सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ३/अध्यायः १/ब्राह्मणम् ४

विकिस्रोतः तः
स्रुक्-स्रुवा.

३.१.४.औद्ग्रभणहोमः। दीक्षाहुतिः
सर्वाणि ह वै दीक्षाया यजूंष्यौद्ग्रभणानि । उद्गृभ्णीते वा एषोऽस्माल्लोकाद्देवलोकमभि यो दीक्षत एतैरेव तद्यजुर्भिरुद्गृभ्णीते तस्मादाहुः सर्वाणि दीक्षाया यजूंष्यौद्ग्रभणानीति तत एतान्यवान्तरामाचक्षत औद्ग्रभणानीत्याहुतयो ह्येता आहुतिर्हि यज्ञः परोऽक्षं वै यजुर्जपत्यथैष प्रत्यक्षं यज्ञो यदाहुतिस्तदेतेन यज्ञेनोद्गृभ्णीतेऽस्माल्लोकाद्देवलोकमभि - ३.१.४.१

ततो यानि त्रीणि स्रुवेण जुहोति । तान्याधीतयजूंषीत्याचक्षते सम्पद एव कामाय चतुर्थं हूयतेऽथ यत्पञ्चमं स्रुचा जुहोति तदेव प्रत्यक्षमौद्ग्रभणमनुष्टुभा हि तज्जुहोति वाग्घ्यनुष्टुब्वाग्घि यज्ञः - ३.१.४.२

यज्ञेन वै देवाः । इमां जितिं जिग्युर्यैषामियं जितिस्ते होचुः कथं न इदम्मनुष्यैरनभ्यारोह्यं स्यादिति ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्द्धयेयुर्विदुह्य यज्ञं यूपेन योपयित्वा तिरोऽभवन्नथ यदेनेनायोपयंस्तस्माद्यूपो नाम - ३.१.४.३

तद्वा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन्यथायं यज्ञः सम्भृत एवं वा एष यज्ञं सम्भरति यदेतानि जुहोति - ३.१.४.४

तानि वै पञ्च जुहोति । संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात्पञ्च जुहोति - ३.१.४.५

अथातो होमस्यैव । आकूत्यै प्रयुजेऽग्नये स्वाहेत्या वा अग्रे कुवते यजेयेति तद्यदेवात्र यज्ञस्य तदेवैतत्सम्भृत्यात्मन्कुरुते - ३.१.४.६

मेधायै मनसेऽग्नये स्वाहेति (वा.सं. ४.७ ) । मेधया वै मनसाभिगच्छति यजेयेति तद्यदेवात्र यज्ञस्य तदेवैतत्सम्भृत्यात्मन्कुरुते - ३.१.४.७

दीक्षायै तपसेऽग्नये स्वाहेति । अन्वेवैतदुच्यते नेत्तु हूयते - ३.१.४.८

सरस्वत्यै पूष्णेऽग्नये स्वाहेति । वाग्वै सरस्वती वाग्यज्ञः पशवो वै पूषा पुष्टिर्वै पूषा पुष्टिः पशवः पशवो हि यज्ञस्तद्यदेवात्र यज्ञस्य तदेवैतत्सम्भृत्यात्मन्कुरुते - ३.१.४.९

तदाहुः । अनद्धेवैता आहुतयो हूयन्तेऽप्रतिष्ठिता अदेवकास्तत्र नेन्द्रो न सोमो
नाग्निरिति - ३.१.४.१०

आकूत्यै प्रयुजेऽग्नये स्वाहेति । नात एकं चनाग्निर्वा अद्धेवाग्निः प्रतिष्ठितः स यदग्नौ जुहोति तेनैवैता अद्धेव तेन प्रतिष्ठितास्तस्मादु सर्वास्वेवाग्नये स्वाहेति जुहोति तत एतान्याधीतयजूंषीत्याचक्षते- ३.१.४.११

आकूत्यै प्रयुजेऽग्नये स्वाहेति । आत्मना वा अग्र आकुवते यजेयेति तमात्मन एव प्रयुङ्क्ते यत्तनुते ते अस्यैते आत्मन्देवते आधीते भवत आकूतिश्च प्रयुक्च - ३.१.४.१२

मेधायै मनसेऽग्नये स्वाहेति । मेधया वै मनसाभिगच्छति यजेयेति ते अस्यैते आत्मन्देवते आधीते भवतो मेधा च मनश्च- ३.१.४.१३

सरस्वत्यै पूष्णेऽग्नये स्वाहेति । वाग्वै सरस्वती वाग्यज्ञः सास्यैषात्मन्देवताधीता भवति वाक्पशवो वै पूषा पुष्टिर्वै पूषा पुष्टिः पशवः पशवो हि यज्ञस्तेऽस्यैत आत्मन्पशव आधीता भवन्ति तद्यदस्यैता आत्मन्देवता आधीता भवन्ति तस्मादाधीतयजूंषि नाम - ३.१.४.१४

अथ चतुर्थी जुहोति । आपो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उरो अन्तरिक्ष बृहस्पतये हविषा विधेम स्वाहेत्येषा ह नेदीयो यज्ञस्यापां हि कीर्तयत्यापो हि यज्ञो द्यावापृथिवी उरो अन्तरिक्षेति लोकानां हि कीर्तयति बृहस्पतये हविषा विधेम स्वाहेति ब्रह्म वै बृहस्पतिर्ब्रह्म यज्ञ एतेनो हैषा नेदीयो यज्ञस्य - ३.१.४.१५

अथ यां पञ्चमीं स्रुचा जुहोति । सा हैव प्रत्यक्षं यज्ञोऽनुष्टुभा हि तां जुहोति वाग्घ्यनुष्टुब्वाग्घि यज्ञः - ३.१.४.१६

अथ यद्ध्रुवायामाज्यं परिशिष्टं भवति । तज्जुह्वामानयति त्रिःस्रुवेणाज्यविलापन्या अधि जुह्वां गृह्णाति यत्तृतीयं गृह्णाति तत्स्रुवमभिपूरयति - ३.१.४.१७

स जुहोति । विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यं विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहेति - ३.१.४.१८

सैषा देवताभिः पङ्क्तिर्भवति । विश्वो देवस्येति वैश्वदेवं नेतुरिति सावित्रं मर्तो वुरीतेति मैत्रं द्युम्नं वृणीतेति बार्हस्पत्यं द्युम्नं हि बृहस्पतिः पुष्यस इति पौष्णम् - ३.१.४.१९

सैषा देवताभिः पङ्क्तिर्भवति । पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्यैतमेवैतयाप्नोति यद्देवताभिः पङ्क्तिर्भवति -३.१.४.२०
 
तां वा अनुष्टुभा जुहोति । वाग्वा अनुष्टुब्वाग्यज्ञस्तद्यज्ञं प्रत्यक्षमाप्नोति - ३.१.४.२१

तदाहुः । एतामेवैकां जुहुयाद्यस्मै कामायेतरा हूयन्त एतयैव तं काममाप्नोतीति तां वै यद्येकां जुहुयात्पूर्णां जुहुयात्सर्वं वै पूर्णं सर्वमेवैनयैतदाप्नोत्यथ यत्स्रुवमभिपूरयति स्रुचं तदभिपूरयति ताम्पूर्णां जुहोत्यन्वैवैतदुच्यते सर्वास्त्वेव हूयन्ते - ३.१.४.२२

तां वा अनुष्टुभा जुहोति । सैषानुष्टुप्सत्येकत्रिंशदक्षरा भवति दश पाण्या अङ्गुलयो दश पाद्या दश प्राणा आत्मैकत्रिंशो यस्मिन्नेते प्राणाः प्रतिष्ठिता एतावान्वै पुरुषः पुरुषो यज्ञः पुरुषसम्मितो यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैनयैतदाप्नोति यदनुष्टुभैकत्रिंशदक्षरया जुहोति - ३.१.४.२३

टिप्पणी

३.१.४.२

जुहूपभृद्ध्रुवा इति तिस्रः स्रुच उच्यन्ते। पर्ण(पलाश)मयी जुहूर्भवति। आश्वत्थी उपभृत्। वैकङ्कती ध्रुवा भवति। एतद्वै स्रुचां रूपम्। अरत्निमात्रप्रमाणः अङ्गुष्ठपर्वप्रमाणेन वृत्तमुखः खादिरः स्रुवो भवति।