनक्ति । नवनीतमुच्यते । महीनां पयोऽसि । पयोविकारे नवनीते पयःशब्दः । महीनां गवां पयोऽसि । यतश्च 'वर्चोदा असि' वर्चस्तेज इत्यनर्थान्तरम् । अतो वर्चो मे देहि । अक्षिणी अनक्ति । वृत्रस्यासि । 'यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्' इत्यादिना त्रैककुदस्य चक्षुःसंस्तवस्तदयं मन्त्रोऽभिवदति । वृत्रस्य चक्षुषः संबन्धिनी भवसि त्वम् । कनीनकः पुरुषो यतः । हे त्रैककुद् , यतश्च स्वभावतः चक्षुर्दा असि अतश्चक्षुर्मे देहि ॥३॥
म० शालां पूर्वेण तिष्ठन्नभ्यङ्क्ते कुशेषु नवनीतेन शीर्णोऽध्यनुलोम सपादको महीनां पयोऽसीति' ( का० ७ । २।३३ )। प्राचीनशालापूर्वभागेषु कुशेषु स्थित्वा नवनीतं गृहीत्वा शिरस आरभ्य पादान्तं शरीराभ्यङ्गं कुर्यादिति सूत्रार्थः । महीनां पयः। नवनीतमुच्यते । हे नवनीत, त्वं महीनां गवां पयोऽसि । महीति गोनामसु पठितम् (निघ० २।११। ५ ) । नवनीतस्य क्षीरजन्यत्वात्पयस्त्वोपचारः । वर्चोदा असि । वर्चो ददातीति वर्चोदाः । अतिस्निग्धत्वेन कान्तिप्रदमसि । पुंस्त्वमार्षम् । अतो मे मह्यं यजमानाय वर्चो देहि कान्तिं प्रयच्छ ॥ 'वृत्रस्येत्यक्षावनक्ति त्रैककुदाञ्जनेनाभावेऽन्यदिति' (का० ७ । २ । ३४) । त्रिककुत्पर्वतादुत्पनाञ्जनं लभ्यते चेत्तेनाक्षिद्वयमञ्ज्यात्तदभावेऽन्यदप्यञ्जनं ग्राह्यमिति सूत्रार्थः । वृत्रस्य । अञ्जनं देवता । हे अञ्जन, त्वं वृत्रस्यासुरस्य कनीनकोऽसि नेत्रमध्यगतकृष्णमण्डलरूपोऽसि । 'यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्' (३।१।२ । १२) इत्यादिश्रुतिः । तथाच तित्तिरिः 'इन्द्रो वृत्रमहन् तस्य कनीनिका परापतत्तदेवाञ्जनमभवत्' इति । चक्षुर्दा असि कनीनिकारूपत्वात्त्वं दृष्टिप्रदोऽसि । अतो मे मह्यं चक्षुर्देहि सम्यग्दृष्टिपाटवं प्रयच्छ ॥३॥

चतुर्थी।
चि॒त्पति॑र्मा पुनातु वा॒क्पति॑र्मा पुनातु दे॒वो मा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
तस्य॑ ते पवित्रपते प॒वित्र॑पूतस्य॒ यत्का॑मः पु॒ने तच्छ॑केयम् ।। ४ ।।
उ०. कुशपवित्रैः पावयति । चित्पतिर्मा पुनातु । 'चिती संज्ञाने' । अस्य चित् विज्ञानात्मा मनो वाभिधीयते । चित्पतिर्मा पुनातु ।'प्रजापतिर्वै चित्पतिः' इति श्रुतिः। वाक्पतिः। 'प्रजापतिर्वै वाक्पतिः' इति श्रुतिः । देवो मा सविता पुनातु । अच्छिद्रेणेति व्याख्यातम् । तस्य ते पवित्रपते । तस्य पवित्रपूतस्येति च षष्ठ्यन्तयोः संबन्धः । यजमानवाचित्वं च । तस्य मम पवित्रपूतस्य सतः । ते तव प्रसवे वर्तमानस्य हे पवित्रपते देव सवितः, एतद्भवतु । यस्कामः अहमात्मानं पुने पावयामि । तच्छकेयम् तच्छक्नुयाम् । 'यज्ञस्योदञ्चं गच्छामि' इति श्रुतिः । अच्छिद्रेणेत्येवमादित्रयाणामनुषङ्गो योज्यः ॥ ४ ॥
म० 'कुशपवित्रैः चित्पतिर्मेति पावयति सप्तभिः सप्तभिः प्रतिमन्त्रमच्छिद्रेणेति सर्वत्रेति' (का० ७।३।१)। अच्छिद्रेणेति शेषस्त्रिष्वपि मन्त्रेष्वनुषज्यते । चित्पतिर्मा । चितां ज्ञानानां पतिश्चित्पतिर्मनोभिमानी देवो मा मां यजमानं पुनातु शोधयतु । 'मनो वै चित्पतिः' इति तित्तिरिवाक्यात् । यद्वा चित्पतिः प्रजापतिः। 'प्रजापतिर्वै चित्पतिः' (३ । १।२। २२) इति श्रुतेः। किंचाच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः किरणैः । वायुरच्छिद्रं पवित्रं शुद्धिहेतुत्वात् छिद्ररहितत्वाच्च । यद्वादित्यमण्डलमच्छिद्रं पवित्रम् । 'असौ वा आदित्योऽच्छिद्रं पवित्रम्' इति श्रुतेः। हे पवित्रपते, पवित्रान् शुद्धान् पातीति पवित्रपतिस्तत्संबुद्धौ हे पवित्रपते शुद्धपालक, ते पवित्रपूतस्य तव पवित्रेण पूर्वोक्तेन शुद्धस्य तस्य यजमानस्याभीष्टं भूयादिति शेषः । तदेव स्पष्टयति । यत्कामोऽहं पुने तत् शकेयम् । यः कामो यस्य यत्कामः । यद्वा यस्मिन् कामो यस्य स यत्कामः । सोमयागानुष्ठाने कामवानहं पुने आत्मानं शोधयामि तत्सोमयागानुष्ठाने शक्तो भूयासम् । यज्ञानुष्ठानसामर्थ्यं मेऽस्त्वित्यर्थः । वाक्पतिः वाचां पतिर्बृहस्पतिर्मा मां पुनातु । सविता देवोऽन्तर्यामी मा मां पुनातु । एतन्मन्त्रद्वयं पूर्ववद्योज्यम् ॥ ४ ॥

पञ्चमी।
आ वो॑ देवास ईमहे वा॒मं प्र॑य॒त्य॒ध्व॒रे । आ वो॑ देवास आ॒शिषो॑ य॒ज्ञिया॑सो हवामहे ।। ५ ।।
उ० आवो देवास इति वाचयति । देवी अनुष्टुप् । ईमहे इति याञ्चाकर्मसु पठितम् । हे देवासः, आ ईमहे आयाचे वो युष्मान् । किम् । वामम् 'वन षण संभक्तौ' । वननीयं संभजनीयं वस्तु । प्रयत्यध्वरे प्रयच्छति यज्ञे । किंच । हे देवासः । आहवामहे आ ह्वयामः । वः युष्माकं संबन्धिन्य आशिषः यज्ञियासः यज्ञसंपादिन्यः । यज्ञिया एव यज्ञियासः । आईमहे आयाचे वः ॥५॥
म० 'आ वो देवास इति वाचयतीति' ( का० ७ । ३ । ६)। अध्वर्युर्यजमानं वाचयति । दैवी अनुष्टुप् आशीः । हे देवासः देवाः, वयं वो युष्मान् वामं वननीयं यज्ञफलम् आ ईमहे साकल्येन याचामहे । वन्यते भज्यत इति वामम् । 'वन संभक्तौ' । मप्रत्ययः । ईमहे याचतिकर्मसु पठितो द्विकर्मकः (निघ०३।१९।१)। क्व सति । अध्वरे अस्मदीये यज्ञे प्रयति प्रवर्तमाने सति । प्रैतीति प्रयन् तस्मिन् । प्रपूर्वादिणः शतरि रूपम् । किंच हे देवासो देवाः, वो युष्मान् वयं हवामहे आह्वयामः । किं कर्तुम् । यज्ञियासः यज्ञस्येमा यज्ञिया यज्ञसंबन्धिनीराशिषः फलानि आ आनेतुं समानेतुमित्यर्थः । उपसर्गेण धातुरध्याहर्तव्यः । यज्ञफलप्राप्तुं युष्मानाह्वयाम इत्यर्थः ॥ ५॥

षष्ठी ।
स्वाहा॑ य॒ज्ञं मन॑स॒: स्वाहो॒रोर॒न्तरि॑क्षा॒त्स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒j स्वाहा॒ वाता॒दार॑भे॒ स्वाहा॑ ।। ६ ।।
उ० अथ अङ्गुलीर्न्यचते । स्वाहायज्ञं मनसः । यज्ञं मनसः सकाशादहमारभे इत्यनुषङ्गः । उरोर्विस्तीर्णादन्तरिक्षादहमारभे यज्ञं, द्यावापृथिवीभ्यामहमारभे यज्ञम् । वातादहमारभे यज्ञम् । पञ्च स्वाहाकारा येषु यज्ञेषु तत्रार्थवादः । 'यज्ञो वै स्वाहाकारो यज्ञमेवैतदात्मन्धत्ते' इति । स्वाहाकारेण हि हविः प्रदीयत इति स्वाहाकारो यज्ञः ॥६॥
म०. 'स्वाहा यज्ञमित्यङ्गुलीर्न्यचते नानाहस्तयोरेवं शेषं प्रतिमन्त्रं मुष्टीकृत्वा स्वाहेत्युक्त्वा वाग्यतोऽङ्गुष्ठौ तत्सहिते चोत्सृजतीति' (का० ७।३। ७-१०) । आद्यमन्त्रेण हस्तद्वयकनिष्ठिकाद्वयं सङ्कोचयति एवमन्यत्रयेणान्याः । स्वाहा वातादारभ इत्युत्तमेन मुष्टिद्वयं कुर्यादिति सूत्रार्थः ॥ स्वाहा | यज्ञम् । चतुर्णां यजुषां यज्ञो देवता । स्वाहाशब्दस्य निपातत्वेनानेकार्थत्वादुचिता अर्था ब्राह्मणानुसारेण ग्राह्याः । तथाहि । स्वाहा यज्ञं मनसः । मनस इति पञ्चमी तृतीयार्थे । मनसा यज्ञं स्वाहा चित्तेन यज्ञमभिगच्छामि । अत्र स्वाहाशब्दोऽभिगमनार्थः । स्वाहोरोरन्तरिक्षात् । पञ्चमी सप्तम्यर्थे । उरौ विस्तीर्णेऽन्तरिक्षे स्वाहा यज्ञ आश्रितः । स्वाहाशब्दो | यज्ञार्थोऽतः प्रभृति । स्वाहा द्यावापृथिवीभ्याम् । द्यावापृथिव्योः स्वाहा यज्ञः श्रितः । लोकत्रयव्यापी यज्ञ इत्यर्थः । स्वाहा वातादारभे । वाताद्वायुप्रसादात् स्वाहा यज्ञमारभे प्रवर्तयामि । वायोः सर्वकर्मप्रवर्तकत्वात् । स्वाहा यज्ञ एवं सिद्ध इति शेषः ॥ ६ ॥

सप्तमी।
आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॑ सर॑स्वत्यै पू॒ष्णेऽग्नये॒ स्वाहा॑ ।आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथिवी॒ उरो॑ अन्तरिक्ष । बृह॒स्पत॑ये ह॒विषा॑ विधेम॒ स्वाहा॑ ।। ७ ।।
उ०. औद्ग्रभणानि जुहोति । आकृत्यै प्रयुजे । आकुवनमाकूतिः प्रयत्नः आत्मनो धर्मः । मनसः प्रेरणाय भवति । प्रयुङ्क्त इति प्रयुक् आकूतिलक्षणाय प्रयोगलक्षणाय च अग्नयेस्वाहा सुहुतमस्तु । मेधायै मनसे मेधालक्षणाय मनोलक्षणाय च अग्नये स्वाहा । जपति दीक्षायै तपसे । दीक्षालक्षणाय तपोलक्षणाय च अग्नये स्वाहा । तपःशब्देन चोपसद उच्यन्ते । सरस्वत्यै पूष्णे । 'वाग्वै सरस्वती पशवो वै पूषा' इति श्रुतिः । वाग्लक्षणाय पशुलक्षणाय च अग्नये स्वाहा । पशुसाध्यत्वाद्यज्ञस्य पशुग्रहणम् । आपो देवीः विराट् लिङ्गोक्ता देवता । हे आपोदेव्यः, बृहत्यो महत्यः । विश्वशंभुवः सर्वस्य जगतः सुखेन भावयित्र्यः । हे द्यावापृथिव्यौ, हे उरो हे विस्तीर्ण अन्तरिक्ष, युष्मभ्यं च बृहस्पतये च । हविषा विधेम । विदधातिर्दानकर्मा । हविषेति प्रथमाया विपरिणामः । हविर्दध्मः ॥ ७ ॥
म० अतः परं षडौद्ग्रभणहोममन्त्राः । चतुर्णामग्निर्देवता । 'औद्ग्रभणानि जुहोति स्थाल्याः स्रुवेणाकूत्या इति प्रतिमन्त्रमिति' (का० ७।३।१६)। आकूत्यै प्रयुजेऽग्नये स्वाहा । अग्नये वह्निदेवाय स्वाहा सुहुतमिदमस्तु । किंभूतायाग्नये । आकूत्यै प्रयुजे । यज्ञं करिष्यामीत्येवंविधो मानसः संकल्प आकूतिः तस्यै तत्संपूर्त्यै । प्रयुजे प्रयुङ्क्तेऽसौ प्रयुक् तस्मै । संकल्पसिद्ध्यै निर्विघ्नं प्रेरयते इत्यर्थः । इति प्रथमो मन्त्रः ॥ मेधायै मनसेऽग्नये स्वाहा । श्रुतयोर्मन्त्रयोर्धारणशक्तिर्मेधा तत्सिद्ध्यर्थं मनसे मदीयमनोभिमानिनेऽग्नये स्वाहा सुहुतमस्तु । विद्याधारणशक्तिर्हि मनसः स्वास्थ्ये सत्येव भवति । इति द्वितीयः ॥ जपति । दीक्षायै तपसेऽग्नये स्वाहा । व्रतनियमो दीक्षा तत्सिद्ध्यर्थं मदीयशारीरतपोभिमानिनेऽग्नये स्वाहा । नियमसंरक्षणं तपसैव भवति । ततस्तपोदात्रे इत्यर्थः । इति तृतीयः ॥ सरस्वत्यै पूष्णेऽग्नये स्वाहा । मन्त्रोत्चारणशक्तिः सरस्वती तत्सिद्ध्यर्थं पूष्णे पुष्णातीति पूषा तस्मै वागिन्द्रियपोषकायाग्नये सुहुतमस्तु । इति चतुर्थः ॥ आपो देवीः । लिङ्गोक्तदेवता विराट् । यस्या एकादशाक्षराः त्रयः पादाः सा विराट् । दशकास्त्रयो विराडेकादशका वेत्युक्तेः । अत्र प्रथमो द्वादशार्णस्तेनैकाधिका । हे आपः, हे द्यावापृथिवी द्यावापृथिव्यौ, हे उरो विस्तीर्ण अन्तरिक्ष, युष्मभ्यं बृहस्पतये च हविषा विधेम हविर्दद्मः । द्वितीयार्थे तृतीया । विधतिर्दानकर्मा । स्वाहा सुहुतमस्तु । किंभूता आपः । देवीः देव्यो द्योतमानाः । बृहतीः बृहत्यः प्रभूताः । उभयत्र पूर्वसवर्णः । विश्वशंभुवः विश्वस्य जगतः शं सुखं भावयन्ति जनयन्ति वा विश्वशंभुवः । इति पञ्चमो मन्त्रः ॥ ७ ॥

अष्टमी।
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।। ८ ।।
उ० विश्वो देवस्य । सावित्र्यनुष्टुप् । विश्वः सर्वो जनः देवस्य दानादिगुणयुक्तस्य नेतुः प्रणेतुः प्रसवितुः मर्त्यः मनुष्यः वुरीत वृणीत सख्यं सखिताभावम् । किंच विश्वः सर्वः धनाय इषुध्यते प्रार्थयते सवितारम् । इपुध्यतिर्यात्राकर्मसु पठितः । किंच द्युम्नं वृणीत । द्युम्नं द्योततेर्यशो वाऽन्नं वा प्रार्थयते । पुष्यसे पोषाय स्थितये । य इत्थंभूतः सविता तस्मै स्वाहा ॥८॥
म० अथ षष्ठः । सवितृदेवत्यानुष्टुप् स्वस्त्यात्रेयदृष्टा । विश्वो मर्तः सर्वो मनुष्यो नेतुः फलप्रापकस्य देवस्य दानादिगुणयुक्तस्य सवितुः सख्यं सखिभावं वुरीत वृणुते प्रार्थयते । 'वृञ् वरणे' अस्माल्लिङि तङि प्रथमैकवचने व्यत्ययेन शपो लुकि 'उदोष्ठ्यपूर्वस्य' (पा. ७ । १ । १०२) इति ऋत उदादेशः। किंच विश्वः सर्वो जनो राये धनाय इषुध्यति सवितारं प्रार्थयते । इषुध्यतिर्याञ्चाकर्मसु पठितः ( निघ० ३ । १९ । १४)। किंच द्युम्नं द्योततेर्यशो वान्नं वा तच्च वृणीत प्रार्थयते । किमर्थम् । पुष्यसे पोषाय स्वप्रजापालनाय । पुषेस्तुमर्थे असेप्रत्ययः । यः इत्थंभूतः सविता तस्मै स्वाहा । इति षष्ठ औद्ग्रभणमन्त्रः । समाप्तास्ते ॥ ८ ॥

नवमी।
ऋ॑क्सा॒मयोः॒ शिल्पे॑ स्थ॒स्ते वा॒मार॑भे॒ ते मा॑ पात॒मास्य य॒ज्ञस्यो॒दृच॑: ।
शर्मा॑सि॒ शर्म॑ मे यच्छ॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪं᳭सीः ।। ९ ।।
उ०. कृष्णाजिनयोः शुक्लकृष्णसंधिमालभते ऋक्सामयोरिति । ये युवामृचां साम्नां च शिल्पे स्थः । 'यद्वै प्रतिरूपं तच्छिल्पम्' इति श्रुतिः । प्रतिरूपे प्रतिभूते भवथः। ते वां युवाम् । आरभे आलभे । ते च मा पातं गोपायतम् । आ अस्य यज्ञस्य उदृचः उत्तमा ऋचः आसमाप्तेरित्यर्थः । । दक्षिणजानुमारोहति । शर्मासि कृष्णाजिनमुच्यते । शर्म शरणं यतस्त्वमसि अतः शर्म शरणं मे मह्यं यच्छ प्रयच्छ । नमस्ते अस्तु नमस्तुभ्यं भवतु । मा मां माहिᳪं᳭सीः॥९॥
म० 'कृष्णाजिनयोः सन्धिमालभत ऋक्सामयोरिति' (का. ७ । ३ । २३ ) इति । कृष्णाजिने देवते । हे कृष्णाजिनगते शुक्लकृष्णरेखे, युवामृक्सामयोः शिल्पे स्थः ऋगभिमानिसामाभिमानिदेवतयोः संबन्धिनी शिल्पे चातुर्ये तद्रूपे भवतः । 'यद्वै प्रतिरूपं तच्छिल्पम्' (३ । २ । १।५) इति श्रुतेः । ते वां तथाविधे युवामारभे अहं स्पृशामि । ते मा पातं तथाविधे युवां मा मां पालयतम् । कियन्तं कालमिति चेत्तदाह । अस्य यज्ञस्य आ उदृचः उत्तमा चरमा ऋगुदृक् तस्या उदृचः आ तत्पर्यन्तम् । ‘पञ्चम्यपाङ्परिभिः' (पा० २ । ३ । १० ) इति पञ्चमी । एतद्यज्ञसमाप्तिपर्यन्तमित्यर्थः । ऋक्सामाभिमानिन्यौ देवते देवानां यज्ञार्थं स्थिते सत्यौ केनापि निमित्तेन कृष्णमृगरूपं कृत्वा देवेभ्यः पलाय्य दूरे कुत्राप्यतिष्ठतां तन्मृगचर्मणि यच्छुक्लं तदृचो रूपं यत् कृष्णं तत् साम्नो रूपम् । तदुक्तं तित्तिरिणा 'ऋक्सामे वै देवेभ्यो यज्ञार्थ तिष्ठमाने कृष्णमृगरूपं कृत्वापक्राम्यातिष्ठतामेष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनमस्यै साम्नो यत्कृष्णम्' (६। १। ३) इति । 'दक्षिणजानुमारोहति शर्मासि' (का० ७ । ३ । २४) इति । हे कृष्णाजिन, त्वं शर्म शरणमसि । अतो मे मह्यं शर्म शरणं यच्छ देहि । स्वकीयत्वेन स्वीकुर्वित्यर्थः । ते तुभ्यं कृष्णाजिनाय नमोस्तु । मा मां यजमानं मा हिंसीः मा जहि ॥ ९॥
 
दशमी।
ऊर्ग॑स्याङ्गिर॒स्यूर्ण॑म्म्रदा॒ ऊर्जं॒ मयि॑ धेहि ।
सोम॑स्य नी॒विर॑सि॒ विष्णो॒: शर्मा॑सि॒ शर्म॒ यज॑मानस्येन्द्र॑स्य॒ योनि॑रसि सु॑स॒स्याः कृ॒षीस्कृ॑धि ।
उच्छ्र॑यस्व वनस्पत ऊ॒र्ध्वो मा॑ पा॒ह्यᳪं᳭ह॑स॒ आस्य य॒ज्ञस्यो॒दृच॑: ।। १० ।।
उ० मेखलां बध्नीते। ऊर्गसि।अङ्गिरसामार्षम् । अस्मिन्यजुषि उर्गसि अन्नं भवसि । आङ्गिरसी अङ्गिरोभिर्दृष्टा । ऊर्णम्रदाः ऊर्णेव मृद्वी । यतस्त्वमधस्तनैर्गुणैर्युक्तासि अत ऊर्जमन्नं मयि धेहि स्थापय । नीवीं कुरुते । सोमस्य नीविरसि । 'पितृदेवत्या वै नीविः' इत्यदीक्षितस्योक्तम् । इह तु सोमयागार्था नीविः सोमेन व्यपदिश्यते । शिरःप्रोर्णुते । विष्णोः शर्मासि । 'उभयं वा एषोऽत्र भवति यो दीक्षते विष्णुश्च यजमानश्च' इत्यादि निदानम् । विष्णोर्दीक्षितस्य शरणं भवसि । शरणं च यजमानस्य । कृष्णविषाणां सिचि बध्नीते । इन्द्रस्य योनिः । 'देवाश्च वा असुराश्च' इत्यादि निदानम् यथा इन्द्रस्य योनिर्जन्मस्थानं पूर्वं त्वमसि एवमिदानीं यजमानस्येति दर्शनार्थोर्थवादः। भूमौ लिखति । सुसस्याः कृषीस्कृधि । कल्याणधान्याः कृषीः कृधि जनानां कुरु । दण्डमुच्छ्रयति । उच्छ्रयस्व ऊर्ध्वो भव । हे वनस्पते, ऊर्ध्वो भूत्वा मां पाहि गोपाय । अᳪं᳭हसः पापात् । कियन्तं कालम् । आस्य यज्ञस्योदृचः आ अस्य यज्ञस्य समाप्तेः ॥ १० ॥
म० 'मेखलां बध्नीते वेणिं त्रिवृतᳪं᳭ शणमुञ्जमिश्रामन्तरां वासस ऊर्गसीति' ( का० ७ । ३ । २६)। अङ्गिरोभिर्दृष्टं मैखलं यजुः । हे मेखले, त्वमाङ्गिरसी अङ्गिरोनामकानामृषीणां संबन्धिनी ऊर्क् अन्नरसरूपासि । किंभूता । ऊर्णम्रदाः ऊर्णेव म्रदीयसी कम्बलवन्मृदुरसि । तथाविधा त्वमूर्जमन्नरसं मयि धेहि स्थापय । अङ्गिरसः स्वर्गं लोकं गच्छन्तोऽन्नरसं व्यभजन्त विभज्यमानेऽवशिष्टोऽन्नरसो भूमौ पतितः शणमुञ्जनामकतृणरूपेणाविर्भूतस्तस्माच्छणमुञ्जमयी मेखला । अतएव मेखलाया आङ्गिरसत्वमिति तित्तिरिणा प्रत्यपादि । 'नीविं कुरुते सोमस्य नीविरिति' (का. ७ । ३ । २७ )। हे मेखले, त्वं सोमस्य नीविरसि सोमदेवतायाः प्रियभूता ग्रन्थिरसि । मूलाग्रयोरेकीकरणेन ग्रन्थिविशेषो नीविरुच्यते । अदीक्षितस्य पितृदेवत्या नीविरुक्ता दीक्षितस्य तु सोमयागाय नीविः सोमेन व्यपदिश्यते । 'शिरः प्रोर्णुते विष्णोः शर्मेति' ( का० ७ । ३ । २८)। हे वस्त्र, त्वं विष्णोः व्यापकस्य यज्ञस्य शर्मासि सुखहेतुर्भवसि । अतो यजमानस्य शर्म सुखं कुर्विति शेषः ॥ 'कृष्णविषाणां त्रिवलिं पञ्चवलिं वोत्तानां | दशायां बध्नीते तया कण्डूयनमुपस्पृशत्येनया दक्षिणस्या भ्रुव उपरीन्द्रस्य योनिरितीति' (का० ७ । ३ । २९-३१)। हे कृष्णविषाणे, त्वं यथा पूर्वमिन्द्रस्य योनिरसि तथेदानीं यजमानस्य स्थानं भवेति शेषः । पुरा कदाचिद्यज्ञपुरुषो दक्षिणां देवीं समभवत्तस्मात्संभावनादिन्द्रोऽजायत तदानीमत्रान्यस्योत्पत्तिर्मा भूदिति विचार्येन्द्रः स्वां योनिं दक्षिणाया आच्छिद्य मृगेषु न्यदधात् । निहिता सा योनिः कृष्णविषाणाभूदिति तित्तिरिश्रुतौ यज्ञो दक्षिणामभ्यधादित्याख्याने कथा । । तस्मात्कृष्णविषाणाया इन्द्रयोनित्वम् ॥ 'भूमौ चोल्लिखति सुसस्या इतीति' (का० ७ । ३ । ३२ )। हे कृष्णविषाणे, त्वं कृषीः सुसस्याः कृधि कुरु । करतेः शपि लुप्ते 'श्रुशृणु' (पा० ६ । ४ । १०२) इत्यादिना हेर्धिः । शोभनं सस्य ' यासु ताः सुसस्याः । सस्यं व्रीहियवादि । तदर्थो भूम्युल्लेखः । कृषिः । यजमानानां कृषयः सन्ति ताः सर्वाः शोभनधान्याः कुर्वित्यर्थः । 'मुखसंमितमौदुम्बरं दण्डं प्रयच्छत्युच्छ्रयस्वेत्येनमुच्छ्रयतीति' (का० ७ । ४ । १-२) । दण्डो देवता । हे । वनस्पते वृक्षावयव दण्ड, उच्छ्रयस्व उन्नतो भव । ऊर्ध्वो भूत्वा अंहसः पापात् मा मां पाहि रक्ष । तत्र कालावधिरुच्यते ।
अस्यानुष्ठीयमानस्य यज्ञस्य उदृचः उत्तमायाः समाप्तिगतायाः ऋचः आ तदृक्पर्यन्तमित्यर्थः ॥ १० ॥

एकादशी।
व्र॒तं कृ॑णुता॒ग्निर्ब्रह्मा॒ग्निर्य॒ज्ञो वन॒स्पति॑र्य॒ज्ञिय॑: ।
दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हसᳪं᳭ सुती॒र्था नो॑ अस॒द्वशे॑ ।
ये दे॒वा मनो॑जाता मनो॒युजो॒ दक्ष॑क्रतव॒स्ते नो॑ऽवन्तु॒ ते न॑: पान्तु॒ तेभ्य॒: स्वाहा॑ ।। ११ ।।
उ० वाचं विसृजते । व्रतं कृणुत । व्रतशब्देन पयोभिधीयते । मम क्षिप्रं भोजनार्थं पयः कुरुत । अग्निः ब्रह्म त्रयीलक्षणम् । अग्निः यज्ञः अग्निं प्रत्याख्याय यज्ञो न प्रवर्तत इत्याशयः । वनस्पतिर्यज्ञियः । 'न हि मनुष्या यजेरन्यद्वनस्पतयो न स्युः' इति श्रुतिः । दैवीं धियम् । शक्वरी अतिशक्वरी वा । अस्याश्च पूर्णेनार्धर्चेन व्रतायोपस्पृशति दैवीं धियं मनामहे । मनामह इति याञ्चाकर्मसु पठितः । देवसंबन्धिनीं धियं याचामहे । सुमृडीकाम् । 'मृड सुखने'। सुसुखाम् । अभिष्टये । अभिपूर्वस्य यजतेरादिलोपः । अभिइष्टये अभियागाय । अथवा अभिपूर्वस्य सिञ्चतेः अभिष्टिः । अभिषेकाय प्रक्षालनाय । वर्चोधाम् ब्रह्मवर्चसो धारयित्रीम् । यज्ञवाहसम् यज्ञस्य वोढ्रीम् । सा च सुतीर्था नोऽसत् यज्ञं प्रति शोभनावतारा अस्माकं भवतु । वशे वश्या भवतु । व्रतं व्रतयति । ये देवाः । अत्राग्निहोत्रसंपदं यजमानः करोति । ये मयि प्राणेषु देवाः मनोजाताः मनसो जाताः । मनःपूर्वका हि तेषु प्रवृत्तिः । मनोयुजः मनसा युज्यन्ते स्वप्नावस्थायामिति मनोयुजः । दक्षक्रतवः क्रतुः संकल्पः तस्यैव समृद्धिर्दक्षक्रतुशरीरा । 'वागेवाग्निः प्राणोदाना मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वेदेवाः' य एते अध्यात्मश्रुतौ पठ्यन्ते त इहोच्यन्ते । ते नः अस्मान् अवन्तु ते अस्मान् पान्तु पालयन्तु तेभ्यश्च स्वाहा सुहुतमस्तु सुहुतमेतद्धविर्भवतु ॥११॥
म० 'व्रतं कृणुतेति वाग्विसर्जनं त्रिरुक्त्वेति' ( का० ७ । ४ । १५)। मौनोपस्थितस्य यजमानस्यैतन्मन्त्रोच्चारणं वाग्विसर्जनसाधनम् । हे परिचारकाः, व्रतं कृणुत दोहनादिना क्षीरं संपादयत । दीक्षितस्य भोजनाय यन्नियतं पयस्तद्व्रतमित्युच्यते । वाक्यावृत्तिरादरार्था । 'अग्निर्ब्रह्मेति च सकृदिति' (का० ७ । ४ । १५)। एतमपि मन्त्रं सकृत्पठेत् । अग्निर्ब्रह्म । ब्रह्मशब्देन वेदत्रयमभिधीयते तस्य वेदत्रयस्याग्नित्वमुपचर्यते । आधानेन निष्पन्नस्य वेदिकस्याग्नेर्वेदव्यतिरेकेणासंभवात् । तस्मादयं श्रौतोऽग्निर्ब्रह्मैव वेदरूप एव । अयमग्निर्यज्ञः तस्य अग्नेर्यज्ञसाधनत्वाद्यज्ञत्वमुपचर्यतेऽग्निर्यज्ञ एवेति । वनस्पतिः यज्ञियः यज्ञयोग्यो यो वनस्पतिः खादिरादिः सोऽपि यज्ञ इत्यनुवर्तते । वनस्पतेर्यज्ञसाधनत्वाद्यज्ञत्वम् । तथाच श्रुतिः 'नहि मनुष्या यजेरन्यद्वनस्पतयो न स्युरिति' (३ । २ । २ । ९) । 'दैवीं धियमिति व्रतायोपस्पर्शꣳ स्वासन इति' (का. ७ । ४ । ३२) । शक्वरी अतिशक्वरी वा । पूर्वार्धेनाचमनम् । वयं धियं मनामहे यज्ञानुष्ठानविषयां बुद्धिं याचामहे । मनामह इति याञ्चाकर्मसु पठितः । किमर्थम् । अभिष्टये अभि समन्ताद्यजनमभिष्टिः । अभिपूर्वस्य यजतेः क्तिनि आदिलोपः । अभिमुखत्वेन प्राप्तस्य यज्ञस्य सिद्ध्यर्थम् । किंभूतां धियम् । दैवीं देवसंबन्धिनीम् । देवतोद्देशेन प्रवृत्तामित्यर्थः । तथा सुमृडीकाम् । सुष्ठु मृडयति सुमृडीका तां शोभनसुखहेतुम् । तथा वर्चोधां वर्चो दधातीति वर्चोधास्तां तेजसो धारयित्रीम् । तथा यज्ञवाहसम् यज्ञं वहति यज्ञवाहास्तां यज्ञनिर्वाहकत्रींम् । तथाविधा धीः सुतीर्था सुखेन तरीतुं प्राप्तुं शक्या सुतीर्था । यद्वा सुष्ठु तीर्थमवतरणमार्गो यस्यां सा । एवंविधा सती नो वशे असत् अस्माकमधीनत्वे भवतु ॥ 'ये देवा इति व्रतयत्यमृन्मय इति' ( का० ७ । ४ । ३३ )। ये देवा ईदृशाः दीव्यन्ति द्योतन्ते त इति । देवाश्चक्षुरादीन्द्रियरूपाः प्राणाः 'वागेवाग्निः प्राणोदानौ मित्रावरुणौ चक्षुरादित्यः श्रोत्रं विश्वेदेवाः' ( ३ । २।२।१३) इति श्रुत्युक्ताः । किंभूताः । मनोजाताः दर्शनश्रवणादीच्छारूपान्मनस उत्पन्नाः । इच्छोत्पत्तौ तेषां प्रवर्तमानत्वात् । तथा मनोयुजः रूपादिदर्शनकालेऽपि मनसा युक्ता एव वर्तन्ते । अन्यमनस्कस्य रूपादिप्रतिभासाभावात् । यद्वा स्वप्नावस्थायां मनसा युज्यन्ते ते मनोयुजः । तथा दक्षक्रतवः दक्षाः कुशलाः क्रतवः संकल्पाः येषां ते । संकल्पितार्थकारिण इत्यर्थः । ते देवाः नोऽस्मानवन्तु यज्ञानुष्ठानविघ्नपरिहारेण पालयन्तु । तेभ्यः प्राणरूपेभ्यः देवेभ्यः स्वाहा इदं क्षीरं हुतमस्तु ॥ ११॥

द्वादशी।
श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पो अ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवा॑:।
ता अ॒स्मभ्य॑मय॒क्ष्मा अ॑नमी॒वा अना॑गस॒: स्वद॑न्तु दे॒वीर॒मृता॑ ऋता॒वृध॑: ।। १२ ।।
उ० श्वात्राः पीता । जगत्याब्दैवत्यया नाभिमुपस्पृशति । हे आपः, यूयं श्वात्राः । श्वात्रमिति क्षिप्रनाम । क्षिप्रपरिणामाः । प्रीता भवत अस्माकमन्तर्मध्ये । पुनर्विशिनष्टि उदरे सुशेवाः । शेव इति सुखनाम । सुसुखाः । ता अस्मभ्यम् अयक्ष्माः अनमीवा अनागसः । आग इत्यपराधनाम । अनपराधाः । स्वदन्तु देवीः । 'स्वद स्वर्द आस्वादने देवीरिति निःसंशयं द्वितीयान्तम् । एतत्पदसामानाधिकरण्यात्तु ता इत्येतदादीन्यपि द्वितीयान्तान्येव । ता युष्मान् अस्मभ्यम् अस्मदर्थम् अयक्ष्माः सतीः । यक्ष्मा व्याधिराजस्तद्रहिताः । अनमीवाः । अमीवा व्याधिरेव । आदरार्थं यक्ष्मग्रहणम् । अनागसः अनपराधाः सतीः । आग इत्यपराधनाम । स्वदन्तु । 'स्वद स्वर्द आस्वादने । आस्वादयन्तु । कमादयन्तु । अमृताः प्राणाः वागेवाग्निरित्यादयः। ऋतावृधः सत्यवृधः यज्ञवृधो वा ॥ १२॥
म०. 'श्वात्राः पीता इति नाभिमालभत इति' (का० ७ | ४ । ३५ ) । अब्देवत्या जगती । हे आपः, क्षीररूपा यूयं मया पीताः सत्यः श्वात्राः क्षिप्रपरिणामाः शीघ्रं जीर्णा भवत । श्वात्रमिति क्षिप्रनामाशु अतनं भवति' (निरु० ५।३) इति यास्कः । किंच अस्माकं पीतवतामन्तरुदरे जलपाकस्थाने सुशेवाः शोभनसुखाः भवतेत्यनुवर्तते । सुष्ठु शेवं याभ्यस्ताः । शेवमिति सुखनाम । किंच । तास्तथाविधा आपः अस्मभ्यमस्मदुपकारार्थं स्वदन्तु स्वादुत्वयुक्ता भवन्तु । किंभूतास्ताः । अयक्ष्माः प्रबलरोगराजरहिताः । अनमीवाः सामान्यरोगनिवर्तिकाः । नास्त्यमीवा याभ्यः । अनागसः नास्त्यागो याभ्यः अपराधहारिण्यः । ऋतावृधः ऋतं वर्धयन्ति ता ऋतवृधः । संहितायाम् ऋतस्य दीर्घः । यज्ञवृद्धिहेतवः । देवीः देव्यो द्योतमानाः । अमृताः नास्ति मृतं याभ्यः मरणनिवर्तिकाः । यद्वायमर्थः । ता इति द्वितीयाबहुवचनम् । अमृताः अमरणधर्मिणो देवाः पूर्वोक्ताः प्राणा वागादयस्ता अपः स्वदन्तु आस्वादयन्तु । कीदृशीः। अस्मभ्यमयक्ष्माः अस्मदर्थमस्माकं वा यक्ष्मनाशिनीः । शेषं पूर्ववत् ॥ १२ ॥

त्रयोदशी ।
इ॒यं ते॑ य॒ज्ञिया॑ त॒नूर॒पो मु॑ञ्चामि॒ न प्र॒जाम् । अ॒jहो॒मुचः॒ स्वाहा॑कृताः पृथि॒वीमा वि॑शत पृथि॒व्या सम्भ॑व ।। १३ ।।
उ० 'मेक्ष्यन् लोष्टं किंचिद्वादत्ते' । इयं ते यज्ञिया तनूः । पृथिव्यभिधीयते। इयं तव यज्ञार्हातनूः तामादद इति शेषः। मेहति । अपो मुञ्चामि । अपो मूत्रं मुञ्चामि त्यजामि नतु प्रजाम् । उभयं वा । अत एत्यापश्च रेतश्च स एतदाप एवं मुञ्चति न प्रजाम् । अंहोमुचः अंहः पापमसुखं तस्मात्पुरुषं मुञ्चन्ति पृथक्कुर्वन्तीत्यंहोमुचः । हे मूत्राख्या आपः, यूयम् अंहोमुचः ताः स्वाहाकृताः सुष्ठुत्यक्ताः पृथिवीम् आविशत प्रविशत । आत्तं निदधाति । पृथिव्या संभव । भूम्या सह एकीभव ॥ १३॥
म० 'मेक्ष्यन्कृष्णविषाणया लोष्टं किंचिद्वादत्त इयं त इति' (का० ७ । ४ । ३६ ) । मूत्रं करिष्यन् शृङ्गेण लोष्टं किंचित्तृणादिकं वा गृह्णातीति सूत्रार्थः । हे यज्ञपुरुष, इयं पृथिवी ते तव यज्ञिया तनूः यज्ञयोग्यो देशः । अतोऽस्या मूत्रोपहतिपरिहाराय व्यवधानं कर्तुं लोष्टं तृणं वा स्वीकरोमीति भावः । यद्वा पृथिवीं प्रत्युच्यते । हे पृथिवि, इयं लोष्टरूपा ते तव यज्ञार्हा तनूस्तामादद इति शेषः ॥ (का० ७। ४ । ३७) अपो मुञ्चामीति मेहतीति । अपो मूत्ररूपा अहं मुञ्चामि न प्रजां प्रजोत्पत्तिनिमित्तं रेतो न मुञ्चामि । अतो हे आपः मूत्राख्याः, यूयं पृथिवीमाविशत प्रविशत। किंभूताः। अंहोमुचः अंहसः पापात् मुञ्चन्ति पुरुषं पृथक्कुर्वन्तीत्यर्थः । तथा स्वाहाकृताः पूर्वं क्षीरपानकाले वाहेति मन्त्रेण स्वीकृताः। यद्वा स्वाहाकृताः सत्यो भूमिमाविशत 'पृथिव्या संभवेत्यात्तं निदधातीति' (का० ७ । ४ । ३८) । गृहीतलोष्टादिकं मूत्रस्थाने क्षिपेत् । हे लोष्टादिक, पृथिव्या सह त्वं संभव एकीभव ॥ १३ ॥

चतुर्दशी ।
अग्ने॒ त्वᳪं᳭ सु जा॑गृहि व॒यᳪं᳭ सु म॑न्दिषीमहि । रक्षा॑ णो॒ अप्र॑युच्छन् प्र॒बुधे॑ न॒: पुन॑स्कृधि ।। १४ ।।
उ० स्वपिति । अग्ने त्वम् । अनुष्टुबाग्नेयी । हे अग्ने, त्वं सुजागृहि साधु जागृहि । वयं सुमन्दिषीमहि । 'मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' । वयं स्वप्स्यामः । मन्दतिः स्वप्नार्थः। किंच रक्ष नः अस्मान् अप्रयुच्छन् । 'युच्छ प्रमादे'। किंच प्रबुधे प्रबोधाय नः अस्मान् पुनः कृधि कुरु ॥ १४ ॥
म० 'अग्ने, त्वमित्युक्त्वा स्वपित्यधः प्राग्दक्षिणत इति' (का० ७ । ४ । ३९)। अनुष्टुबाग्नेयी । हे अग्ने, त्वं सुजागृहि सुष्ठु निद्रारहितो भव । वयं यजमानाः सुमन्दिषीमहि साधु स्वप्स्यामः । ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' अत्र स्वप्नार्थः । आशीर्लिङ्युत्तमबहुवचने रूपम् । किंच । नोऽस्मान् रक्ष । किं कुर्वन् । अप्रयुच्छन् । 'युच्छ प्रमादे' । अप्रमाद्यन् । | 'द्व्यचोतस्तिङः' (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । 'नश्च धातुस्थोरुषुभ्यः' (पा० ८।४।२७) इति | न इत्यस्य णत्वम् । नो अप्रयुच्छन्नित्यत्र 'एङः पदान्तादति' (पा० ६।१।१०९) इति पूर्वरूपे प्राप्ते 'प्रकृत्यान्तःपादमव्यपरे' (पा० ६।१।११५) इति प्रकृतिभावः । किंच अग्ने, नोऽस्मान् पुनः प्रबुधे प्रबोधाय । कृधि कुरु । प्रबोधनं प्रभुत् तस्यै प्रबुधे । संपदादित्वाद्भावे क्विप् । स्वपतोऽग्नेः प्रार्थनं रक्षसां नाशाय । तदुक्तं तित्तिरिणा 'अग्निमेवाधिपं कृत्वा खपिति रक्षसामपहत्या' इति ॥ १४ ॥

पञ्चदशी।
पुन॒र्मन॒: पुन॒रायु॑र्म॒ आऽग॒न् पुन॑: प्रा॒णः पुन॑रा॒त्मा म॒ आऽग॒न् पुन॒श्चक्षु॒: पुन॒: श्रोत्रं॑ म॒ आऽग॑न् ।
वै॒श्वा॒न॒रो अद॑ब्धस्तनू॒पा अ॒ग्निर्न॑: पातु दुरि॒ताद॑व॒द्यात् ।। १५ ।।
उ० विबुद्धमस्वप्स्यन्तं पुनर्मन इति वाचयति । पुनर्मनः । मे मम मनः आगन् आगतम् । पुनरायुर्जीवितं मम आगतम् । पुनः प्राणो ममागतः । मुखनासिकासंचारी वायुः प्राणः । पुनः श्रोत्रं मम आगतम् । 'सर्वेह वा एते स्वपतोपक्रामन्ति' इति श्रुतिः । किंच अग्निर्वैश्वानरो अदब्धः अनुपहिंसितः तनूपाः शरीरस्य गोपायिता नः अस्मान् पातु रक्षतु दुरितात् अशुभात् अवद्यात् अवदनीयात् ॥ १५॥
म० 'विबुद्धमस्वप्स्यन्तं पुनर्मन इति वाचयतीति' (का. ७।४ । ४०)। मे मम यजमानस्य मनः पुनरागन् सुप्तिकाले विलीय पुनरिदानीं शरीरे समागतम् । गमेर्लङि शपि लुप्ते 'हल्ङ्याब्भ्यः ' (पा० ६।१।६८) इति प्रत्ययलोपे | मकारस्य नकारे प्रथमैकवचने आगन्निति रूपम् । किंच स्वापकाले मे मदीयमायुर्नष्टप्रायं भूत्वा पुनरागन् इदानीं पुनरुत्पन्नमिवासीत् । तथा मे प्राणो वायुः पुनरागन् । तथा मे आत्मा जीवः पुनरागन् । तथा मे चक्षुः पुनरागन् । तथा मे श्रोत्रं श्रवणेन्द्रियं पुनरागन् । 'सर्वे ह वा एते स्वपतोऽपक्रामन्ति' (३।२।२ । २३) इति श्रुतेः । स्वापकाले मनआदीनामपक्रमो भवति तेषां पुनर्यथास्थानमागमनं प्रार्थ्यते। एवं सर्वेन्द्रियेषु समागतेषु अयमग्निः अवद्यात् वदितुमयोग्यात् निन्दितात् दुरितात्पापात् नोऽस्मान् पातु पालयतु । यद्वा अवद्यात् दुर्यशसो दुरितात्पापाच्च पातु । किंभूतोऽग्निः । वैश्वानरः विश्वेभ्यो नरेभ्यो हितः सर्वपुरुषोपकारकः । 'नरे संज्ञायाम्' (पा० ६।३ । १२९) इति पूर्वपददीर्घः । अदब्धः केनाप्यहिंसितः तनूपाः तनूं पातीति । अस्मदीयशरीरपालकः ॥ १५॥

षोडशी
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।त्वं य॒ज्ञेष्वीड्य॑: । रास्वेय॑त्सो॒मा भूयो॑ भर दे॒वो न॑: सवि॒ता वसो॑र्दा॒ता वस्व॑दात् ।। १६ ।।
उ० अव्रत्यं व्याहृत्य जपति । त्वमग्ने । आग्नेयी गायत्री। हे अग्ने, त्वं व्रतस्य पालयिता भवसि । देव आ मर्त्येषु आ । आकारौ समुच्चयार्थीयौ । देव आ त्वं च मर्त्येषु मनुष्येषु च व्रतपा इति शेषः । त्वं च यज्ञेष्वीड्यः । सत्कारपूर्वो व्यापारोऽध्येषणा । ईडिरध्येषणकर्मा वा पूजाकर्मा वा । अध्येषितव्यः याचितव्यः । त्वमतो व्रतं पाहीति शेषः । लब्धमालभ्य वाचयति । रास्वेयत् । सोम उच्यते । रास्व । 'रा दाने' देहि । इयदिति लब्धद्रव्यपरिमाणवचनम् । हे सोम । किंच आभूयो भर। 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारश्छान्दसः। आहर भूयो बहुतरम् । किंच 'देवः सविता नः अस्मभ्यं वसोर्दाता धनस्य दाता वस्वदात् धनमदाद्दत्तवान् पूर्वमेवेत्यभिप्रायः ॥ १६ ॥
म० त्वमग्न इत्याह क्रुद्ध्वाव्रत्यं वा व्याहृत्येति' (का० ७ । ५।१-२)। दीक्षितो यदा क्रुध्यति व्रतविरुद्धं वा ब्रूते तदा त्वमग्न इत्यृचं जपेत् । गायत्र्याग्नेयी वत्सदृष्टा । व्यूहेनाक्षरपूरणम् । हे अग्ने, देवो द्योतनात्मकः त्वमा मर्त्येषु मनुष्यपर्यन्तेषु सर्वप्राणिषु व्रतपा असि व्रतस्य कर्मणः पालको भवसि । तथा आ समन्ताद्यज्ञेषु त्वमीड्योऽसि । 'ईडिरध्येषणकर्मा च' इति यास्कः। याचितव्यः पूजयितव्यो वा भवसि । अतः पाहीति शेषः । यद्वा आकारद्वयं समुच्चयार्थम् । देवे इति सप्तम्यन्तं पदम् । हे अग्ने, त्वं देवे आ देवेषु च मर्त्येषु आ मनुष्येषु च व्रतपा असीति । शेषं पूर्ववत् । 'लब्धमालम्भ्य वाचयति रास्वेयदिति' (का० ७ । ५ । १६) । क्रतौ प्राप्तं धनं स्पृष्ट्वा मन्त्रं पठेत् । रास्व । सोमदेवत्यं यजुः । हे सोम, इयद्रास्व एतावद्धनं देहि । भूयः पुनरपि आभर धनम् आहर । 'हृग्रहोः-' (पा० ८।२ । ३२) इति भकारः । यतो वसोर्धनस्य दाता सविता देवो नोऽस्मभ्यं वसु अदात्पूर्वमपि धनं दत्तवान् ॥ १६॥

सप्तदशी।
ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राजं॑ गच्छ । जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे ।। १७ ।।
उ० एघा ते । अनुष्टुभौ । पूर्वार्धर्चो हिरण्यदेवत्यः उत्तरो वाग्देवत्यः विनियोगो ध्रौवाज्ये । आज्यं जुह्वां चतुः क्षिप्त्वा तत्र हिरण्यं निदधाति । आज्यमुच्यते । एषा हिरण्यलक्षणा ते तव हे शुक्राज्य तनूः शरीरम् । 'समानजन्म वै पयश्च हिरण्यं चोभयᳪं᳭ ह्यग्निरेतसम्' इति श्रुतिः । एतच्च हिरण्यलक्षणं वर्चस्तेजः तया तन्वा संभव एकीभव । एकीभूय च भ्राजं सोमं गच्छ । जुहोति जूरसि 'जीव प्राणधारणे' । अस्य क्विबन्तस्यापि डूप्रत्यये जूरिति भवति । या त्वं जीवनमसि । 'धिया धिया ह्येतया मनुष्या जुजूषन्ति' इति श्रुतिः। अथवा जवत इति जूः । 'एतᳪं᳭ह्याकाशमनुजवते' इति श्रुतेः । या च त्वं धृता धारिता मनसा। 'जुषी प्रीतिसेवनयोः' । अभिरुचिता च । विष्णवे विष्णोः सोमस्य ॥ १७ ॥
म०. 'शालाद्वाराण्यपिधाय ध्रौवं जुह्वां चतुर्विगृह्णाति बर्हिस्तृणेन हिरण्यं बद्ध्वावदधात्येषा त इतीति' (का० ७ । ६ । ७-८)। ध्रुवास्थमाज्यं जुह्वां चतुर्ग्रहीत्वा तत्राज्ये दर्भतृणबद्धं स्वर्णं क्षिपेदिति सूत्रार्थः । एषा ते । हिरण्याज्यदैवतम् । हे शुक्र शुक्ल दीप्यमानाग्ने, ते तव एषा तनूः दृश्यमानमाज्यं शरीरम् । एतत् आज्ये प्रक्षिप्यमाणं हिरण्यं ते वर्चः त्वदीयं तेजः । तया आज्यरूपया तन्वा संभव एकीभव । ततो भ्राजं गच्छ । 'भ्राज दीप्तौ' हिरण्यगतां दीप्तिं प्राप्नुहि । एतन्मन्त्रपाठेनाग्नेः सतेजस्त्वं सतनुत्वं च संपद्यते । तदुक्तं तित्तिरिणा 'सतेजसमेवैनं सतनुं करोति' इति । यद्वायमर्थः । हे शुक्र आज्य, एषा हिरण्यलक्षणा ते तनूः एतत्ते वर्चश्च । 'समानजन्म वै पयश्च हिरण्यं चोभयं ह्यग्निरेतसम्' ( ३ । २।४। ८) इति श्रुतेः । तया हिरण्यलक्षणया तन्वा संभव एकीभूय भ्राजं सोमं गच्छ । भ्राजतेऽसौ भ्राट् तम् । 'सोमो वै भ्राट्' ( ३ । २ । ४ । ९) इति श्रुतेः । ‘जूरसीति जुहोतीति' (का० ७ । ६ । ९) । वाग्दैवतम् । हे वाक् , त्वं जूरसि वेगयुक्तासि । यद्वा ‘जीव प्राणधारणे' । जीवयतीति जूः । डूप्रत्ययः । किंभूता त्वम् । मनसा धृता नियमिता । तथा विष्णवे जुष्टा । यज्ञो वै विष्णुः । यज्ञार्थं प्रीतियुक्ता । यद्वा षष्ठ्यर्थे चतुर्थी । यज्ञस्य रुचिता ॥ १७ ॥

अष्टादशी।
तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो॒ य॒न्त्रम॑शीय॒ स्वाहा॑ । शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ।। १८ ।।
उ० तस्यास्ते तव सत्यसवसः अवितथाभ्यनुज्ञायाः। प्रसवे अभ्यनुज्ञायां वर्तमानाः । तन्वो यन्त्रम् अशीय शरीरस्य यमनं दार्ढ्यम् अशीय व्याप्नुयाम् आ यज्ञसमाप्तेः । हिरण्यमुद्धरति । शुक्रमसि अग्ने रेतोसि । चन्द्रमसि । 'चदि आह्लादने' । 'अमृतमसि' अमरणधर्मासि । वैश्वदेवमसि सर्वदेवत्यमसि इति ॥ १८ ॥
म० सत्यं सवो यस्याः सा सत्यसवाः तस्याः सत्यसवसोऽवितथाभ्यनुज्ञायाः। तस्यास्ते तथाविधायास्तव वाचः प्रसवेऽनुज्ञायां वर्तमानोऽहं तन्वः शरीरस्य यन्त्रं नियमनं दार्ढ्यमशीय प्राप्नुयाम् । स्वाहा इदमाज्यं हुतमस्तु । 'शुक्रमसीति हिरण्यमुद्धृत्य वेद्यां तृणं निदधातीति' (का० ७ । ६ । १०)। जुह्वां बद्ध्वा स्थापितं हिरण्यमुद्धरेत् । शुक्रमसि । हिरण्यं देवता । हे हिरण्य, त्वं शुक्रमसि । शोचते शुक्रम् । 'शुच दीप्तौ' । दीप्यमानमसि । तथा चन्द्रमाह्लादकमसि । 'चदि आह्लादने' । चन्दतीति चन्द्रम् । अमृतं विनाशरहितमसि । अग्निसंयोगेऽपि हिरण्यस्य विनाशाभावः प्रसिद्धः । 'अग्नौ सुवर्णमक्षीणम्' इति याज्ञवल्क्योक्तेः । वैश्वदेवमसि । विश्वेषां देवानामिदं वैश्वदेवं सर्वदेवसंबन्धि । सर्वोऽपि देवो हिरण्यदानेन तुष्येत् ॥ १८॥


सोमक्रयणम्

एकोनविंशी।
चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी ।
सा न॒: सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीतां पू॒षाऽध्व॑नस्पा॒त्विन्द्रा॒याध्य॑क्षाय ।। १९ ।।
उ० सोमक्रयणीमभिमन्त्रयते वागूपाध्याहारोपकल्पनया। त्वं चिदसि । चित्तस्य मनसोऽनुवादिनी भवसि । या च मनोसि प्रज्ञासि । या च धीरसि बुद्धिर्भवसि । 'धिया ह्येतया मनुष्या जुजूषन्ति जीवितुमिच्छन्ति' इति श्रुतिः। या च त्वं दक्षिणासि । 'भूमिदानात्परं नास्ति विद्यादानं ततोऽधिकम्' इत्येतदभिप्रायम् । तेभ्यो वाचं दक्षिणामानयन्नित्येतदभिप्रायं वा । या च क्षत्रियासि । क्षतात् त्रायत इति क्षत्रियः । जात्या स्तूयते वा । या च यज्ञियासि यज्ञार्हासि । या च अदितिरसि । अदीनासि । या च उभयतःशीर्ष्णी उभयतोमुखी । वाक्ये पदानामन्यथाचान्यथा च क्रमो भवतीत्येतदभिप्रायम् । स यदेनया सयानᳪं᳭सविपर्यासं वदति' इत्यादिश्रुतिः । सा नः सुप्राची सुप्रतीची एधि । या त्वमुक्तगुणासि सास्माकं सुप्राची भव। सोममभिगच्छेत्यर्थः । सुप्रतीच्येधि । साधु अस्मान् प्रति सोमं गृहीत्वा आगच्छेत्यर्थः । 'सुप्राची न एधि सोमं नोऽच्छेहीत्येवैतदाह सुप्रतीची न एधि सोमेन नः सह पुनरेहीत्येवैतदाह' इति श्रुतिः । किंच । मित्रस्त्वा पदि बध्नीताम् । मित्र आदित्यस्त्वां पदि पादे बध्नातु अप्रणाशाय । किंच पूषाध्वनस्पातु इयं वै पृथिवी पूषा सा त्वामध्वनः मार्गात् पातु रक्षतु । किंच इन्द्रायाध्यक्षाय । चतुर्थ्याः षष्ठ्या विपरिणामः । अधि उपरि अक्षिणी यस्य सोऽध्यक्षः । इन्द्रस्याध्यक्षस्य सतः ॥ १९॥
म० 'चिदसीत्येनामभिमन्त्रयते' (का० ७ । ६ । १५) इति कण्डिकाद्वयेन । एनां सोमक्रयणीमित्यर्थः । वाग्रूपाध्यारोपकल्पनया सोमक्रयणी गौः स्तूयते । हे वाग्देवतारूपे सोमक्रयणि, त्वं चिदसि मनोऽसि धीरसि । अन्तःकरणस्य चित्तमनोबुद्धय इति तिस्रो वृत्तयः । तल्लक्षणानि । अचेतन देहादिसङ्घातस्य चेतनत्वं संपादयन्ती बाह्यवस्तुषु वा निर्विकल्परूपं सामान्यज्ञानं जनयन्ती वृत्तिश्चित्तं तदेवात्र चिदित्युच्यते । लोके कंचित्पदार्थं दृष्ट्वा एवं भवति न वेति संकल्पविकल्पौ कुर्वाणा वृत्तिर्मनः तदेवात्र मन इत्युच्यते । इदमित्थं भवत्येवेति निश्चयरूपा वृत्तिर्बुद्धिः सैवात्र धीशब्देनोच्यते । वागात्मिका सोमक्रयणी चिन्मनोधीरूपत्वेन प्रशस्यते । चिदादिरूपत्वमारोप्य स्तुतिः कृता । दक्षिणादिरूपत्वं तु विद्यमानमेव स्तूयते । हे गौः, त्वं दक्षिणासि । गवां देयद्रव्यत्वेन कर्मसु दक्षिणात्वं प्रसिद्धम् । यद्वा वाग्दानस्य प्रशस्त त्वाद्दक्षिणासि । 'भूमिदानात्परं नास्ति विद्यादानं ततोऽधिकम्' इति स्मृतेः । तथा क्षत्रियासि सोमक्रयसाधनत्वेन । तथाहि । देवेषु क्षत्रजात्यभिमानी सोमः । तदुक्तं बृहदारण्यके 'यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः' (माध्य० १ । २ । १३) इति । तेन सोमेन क्षत्रेणाभिमन्तव्यस्य सोमलताद्रव्यस्य क्रयहेतुत्वेन त्वं क्षत्रियासि । तद्रूपं चास्याः क्रयद्वारा तत्संबन्धित्वादुपचर्यते । अतएव यज्ञसंबन्धित्वाद्यज्ञिया यज्ञार्हासि । अदितिः अखण्डिता अदीना देवमातृरूपासि । नास्ति दितिर्यस्याः सा । 'अदितिरदीना देवमाता' (निरु० ४ । २२) इति यास्कः । तथा उभयतःशीर्ष्णी उभयतः शीर्षे यस्याः सा । ज्योतिष्टोमस्याद्यन्तयोः प्रायणीयोदयनीययोः शीर्षत्वम् । 'द्वे शीर्षे प्रायणीयोदयनीये' | (निरु० १३ । ७) इति यास्कोक्तेः । यद्वोभयतःशीर्ष्णी सर्वतोमुखी वाग्रूपत्वात् । स यदेनया समानं सद्विपर्यासं वदति' (३ । २ । ४ । १६) इति श्रुतेः । सा पूर्वोक्ता | चिदादिरूपा त्वं नोऽस्मदर्थे सुप्राची सुप्रतीची च एधि भव । | सुष्ठु प्राङञ्चतीति सुप्राची । सुष्ठु प्रत्यङ्ङञ्चतीति सुप्रतीची। प्रथमं सोमस्य क्रेतारं प्रति सुष्ठु प्राङ्मुखीभूत्वा पश्चात्सोमेन सहास्मान्प्रत्यागन्तुं सुष्ठु प्रत्यङ्मुखी भवेत्यर्थः । तथाच श्रुतिः 'सुप्राची न एधि सोमं नोऽच्छेहीत्येवैतदाह सुप्रतीची न एधि सोमेन नः सह पुनरेहीत्येवैतदाह' (३ । २ । ४ । १७) इति । किंच मित्रः सूर्यः पदि दक्षिणपादे त्वा त्वां बध्नीतां बन्धनं करोतु अप्रणाशाय । तथा पूषा पोषको देवः सूर्य एवाध्वनो मार्गात्पातु त्वां रक्षतु । यद्वा पूषेत्याबन्तं स्त्रीलिङ्गं पदम् । पूषा पृथिवी त्वां मार्गात् पातु 'इयं वै पृथिवी पूषा' ( ३।२।४।१९) इति श्रुतेः । किमर्थम् । इन्द्राय इन्द्रप्रीत्यर्थम् । किंभूतायेन्द्राय । अध्यक्षाय अधि उपरि अक्षिणी यस्य सोऽध्यक्षस्तस्मै द्रष्ट्रे । यज्ञस्वामिने इत्यर्थः ॥ १९ ॥

विंशी।
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः ।
सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ᳪं᳭ रु॒द्रस्त्वा व॑र्त्तयतु स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ ।। २० ।।
उ० किंच सोमाहरणप्रवृत्तां त्वामेते अनुमन्यन्तां त्वा त्वां माता अनुमन्यतां त्वां पिता अनुमन्यतां त्वां भ्राता सगर्भ्यः समानगर्भभवः अनुमन्यतां । त्वां सखा सयूथ्यः समानयूथप्रभवः सखा अनुमन्यताम् । किंच या त्वं कृतसामग्रीकाऽस्माभिः सोमं प्रति गमने सा त्वं हे देवि दानादिगुणयुक्ते, देवमच्छेहि । 'अच्छाभेराप्तुमिति शाकपूणिः' । देवं सोममध्येहि अभिगच्छ । इन्द्राय सोमम् आहर्तुमिति शेषः। किंच । रुद्रस्त्वावर्तयतु रुद्रः त्वाम् आवर्तयतु । रुद्राज्ञां नातिक्रामन्ति पशवः । ततः स्वस्ति अविनाशेन सोमसखा सती पुनरागच्छ ॥ २० ॥
म० किंच सोमाहरणे प्रवृत्तां त्वां माता त्वदीया जननी अनुमन्यतामनुज्ञां ददातु । पितानुमन्यताम् । उपसर्गावृत्त्या क्रियापदावृत्तिः । सगर्भ्यः समाने गर्भे भवः सहोदरो भ्रातानुमन्यताम् । 'समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' (६ । ३ । ८४) इति समानपदस्य सादेशः । सयूथ्यः समाने एकस्मिन्यूथे गोसमूहे भवः सयूथ्यः सखा वत्सोऽनुमन्यताम् । हे देवि सोमक्रयणि, सा त्वमिन्द्राय इन्द्रार्थं सोमं देवमच्छेहि प्राप्तुं गच्छ । 'अच्छाभेराप्तुमिति शाकपूणिः' (निरु० ५। २८)। किंच रुद्रः त्वा त्वां वर्तयतु सोमं गृहीत्वा स्थितां त्वां रुद्रो देवोऽस्मान्प्रति निवर्तयतु । यद्वा रुद्रः त्वां प्रवर्तयतु । यतो रुद्राज्ञां नातिक्रामन्ति पशवः । सोमो देवः सखा यस्याः सा सोमसखा । ईदृशी सोमसहिता सती स्वस्ति क्षेमेण पुनरेहि भूयोऽप्यागच्छ ॥ २० ॥

एकविंशी।
वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒रा च॑के ।। २१ ।।
उ० उदीची नीयमानामनुगच्छति । वस्व्यसि । अनुष्टुप् बृहती वा । वसुरूपेणादितिरूपेणादित्यरूपेण रुद्ररूपेण चन्द्ररूपेण स्तूयते गौः । किंच बृहस्पतिः त्वा सुम्ने सुखे रम्णातु संयमयतु । रम्णातिः संयमनकर्मा । रुद्रो वसुभिः सहितः आचके कामयतु । रक्षितुमिति शेषः । आचक इति कान्तिकर्मसु पठितम् ॥ २१ ॥
म०. 'उदीचीं नीयमानामनुगच्छतो वस्व्यसीतीति' ( का. ७ । ६ । १६) । अनुष्टुब्बृहती वा । सोमक्रयण्याः स्तुतिः । सोमक्रयणी गौर्वस्वदित्यादित्यरुद्रचन्द्ररूपेण स्तूयते वस्वीत्यादिपञ्चविशेषणैः । हे गौः, त्वं वस्वी वसुरूपासि । अदितिर्देवमातासि । द्वादशादित्यरूपासि । रुद्रा एकदशरुद्ररूपासि । चन्द्ररूपा चासि । किंच बृहस्पतिः सुम्ने त्वां रम्णातु रमयतु । रमतेर्व्यत्ययेन श्नाप्रत्ययः । यद्वा रम्णातु संयमयतु । 'रम्णातिः संयमनकर्मा विसर्जनकर्मा वा' (निरु० १० । ९) इति यास्कः । रुद्रो वसुभिः अष्टदेवैः सहितः त्वामाचके रक्षितुं कामयताम् । आचक इत्यादि चकमान इति कान्तिकर्मसु पठितः ॥२१॥

द्वाविंशी ।
अदि॑त्यास्त्वा मू॒र्धन्नाजि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दमा॑सि घृ॒तव॒त् स्वाहा॑ ।
अ॒स्मे र॑मस्वा॒स्मे ते॒ बन्धु॒स्त्वे रा यो॒ मे रायो॒ मा व॒यᳪं᳭ रा॒यस्पोषे॑ण॒ वियौ॑ष्म॒ तोतो॒ राय॑: ।। २२ ।।
उ० पदे जुहोति । अदित्यास्त्वा अदित्याः पृथिव्यास्त्वाम् हे आज्य, मूर्धनि शिरसि आजिघर्मि । ' घृ क्षरणदीप्त्योः' आक्षारयामि । देवयजने पृथिव्याः इडाया गोः पदं यतस्त्वमसि अतो घृतवत् घृतयुक्तं त्वां कर्तुं जुहोमीति शेषः । पदं लिखति । अस्मे रमस्व अस्मासु रतिं कुरु । पदं स्थाल्यामावपति । अस्मे ते बन्धुः वयं ते तव बन्धुभूताः । यजमानाय पदं प्रयच्छति । त्वे रायः । पशवो वै रायः । त्वयि पशवः सन्त्विति शेषः । पदं यजमानः प्रतिगृह्णाति । मे रायः । मयि पशवः सन्त्विति शेषः । | अध्वर्युरात्मानमुपस्पृशति । मा वयं रायस्पोषेण वियौष्म मा विभक्ताः स्याम वयं धनस्य पोषेण । गृहीतपदां पत्नी वाचयति । तोतोरायः । त्वयि रायः पशवः सन्त्विति शेषः ॥२२॥ ।
म० षट्पदान्यतीत्य सप्तमं पर्युपविशन्ति हिरण्यमस्मिन्निधायाभिजुहोत्यदित्यास्त्वेतीति' (का० ७ । ३ । १७-१८)। | आज्यदैवतं यजुः । अदित्याः अखण्डितायाः पृथिव्याः भुवो मूर्धन् मूर्धनि शिरोरूपे देवयजने देवानां यागयोग्यस्थाने हे आज्य, त्वा त्वामाजिघर्मि आक्षारयामि । 'घृ क्षरणदीप्त्योः ' । 'पृथिव्या ह्येष मूर्धा यद्देवयजनम्' इति तित्तिरिश्रुतेर्देवयजनस्य पृथिवीमूर्धत्वम् । किंच हे स्थानविशेष, त्वमिडायाः गोः पदमसि गोपदेनाङ्कितत्वात्तद्रूपमसि । तच्च पदं घृतवत् घृतयुक्तं कर्तुं स्वाहा जुहोमि । 'स्फ्येन पदं त्रिः परिलिखत्यस्मे रमस्वेति' (का० ७ । ६ । १९) । हे गोः पद, त्वमस्मे अस्मासु रमस्व क्रीडां कुरु । 'समुद्धृत्य पदᳪं᳭ स्थाल्यामावपत्यस्मे ते बन्धुरिति' (का० ७ । ६ । २०)। हे सोमक्रयणीपद, ते तव अस्मे बन्धुः वयं बन्धुभूताः स्मः । 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति जसः शेआदेशे अस्मे इति रूपम् । 'यजमानाय पदं प्रयच्छति त्वे राय इति' (का० ७ । ६ । २१) । हे यजमान, त्वे त्वयि रायो धनानि एतत्पदरूपेण तिष्ठन्त्विति शेषः । यद्वात्र रायः पशवः । 'पशवो वै रायः' (३ । ३ । १।८) इति श्रुतेः। त्वयि पशवः सन्तु । 'मे राय इति यजमानः प्रतिगृह्णातीति' (का. ७ । ६ । २२) । मे मयि यजमाने रायो धनानि पदरूपेण तिष्ठन्तु । पशवो मयि सन्तु । ङेः शेआदेशे मे इति रूपम् । ‘मा वयमित्यध्वर्युरात्मानᳪं᳭ संस्पृशतीति' (का. ७।६।२३) । वयमध्वर्युप्रभृतयो रायस्पोषेण धनस्य पुष्ट्या मा वियोष्म वियुक्ता मा भवाम । यौतेः 'माङि लुङ्' (पा० ३।३।१७५) इति लुङि उत्तमबहुवचने वियौष्मेति रूपम् । 'हृत्वा पत्न्यै पदं प्रयच्छति नेष्टा तोत इत्येनां वासयतीति' (का० ७ । ६ । २४-२५) । तोतःशब्दः कलत्रवाची अव्ययम् । तोतः कलत्रे रायो धनानि पशवो वा पदरूपेण तिष्ठन्तु । यद्वाव्ययानामनेकार्थत्वात्तोतःशब्दो युष्मत्पर्यायः । तोतः त्वयि रायः सन्तु ॥ २२ ॥

त्रयोविंशी।
सम॑ख्ये दे॒व्या धि॒या सं दक्षि॑णयो॒रुच॑क्षसा । मा म॒ आयु॒: प्रमो॑षी॒र्मो अ॒हं तव॑ ।
वी॒रं वि॑देय॒ तव॑ देवि सं॒दृशि॑ ।। २३ ।।
उ० सोमक्रयण्या समीक्षयति । समख्ये । पत्न्याशीः । आस्तारपङ्क्तिः। सोमक्रयणीतः पत्न्याशिषमाशास्ते। यया त्वया अहं समख्ये । 'ख्या प्रकथने' । संदर्शनं कृतवती । देव्या दानादिगुणयुक्याक । धिया प्रज्ञया । सहार्थे तृतीया । संदक्षिणया उरुचक्षसा समख्ये च दक्षिणया सह । गौर्हि प्रायशो दक्षिणा दीयते । उरुचक्षसा विस्तीर्णदर्शनया । वाचोभिरतीतानागतवर्तमानविप्रकृष्टं ज्ञायते । सा त्वं मा म आयुः प्रमोषीः । 'मुष स्तेये। मा प्रमोषीः मावखण्डय मम आयुः। मा अहं तवायुः प्रमोषिषम् । किंच वीरं विदेय । विदिर्लाभार्थः । पुत्रं लभेय । संदृशि हे देवि, तव संदर्शने सति ॥ २३ ॥
म० सोमक्रयण्या च समीक्ष्यमाणाᳪं᳭ समख्य इतीति' (का० ७॥ ६ । २६)। एनां वाचयतीत्यनुवर्तते । आस्तारपङ्क्तिः पत्न्याशीः । यस्या आद्यावष्टाक्षरौ पादावन्त्यौ द्वादशाक्षरौ सास्तारपङ्क्तिः । अन्त्यौ चेदास्तारपङ्क्तिरिति वचनात् । सोमक्रयणीतः पत्न्याशिषमाशास्ते । हे सोमक्रयणि, देव्या द्योतमानया त्वया धिया बुद्ध्या सह बुद्धिपूर्वकमहं समख्ये अदृक्षि दृष्टेत्यर्थः । 'ख्या प्रकथने' इत्यस्य धातोः संपूर्वस्य लुङि तङि 'अस्यतिवक्तिख्यातिभ्योऽङ्' (पा० ३ । १।५२) इति च्लेरङि उत्तमैकवचने कर्मणि समख्ये इति रूपम् । एकं संपदं पादपूरणाय । किंभूतया त्वया । दक्षिणया दक्षिणात्वयोग्यया । तथा उरुचक्षसा उरु चष्टे सोरुचक्षास्तया विस्तीर्णदर्शनया । एवंविधा त्वं मे मम पत्न्या आयुः मा प्रमोषीः मा खण्डय । 'मुष स्तेये लुङि रूपम् । मो अहं तव । तव सोमक्रयण्या आयुरहं पत्नी मा उ मैव प्रमोषिषमित्यध्याहारः । मार्थे मो इत्यव्ययं वा । अहं तवायुर्न नाशयामीत्यर्थः। किंच वीरं विदेय तव देवि संदृशि। हे देवि गौः, तव संदृशि संदर्शने सति वीरं पुत्रं विदेय लभेय । संदर्शनं संदृक् भावे क्विप् । 'विद्लृ लाभे' इत्यस्य व्यत्ययेन 'तुदादिभ्यः शः' (पा० ३। १ । ८७) इति शप्रत्यये लिङि रूपम् ॥ २३ ॥

चतुर्विंशी।
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते त्रैष्टु॑भो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना॒ᳪं᳭ साम्रा॑ज्यं ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒को॒ऽसि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ विचि॑न्वन्तु ।।२४ ।।
उ० यजमानं वाचयति । एष ते गायत्रो भागः । हे सोम, एष ते तव गायत्रीसंबन्धी भागः अंशः इति एवं मे यजमानाभिधायकं पदम् । सोमायेति षष्ठ्यर्थे चतुर्थी । मम वचनमेवं सोमस्य ब्रूतात् कथयत। हे अध्वर्यवः, छन्दोर्थं तव क्रयो न वधार्थम् । एवं यजमानाभिप्रायः । एतदध्वर्यवः सोमस्य कथयन्तीति वाक्यार्थः । एष ते त्रैष्टुभो भागः । एष ते जागत इत्यनेनैव व्याख्यातौ । छन्दोनामानाम् । नामशब्दोऽनर्थकः । अन्येषामपि छन्दसां साम्राज्यमाधिपत्यं गच्छ इति एवं मे ममाभिप्रायं सोमस्य ब्रूतात् कथयत । हे अध्वर्यवः । अनापि मे इत्येतत्पदं यजमानवाच्यमेव । सोममालभते । आस्माकोसि । यस्त्वां हे सोम, क्रयार्थमुपागतः स आस्माको मदीयः संजातः । शुक्रस्ते ग्रहः । उपलक्षणार्थः । शुक्रप्रभृतयो ग्रहास्तव ग्रहीष्यन्ते । किंच विचितः विचयनकर्तारः त्वां विचिन्वन्तु विविक्तं कुर्वन्तु ॥ २४ ॥
म० एष त इति वाचयतीति' (का० ७ । ७ । ८)। मन्त्रचतुष्टय यजमानः पठेत् । हे अध्वर्यो, सोमाय सोमाभिमानिने देवाय मे इति वचो ब्रूतात् वं ब्रूहि कथय । इति किम् । हे सोम, ते तव एष पुरो दृश्यमानो भागो गायत्रो गायत्रीसंबन्धी । गायत्रीच्छन्दोऽर्थं तव क्रयो नतु वधार्थमिति यजमानाभिप्रायः । तं ममाभिप्रायं सोमाय कथयेत्यर्थः । ते तव एष त्रैष्टुभः त्रिष्टुप्छन्दसः संबन्धी भाग इति मेऽभिप्रायमध्वर्यो, सोमाय त्वं ब्रूहि । एवमग्रेऽपि । जागतो जगतीच्छन्दसः संबन्धी । अन्यत्पूर्ववत् । छन्दोनामानां छन्द इति नाम येषामन्येषामप्युष्णिगादीनां ताः छन्दोनामानः तेषां साम्राज्यं गच्छ सर्वेषां छन्दसामाधिपत्यं प्राप्नुहि। इति मे वचः सोमाय ब्रूतात्कथय । यः सोमाय छन्दसामाधिपत्यं दत्त्वा क्रीणाति तं स स्वानामाधिपत्यं प्राप्नोति। तदुक्तं तित्तिरिणा 'यो वै सोमं राजानᳪं᳭ साम्राज्यलोकं गमयित्वा क्रीणाति गच्छति स्वानाᳪं᳭ साम्राज्यमिति' । अत एतैर्मन्त्रैः सोमस्य राज्याप्तिः सूचिता । गायत्र्यादिच्छन्दोदेवता यत्र तिष्ठन्ति स छन्दोलोकस्तदाधिपत्यं प्रापय्य सोमं क्रीणानः स्वाधिपत्यभाग्भवतीत्यभिप्रायः । 'प्राङुपविश्यास्माकोऽसीति सोममालभते' (का० ७।७।९) इति । हे सोम, त्वं क्रयपथमागतः सन्नास्माकोऽसि । शुक्रः शुक्लसंज्ञः ते तव ग्रह्यः । ग्रह एव ग्रह्यः । शुक्रपदमैन्द्रवायवादिग्रहाणामुपलक्षणम् । शुक्रादयः सर्वे तव ग्रहा इत्यर्थः । विचितः ।। विचिन्वन्तीति विचितः विवेकेन चयनस्य कर्तारः त्वां विचिन्वन्तु विविक्तं कुर्वन्तु । सारासारविवेकं कृत्वा सारभूतं समूहयन्त्वित्यर्थः ॥ २४ ॥

पञ्चविंशी।
अ॒भि त्यं दे॒वᳪं᳭ स॑वि॒तार॑मो॒ण्यो॒: क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वᳪं᳭ रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम् । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑: कृ॒पा स्व॑: । प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑ ऽनु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि ।। २५ ।।
उ० सोमं मिमीते । अभि त्यं देवम् । सावित्र्यत्यष्टिः ।। अभ्यर्चामि अभिपूजयामि । त्यं तम् । देवं दानादिगुणयुक्तं सवितारम् । ओण्योः द्यावापृथिव्योरन्तरा वर्तमानम् । कविक्रतुं मेधाविकर्माणम् । सत्यसवं अवितथप्रसवम् । रत्नधाम् रमणीयानां धनानां दातारम् । अभिरनर्थकः । प्रियम् सर्वजनानां प्रियम् । मतिं बुद्धिं व्याप्यावस्थितम् । मतीनां हि सविताधिष्ठात्री देवता । कविं क्रान्तदर्शनम् । किंच ऊर्ध्वा यस्याऽमतिः भा अदिद्युतत् सवीमनि । यस्य सवितुः ऊर्ध्वा गमनाभिमुखी अमतिः आत्ममयी मतिः अनन्यभूता । कतरा भा दीप्तिः अदिद्युतत् द्योतयते सवीमनि प्रसवे पूर्णे हि दातव्ये । स सविता हिरण्यपाणिः सुवर्णपाणिः अमिमीत ममीते सोमं परिच्छिनत्ति । सुक्रतुः साधुकर्मा शोभनयज्ञो वा कृपा कल्पनया सोमस्य कल्पना । स्वः आदित्यः सु अरणः । अन्तान् संगृह्योष्णीषेण बध्नाति । प्रजाभ्यस्त्वाम् । बध्नामीति शेषः । उत्पत्तये स्थितये च प्रजानां हे सोम, त्वां बध्नामि । अङ्गुल्या मध्ये विवृणोति । प्रजास्त्वानुप्राणन्तु। हे सोम, त्वां प्राणन्तमुच्छ्वसन्तम् । प्रजा अनुप्राणन्तु उच्छ्वसन्तु । त्वं च प्रजाः उच्छ्वसतीः अनुप्राणिहि अनूच्छ्वसिहि । 'तमयतीति वा एनमेतत्समायच्छन्नं प्राणमिव करोति तस्येतदतएव मध्यतः प्राणमुत्सृजति तं ततः प्राणन्तं प्रजा अनुप्राणन्ति' इत्यादि ब्राह्मणम् ॥ २५ ॥
म० 'सोमोपनहनं द्विगुणं चतुर्गुणं वा स्तृणाति प्राग्दशमुदग्वा तस्मिन्सोमं मिमीते दशकृत्वोऽभित्यमितीति' (का० ७ । ७ । १२-१३)। सावित्र्यष्टिः । त्यन्तं सवितारं देवमभ्यर्चामि सर्वतः पूजयामि । किंभूतं देवम् । ओण्योः द्यावापृथिव्योरन्तरा वर्तमानमिति शेषः । ओण्योरिति द्यावापृथिवीनामसु पठितम् । तथा कविक्रतुं कविः क्रतुः यस्य तं मेधाविकर्माणम् । सत्यसवं सत्यः सवो यस्य अवितथप्रेरणम् । तथा रत्नधां रत्नानि दधातीति रत्नधास्तं रत्नानां धारकं पोषकं दातारं वा अभिप्रियं सर्वतः प्रीतिविषयम् । मतिं मन्यत इति मतिस्तं मननयोग्यम् । कविं क्रान्तदर्शनम् । किंच यस्य सवितुर्भा दीप्तिः अमतिः केनापि मातुमशक्या सती ऊर्ध्वा गगनाभिमुखी सवीमन्यदिद्युतत् सवः प्रसवः प्रवृत्तिर्नक्षत्रादीनां यस्मिन् स सवीमा तस्मिन् गगनप्रदेशे सर्वाणि वस्तूनि द्योतयन्ते । यद्वायमर्थः । यस्यामतिरात्ममयी भा ऊर्ध्वा गगने सर्वमदिद्युतत् । अमाशब्द आत्मवचनः । आत्ममयी ततिर्मतिर्वा अमतिः । तन्यत | इति ततिः दीप्तिः । मतिरपि प्रकाशरूपत्वाद्दीप्तिः । अमाततिशब्दस्य वा अमतिभावः । सवितृभाविशेषणम् । आत्मप्रकाशमयी ततिर्मतिर्वा यस्य भाः अदिद्युतत् । किंनिमित्तम् । सवीमनि अनुज्ञानिमित्तं सर्वान् कर्माण्यनुज्ञातुमित्यर्थः । 'षु प्रसवैश्वर्ययोः' 'वृस्तृस्तुभ्य () इमनिच्' इतीमनिच् । गुणावादेशौ । सवीमा प्रसवोऽनुज्ञेत्यभिधानम् । स स्वरादित्यः । कृपा कल्पनं कृप् तया कृपा कल्पनया अमिमीत सोममिति शेषः । एतावान्सोम इति तदीयं परिमाणं निश्चितवानित्यर्थः । किंभूतः स्वः । हिरण्यपाणिः हिरण्यं पाणौ यस्य सौवर्णाभरणयुक्तहस्तः । सुक्रतुः साधुसंकल्पः । | 'अन्तान् संगृह्योष्णीषेण बध्नाति प्रजाभ्यस्त्वेतीति' (का. ७ । ७ । २०) । हे सोम, प्रजाभ्यः प्रजानामुपकाराय त्वा त्वां बध्नामीति शेषः । 'अङ्गुल्या मध्ये विवृणोति प्रजास्त्वानुप्राणन्त्वितीति' (का० ७ । ७ । २१) । उष्णीषेण बद्धस्य | सोमदेवस्य श्वासरोधो मा भूदिति विवरं कुर्यादिति सूत्रार्थः। | हे सोम, प्रजास्त्वामनुप्राणन्तु श्वासं कुर्वन्तं त्वामनुसृत्य सर्वाः प्रजाः श्वासं कुर्वन्तु जीवन्तु । तथा हे सोम, प्रजा अनु श्वासं कुर्वतीः प्रजा अनुसृत्य प्राणिहि श्वासं कुरु । प्रजानां तव च कदाचित् श्वासरोधो मा भूत् परस्परमनुसृत्य जीवनं भवत्वित्यभिप्रायेण विवरकरणमित्यर्थः ॥२५॥

षड्रिंशी।
शु॒क्रं त्वा॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न । स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॑ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॑: पर॒मेण॑ क्रीयसे सहस्रपो॒षं पु॑षेयम् ।। २६ ।।
उ० हिरण्यमालभ्य वाचयति । शुक्रं त्वा । हे सोम, शुक्रमक्लिष्टकर्माणं त्वां शुक्रेण हिरण्येन क्रीणामि । एवं सर्वमपि व्याख्येयम् । सोमविक्रयिणं हिरण्येनाभिकम्पयति। सग्मे ते गौः गौरिति विपरिणामः । सह गवा वर्तत इति सग्मो यजमानः । तव संबन्धिनी या गौः सा यजमाने वर्तत इति सोमक्रयिणं निराशं करोति । यजमानसहितं निदधाति । अस्मे ते। हे सोमक्रयिन् , अस्मासु तव संबन्धीनि हिरण्यानि वर्तन्ते । अजामालभ्य वाचयति । तपसस्तनूरसि तपसः प्रजापतेः हे अजे, तनूः शरीरं त्वमसि । प्रजापतेश्च वर्णः रूपं त्वमसि । सा यन्त्रिः संवत्सरस्य विजायते तेन प्रजापतेर्वर्णः । एवमजां सोमसमक्षमभिष्टुत्य अथेदानीं सोममाह । परमेण पशुना क्रीयसे त्वं हे सोम, सा यतस्त्रिः संवत्सरस्य विजायते तेन परमपशुः । यस्मात्त्वं परमेणोत्कृष्टेन पशुना क्रीयसे तस्मात्तव प्रसादादहम् सहस्रपोषं सहस्रं प्राणिनां यत्पुष्णाति धनं तदहं पुषेयं वर्धयेयम् । सहस्रप्राणिपोषो मम गृहे वर्धमानोस्तु इत्यभिप्रायः ॥ २६ ॥
म० 'शुक्रं त्वेति हिरण्यमालभ्य वाचयतीति' (का० ७।८।१६ ) हे सोम, शुक्रं दीप्यमानं त्वा त्वां शुक्रेण दीप्यमानेन हिरण्येन क्रीणामि क्रीतं करोमि । किंभूतं त्वाम् । चन्द्रं 'चदि आह्लादने' फलहेतुत्वेनाह्लादकरम् । तथा अमृतं स्वादुत्वेनामृतसमानम् । किंभूतेन शुक्रेण । चन्द्रेणाह्लादकरेण तथामृतेनाग्निसंयोगादिनापि विनाशरहितेन । 'सग्मे त इति सोमविक्रयिणᳪं᳭ हिरण्येनाभिकम्पयतीति' । (का० ७।८।१७) । यो हिरण्यमादाय सोमं विक्रीणीते तं हिरण्येनाभिकम्पयेत् । तद्धस्ते हिरण्यं दत्त्वा दत्त्वा स्वीकुर्वस्तं निराशं कुर्यादिति सूत्रार्थः । षष्ठी प्रथमार्थे । हे सोमविक्रयिन् , गौः सोममूल्यत्वेन तुभ्यं दत्ता सा त्वदीया गौः पुनः प्रत्यावृत्य सग्मे यजमाने तिष्ठतु । हिरण्यमेव तवास्तु गौर्मा भूदित्यर्थः । यद्वा ते गौः सग्मे वर्तते । गौः ग्मा क्षमा क्षा क्षामेत्युक्तेः ग्मा गौः तया सह वर्तमानः सग्मस्तस्मिन् सग्मे ते गोरिति । 'यजमाने ते गौः' (३ । ३ । ३ । ७) इति श्रुतेः । सग्मो यजमानः । 'अस्मे त इति यजमानसहितं निदधातीति' (का. ७।८।१८) । यजमाने प्रत्यर्पितं यद्गोद्रव्यं तत्पुनर्यजमानसहितं सोमविक्रयिणः पुरतो निदध्यादिति सूत्रार्थः । हे सोमविक्रयिन् , ते चन्द्राणि तुभ्यं दत्तानि यानि हिरण्यानि तान्यस्मे अस्मासु प्रत्यावृत्य तिष्ठन्तु । तव गौरेव सोममूल्यमस्तु हिरण्यानि मा भूवन्नित्यर्थः । 'अजां प्रत्यङ्मुखीमालभ्य वाचयति तपसस्तनूरितीति' (का. ७ । ८ । २०) । अर्धे अजा देवतास्य यजुषोऽर्धे सोमः । हे अजे, त्वं तपसः पुण्यस्य तनूरसि देहोऽसि । दिवि स्थितस्य यज्ञियस्यानयनायाजां गृहीत्वा गायत्री जगामेति तित्तिरिणा सोमाहरणोपाख्याने उक्तत्वादजायाः पुण्यशरीरत्वम् । किंच हे अजे, त्वं प्रजापतेर्वर्णोऽसि । वर्णों देहः । यथा प्रजापतिः सर्वदेवताप्रिय एवमजापि । तदुक्तं तित्तिरिणा 'सा वा एषा सर्वदेवत्या यदजा' इति । एवमजामुक्त्वा सोमं प्रत्याह । हे सोम, परमेण पशुना उत्तमेनाजालक्षणेनानेन पशुना त्वं क्रीयसे । तपसस्तनूत्वादजाया उत्तमत्वम् । अतस्तव प्रसादात्सहस्रपोषं पुत्रपश्वादिसहस्राणां पोषो यथा भवति तथा पुषेयं पुष्टो भूयासम् । यद्वायमर्थः । हे अजे, त्वं प्रजापतेस्तपसस्तनूरसि प्रजापतितपोरूपासि तत उत्पन्नत्वात् । तदुक्तं श्रुत्या 'तपसो ह वा एषा प्रजापतेः संभूता यदजेतिः (३ । ३ । ३ । ८) । किंच प्रजापतेर्वर्णो रूपं त्वमसि । त्रिगुणत्वात्प्रजापतेस्त्रिरूपत्वम् । अजापि प्रतिसंवत्सरं त्रिवारं प्रसूते तस्मात्प्रजापतेर्वर्णत्वम् । तदुक्तं श्रुत्या 'सा यत्त्रि' संवत्सरस्य जायते तेन प्रजापतेर्वर्णः' ( ३ । ३ । ३ । ९) इति । एवमजां स्तुत्वा सोममाह । परमेणोत्कृष्टेन पशुनाजया त्वं क्रीयसे ततोऽहं सहस्रपोषं सहस्रं प्राणिनां पुष्णातीति सहस्रपोषं धनं पुषेयं पुष्णीयाम् । वर्धयेयमित्यर्थः । पुष्णातेर्व्यत्ययेन शेप्रत्यये लिङि पुषेयमिति रूपम् ॥ २६ ॥

सप्तविंशी।
मि॒त्रो न॒ एहि॒ सुमि॑त्रध॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त॑ᳪं᳭ स्यो॒नः स्यो॒नम् । स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते व॑: सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन् ।। २७ ।।
उ० सोममादत्ते । मित्रो न एहि । हे सोम, मित्रस्त्वं सन्नोऽस्मानप्येहि । मित्रशब्देनेहादित्यो गृह्यते पुंलिङ्गार्थात् । सुमित्रधः शोभनानि मित्राणि दधाति पुष्णातीति सुमित्रधः । यस्त्वं सुमित्रधः । यजमानस्य दक्षिण ऊरौ निदधाति इन्द्रस्योरुम् । स इन्द्रस्य यजमानस्य ऊरुं दक्षिणं आविश उपविश । 'एष वा अत्रेन्द्रो भवति यद्यजमानः' इति श्रुतिः । उशन्नुशन्तम् । 'वश कान्तौ' । कामयमानस्त्वं कामयमानमेव यजमानस्योरुमाविश इत्यनुवर्तते । स्योनः स्योनम् । स्योनमिति सुखनाम । सुखरूपस्तं सुखरूपम् । यजमानस्योरुमाविश इत्यनुवर्तते । एवं परस्परप्रीत्या अवियुक्तौ भवेतामित्यभिप्रायः । सोमक्रयणाननुदिशति । स्वान भ्राज । सप्तदशानां मध्यात्सप्त तावत्सोमक्रयणाननुदिशति । हे स्वान, भ्राज अङ्घारे बम्भारे हस्त सुहस्त कृशानो । एवं सप्तधिष्णान् संबोध्य अथेतरानाह । एते वः सोमक्रयणाः । एते वः युष्माकं मध्ये तावत् सोमक्रयणाः तान्रक्षध्वम् गोपायत । धिष्ण्यान् मा वो दभन् एते होतृका अपि स्वानभ्राजादयः युष्मान् मा दभन् । दभ्नोतिर्हिंसाकर्मा । मा युष्मान्दभ्नुयुः ॥ २७ ॥
म० 'सव्येनाजां प्रयच्छन्मित्रो न इति दक्षिणेन सोममादायेति' ( का० ७ । ८ । २१)। सौम्यम् । हे सोम, त्वं नोऽस्मान् प्रत्येहि आगच्छ । किंभूतस्त्वम् । मित्रः सखा, प्रीतियुतः । यद्वा मित्रः रविरूपः । तथा सुमित्रधः शोभनानि मित्राणि दधाति पुष्यतीति सुमित्रधः । क्रीत्वा वाससा बद्धस्य सोमस्य वरुणदेवताकत्वेन क्रूरत्वात्तच्छान्त्यर्थो मित्रत्वेन प्रार्थ्यते । तदाह तित्तिरिः 'वारुणो वै क्रीतः सोम उपनद्धो मित्रो न एहि सुमित्रध इत्याह शान्त्यै' इति । 'दीक्षितोरौ दक्षिणे प्रत्युह्य वासो निदधातीन्द्रस्योरुमितीति' (का० ७। ८ । २३ ) । वासः प्रत्युह्य वस्त्रमुपरिस्थाप्य सोमं निदध्यादित्यर्थः । यजमानरूपेण परमैश्वर्येणोपेतत्वादत्रेन्द्रशब्देन यजमानः । तथा च श्रुतिः ‘एष वा अत्रेन्द्रो भवति यद्यजमानः' (३।३।३।१०) इति । हे सोम, त्वमिन्द्रस्य यजमानस्य दक्षिणमूरुमाविश । दक्षिणे ऊरावुपविशेत्यर्थः । किंभूतस्त्वम् । उशन् ‘वश कान्तौ' वष्टि उशन् शतृप्रत्ययः । ऊरुं कामयमानः । तथा स्योनः सुखभूतः । किंभूतमूरुम् । उशन्तं सोमं कामयमानं स्योनमुपवेशे सुखकरम् । पुरा देवाः सोमं क्रीतमिन्द्रस्योरावुपवेशयन् तस्मादत्रेन्द्रशब्देन यजमानः । तदाह तित्तिरिः 'देवा वै सोममक्रीणंस्तमिन्द्रस्योरौ दक्षिण आसादयन् स खलु वा एतर्हीन्द्रो यो यजते तस्मादेवमाह' इति । 'स्वान भ्राजेति जपति सोमविक्रयिणमीक्षमाणः' (का० ७।८।२४) इति । स्वनतीति स्वानः । भ्राजते शोभतेऽसौ भ्राजः । अङ्घस्य पापस्यारिरङ्घारिः । बिभर्ति पुष्णाति विश्वमिति बम्भारिः । हसति हस्तः सर्वदा हृष्टरूपः । शोभनौ हस्तौ यस्य सुहस्तः । कृशं दुर्बलमनिति जीवयतीति कृशानुः । स्वानादयः सप्त सोमरक्षका देवविशेषाः । हे स्वानादयः सप्त देवाः, वो युष्माकमेते सोमक्रयणाः सोमः क्रीयते यैस्ते सोमं क्रेतुमानीता हिरण्यादिपदार्थाः पुरतः स्थापिताः । तान्पदार्थान् यूयं रक्षध्वमवत । वो युष्मान्मा दभन् वैरिणो मा हिंसिषत । स्वानादयो धिष्ण्याधिष्ठातारः सोमरक्षकाः । तदाह तित्तिरिः 'स्वान भ्राजेत्याह ते चामुष्मिँल्लोके सोममरक्षन्' इति ॥ २७ ॥

अष्टाविंशी।
परि॑ माग्ने॒ दुश्च॑रिताद्बाध॒स्वा मा॒ सुच॑रिते भज । उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒२ अनु॑ ।। २८ ।।
उ० गृहीतसोमं वाचयति । परि माग्ने । आग्नेयी पुरस्ताद्बृहती । हे भगवन्नग्ने, परिबाधस्व परित्रायस्व मां दुश्चरितात्पापाचरणात् । आभज माम् आसेवस्व मां सुचरिते वर्तमानम् । उत्तिष्ठति । उदस्थाम् उत्तिष्ठामि आयुषा निमित्तभूतेन चिरंजीवनाय स्वायुषा निमित्तभूतेन शोभनेन प्रकारेण दानहोमयागादिभिः । येनास्मदीयमायुर्यात्यनेन च हेतुना उदस्थाम् उत्तिष्ठामि च । अमृतान् देवाननु अतः परिमाग्ने दुश्चरिताद्बाधस्वेति संबन्धः । अमृतशब्देनात्र बहुवचनान्तेन सोमोऽभिधीयते । आगते सोमे दीक्षित उत्तिष्ठति । तस्यैषा प्रायश्चित्तिः ॥ २८ ॥
म० 'गृहीतसोमं परि माग्न इति वाचयतीति' ( का० ७ । ९ । १) । अग्निदेवत्या पुरस्ताद्बृहती । यस्या आद्यो द्वादशाक्षरस्त्रयोऽष्टाक्षराः पादाः सा पुरस्ताद्बृहती । 'आद्यश्चेत्पुरस्ताद्बृहती' इत्युक्तेः । हे अग्ने, दुश्चरितात्पापान्मा मां परिबाधस्व परितो निवारय । मे पापे प्रवृत्तिर्मा भूदित्यर्थः ।| सुचरिते शोभने चरिते सदाचाररूपे पुण्ये मा मां यजमानमाभज सर्वतो भज स्थापयेत्यर्थः (का० ७।९।३)। उदायुषेत्युत्थानमिति । उदायुषा उत्कृष्टेन चिरजीवनलक्षणेनायुषा निमित्तेन तथा स्वायुषा यागदानादिना शोभनेनायुषा निमित्तभूतेन अमृताननु सोमादिदेवाननुसृत्य उदस्थामहमुत्थितवानस्मि । तिष्ठतेर्लुङि रूपम् ॥ २८ ॥


सोमस्य शकटारोहणम्

एकोनविंशी। ।
प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म् । येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ।। २९ ।।
उ० अनोऽभ्येति प्रति पन्थाम् । अनुष्टुप् । पन्थानं स्तौति । प्रत्यपद्महि प्रतिपद्येमहि पन्थानम् । स्वस्तिगाम् - अविनाशेन यत्र गम्यते तं स्वस्तिगाम् । अनेहसम् । एह इत्यपराधनाम । न विद्यते यत्र गतानामपराधः स तथोक्तः । किंच । येन पथा गच्छन् विश्वाः सर्वाः परिवृणक्ति परिवर्जयति । 'वृजी वर्जने' । द्विषः दुष्टान् । किंच विन्दते वसु लभते धनम् ॥ २९॥ ।
म० 'शीर्ष्णि सोमं कृत्वा पाणिमन्तर्धाय प्रतिपन्थामित्यनोऽभ्येतीति' (का० ७ । ९ । ४) । शकटमभिलक्ष्य गच्छेदित्यर्थः । अनुष्टुप्पथिदेवत्या । पन्थानं स्तौति । पन्थां पन्थानं मार्गं प्रत्यपद्महि वयं प्रत्यपद्यामहि प्रतिपन्नाः । प्राप्ता अभूमेत्यर्थः । ‘पद गतौ' इत्यस्य व्यत्ययेन शपि लुप्ते लङि रूपम् । विभक्तेः पूर्वसवर्ण पन्थामिति रूपम् । किंभूतं पन्थानम् । स्वस्तिगां स्वस्ति क्षेमेण गम्यते यत्र स स्वस्तिगास्तं क्षेमेण गन्तुं योग्यम् । गमेर्विटि प्रत्यये 'विड्वनोरनुनासिकस्यात्' (पा० ६ । ४ । ४१) इति मकारस्याकारे रूपम् । | तथा अनेहसम् एहः पापरूपश्चोरादिबाधस्तद्रहितम् । यद्वा 'एह इत्यपराधनाम । यत्र गतानामपराधो नास्ति । येन पथा गच्छन्पुरुषो विश्वाः विश्वान्सर्वान् द्विषो द्वेषिणश्चोरादीन् परिवृणक्ति परितो वर्जयति । 'वृजी वर्जने' रुधादिः । वसु विन्दते धनं च लभते तं पन्थानमिति पूर्वत्रान्वयः । 'विद्लृ लाभे' ॥ २९ ॥

त्रिंशी।
अदि॑त्या॒स्त्वग॑स्यदि॑त्यै॒ सद॒ आसी॑द । अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
आऽसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ।। ३० ।।
उ० कृष्णाजिनमास्तृणाति । अदित्यास्त्वगसि । व्याख्यातः शेषः । सोमं निदधाति । अदित्यै सदः स्थानमासीत् । सोममालभ्य वाचयति । अस्तभ्नाद्द्याम् त्रिष्टुभौ वारुण्यौ । योऽयं वृषभः वर्षिता अस्तभ्नाद्द्याम् स्तम्भितवान् द्युलोकम् । यश्चान्तरिक्षं अस्तभ्नात् । यश्चामिमीत वरिमाणं पृथिव्याः । मिमीते वरिमाणं गुरुत्वं पृथिव्याः । यश्च सम्राट् देवताविशेषः। आसीदद्विश्वा भुवनानि । आसीदति हि सर्वाणि भूतजातानि आत्मत्वेनाधिपत्येन च । विश्वेत्तानि । इच्छब्द एवार्थे । सर्वाण्येवैतानि वरुणस्य व्रतानि कर्माणि । ये इमान् लोकान् स्तभ्नुवन्ति ये च सर्वजनानाविशन्ति तेऽपि च वरुणाज्ञां कुर्वन्तीति परब्रह्मरूपेण वरुणस्य स्तुतिः ॥ ३० ॥
म० 'कृष्णाजिनमस्मिन्नास्तृणात्यदित्यास्त्वगितीति' (का० ७।९।१) । अस्मिन् शकटे इत्यर्थः । हे कृष्णाजिन, त्वमदित्यास्त्वगसि अखण्डितायाः पृथिव्याः त्वग्रूपं भवसि । 'तस्मिन्सोमं निदधात्यदित्यै सद इतीति' (का० ७।९। १)। हे सोम, त्वमदित्यै सदः अदितेर्भूमेः संबन्धि स्थानमासीद सर्वतः प्राप्नुहि । तत्रोपविशेत्यर्थः । 'अस्तभ्नाद्द्यामिति सोममालम्भ्य वाचयतीति' (का० ७।९।८)। हे वरुणदेवते त्रिष्टुभौ । क्रीतसोमस्य वरुणदेवतत्वाद्वरुणो ब्रह्मरूपेण स्तूयते । वृषभः श्रेष्ठो वरुणो द्यामस्तभ्नात् द्युलोको यथा न पतति तथा स्वकीययाज्ञया स्तम्भितवान् । तथान्तरिक्षमप्यस्तभ्नात् । तथा पृथिव्या वरिमाणं भूमेरुरुत्वममिमीत मिमीते । उरोर्भावो वरिमा तम् । एतावती भूरिति परिमाणं जानातीत्यर्थः । तथा सम्राट् सम्यग्राजमानो वरुणो विश्वा विश्वानि सर्वाणि भुवनानि आसीदत् लोकान्व्याप्नोति । विश्वा विश्वानि सर्वाणि । इत् एवार्थे । सर्वाण्येव वरुणस्य व्रतानि कर्माणि । यद्वा इदित्यव्ययमित्थमर्थे । इदित्थं तानि द्युलोकस्तम्भनादीनि वरुणस्य व्रतानि व्रतवन्नियतानि । सर्वदा तानि करोतीत्यर्थः ॥ ३० ॥

एकत्रिंशी।
वने॑षु॒ व्यन्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो वि॒क्ष्व॒ग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ॑ ।। ३१ ।।
उ० वनेषु वि । वीत्ययमुपसर्गस्ततानेत्यनेन संबध्यते । यो वरुणः वनेषु वृक्षाग्रेषु वि ततान वितनोत्यन्तरिक्षमाकाशम् । यद्यपि सर्वगतमन्तरिक्षं तथापि तत्र मूर्तद्रव्याभावादुपलभ्यत एव । वाजमर्वत्सु । 'वीर्यं वै वाजः पुमाᳪं᳭सोऽर्वन्तः' इति श्रुतिः। वाजं वीर्यम् । अर्वत्सु पुरुषेषु । ततानेत्यनुवर्तते । पय उस्रियासु । उस्रियासु गोषु पयो विततान । हृत्सु क्रतुम् । क्रतुः संकल्पः । हृदयेषु संकल्पं विततान । विक्ष्वग्निम् प्रजास्वग्निं विततान । दिवि द्युलोके सूर्यमदधात् स्थापितवान् । सोममद्रौ । अद्रिषु सोमं स्थापितवान् । य एवं परब्रह्मलक्षणो वरुणस्तं वयं स्तुम इति शेषः ॥३१॥
म० 'वनेषु व्यन्तरिक्षमिति सोमपर्याणहनेन परितत्येति' (का० ७ । ९ । ९) । बन्धनहेतुना वस्त्रेण परितो वेष्टयित्वेत्यर्थः । वि उपसर्गस्ततानेत्यनेन संबध्यते । वरुणो वनेषु वनगतवृक्षाग्रेषु अन्तरिक्षमाकाशं विततान । यद्यपि सर्वगतमन्तरिक्षं तथापि तत्र मूर्तद्रव्याभावादत्यन्तं विस्तारितवान् । तथा अर्वत्सु अश्वेषु वाजं बलं विततानेत्यनुवर्तते । यद्वा अर्वत्सु पुरुषेषु वाजं वीर्यं विततान । 'वीर्यं वै वाजः पुमाᳪं᳭सोऽर्वन्तः' (३।३।४।७) इति श्रुतेः । तथा उस्रियासु पयः क्षीरं विततान । उस्रियाशब्दो गोनाममु पठितः । हृत्सु हृदयेषु क्रतुं संकल्पं तच्छक्तियुतं मनो विततान । विक्षु प्रजासु अग्नि जठराग्निम् । दिवि द्युलोके सूर्यं विततान । अद्रौ पर्वते सोमं वल्लीरूपमदधात्स्थापितवान् । पर्वतपाषाणसंधिषु सोमवल्ल्या उत्पद्यमानत्वादद्रौ सोमस्थापनमुक्तम् । तदाह तित्तिरिः । 'सोममद्रावित्याह ग्रावाणो वा अद्रयस्तेषु वा एष सोमं निदधाति' इति । य एव मन्त्रद्वयोक्तद्युलोकस्तम्भनादिसामर्थ्यवान्परब्रह्मलक्षणो वरुणस्तं वयं स्तुम इति शेषः ॥ ३१ ॥

द्वात्रिंशी।
सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम् । यत्रै॑त्रशेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑ ।। ३२ ।।
उ० कृष्णाजिनं सोमस्य चिह्नं करोति । सूर्यस्य चक्षुः । अनुष्टुप् । कृष्णाजिनमुच्यते । सूर्यस्य संबन्धि चक्षुः आरोह । तथाभ्युच्छ्रितं भव यथा सूर्यश्चक्षुषा पश्यतीत्यभिप्रायः । अग्नेश्चक्षुः कनीनकमारोह । यत्रैताभ्यां दृष्टो लक्षितः । एतशेभिः एतश इति अश्वनामसु पठितम् । एतशैरश्वैः ईयसे नीयसे । भ्राजमानः देदीप्यमानः । विपश्चिता सूर्येण सहितः । अग्निना वा विपश्चिता सहितः ॥ ३२ ॥
म० 'कृष्णाजिनं पुरस्तादासजति सूर्यस्य चक्षुरितीति' ( का० ७ । ९ । ९) कृष्णाजिनदेवत्यानुष्टुप् । हे कृष्णाजिन, त्वं सूर्यस्य चक्षुर्नेत्रं आरोह । तथा अग्नेर्वह्नेरक्ष्णो नेत्रस्य कनीनकं तारकां चारोह । तथोच्चैस्तरांभव यथैताभ्यां दृश्यस इत्यर्थः । यत्र यस्मिन्नेतयोर्दर्शने विपश्चिता विदुषा सर्वज्ञेन सूर्येणाग्निना च भ्राजमानः दीप्यमानः सन्नेतशेभिरेतशैरश्वैस्त्वमीयसे गच्छसि । एतश इत्यश्वनामसु पठितम् । यत्र त्वमश्वैर्गच्छसि । 'ई गतौ' दिवादिरात्मनेपदी । एतशैरिति करणेतृतीया । यद्वा कर्मणि रूपम् । एतशैरिति कर्तरि तृतीया। यत्राश्वैस्त्वं नीयस इत्यर्थः । कृष्णाजिनस्य पुंस्त्वमार्षम् । सूत्राग्निदृष्टिविषयत्वे सति मार्गो रक्षोबाधरहितो भवति । तदुक्तं तित्तिरिणा 'एष वास्य खलु रक्षोहणः पन्था योऽग्नेश्च सूर्यस्य च' इति ॥ ३२ ॥

त्रयस्त्रिंशी।
उस्रा॒वेतं॑ धूर्षाहौ यु॒ज्येथा॑मन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ । स्व॒स्ति यज॑मानस्य गृ॒हान् ग॑च्छतम् ।। ३३ ।।
उ० अनड्वाहौ युनक्ति । उस्रावेतम् । ऊर्ध्वबृहती। हे उस्रौ अनड्वाहौ आ इतम् आगच्छतम् । एत्य च स्वयमेव युज्येथाम् योगं कुरुतम् । हे धूर्षाहौ । 'षह मर्षणे' । धुरं सोढुं यौ शक्नुतस्तौ तथोक्तौ । अनश्रू अश्रुरहितौ हृष्टावित्यर्थः । अवीरहणौ । वीराणां यौ युवां वधं न कुरुतं ताववीरहणौ । प्रशस्तावित्यर्थः । ब्रह्मचोदनौ ब्राह्मणान् यज्ञं प्रति प्रेरयितारौ । एवमनड्वाहौ संबोध्य अथेदानीं प्रयोजनमाह । स्वस्ति अविनाशेन यजमानस्य गृहान् गच्छतम् ॥३३॥
म० 'अनड्वाहौ युनक्त्युस्रावेतमितीति' (का० ७ । ९ । ११)। आनडुही ऊर्ध्वबृहती । यस्यास्त्रयः पादा द्वादशाक्षराः सोर्ध्वबृहती । 'त्रिजागतोर्ध्वबृहती' इत्युक्तेः । अत्राद्यो दशार्णः द्वितीयस्त्रयोदशार्णस्तेनैकोना । हे उस्रौ अनड्वाहौ, युवामेतमागतम् । एत्य च स्वयमेव युज्येथां रथे युक्तौ भवतम् । किंभूतौ युवाम् । धूर्षाहौ धुरं सहेते तौ धूर्षाहौ शकटधुरं वोढुं समर्थौ । तथा अनश्रू नेत्रयोरश्रुरहितौ । सोत्साहावित्यर्थः । अवीरहणौ न वीरान्हतस्तौ । शृङ्गादिभिर्वीराणां शिशूनां हननमकुर्वाणौ । ब्रह्मचोदनौ ब्रह्मणो विप्रान् चोदयतस्तौ ब्राह्मणानां यज्ञप्रति प्रेरकों । एवं संबोध्य प्रयोजनमाह । तथाविधौ युवां स्वस्ति क्षेमेण यजमानस्य गृहान्प्रति गच्छतम् ॥ ३३ ॥

चतुस्त्रिंशी।
भ॒द्रो मे॑ऽसि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि । मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् मा त्वा॒ वृका॑ अघा॒यवो॑ विदन् । श्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य गृ॒हान् ग॑च्छ॒ तन्नौ॑ सᳪं᳭स्कृ॒तम् ।। ३४ ।।
उ० वाचयति । भद्रो मेऽसि । 'भदि कल्याणे सुखे च' । सोम उच्यते । भन्दनीयः स्तुत्यः यतस्त्वं मे मम भवसि अतो ब्रवीमि । प्रच्यवस्व । 'च्युङ् छुङ् जिङ् किङ् प्रुङ् कुच् सैङ् गाङ् गतौ' । गच्छ । भुवस्पते भूतजातस्य पते । विश्वान्यभिधामानि सर्वाणि स्थानानि पत्नीशालाहविर्धानप्रभृतीनि । किंच त्वां प्रच्यवमानं माविदन् मा जानन्तु । परिपरिणः परिणेतारो दुर्जनाः । मा च त्वां परिपन्थिनः सर्वतः पन्थानं ये तिष्ठन्ति ते विदन् । मा च त्वां वृका अघायवो विदन् । वृका विकर्तनशीलाः । अघायवः अघं पापं ये परस्य कर्तुमिच्छन्ति ते अघायवः ।। एते च त्वां गच्छन्तं मा जानन्तु । किंच त्वमपि श्येनो भूत्वा परापत श्येनरूपमवस्थायोत्पत । ततो यजमानस्य गृहान् गच्छ । तत् नौ आवयोः तव च मम च संस्कृतं सर्वोपकरणयुक्तं स्थानं विद्यते ॥ ३४ ॥
म० 'भद्रो म इति वाचयतीति' ( का० ७ । ९ । १९)। सौम्यं यजुः । हे सोम, मे मह्यं यजमानाय मदुपकारार्थं त्वं भद्रोऽसि कल्याणरूपोऽसि । 'भदि कल्याणे' । हे भुवः पते, भूशब्देन भूमौ स्थितानि भूतानि यजमानाध्वर्युप्रभृतीन्युच्यन्ते । तेषां भूतानां पालकत्वात्पतिः सोमः । तदाह तित्तिरिः 'प्रच्यवस्व भुवस्पत इत्याह भूतानाᳪं᳭ ह्येष पतिः' इति । तथाविध हे सोम, विश्वानि सर्वाणि धामान्यभि स्थानानि पत्नीशालाहविर्धानप्रभृतीनि अभिलक्ष्य प्रच्यवस्व प्रकर्षेण गच्छ । 'च्युङ् गतौ' । प्रच्यवमानं त्वा त्वां परिपरिणो मा विदन् मा जानन्तु । सर्वतः संचरन्तस्तस्करविशेषाः परिपरिण उच्यन्ते । तथा परिपन्थिनो यागस्य प्रतिषेधकाः शत्रवस्त्वां मा विदन् । 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (पा० ५।२। ८९) इति निपातावेतौ । तथा वृका विकर्तनशीला आरण्यश्वानो दुर्जना वा त्वां मा विदन् । किंभूता वृकाः । अघायवः परस्याघं कर्तुमिच्छन्ति ते अघायवः । 'सुप आत्मनः क्यच्' (पा० ३।१।८) इति क्यचि 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः । 'क्याच्छन्दसि' (पा० ३ । २ । १७०) इति क्यजन्तादुप्रत्ययः । किंच श्येनो भूत्वा श्येनरूपमास्थाय श्येनाख्यपक्षिवच्छीघ्रगामी वा भूत्वा परापत उत्पत । यजमानस्य गृहान् गच्छ । तत्तत्र यजमानगृहेषु नौ आवयोः तव मम च संस्कृतं सर्वोपकरणसंयुक्तं स्थानमस्तीति शेषः ॥ ३४ ॥

पञ्चत्रिंशी।
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तᳪं᳭ स॑पर्यत । दू॑रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शᳪं᳭सत ।। ३५ ।।
उ०. वाचयति । नमो मित्रस्य । सौरी जगती । ऋषिर्दृष्टार्थः । परब्रह्मरूपेणादित्यमवगम्य स्वं नमस्कारं कृत्वान्येषां कथयति । नमः सूर्याय । कथंभूताय । मित्रस्य वरुणस्य चक्षसे । मित्र आदित्यो वरुणश्च । उपलक्षणार्थं चैतत् । सर्वद्यावापृथिवीनिवासिलोकग्रहणार्थं वा तथैव श्रुतिः 'अयं वै लोको मित्रोऽसौ वरुणः' इति । चक्षसे द्रष्ट्रे ईश्वररूपेणाध्यक्षाय । महो देवाय तदृतᳪं᳭ सपर्यत । महते देवाय तत्सत्यं पूजयत हे ब्राह्मणाः । सपर्यतीत्यर्चाकर्मसु पठितम् । किंच दूरदृशे दूरेस्थितो दृश्यत इति दूरेदृक् । यद्वा अतीतानागतवर्तमानकालसंबन्धान् प्राणिनो दूरेऽवस्थितान्पश्यतीति दूरेदृक् । देवजाताय देवानुग्रहार्थं जातो देवजातः । यद्वा जाता देवा अस्मादिति देवजातः । निष्ठा 'वाहिताग्न्यादिषु' इति बहुव्रीहौ परनिपातः । केतवे ।। केतुरिति प्रज्ञानामसु पठितम् । प्रज्ञानत्वाय । विज्ञानघनानन्दस्वभावायेत्यर्थः । दिवस्पुत्राय द्युलोकाद्धि सूर्यो विजायते द्युलोकं वा बहुधा त्रायत इति दिवस्पुत्रः सूर्यः । सूर्याय शᳪं᳭सत । 'शंसु स्तुतौ' । इत्थंस्वरूपाय सूर्याय ! स्तुतीरुच्चारयत । किमन्यैर्देवताविशेषैः ॥ ३५॥
म०. 'शालां पूर्वेण प्रतिप्रस्थाताग्नीषोमीयं पशुमादाय तिष्ठति कृष्णसारङ्गं मेध्यमभावे लोहितसारङ्गं नमो मित्रस्येत्येनमालभ्य वाचयति' (का० ७ । ९ । २१-२२) इति । सौरी जगती सूर्यदृष्टा । द्वादशाक्षरचतुःपादा जगती । अत्र मन्त्रे सूर्यरूपेण सोमः स्तूयते । एवंविधाय सूर्याय नमः । किंभूताय मित्रस्य वरुणस्य । चतुर्थ्यर्थे षष्ठ्यौ । मित्राय वरुणाय मित्रवरुणदेवतारूपेण वर्तमानाय । जगतां हितकारिणे । वृणोतीति वरुणः स्वरश्मिभिर्जगदावृण्वते । चक्षसे चष्टे इति चक्षास्तस्मै । चक्षुष्मते द्रष्ट्रे इत्यर्थः । यद्वायमर्थः मित्रस्य वरुणस्य चक्षसे सर्वजगतो द्रष्ट्रे । मित्रावरुणशब्देन सर्वं जगल्लक्ष्यते । तथा महो महसे तेजोरूपाय 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति विभक्तिलोपः । देवाय द्योतमानाय । तथा दूरदृशे दूरे वर्तमानैः प्राणिभिर्दृश्यत इति दूरेदृक् तस्मै । यद्वा दूरे पश्यतीति दूरेदृक् । देवजाताय देवाद् द्योतमानात्परमात्मनो जायतेऽसौ । देवानुग्रहाय जातो देवजात इति वा । जाता देवा यस्मात्स देवजात इति वा । 'वाहिताग्न्यादिषु' (पा. २ । २ । ३७) इति जातशब्दस्य परनिपातः । केतवे प्रज्ञारूपाय विज्ञानघनाय । केतुरिति प्रज्ञानाम । दिवस्पुत्राय द्युलोकस्य पुत्रवत्प्रियाय । द्युलोकाद्धि सूर्यो जायते । दिवः पुरु त्रायते इति दिवस्पुत्रः। दिवः पालकायेति वा । एवंविधाय सूर्याय तदृतं सत्यमवश्यफलप्रदज्योतिष्टोमरूपं कर्म हे ऋत्विजः, यूयं सपर्यतानुष्ठानेन सपर्यां कुरुत । सपर्यतिः परिचरणकर्मा (निघ० ३ । ५ । ३) सूर्यार्थं यज्ञं कुरुतेत्यर्थः । यद्वा तदृतं सूर्यरूपं सत्यं ब्रह्म सपर्यत परिचरत । किंच शंसत । 'शंसु स्तुतौ' सूर्यप्रीत्यर्थं स्तुतिं कुरुत । शस्त्राणि पठतेत्यर्थः । यागानुष्ठाने तस्यावश्यकत्वादित्यर्थः ॥ ३५ ॥

षट्त्रिंशी।
वरु॑णस्यो॒त्तम्भ॑नमसि वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थो वरु॑णस्य ऋत॒सद॑न्यसि॒ वरु॑णस्य ऋत॒सद॑नमसि वरु॑णस्य ऋत॒सद॑न॒मा सी॑द ।। ३६ ।।
उ०. उत्तम्भनेनोपस्कभ्नाति । वरुणस्योत्तम्भनमसि । वरुणस्य त्वमुत्तम्भनं भवसि नतु शकटस्य । 'उदःस्थास्तम्भोः पूर्वस्य' इति स्तम्भनसकारस्य तकारः । शम्ये उद्वृहति । वरुणस्य स्कम्भसर्जनीस्थः । स्कभ्नोतिः स्कभ्नोतिना समानार्थः । 'अर्ज सर्ज अर्जने' । स्कम्भशब्देनात्र युगमुच्यते । तस्य सर्जनी वशीकरण्यौ स्कम्भसर्जनी वरुणस्य युवां स्कम्भसर्जनी शम्ये स्थः भवथः । आसन्दीमभिमृशति। वरुणस्य ऋतसदनी सत्यसदनी त्वं भवसि । कृष्णाजिनमस्यामास्तृणाति । वरुणस्य ऋतसदनमसि । वरुणस्य सत्यसदनं त्वं भवसि । सीदन्त्यस्मिन्निति सदनम् । तस्मिन्सोमं निदधाति । वरुणस्य ऋतसदनं सत्यसदनं । आसीद उपविश ॥ ३६॥
म० 'समीपेऽन उपस्थाप्योत्तम्भनेनोपस्तभ्नाति वरुणस्योत्तम्भनमितीति' (का० ७ । ९ । २५) । पञ्च यजूंषि वारुणानि । हे काष्ठ, त्वं वरुणस्योत्तम्भनमसि वस्त्रबद्धस्य सोमस्योन्नमनं भवसि नतु शकटस्येत्यर्थः । उतभ्यते शकटमुखाग्रमुन्नतत्वेन स्थाप्यते यस्मिन् काष्ठे तत्काष्ठमुत्तम्भनम् । 'शम्ये चोद्वृहति वरुणस्य स्कम्भसर्जनी स्थ इतीति' ( का० ७ । ९ । २६) । शकटयुगे बद्धयोर्बलीवर्दयोर्गलबहिर्भागे काष्ठनिर्मिते शम्ये स्थाप्येते । ताभ्यां वृषयोरितस्ततो गमनं निवार्यते ततस्ते स्कम्भसर्जनीशब्देनोच्यते । हे शम्ये, युवां वरुणस्य स्कम्भसर्जनी स्थः । 'स्कम्भ रोधने' । 'सर्ज अर्जने' स्कम्भनं स्कम्भो रोधः स सर्ज्यते क्रियते याभ्यां ते स्कम्भसर्जन्यौ । विभक्तेः पूर्वसवर्णः । व्रियते वेष्ट्यते वस्त्रादिनेति वरुणशब्देनात्र वस्त्रबद्धः सोम उच्यते । वरुणदैवतत्वाच्च पञ्चस्वपि मन्त्रेषु । 'औदुम्बरीमासन्दीं नाभिदघ्नामरत्निमात्राङ्गीमुता (१) माहरन्ति चत्वारोऽभिमृशन्त्येनां वरुणस्य ऋतसदन्यसीतीति' (का० ७ । ९ । २७-२८)। हे आसन्दि, त्वं वरुणस्य सोमस्य संबन्धिनी ऋतसदन्यसि ऋताय यज्ञाय सद्यते उपविश्यते यस्यां सा ऋतसदनी । 'करणाधिकरणयोः-' (पा० ३ । ३ । ११७) इति ल्युप्रत्ययः । ऋतं यज्ञस्तन्निष्पत्त्यर्थमुपवेशनस्थानभूतासीत्यर्थः । 'कृष्णाजिनमस्यामास्तृणाति वरुणस्य ऋतसदनमसीतीति' (का० ७।९।२९) हे कृष्णाजिन, वरुणस्य बद्धस्य सोमस्य ऋतसदनं यज्ञार्थमुपवेशनस्थानमसि । 'तस्मिन्सोमं निदधाति वरुणस्य ऋतसदनमासीदेतीति' (का. ७ । ९ । ३०) । हे सोम, त्वं वरुणस्य वस्त्रबद्धस्य तव ऋतसदनं यज्ञार्थमुपवेशनस्थानभूतमासंदीसंस्थितं कृष्णाजिनमासीद सुखेनोपविश ॥ ३६ ॥

सप्तत्रिंशी।
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् ।
ग॒य॒स्फ़ान॑: प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ।। ३७ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां चतुर्थोऽध्यायः।।४।।
उ० सोमं प्रवेशयन्वाचयति । या ते धामानि । सौमी त्रिष्टुप् । हे सोम, या ते धामानि । 'धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति' । यानि तव संबन्धीनि धामानि नामानि हविषा यजन्ति यष्टारः । ता ते विश्वाः तानि ते सर्वाणि । परिभूः । नपुंसकबहुवचनस्थाने पुंलिङ्गैकवचनम् । परिभूणि सर्वतो भवितॄणि । अस्तु । एतदपि बहुवचनं वाच्यसंयोगात् । सन्तु यज्ञं यज्ञं सर्वतो गृह्ये भवन्त्वित्यर्थः । यद्वा यज्ञशब्देन प्रथमान्तानि च धामानि तव विश्वानि नामानि यज्ञः परिभूः भवतु । यज्ञः परिगृह्य वर्ततामित्यर्थः । त्वं च । गयस्फानः गृहस्य पुत्रपशुभूहिरण्यादिभिर्वर्धयिता । प्रतरणः प्रतरन्ति येनापदः स प्रतरणः। सुवीरः शोभनवीरः । अवीरहा अहन्ता वीराणाम् । प्रचर इत्थंभूतस्त्वं परिभ्रम । सोम दुर्यान् गृहानस्मदीयान् ॥ ३७॥ इति उवटकृतौ मन्त्रभाष्ये चतुर्थोऽध्यायः ॥ ४ ॥
म० 'या त इति वाचयतीति' (का. ७ । ९ । ३२) । सोमदेवत्या त्रिष्टुप् गोतमदृष्टा । हे सोम, ते तव यां यानि धामानि प्रातःसवनादीनि स्थानानि प्राप्येति शेषः । हविषा त्वदीयरसरूपेण यजन्ति ऋत्विजो यागं कुर्वन्ति । यज्ञमभिलक्ष्येति शेषः । ते तव ता तानि विश्वा विश्वानि सर्वाणि स्थानानि परिभूरस्तु । परितो भवति प्राप्नोतीति परिभूः । 'भू प्राप्तौ' । भवान् परितः प्राप्तवान् भवतु । ऋत्विजो येषु स्थानेषु यजन्ति तानि त्वं प्राप्नुहीत्यर्थः । यद्वा ऋत्विजो यानि धामानि प्राप्य यजन्ति तानि सर्वाणि ते तव यज्ञं परिभूरस्तु यज्ञं परितो भवितॄणि यज्ञव्यापकानि सन्तु । नपुंसकबहुवचनस्थाने पुंलिङ्गैकवचनमार्षम् । किंच हे सोम, त्वं दुर्यान् गृहान् प्रचर प्राप्नुहि । दुर्या इति गृहनाम 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५.) इति संहितायां प्रचरेति दीर्घः । किंभूतस्त्वम् । गयस्फानः गय इति गृहनाम । (निघ० ३ । ४ । १)। 'स्फायी वृद्धौ । गयान्स्फाययतीति गयस्फानः गृहाभिवर्धकः । प्रतरणः प्रकर्षेण तरन्त्यापदो येन स प्रतरणः । यद्वा प्रतारयति यज्ञपारं प्रापयतीति प्रतरणः । सुवीरः शोभनास्त्वत्प्रसादलब्धा वीरा अस्मत्पुत्रपौत्रा यस्य तव स त्वं सुवीरः । अवीरहा न वीरान्हन्तीति । वीराणां परिपालक इत्यर्थः ॥ ३७ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। शालागमाद्वाचनान्तश्चतुर्थोऽध्याय ईरितः ॥ ४ ॥




टिप्पणी

४.१ स्वधिते मैनꣳ हिꣳसीः --

दीक्षारम्भे केशवपनं सांकेतिकरूपेण क्षुरेण भवति, किन्तु आन्तरिकरूपे नैसर्गिकरूपे भवतु, अयं अपेक्षितमस्ति, तथैव यथा कैमोथीरैपी कैंसरचिकित्साकाले केशाः पतन्ति। अस्य कारणं अयमस्ति यत् देहे नवीनकोशिकानां सर्जनं अस्थायीरूपेण विरमति। कालक्रमेण यदा यज्ञे प्रगतिः भवति, केशाः नवीनरूपं धारयन्ति।

४.१२ श्वात्राः पीता भवत यूयमापो इति-

एका साधना श्वा साधना अस्ति, एका अश्वा, अद्यैव। सोमयागे उद्देश्यं भवति यत् सर्वस्य सोमस्य परिष्कारं अद्यैव भवतु, न श्वकाले। किन्तु व्यावहारिकरूपेण अयं संभवं नास्ति। अतएव, तृतीयसवनकालोपरान्तं यस्य सोमस्य परिष्कारं न भवति, तस्य परिष्कारं श्वकाले करणीयं भवति। दीक्षायाः संदर्भे अपसः अपेक्षा अस्ति यत् ते श्वात्राः भवन्तु। ऋग्वेदे अग्नि, सोमादिभ्यः अपि अपेक्षा अस्ति यत् ते श्वात्राः भवन्तु।

द्र. श्याव-शबलोपरि टिप्पणी, शुनः उपरि टिप्पणी