सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ९/ब्राह्मण ३

विकिस्रोतः तः

३.९.३

तान्त्सम्प्रबोधयन्ति । तेऽप उपस्पृश्याग्नीध्रमुपसमायन्ति त आज्यानि गृह्णते गृहीत्वाज्यान्यायन्त्यासाद्याज्यानि - ३.९.३.१

अथ राजानमुपावहरति । इयं वै प्रतिष्ठा जनूरासाम्प्रजानामिमामेवैतत्प्रतिष्ठामभ्युपावहरति तमस्यै तनुते तमस्यै जनयति - ३.९.३.२

अन्तरेणेष उपावहरति । यज्ञो वा अनस्तन्न्वेव यज्ञान्न बहिर्द्धा करोति ग्रावसु सम्मुखेष्वधिनिदधाति क्षत्रं वै सोमो विशो ग्रावाणः क्षत्रमेवैतद्विश्यध्यूहति तद्यत्सम्मुखा भवन्ति विशमेवैतत्सम्मुखां क्षत्रियमभ्यविवादिनीं करोति तस्मात्सम्मुखा भवन्ति - ३.९.३.३

स उपावहरति । हृदे त्वा मनसे त्वेति यजमानस्यैतत्कामायाह हृदयेन हि मनसा यजमानस्तं कामं कामयते यत्काम्या यजते तस्मादाह हृदे त्वा मनसे त्वेति - ३.९.३.४

दिवे त्वा सूर्याय त्वेति । देवलोकाय त्वेत्येवैतदाह यदाह दिवे त्वेति सूर्याय त्वेति देवेभ्यस्त्वेत्येवैतदाहोर्ध्वमिममध्वरं दिवि देवेषु होत्रा यच्छेत्यध्वरो वै यज्ञ ऊर्ध्वमिमं यज्ञं दिवे देवेषु धेहीत्येवैतदाह - ३.९.३.५

सोम राजन्विश्वास्त्वं प्रजा उपावरोहेति । तदेनमासां प्रजानामाधिपत्याय राज्यायोपावहरति - ३.९.३.६

अथानुसृज्योपतिष्ठते । विश्वास्त्वां प्रजा उपावरोहन्त्वित्ययथायथमिव वा एतत्करोति यदाह विश्वास्त्वं प्रजा उपावरोहेति क्षत्रं वै सोमस्तत्पापवस्यसं करोति तद्धेदमनु पापवस्यसं क्रियतेऽथात्र यथायथं करोति यथापूर्वं यदाह विश्वास्त्वां प्रजा उपावरोहन्त्विति तदेनमाभिः प्रजाभिः प्रत्यवरोहयति तस्मादु क्षत्रियमायन्तमिमाः प्रजा विशः प्रत्यवरोहन्ति तमधस्तादुपासत उपसन्नो होता प्रातरनुवाकमनुवक्ष्यन्भवति - ३.९.३.७

अथ समिधमभ्यादधदाह । देवेभ्यः प्रातर्यावभ्योऽनुब्रूहीति छन्दांसि वै देवाः प्रातर्यावाणश्छन्दांस्यनुयाजा देवेभ्यः प्रेष्य देवान्यजेति वा अनुयाजैश्चरन्ति - ३.९.३.८

तदु हैक आहुः । देवेभ्योऽनुब्रूहीति तदु तथा न ब्रूयाच्छन्दांसि वै देवाः प्रातर्यावाणश्छन्दांस्यनुयाजा देवेभ्यः प्रेष्य देवान्यजेति वा अनुयाजैश्चरन्ति तस्मादु ब्रूयाद्देवेभ्यः प्रातर्यावभ्योऽनुब्रूहीत्येव - ३.९.३.९

अथ यत्समिधमभ्यादधाति । छन्दांस्येवैतत्समिन्द्धेऽथ यद्धोता प्रातरनुवाकमन्वाह छन्दांस्येवैतत्पुनराप्याययत्ययातयामानि करोति यातयामानि वै देवैश्छन्दांसि छन्दोभिर्हि देवाः स्वर्गं लोकं समाश्नुवत न वा अत्र स्तुवते न शंसन्ति तच्छन्दांस्येवैतत्पुनराप्याययत्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते तस्माद्धोता प्रातरनुवाकमन्वाह - ३.९.३.१०

तदाहुः । कः प्रातरनुवाकस्य प्रतिगर इति जाग्रद्धैवाध्वर्युरुपासीत स यन्निमिषति स हैवास्य प्रतिगरस्तदु तथा न कुर्याद्यदि निद्रायादपि कामं स्वप्यात्स यत्र होता प्रातरनुवाकं परिदधाति तत्प्रचरणीति स्रुग्भवति तस्यां चतुर्गृहीतमाज्यं गृहीत्वा जुहोति - ३.९.३.११

यत्र वै यज्ञस्य शिरोऽच्छिद्यत । तस्य रसो द्रुत्वापः प्रविवेश तमदः पूर्वेद्युर्वसतीवरीभिराहरत्यथ योऽत्र यज्ञस्य रसः परिशिष्टस्तमेवैतदच्छैति - ३.९.३.१२

यद्धैवैतामाहुतिं जुहोति । एतमेवैतद्यज्ञस्य रसमभिप्रस्तृणीते तमारुन्द्धे याभ्य उ चैवैतां देवताभ्य आहुतिं जुहोति ता एवैतत्प्रीणाति ता अस्मै तृप्ताः प्रीता एतं यज्ञस्य रसं संनमन्ति - ३.९.३.१३

स जुहोति । शृणोत्वग्निः समिधा हवं म इति शृणोतु म इदमग्निरनु मे जानात्वित्येवैतदाह शृण्वन्त्वापो धिषणाश्च देवीरिति शृण्वन्तु म इदमापोऽनु मे जानन्त्वित्येवैतदाह श्रोता ग्रावाणो विदुषो न यज्ञमिति शृण्वन्तु म इदं ग्रावाणोऽनु
मे जानन्त्वित्येवैतदाह विदुषो न यज्ञमिति विद्वांसो हि ग्रावाणः शृणोतु देवः सविता हवं मे स्वाहेति शृणोतु म इदं देवः सवितानु मे जानात्वित्येवैतदाह सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैतद्यज्ञस्य रसमच्छैति - ३.९.३.१४

अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । उदङ्प्रयन्नाहाप इष्य होतरित्यप इच्छ होतरित्येवैतदाह तद्यदतो होतान्वाहैतमेवैतद्यज्ञस्य रसमभिप्रस्तृणीते तमारुन्द्ध एतानु चैवैतदनुतिष्ठते नेदेनानन्तरा नाष्ट्रा रक्षांसि हिनसन्निति - ३.९.३.१५

अथ सम्प्रेष्यति । मैत्रावरुणस्य चमसाध्वर्यवेहि नेष्टः पत्नीरुदानयैकधनिन एताग्नीच्चात्वाले वसतीवरीभिः प्रत्युपतिष्ठासै होतृचमसेन चेति सम्प्रैष एवैषः - ३.९.३.१६

त उदञ्चो निष्क्रामन्ति । जघनेन चात्वालमग्रेणाग्नीध्रं स यस्यां ततो दिश्यापो भवन्ति तद्यन्ति ते वै सह पत्नीभिर्यन्ति तद्यत्सह पत्नीभिर्यन्ति - ३.९.३.१७

यत्र वै यज्ञस्य शिरोऽच्छिद्यत । तस्य रसो द्रुत्वापः प्रविवेश तमेते गन्धर्वाः सोमरक्षा जुगुपुः - ३.९.३.१८

ते ह देवा ऊचुः । इयमु न्वेवेह नाष्ट्रा यदिमे गन्धर्वाः कथं न्विममभयेऽनाष्ट्रे यज्ञस्य रसमाहरेमेति - ३.९.३.१९

ते होचुः । योषित्कामा वै गन्धर्वाः सह पत्नीभिरयाम ते पत्नीष्वेव गन्धर्वा गर्द्धिष्यन्त्यथैतमभयेऽनाष्ट्रे यज्ञस्य रसमाहरिष्याम इति - ३.९.३.२०

ते सह पत्नीभिरीयुः । ते पत्नीष्वेव गन्धर्वा जगृधुरथैतमभयेऽनाष्ट्रे यज्ञस्य रसमाजह्रुः - ३.९.३.२१

तथो ऽएवैष एतत् । सहैव पत्नीभिरेति ते पत्नीष्वेव गन्धर्वा गृध्यन्त्यथैतमभयेऽनाष्ट्रे यज्ञस्य रसमाहरति - ३.९.३.२२

सोऽपोऽभिजुहोति । एतां ह वा आहुतिं हृतामेष यज्ञस्य रस उपसमेति ताम्प्रत्युत्तिष्ठति तमेवैतदाविष्कृत्य गृह्णाति - ३.९.३.२३

यद्वेवैतामाहुतिं जुहोति । एतमेवैतद्यज्ञस्य रसमभिप्रस्तृणीते तमारुन्द्धे तमपो याचति याभ्य उ चैवैतां देवताभ्य आहुतिं जुहोति ता एवैतत्प्रीणाति ता अस्मै तृप्ताः प्रीता एतं यज्ञस्य रसं संनमन्ति - ३.९.३.२४

स जुहोति । देवीरापो अपांनपादिति देव्यो ह्यापस्तस्मादाह देवीरापो अपांऽनपादिति यो व ऊर्मिर्हविष्य इति यो व ऊर्मिर्यज्ञिय इत्येवैतदाहेन्द्रियावान्मदिन्तम इति वीर्यवानित्येवैतदाह यदाहेन्द्रियावानिति मदिन्तम इति स्वादिष्ठ इत्येवैतदाह तं देवेभ्यो देवत्रा दत्तेत्येतदेना अयाचिष्ट यदाह तं देवेभ्यो देवत्रा दत्तेति शुक्रपेभ्य इति सत्यं वै शुक्रं सत्यपेभ्य इत्येवैतदाह येषां भाग स्थ स्वाहेति तेषामु ह्येष भागः - ३.९.३.२५

अथ मैत्रावरुणचमसेनैतामाहुतिमपप्लावयति । कार्षिरसीति यथा वा अङ्गारोऽग्निना प्सातः स्यादेवमेषाहुतिरेतया देवतया प्साता भवति राजानं वा एताभिरद्भिरुपस्रक्ष्यन्भवति या एता मैत्रावरुणचमसे वज्रो वा आज्यं रेतः सोमो नेद्वज्रेणाज्येन रेतः सोमं हिनसानीति तस्माद्वा अपप्लावयति - ३.९.३.२६

अथ गृह्णाति । समुद्रस्य त्वाक्षित्या ऽउन्नयामीत्यापो वै समुद्रोऽप्स्वेवैतदक्षितिं दधाति तस्मादाप ऽएतावति भोगे भुज्यमाने न क्षीयन्ते तदन्वेकधनानुन्नयन्ति तदनु पान्नेजनान् - ३.९.३.२७

तद्यन्मैत्रावरुणचमसेन गृह्णाति । यत्र वै देवेभ्यो यज्ञोऽपाक्रामत्तमेतद्देवाः प्रैषैरेव प्रैषमैच्छन्पुरोरुग्भिः प्रारोचयन्निविद्भिर्न्यवेदयंस्तस्मान्मैत्रावरुणचमसेन गृह्णाति - ३.९.३.२८

त आयन्ति । प्रत्युपतिष्ठतेऽग्नीच्चात्वाले वसतीवरीभिश्च होतृचमसेन च स उपर्युपरि चात्वालं संस्पर्शयति वसतीवरीश्च मैत्रावरुणचमसं च समापोअद्भिरग्मत समोषधीभिरोषधीरिति यश्चासौ पूर्वेद्युराहृतो यज्ञस्य रसो यश्चाद्याहृतस्तमेवैतदुभयं संसृजति - ३.९.३.२९

तद्धैके । ऐव मैत्रावरुणचमसे वसतीवरीर्नयन्त्या मैत्रावरुणचमसाद्वसतीवरीषु यश्चासौ पूर्वेद्युराहृतो यज्ञस्य रसो यश्चाद्याहृतस्तमेवैतदुभयं संसृजाम इति वदन्तस्तदु तथा न कुर्याद्यद्वा आधवनीये समवनयति तदेवैष उभयो यज्ञस्य रसः संसृज्यतेऽथ होतृचमसे वसतीवरीर्गृह्णाति निग्राभ्याभ्यस्तद्यदुपर्युपरि चात्वालं संस्पर्शयत्यतो वै देवा दिवमुपोदक्रामंस्तद्यजमानमेवैतत्स्वर्ग्यम्पन्थानमनुसंख्यापयति
- ३.९.३.३०

त आयन्ति । तं होता पृच्छत्यध्वर्योऽवेरपा इत्यविदोऽपा इत्येवैतदाह तम्प्रत्याहोतेव नन्नमुरित्यविदमथो मेऽनंसतेत्येवैतदाह - ३.९.३.३१

स यद्यग्निष्टोमः स्यात् । यदि प्रचरण्यां संस्रवः परिशिष्टोऽलं होमाय स्यात्तं जुहुयाद्यद्यु नालं होमाय स्यादपरं चतुर्गृहीतमाज्यं गृहीत्वा जुहोति यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः स यन्ता शश्वतीरिषः स्वाहेत्याग्नेय्या जुहोत्यग्निर्वा अग्निष्टोमस्तदग्नावग्निष्टोमं प्रतिष्ठापयति मर्तवत्या पुरुषसम्मितो वा अग्निष्टोम एवं जुहुयाद्यद्यग्निष्टोमः स्यात् - ३.९.३.३२

यद्युक्थ्यः स्यात् । मध्यमं परिधिमुपस्पृशेत्त्रयः परिधयस्त्रीण्युक्थान्येतैरु हि तर्हि यज्ञः प्रतितिष्ठति यद्यु अतिरात्रो वा षोडशी वा स्यान्नैव जुहुयान्न मध्यमं परिधिमुपस्पृशेत्समुद्यैव तूष्णीमेत्य प्रपद्येत तद्यथायथं यज्ञक्रतून्व्यावर्तयति - ३.९.३.३३

अयुङ्गाअयुङ्गा एकधना भवन्ति । त्रयो वा पञ्च वा पञ्च वा सप्त वा नव वा नव वैकादश वैकादश वा त्रयोदश वा त्रयोदश वा पञ्चदश वा द्वन्द्वमह मिथुनं प्रजननमथ य एष एकोऽतिरिच्यते स यजमानस्य श्रियमभ्यतिरिच्यते स वा एषां सधनं यो यजमानस्य श्रियमभ्यतिरिच्यते तद्यदेषां सधनं तस्मादेकधना नाम - ३.९.३.३४

File:एकधना Single Wealth Jugs.jpg|thumb|एकधना.

टिप्पणी

३.९.३.३४ एकधना

उत्तरस्य हविर्धानस्योपरिष्टान्नीडे आधवनीयम् । युनज्मि वाचꣳ सह सूर्येण ते प्रधुरे पूतभृतम् । एतस्यैव हविर्धानस्याधस्तात्पश्चादक्षं त्रीनेकधनान् घटान् पञ्च सप्त नवैकादश वा तूष्णीं प्रयुनक्ति । (आश्वलायनश्रौतप्रयोगः)

एकधनकलश- एकं सोमरूपं धनं येषां कलशानां ते एकधनाः कलशा उच्यन्ते । एकधनकलशग्रहण- १. प्रातःसवने त्रिषु कलशेषु बर्हिषी अन्तर्धाय एकधनान् कलशान् गृह्णाति ' इन्द्राय वो जुष्टान् गृह्णामि ' इति । इदमेकधनकलशग्रहणमुच्यते । द्र० श्रौ ० प० नि० पृ०२६४ ।

एकधनकलशस्थापनम्- प्रातः सवने त्रिप्रभृति पञ्चदशपर्यन्तं विषमसंख्याकान् एकधनसंज्ञकान् कलशान् निदध्यात् । एकं सोमरूपं धनमेषां ते एकधनाः । तत्रैकधनानां अग्निष्टोमात्यग्निष्टोमयोः त्रयः पञ्च वैकधनाः । उक्थ्ये पञ्च सप्त वा । षोडशिन्यहनि सप्त नव वा । वाजपेये नवैकादश वा । अतिरात्रे एकादश त्रयोदश वा । अप्तोर्यामे त्रयोदश पञ्चदश वेति संख्यावृद्धिरिति देवयाज्ञिकाः । एक- धनाः कलशाश्च मृन्मया धातुमया वा । सोमवर्धनार्था आप एकधनाः । तद्ग्रहणार्था घटाश्च एकधनशब्देनोच्यन्ते । विकृतिष्वेकाहाहीन सत्रेषु संस्थाव्यवस्थयैषां घटानां संख्या कल्पनीयोऽतिविशेषोऽवगन्तव्यः (तु ० का० श्रौ० ९ । २ । २२ विद्याधरः ।

एकधना- प्रातः सवने गृहीतेषु १. त्रिषु द्रोणपूतभृदाधवनीयकलशेषु गृहीता आप एकधना उच्यन्ते । द्र० श्रौ० प० नि० पृ० २६४ ।

एकधनाग्रहणार्थहोम- प्रातःसवने पन्नेजनीग्रहणार्थं पत्न्यानयनानन्तरं प्राग्वंशस्य पूर्वया द्वारोपनिष्कम्योत्तरेण सदः आग्नीध्रीयं धिष्ण्यम् अन्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य यत्रापस्तत्र गच्छन्ति । अध्वर्युः अप्सु बर्हिष एकदेशं प्रास्य तस्योपरि सशेषं जुहोति- ' देवीरापो अपां नपात् य ऊर्मिर्हविष्य इन्द्रियावान् मदिन्तमस्तं देवेभ्यो देवत्रा धा शुक्रं शुक्रियेभ्यो येषां भागःस्थ स्वाहाः ' इति अद्भ्य इदमिति यजमानः । सोऽयमेकधनाग्रहणार्थहोम इत्युच्यते । ' द्र० श्रौ प० नि० पृ० २६४ । - श्रौतयज्ञप्रक्रियापदार्थानुक्रमकोषः (पं. पीताम्बरदत्त शास्त्री) (राष्ट्रिय संस्कृत संस्थानम्, नई दिल्ली, २००५ई.)