शुक्लयजुर्वेदः/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१ शुक्लयजुर्वेदः
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →


अध्याय 22 ब्रह्म सूक्तम्
आश्वमेधिका मन्त्राः

22.1
तेजोऽसि शुक्रम् अमृतम् आयुष्पा ऽ आयुर् मे पाहि ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे ॥

22.2
इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व ऽ आयुषि विदथेषु कव्या ।
सा नो ऽ अस्मिन्त् सुत ऽ आ बभूव ऽ ऋतस्य सामन्त् सरमारपन्ती ॥

22.3
अभिधा ऽ असि भुवनम् असि यन्तासि धर्ता ।
स त्वम् अग्निं वैश्वानरꣳ सप्रथसं गच्छ स्वाहाकृतः ॥

22.4
स्वगा त्वा देवेभ्यः प्रजापतये ब्रह्मन्न् अश्वं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासम् ।
तं बधान देवेभ्यः प्रजापतये तेन राध्नुहि ॥

22.5
प्रजापतये त्वा जुष्टं प्रोक्षामि ।
इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि ।
वायवे त्वा जुष्टं प्रोक्षामि ।
विश्वेभ्यस् त्वा देवेभ्यो जुष्टं प्रोक्षामि ।
सर्वेभ्यस् त्वा देवेभ्यो जुष्टं प्रोक्षामि ।
यो ऽ अर्वन्तं जिघाꣳसति तम् अभ्य् अमीति वरुणः परो मर्तः परः श्वा ॥

22.6
अग्नये स्वाहा ।
सोमाय स्वाहा ।
अपां मोदाय स्वाहा ।
सवित्रे स्वाहा ।
वायवे स्वाहा ।
विष्णवे स्वाहा ।
इन्द्राय स्वाहा ।
बृहस्पतये स्वाहा ।
मित्राय स्वाहा ।
वरुणाय स्वाहा ॥

22.7
हिङ्काराय स्वाहा हिङ्कृताय स्वाहा क्रन्दते स्वाहावक्रन्दाय स्वाहा प्रोथते स्वाहा प्रप्रोथाय स्वाहा गन्धाय स्वाहा घ्राताय स्वाहा निविष्टाय स्वाहोपविष्टाय स्वाहा संदिताय स्वाहा वल्गते स्वाहासीनाय स्वाहा शयानाय स्वाहा स्वपते स्वाहा जाग्रते स्वाहा कूजते स्वाहा प्रबुद्धाय स्वाहा विजृम्भमाणाय स्वाहा विचृताय स्वाहा सꣳहानाय स्वाहोपस्थिताय स्वाहाऽयनाय स्वाहा प्रायणाय स्वाहा ॥

22.8
यते स्वाहा धावते स्वाहोद्द्रावाय स्वाहोद्द्रुताय स्वाहा शूकाराय स्वाहा शूकृताय स्वाहा निषणाय स्वाहोत्थिताय स्वाहा जवाय स्वाहा बलाय स्वाहा विवर्तमानाय स्वाहा विवृत्ताय स्वाहा विधून्वानाय स्वाहा विधूताय स्वाहा शुश्रूषमाणाय स्वाहा शृण्वते स्वाहेक्षमाणाय स्वाहेक्षिताय स्वाहा वीक्षिताय स्वाहा निमेषाय स्वाहा यद् अत्ति तस्मै स्वाहा यत् पिबति तस्मै स्वाहा यन् मूत्रं करोति तस्मै स्वाहा कुर्वते स्वाहा कृताय स्वाहा ॥

22.9
तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥

22.10
हिरण्यपाणिमूतये सवितारम् उप ह्वये ।
स चेत्ता देवता पदम् ॥

22.11
देवस्य चेततो महीं प्र सवितुर् हवामहे ।
सुमतिꣳ सत्यराधसम् ॥

22.12
सुष्टुतिꣳ सुमतीवृधो रातिꣳ सवितुर् ईमहे ।
प्र देवाय मतीविदे ॥

22.13
रातिꣳ सत्पतिं महे सवितारम् उप ह्वये ।
आसवं देववीतये ॥

22.14
देवस्य सवितुर् मतिम् आसवं विश्वदेव्यम् ।
धिया भगं मनामहे ॥

22.15
अग्निꣳ स्तोमेन बोधय समिधानो ऽ अमर्त्यम् ।
हव्या देवेषु नो दधत् ॥

22.16
स हव्यवाड् अमर्त्य ऽ उशिग् दूतश् चनोहितः ।
अग्निर् धिया सम् ऋण्वति ॥

22.17
अग्निं दूतं पुरो दधे हव्यवाहम् उप ब्रुवे ।
देवाꣳऽ आ सादयाद् इह ॥

22.18
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।
गोजीरया रꣳहमाणः पुरन्ध्या ॥

22.19
विभूर् मात्रा प्रभूः पित्राश्वो ऽसि हयो ऽस्य् अत्यो ऽसि मयो ऽस्य् अर्वासि सप्तिर् असि वाज्य् असि वृषासि नृमणा ऽ असि ।
ययुर् नामासि शिशुर् नामास्य् आदित्यानां पत्वान्व् इहि ।
देवा ऽ आशापाला एतं देवेभ्यो ऽश्वं मेधाय प्रोक्षितꣳ रक्षत् ।
इह रन्तिः ।
इह रमताम् ।
इह धृतिः ।
इह स्वधृतिः स्वाहा ॥

22.20
काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहा स्वाहाधिम् आधीताय स्वाहा मनः प्रजापतये स्वाहाचित्तं विज्ञातायादित्यै स्वाहादित्यै मह्यै स्वाहादित्यै सुमृडीकायै स्वाहा सरस्वत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा सरस्वत्यै बृहत्यै स्वाहा पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वाहा त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहा विष्णवे स्वाहा विष्णवे निभूयपाय स्वाहा विष्णवे शिपिविष्टाय स्वाहा ॥

22.21
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा ॥

22.22
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् आ राष्ट्रे राजन्यः शूर ऽ इषव्यो ऽतिव्याधी महारथो जायतां दोग्ध्री धेनुर् वोढानड्वान् आशुः सप्तिः पुरंधिर् योषा जिष्णू रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायतां निकामे-निकामे नः पर्जन्यो वर्षतु फलवत्यो न ऽ ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥

22.23
प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय स्वाहा वाचे स्वाहा मनसे स्वाहा ॥

22.24
प्राच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहार्वाच्यै दिशे स्वाहा प्रतीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोदीच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहोर्ध्वायै दिशे स्वाहार्वाच्यै दिशे स्वाहावाच्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा ॥

22.25
अद्भ्यः स्वाहा वार्भ्यः स्वाहोदकाय स्वाहा तिष्ठन्तीभ्यः स्वाहा स्रवन्तीभ्यः स्वाहा स्यन्दमानाभ्यः स्वाहा कूप्याभ्यः स्वाहा सूद्याभ्यः स्वाहा धार्याभ्यः स्वाहार्णवाय स्वाहा समुद्राय स्वाहा सरिराय स्वाहा ॥

22.26
वाताय स्वाहा धूमाय स्वाहाभ्राय स्वाहा मेघाय स्वाहा विद्योतमानाय स्वाहा स्तनयते स्वाहावस्फूर्जते स्वाहा वर्षते स्वाहाववर्षते स्वाहोग्रं वर्षते स्वाहा शीघ्रं वर्षते स्वाहोद्ग्रृह्णते स्वाहोद्ग्रृहीताय स्वाहा प्रुष्णते स्वाहा शीकायते स्वाहा प्रुष्वाभ्यः स्वाहा ह्रादुनीभ्यः स्वाहा नीहाराय स्वाहा ॥

22.27
अग्नये स्वाहा सोमाय स्वाहेन्द्राय स्वाहा पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा दिग्भ्यः स्वाहाशाभ्यः स्वाहोर्व्यै दिशे स्वाहार्वाच्यै दिशे स्वाहा ॥

22.28
नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहाहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा ऽ ऋतुभ्यः स्वाहार्तवेभ्यः स्वाहा संवत्सराय स्वाहा द्यावापृथिवीभ्याꣳ स्वाहा चन्द्राय स्वाहा सूर्याय स्वाहा रश्मिभ्यः स्वाहा वसुभ्यः स्वाहा रुद्रेभ्यः स्वाहादित्येभ्यः स्वाहा मरुद्भ्यः स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा मूलेभ्यः स्वाहा शाखाभ्यः स्वाहा वनस्पतिभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहौषधीभ्यः स्वाहा ॥

22.29
पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्राय स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा परिप्लवेभ्यः स्वाहा चराचरेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा ॥

22.30
असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रिये स्वाहा गणपतये स्वाहाभिभुवे स्वाहाधिपतये स्वाहा शूषाय स्वाहा सꣳसर्पाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवा पतयते स्वाहा ॥

22.31
मधवे स्वाहा माधवाय स्वाहा शुक्राय स्वाहा शुचये स्वाहा नभसे स्वाहा नभस्याय स्वाहाहेषाय स्वाहोर्जाय स्वाहा सहसे स्वाहा सहस्याय स्वाहा तपसे स्वाहा तपस्याय स्वाहाꣳहसस्पतये स्वाहा ॥

22.32
वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहा स्वः स्वाहा मूर्ध्ने स्वाहा व्यश्नुविने स्वाहान्त्याय स्वाहान्त्याय भौवनाय स्वाहा भुवनस्य पतये स्वाहाधिपतये स्वाहा प्रजापतये स्वाहा ॥

22.33
आयुर् यज्ञेन कल्पताꣳ स्वाहा प्राणो यज्ञेन कल्पताꣳ स्वाहापानो यज्ञेन कल्पताꣳ स्वाहा व्यानो यज्ञेन कल्पताꣳ स्वाहोदानो यज्ञेन कल्पताꣳ स्वाहा समानो यज्ञेन कल्पताꣳ स्वाहा चक्षुर् यज्ञेन कल्पताꣳ स्वाहा श्रोत्रं यज्ञेन कल्पताꣳ स्वाहा वाग् यज्ञेन कल्पताꣳ स्वाहा मनो यज्ञेन कल्पताꣳ स्वाहात्मा यज्ञेन कल्पताꣳ स्वाहा ब्रह्मा यज्ञेन कल्पताꣳ स्वाहा ज्योतिर् यज्ञेन कल्पताꣳ स्वाहा स्वर् यज्ञेन कल्पताꣳ स्वाहा पृष्ठं यज्ञेन कल्पताꣳ स्वाहा यज्ञो यज्ञेन कल्पताꣳ स्वाहा ॥

22.34
एकस्मै स्वाहा द्वाभ्याꣳ स्वाहा शताय स्वाहैकशताय स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहा ॥

भाष्यम्(उवट-महीधर)

द्वाविंशोऽध्यायः।
 
तत्र प्रथमा।
तेजो॑ऽसि शु॒क्रम॒मृत॑मायु॒ष्पा आयु॑र्मे पाहि ।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒मा द॑दे ।। १ ।।
उ० अथाश्वमेधश्चतुर्भिरध्यायैः। तं प्रजापतिरपश्यत् । तेजोऽसि । सौवर्णं निष्कं प्रतिमुञ्चन्वाचयति । यस्मात्तेजस्त्वमसि शुक्रं चाग्नेः 'अग्निर्हवा अपोऽभिदध्यो' इत्युपक्रम्य 'तासु रेतः प्रासिञ्चत्तद्धिरण्यमभवत्' इति श्रुतेः । अमृतं च अग्निप्रभवत्वात् दानेनामृतत्वप्रदानाच्च । 'हिरण्यदा अमृतत्वं भजन्ते' इति श्रुतेः । आयुषश्च पाता गोपायिता । अतः त्वां प्रार्थये । आयुः मे मम पाहि । यज्ञसमाप्त्यर्थमायुः प्रार्थ्यते । रशनामादत्ते । देवस्य त्वेति व्याख्यातम् ॥१॥
म० सर्वकामस्य राज्ञोऽश्वमेधः तस्य फाल्गुनशुक्लाष्टम्यामारम्भः । 'निष्कं प्रतिमुञ्चन्वाचयति तेजोऽसीति' (का. २० । १।९)। चतुःसुवर्णनिर्मित आभरणविशेषो निष्कः । तं यजमानकण्ठे प्रतिबध्नन्नध्वर्युस्तेजोऽसीति मन्त्रं पाहीत्यन्तं वाचयति । तं च निष्कं प्रातर्होमान्ते पूर्णाहुतिं कृत्वाध्वर्यवे दद्यादिति सूत्रार्थः । चत्वारोऽध्याया अश्वमेधमन्त्रास्तेषां प्रजापतिर्ऋषिः। तेजोऽसीत्यस्य सौवर्णं निष्कं देवता । प्राजापत्यानुष्टुप् । हे निष्क, तेजोऽसि आग्नेयत्वात् । शुक्रमग्नेर्वीर्यं चासि । 'अग्निर्ह वाऽपोऽभिदध्यौ' इत्युपक्रम्य 'तासु रेतः प्रासिञ्चत्तद्धिरण्यमभवत्' इति श्रुतेः। अमृतं च वह्नितापेऽनुच्छिद्यमानद्रवत्वाधिकरणत्वात् दानेनामृतत्वप्रदानाच्च 'हिरण्यदा अमृतत्वं भजन्ते' इति श्रुतेः । आयुष्पाः आयुः पातीति आयुषो गोपायिता । अतो याचे मे ममायुः पाहि रक्ष । यज्ञसमाप्तिपर्यन्तमायुः प्रार्थ्यते 'देवस्य त्वेति रशनामादाय ब्रह्मन्नश्वं भन्त्स्यामीत्याह' ( का० २० । १ । २७) इति । देवस्यत्वेत्यादि-सरमारपन्तीत्यन्तेन मन्त्रेण त्रयोदशारत्निं दर्भमयीं द्विगुणामश्वबन्धनार्थां रशनां रज्जुमादाय ब्रह्मन्नश्वमित्यादि-तेनराध्यासमित्यन्तं मन्त्रं ब्रह्माणं प्रत्याहेति सूत्रार्थः । देवस्य त्वेति व्याख्यातम् (अ० १।क १०)॥१॥

द्वितीया ।
इ॒माम॑गृभ्णन् रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या ।
सा नो॑ अ॒स्मिन्त्सु॒त आ ब॑भूव ऋ॒तस्य॒ साम॑न्त्स॒रमा॒रप॑न्ती ।। २ ।।
उ० इमामगृभ्णन् । त्रिष्टुब्रशनादेवत्या । यामिमाम् अगृभ्णन्नगृह्णन् गृहीतवन्तः रशनां दर्भमयीम् ऋतस्य यज्ञस्य पूर्वे प्रथमे आयुषि । यज्ञारम्भे इत्यर्थः । के रशनामगृह्णन्नित्यत आह । विदथेषु कव्या यज्ञेषु कवयः । विश्वस्रष्टारो वा आद्ये सर्गे प्रजापतिप्रभृतयः । एते हि सृष्टिं यज्ञादसृजन्त । सा रशना नः अस्माकम् अस्मिन्सुते यज्ञे आबभूव आभूता उत्पन्ना। ऋतस्य सामन् संमनने यज्ञप्रारम्भे । सरं यज्ञप्रसरम् । आरपन्ती शब्दायमाना ॥२॥
म० यज्ञपुरुषदृष्टा रशनादेवत्या त्रिष्टुप् । सवनं सुतं यज्ञः भावे क्तः । नोऽस्माकमस्मिन् सुते यज्ञे सा रशना आबभूव | उत्पन्ना। कीदृशी । ऋतस्य यज्ञस्य सामन् साम्नि समारम्भे सरं प्रसरं यज्ञप्रसारमारपन्ती 'रप उक्तौ' उच्चारयन्ती । यज्ञप्रसारो भवत्विति वदन्तीत्यर्थः । सा का । विद्यते लभ्यते स्वर्गो यैस्ते विदथा यज्ञाः । विदथेषु यज्ञेषु 'विदेरथक्' इत्यथक् प्रत्ययः । कव्या कवयः विभक्तादेशः 'सुपां सुलु' (पा.७।१।३९ ) इत्यादिना। यज्ञेषु कुशलाः प्रजापत्यादयो यामिमां रशनामृतस्य यज्ञस्य पूर्वे प्रथमे आयुषि प्रारम्भे इत्यर्थः । अगृभ्णन् अगृह्णन् या पूर्वेर्गृहीता सा रशनात्रोद्भूतेत्यर्थः ॥ २॥

तृतीया ।
अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्ताऽसि॑ ध॒र्ता ।
स त्वम॒ग्निं वै॑श्वान॒रᳪं᳭ सप्र॑थसं गच्छ॒ स्वाहा॑कृतः ।। ३ ।।
उ० बध्नात्यश्वम् अभिधासि । यस्त्वम् अभिधा असि अभिधातव्योऽसि । भुवनं चासि । भुवनमाश्रयः यन्ता नियमनकर्ता चासि । धर्ता धरयिता चासि । स त्वमेवंप्रभावः सन् । अग्निं वैश्वानरम् । कथंभूतम् । सप्रथसं सर्वतः पृथुम् । तिर्यगूर्ध्वमधश्चैव महतैश्वर्येण पृथुम् । गच्छ । स्वाहाकृतः साधुहुतश्च सन् ॥३॥
म० 'तं बधानेति ब्रह्मानुज्ञातोऽभिधा असीति । बध्नात्यश्वम्' (का० २० । १।२८)तं बधान देवेभ्यः प्रजापतये तेन राध्नुहीति मन्त्रेण ब्रह्मणानुज्ञातोऽध्वर्युरभिधा असीत्यादि-स्वगात्वा-देवेभ्यः-प्रजापतय इत्यन्तेन मन्त्रेण रशनयाश्वं बध्नाति । । लिङ्गोक्तदेवतानि यजूंषि अश्वो देवताद्यस्य । हे अश्व, यस्त्वमभिधा असि अभिधीयते स्तूयत इत्यभिधाः क्विप् । भुवनं सर्वेषामाश्रयश्चासि यन्ता नियमनकर्ता चासि धर्ता जगद्धारयिता च । स एवंविधः त्वं स्वाहाकृतः स्वाहाकारेण कृतः हुतः सन् अग्निं गच्छ प्राप्नुहि । कीदृशमग्निम् । वैश्वानरं विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितम् । सप्रथसं प्रथतेरसुन्प्रत्ययः । प्रथनं प्रथो विस्तारस्तत्सहितम् । यद्वा सर्वतस्तिर्यगूर्ध्वमधश्च प्रथते सप्रथाः तम् । सर्वतःशब्दस्य सादेशः ॥ ३ ॥

चतुर्थी।
स्व॒गा त्वा॑ दे॒वेभ्य॑: प्र॒जाप॑तये॒ ब्रह्म॒न्नश्वं॑ भ॒न्त्स्यामि॑ दे॒वेभ्य॑: प्र॒जाप॑तये॒ तेन॑ राध्यासम् ।
तं ब॑धान दे॒वेभ्य॑: प्र॒जाप॑तये॒ तेन॑ राध्नुहि ।। ४ ।।
उ० स्वगा त्वा । हे अश्व, स्वगाकरोमि त्वां देवेभ्यः प्रजापतये च । स्वगाशब्दो डाजन्तः । स्वयंगामिनमित्यर्थः । ब्रह्माणमामन्त्रयते । ब्रह्मन्नश्वं भन्त्स्यामि । बध्नातेरेतद्रूपम् । अश्वस्य बन्धनं करिष्यामि । देवेभ्यः प्रजापतये च । तेन बद्धेनाहं राध्यासं राधिं प्राप्नुयाम् । राधिः कर्मपरिसमाप्तिः। ब्रह्मा प्रसौति । तं बधान यमिच्छसि तमश्वं बधान । तस्य बन्धनं कुरु । किमर्थम् । देवेभ्यः प्रजापतये च । तेन बन्धेन राध्नुहि यज्ञसमाप्तिं प्राप्नुहीत्यर्थः ॥ ४॥
म० हे अश्व, त्वा त्वां देवेभ्यः प्रजापतये च देवार्थं प्रजापत्यर्थं च स्वगा करोमीति शेषः। स्वेनैव गच्छतीति स्वगा। डाजन्तः विभक्तेर्डादेशो वा । स्वयंगामिनमित्यर्थः । ब्रह्मन्नश्वम् ब्रह्मा देवता ब्रह्माणमामन्त्रयते । हे ब्रह्मन् , अश्वं भन्त्स्यामि बन्धनं करिष्यामि । बध्नातेर्लृटि स्यपि 'एकाचो बशः' (पा. ८।२ । ३७) इति भष्त्वम् । किमर्थम् । देवेभ्यः प्रजापतये च तेनाश्वबन्धेनाहं राध्यासं 'राध संसिद्धौ' सिद्धिं कर्मसमाप्तिरूपां प्राप्नुयाम् । आशीर्लिङ् । ब्रह्मा प्रसौति तं बधान अध्वर्युदैवतं यजुः । हे अध्वर्यो, यं बन्द्धुमिच्छसि तमश्वं बधान । किमर्थम् । देवेभ्यः प्रजापतये च तेनाश्वबन्धनेन राध्नुहि सिद्धिं यज्ञसमाप्तिलक्षणां प्राप्नुहि । राधेः स्वादित्वाल्लोटि श्नुप्रत्ययः ॥ ४॥

पञ्चमी।
प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोक्षा॑मीन्द्रा॒ग्निभ्यां॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि वा॒यवे॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒
विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि॒ सर्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि ।
यो अर्व॑न्तं॒ जिघा॑ᳪं᳭सति॒ तम॒भ्य॒मीति॒ वरु॑णः| प॒रो मर्त॑: प॒रः श्वा ।। ५ ।।
उ० प्रोक्षत्यश्वम् । प्रजापतये त्वा जुष्टं प्रोक्षामीति । ऋजवः प्रोक्षणमन्त्राः । यजमानं वाचयति । यो अर्वन्तम् । गायत्री अर्धेनाश्वस्तुतिः यः पुरुषोऽर्वन्तं अश्ववचनोर्वशब्दः। अश्वं जिघांसति हन्तुमिच्छति । तम् अभ्यमीति । 'मी हिंसायाम्' हिनस्ति वरुणः श्वानं चतुरक्षम् हत्वाऽधस्पदमश्वस्योपप्लावयति। 'यस्य शुनश्चक्षुषोः समीपे पुण्ड्रे स्तः स चतुरक्ष उच्यते' परो मर्तः परः पराभूतः अधस्पदं नीतः मर्तो मनुष्यः यो अर्वन्तं जिघांसतीति । परः पराभूतश्च श्वा ॥५॥
म. 'स्थावरा अपो गत्वा प्रजापतये त्वेति प्रोक्षत्यश्वं प्रतिमन्त्रम्' (का० २० । १।३७)। ततोऽध्वर्युः स्थावरास्तडागादिस्था अपो गत्वा ताभिरद्भिः पञ्चमन्त्रैः प्रतिमन्त्रमश्वं प्रोक्षति । लिङ्गोक्तदेवतानि पञ्च यजूंषि । हे अश्व, प्रजापतये जुष्टं त्वा त्वां प्रोक्षामि सिञ्चामि । अनेन प्रोक्षणेन प्रजापतेरिवाश्वे वीर्यं दधाति । तथाच श्रुतिः प्रजापतिर्वै देवानां वीर्यवत्तमः(१३।१।२।५) इति। इन्द्राग्निभ्यां जुष्टं त्वां प्रोक्षामि। अनेनेन्द्राग्न्योरिवाश्वे ओजो दधाति। तथा च श्रुतिः इन्द्राग्नी वै देवानामोजस्वितमा ओज एवास्मिन् दधाति तस्मादश्वः पशूनामोजस्वितमः' (१३ । १।२।६) इति । वायवे जुष्टं प्रीतं त्वां प्रोक्षामि । अनेन वायोरिवाश्वे वेगं दधाति । तथाच श्रुतिः 'वायुर्वै देवानामाशिष्ठो जवमेवास्मिन्दधाति तस्मादश्वः पशूनामाशिष्ठः' (१३ । १।२।७) इति । आशिष्ठो वेगवत्तरः । विश्वेभ्यो देवेभ्यो जुष्टं त्वां प्रोक्षामि अनेनाश्वे यशो दधाति ‘विश्वे वै देवा यशस्वितमा यश एवास्मिन्दधाति तस्मादश्वः पशूनां यशस्वितमः' ( १३ । १।२। ८) इति श्रुतेः । सर्वेभ्यो देवेभ्यो जुष्टं त्वां प्रोक्षामि । अनेन सर्वा देवता अश्वे दधाति । 'सर्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामीति सर्वा एवास्मिन्देवता अश्वे अन्वायातयति' (१३ । १ । २ । ९) | इति श्रुतेः । 'यो अर्वन्तमिति वाचयति' (का० २०।२। । १)। शूद्राद्वैश्यायां जातेन पुंसा अध्वर्युप्रेरितेन चतुर्नेत्रे शुनि खादिरमुसलेन हते सति यो अर्वन्तमित्यादि-वरुण-इत्यन्तं मन्त्रं यजमानं वाचयति । गायत्री पूर्वार्धेऽश्वस्तुतिः परेऽर्धे लिङ्गोक्तदेवता । यः अर्वन्तमश्वं जिघांसति हन्तुमिच्छति 'अर्वणस्त्रसावनञः' (पा० ६।४ । १२७) इति त्रन्तादेशः । हन्तेः सन्नन्ताल्लट् । वरुणः तमश्वं जिघांसन्तमभ्यमीति हिनस्ति 'अम् हिंसायाम् एतस्य लटि 'तुरुस्तुशम्यमः' (पा० ७।३ । ९५) इति ईप्रत्ययः । 'वेतसकटेनाधोऽश्वं प्लावयति परो मर्त इति' (का० २० । २ । ४)। वेतसतरुकृतेन कटेन मृतं श्वानमश्वाधो जले तारयति । अश्वं जिघांसुर्मर्तो मनुष्यः परः पराभूतः अधस्पदं नीतः श्वा च परः पराकृतः । श्वरूपेणाश्वहन्तेव पराकृत इत्यर्थः ॥ ५॥

षष्ठी।
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॒ ऽपां मोदा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॑ वा॒यवे॒ स्वाहा॒ विष्ण॑वे॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॑ ।। ६ ।।
उ० दशाश्वस्तोमीयानि जुहोति । अग्नये स्वाहेति ऋजवो मन्त्राः ॥ ६॥
म० 'अग्निसमीपमानीयाग्नये स्वाहेति जुहोत्यनुवाकेन प्रतिमन्त्रᳪं᳭ सहस्रं वावर्तम्' ( का० २० । २ । ३ । ४ )। ततः स्थावराभ्योऽद्भ्यः सकाशादश्वमग्निपार्श्वमानीयाग्नये स्वाहेत्येककण्डिकात्मकेनानुवाकेन प्रतिमन्त्रं सकृद्गृहीत्वा जुह्वा स्तोकीयसंज्ञा दशाज्याहुतीर्जुहोति यद्वानुवाकमावर्त्यावर्त्य सहस्रमाज्याहुतीर्जुहोतीति सूत्रार्थः । दश यजूंषि लिङ्गोक्तदेवतानि । अङ्गतीत्यग्निः । सुनोतीति सोमः । अपां जलानां मोदाय मोदयति हर्षयति मोदः । सूते सविता । वातीति वायुः । वेवेष्टि व्याप्नोति विष्णुः । इन्दतीतीन्द्रः । बृहतां वेदानां पतिर्बृहस्पतिः । मिद्यति स्निह्यति मित्रः । वृणोति भक्तं भजते वरुणः । एताभिराहुतीभिरेतेभ्यो दश देवेभ्योऽश्वं ददाति । तथाच श्रुतिः 'एतावन्तो वै सर्वे देवास्तेभ्य एवैनं जुहोतीति' ( १३ । १ ।। ३ । ३) ॥६॥

सप्तमी।
हि॒ङ्का॒राय॒ स्वाहा॒ हिङ्कृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑ ऽवक्र॒न्दाय॒ स्वाहा॒ प्रोथ॑ते॒ स्वाहा॑ प्रप्रो॒थाय॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा॑ घ्रा॒ताय॒ स्वाहा॒ निवि॑ष्टाय॒ स्वाहोप॑विष्टाय॒ स्वाहा॒ सन्दि॑ताय॒ स्वाहा॒ वल्ग॑ते॒ स्वाहा ऽऽसी॑नाय॒ स्वाहा॑ शया॑नाय॒ स्वाहा॒ स्वप॑ते॒ स्वाहा॒ जाग्र॑ते॒ स्वाहा॒ कूज॑ते॒ स्वाहा॒ प्रबु॑द्धाय॒ स्वाहा॑ वि॒जृम्भ॑माणाय॒ स्वाहा॒ विचृ॑ताय॒ स्वाहा॒ सᳪं᳭हा॑नाय॒ स्वाहोप॑स्थिताय॒ स्वाहाऽऽय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहा॑ ।। ७ ।।
उ० अश्वस्य रूपाणि जुहोति। हिंकाराय स्वाहेति । एकोनपञ्चाशत् । अश्वस्य चेष्टितानि क्रियाश्चात्राभिधीयन्ते ॥७॥
म० 'दक्षिणाग्नौ जुहोति हिङ्काराय स्वाहेति प्रक्रमान्' (का० २० । ३ । ३)। एतदर्थमेवोद्धृते दक्षिणाग्नौ प्रतिमन्त्रं प्रक्रमसंज्ञान्होमानेकोनपञ्चाशज्जुहोतीत्यर्थः । अश्वस्यैकोनपञ्चाशच्चेष्टितानि व्यापाराः कण्डिकाद्वयेन । हिङ्करणं हिङ्कारस्तस्मै । हिङ्कृताय कृतं यद्धिङ्कृतं तस्मै । क्रन्दतीति क्रन्दन् । अव नीचैः क्रन्दतीत्यवक्रन्दः । प्रोथतीति प्रोथन् 'प्रोथृ पर्यापणे' । प्रकृष्टः प्रोथो घोणा यस्य 'घोणा तु प्रोथमस्त्रियाम्' । गन्धोऽस्यास्ति गन्धः । घ्रातमाघ्राणमस्यास्ति घ्रातः । निविशते निविष्टः । उपविशतीत्युपविष्टः । सम्यक् दितं लूनं खण्डनं यस्य स संदितः । वल्गतीति वल्गान् । आस्तेऽसावासीनः । शेतेऽसौ शयानः । स्वपिति स्वपन् । जाग्रतीति जाग्रत् । कूजतीति कूजन् । प्रकर्षेण बुध्यते प्रबुद्धः । विजृम्भते विजृम्भमाणः । 'चृती दीप्तौ' विशेषेण चर्तति विचृतः। संहानाय सङ्गतशरीराय । उपतिष्ठते उपस्थितः । अयतेऽयनः । प्रकृष्टमयते प्रायणः तस्मै स्वाहा ॥ ७ ॥

अष्टमी।
य॒ते स्वाहा॒ धाव॑ते॒ स्वाहो॑द्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ निष॑ण्णाय॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ ज॒वाय॒ स्वाहा॒ बला॑य॒ स्वाहा॑ वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑त्ताय॒ स्वाहा॑ विधून्वा॒नाय॒ स्वाहा॒ विधू॑ताय॒ स्वाहा॒ शुश्रू॑षमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहेक्ष॑माणाय॒ स्वाहे॑क्षि॒ताय॒ स्वाहा॒ वी॒क्षिताय॒ स्वाहा॑ निमे॒षाय॒ स्वाहा॒ यदत्ति॒ तस्मै॒ स्वाहा॒ यत् पिब॑ति॒ तस्मै॒ स्वाहा॒ यन्मूत्रं॑ क॒रोति॒ तस्मै॒ स्वाहा॑ कुर्व॒ते स्वाहा॑ कृ॒ताय॒ स्वाहा॑ ।। ८ ।।
उ० यते स्वाहा एतीति यन् तस्मै यते । स्पष्टमन्यत् ॥८॥
म० एतीति यन् । धावतीति धावन् । उत् अधिको द्रावो गतिर्यस्य स उद्द्रावः । उत् अधिकं द्रुतं यस्य स उद्द्रुतः । शू इति करोतीति शूकारः । शूकुतमस्यास्ति शुकृतः । निषीदति - निषीदन् । उत्तिष्ठते उत्थितः । जवते जवो वेगवान् । बलमस्यास्तीति बलः । विवर्तते स विवर्तमानः विवर्तते स्म विवृत्तः। | विधूनुते कम्पते स विधून्वानः । विधूयतेऽसौ विधूतः । श्रोतुमिच्छति शश्रूषमाणः 'ज्ञाश्रुस्मृदृशां सनः' (पा० १।३ । ५७ ) इति शानन् । शृणोति शृण्वन् । ईक्षते स ईक्षमाणः । । ईक्षते स्मेति ईक्षितः । विशेषेणेक्षितो वीक्षितः । निमिषति निमेषः । यत्किंचित् अत्ति तस्मै । यत् जलादिकं पिबति तस्मै पानकर्त्रे । यन्मूत्रं करोति तस्मै मूत्रयते । करोति कुर्वन् । कृतमस्यास्ति कृतः । तस्मै स्वाहेति सर्वत्र । इत्येकोनपञ्चाशत् प्रक्रमाः ॥ ८ ॥

नवमी। -
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया॑त् ।। ९ ।।
उ० अथ सावित्रीणामिष्टीनाम् । तत्सवितुरित्यादिकाः षट् याज्यानुवाक्याः सावित्र्यो गायत्र्यः । आद्या व्याख्याता ॥ ९॥
म० षडृचः सवितृदेवत्या गायत्र्याः सावित्रीणामिष्टीनां याज्यानुवाक्याः । आद्या व्याख्याता (अ० ३ । क० ३५) ॥ ९॥

दशमी।
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ।। १० ।।
उ० हिरण्यपाणिमूतये हिरण्मयौ पाणी यस्य स हिरण्यपाणिः तम् । ऊतये अवनाय । सवितारम् उपह्वये आह्वयामि । किमिति । यतः सः सविता चेत्ता सर्वार्थदृक् । महती च देवता पदं च स्थानं च ज्ञानकर्मसमुच्चयकारिणाम् ॥ १०॥
म० मेधातिथिदृष्टा । अहं सवितारमुपह्वये आह्वयामि । किमर्थम् । ऊतये अवनाय । कीदृशं सवितारम् । हिरण्यपाणिं हिरण्मयौ पाणी यस्य तम् । यतः स सविता चेत्ता चेतयिता सर्वज्ञः । देवता । पदं स्थानं ज्ञानिनाम् ॥ १० ॥

एकादशी।
दे॒वस्य॒ चेत॑तो म॒हीं प्र स॑वि॒तुर्ह॑वामहे । सु॒म॒तिᳪं᳭ स॒त्यरा॑धसम् ।। ११ ।।
उ० देवस्य चेततः । देवस्य दानादिगुणयुक्तस्य चेततः विराजमानस्य महीं महतीम् प्रहवामहे आह्वयामि । सवितुः संबन्धिनीं सुमतिं कल्याणीं मतिम् । किंभूतां मतिम् । सत्यराधसम् अनश्वरधनां सत्यसाधयित्रीं वा ॥ ११ ॥
म०. वयं सवितुः देवस्य सुमतिं शोभनां बुद्धिं प्रहवामहे प्रकर्षेण प्रार्थयामहे । कीदृशस्य सवितुः । चेततः चेततीति चेतन् तस्य जानतः । कीदृशीं सुमतिम् । महीं महतीं सत्यराधसं सत्यमनश्वरं राधो धनं यस्यास्ताम् । यद्वा सत्यं राधयति साधयति सा सत्यराधास्ताम् ॥ ११ ॥

द्वादशी।
सु॒ष्टु॒तिᳪं᳭ सु॑मती॒वृधो॑ रा॒तिᳪं᳭ स॑वि॒तुरी॑महे । प्र दे॒वाय॑ मती॒विदे॑ ।। १२ ।।
उ० सुष्टुतिं सुमतीवृधः । सुष्टुतिं शोभनां स्तुतिम् सुमतीवृधः शोभनां मतिं वर्धयतीति सुमतीवृत् तस्य सुमतीवृधः संबन्धिनीं रातिं दानं च सवितुः ईमहे याचेम। प्रदेवाय मतीविदे देवस्य मतीविदे देवस्य मतीविदः इत्युभयोः पदयोः विभक्तिव्यत्ययः ॥ १२ ॥
म०. देवाय मतिविदे इति चतुर्थ्यौ षष्ठ्यर्थे । वयं सवितुर्देवस्य सुष्टुतिं शोभनां स्तुतिं रातिं दानं च प्र ईमहे प्रकर्षेण याचामहे । 'छन्दसि परेऽपि' (पा० १।४। ८१) इति क्रियापदात्परः प्रशब्दः । कीदृशस्य सवितुः । सुमतीवृधः शोभनां मतिं वर्धयति सुमतीवृत् तस्य । संहितायामिति दीर्घः। तथा मतीविदे सर्वेषां मतिं वेत्ति मतिवित् तस्य । पूर्ववद्दीर्घः ॥ १२ ॥

त्रयोदशी ।
रा॒तिᳪं᳭ सत्प॑तिं म॒हे स॑वि॒तार॒मुप॑ ह्वये । आ॒स॒वं दे॒ववी॑तये ।। १३ ।।
उ० रातिं सत्पतिम् । 'रा दाने' । रातिनिमित्तत्वाद्रातिशब्देन सवितैवोक्तः । रातिं दानरूपम् । यद्वा राति ददातीति रातिम् । सत्पतिं सतां पालयितारम् । महे पूजयामि । सवितारम् उपह्वये आह्वयामि च । आसवम् आभिमुख्येन प्रसौति कर्माणीत्यासवः तमासवं सवितारम् । किमर्थं पूजयाम्याह्वयामि च । देववीतये देवतर्पणाय ॥ १३ ॥
म० अहं सवितारमुपह्वये आह्वयामि । महे पूजयामि च । 'मह पूजायाम्' । किमर्थम् । देववीतये देवानां तर्पणाय । कीदृशं सवितारम् । रातिं राति ददातीति रातिः तम् 'ऊतियूति-' (पा० ३ । ३ । ९७) इत्यादिना कर्तरि क्तिप्रत्ययान्तो निपातः। सत्पतिं सतांपतिं पालकम् । आसवम् आभिमुख्येन सौति कर्मण्यनुजानाति आसवस्तम् । पचाद्यजन्तः ॥ १३ ॥

चतुर्दशी।
दे॒वस्य॑ सवि॒तुर्म॒तिमा॑स॒वं वि॒श्वदे॑व्यम् । धि॒या भगं॑ मनामहे ।। १४ ।।
उ० देवस्य सवितुः मतिम् । आसवम् प्रसवरूपम् । | विश्वदेव्यं सर्वेभ्यो देवेभ्यो हितम् । धिया स्वकीयया प्रज्ञया भगं भजनीयं धनं मनामहे याचामि । द्विकर्मा चायं धातुः । तेन मतिशब्दे भगशब्दे च द्वितीया ॥ १४ ॥
म० सवितुर्देवस्य मतिं बुद्धिं प्रति वयं धिया बुद्ध्या भगं धनं मनामहे याचामहे । सवितुर्देवस्य बुद्धिरस्मासु दानतत्परा भवत्वित्यर्थः । कीदृशं भगम् । आसवम् आसौत्यनुजानाति येन आसवस्तम् । धनेन सर्वेषामाज्ञा दातुं शक्यत इत्यर्थः । | विश्वदेव्यं विश्वेभ्यो देवेभ्यो हितम् । धनेनैव देवतर्पणादित्यर्थः ॥ १४ ॥

पञ्चदशी।
अ॒ग्निᳪं᳭ स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत् ।। १५ ।।
उ० अग्निं स्तोमेन । तिस्र आग्नेय्यो गायत्र्यः । हे अध्वर्यो, अग्निं स्तोमेन स्तुतिभिः बोधय अवगतार्थं कुरु । किं कुर्वन् । समिधानः संदीपयन् । कथंभूतमग्निम् । अमर्त्यं अमरणधर्माणम् । किमर्थं पुरस्कृत्येति चेत् । हव्या हवींषि देवेषु नः अस्मत्संबन्धीनि दधत् दधातु । सह्यस्याधिकार इति ॥ १५॥
म० तिस्रः स्विष्टकृतिपुरोऽनुवाक्याः अग्निदेवत्या गायत्र्यो यथाक्रमं सुतंभरविश्वामित्रविश्वरूपदृष्टाः । हे अध्वर्यो, त्वं स्तोमेन स्तुत्या अग्निं बोधय अवगतार्थं कुरु । किं कुर्वन् । । समिधानः समिन्द्धे स समिधानः संदीपयन् । कीदृशमग्निम् । अमर्त्यं मरणधर्मरहितम् । सोऽग्निर्बोधितः सन्नोऽस्माकं हव्या हवींषि देवेषु दधत् धारयतु । अस्य सोऽधिकारोऽस्ति ॥ १५॥

षोडशी।
स ह॑व्य॒वाडम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति ।। १६ ।।
उ० स हव्यवाट् । यदोऽत्राध्याहारः तच्छब्दश्रवणात् । । यः हव्यवाट् हविषो वोढा । अमर्त्यः अमरणधर्मा । उशिक् मेधावी । दूतः देवानाम् । चनोहितः । चन इत्यन्ननाम । हविर्भूतस्यान्नस्य भक्षणार्थं हितः निहितः । सः अग्निः धिया प्रज्ञया समृण्वति संगच्छते देवैः सह हविषः तर्पणाय ॥१६॥
म० सोऽग्निर्धिया बुद्ध्या समृण्वति संगच्छते देवैः सह हविर्दानाय । कीदृशोऽग्निः । हव्यवाट् हव्यं वहतीति हविषां वोढा । अमर्त्यः मरणहीनः । उशिक् वष्टि उश्यते वा सर्वैरित्युशिक् कामनीयः मेधावी वा । दूतः देवानां दूत्यकर्ता । चनोहितः चन इत्यन्ननाम । चनसेऽन्नाय हितः हवीरूपान्नस्यादनाय स्थापितः ॥ १६ ॥

सप्तदशी।
अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे । दे॒वाँ२।। आ सा॑दयादि॒ह ।। १७ ।।
उ० अग्निं दूतम् । यम् अग्निम् दूतं देवानां दूतम् अहं पुरोदधे अग्रतः स्थापयामि । हव्यवाहं हविषो वोढारम् । तम् उपगम्य ब्रुवे ब्रवीमि । किं ब्रवीमि तदाह । देवानासादयादिह । हे अग्ने, देवान् आसादयात् आसादय इह अस्मिन्यज्ञे गृहे यागाय ॥ १७ ॥
म० यमग्निमहं पुरो दधे पुरतः स्थापयामि तं प्रति उपब्रुवे कथयामि । किं तदाह । हे अग्ने, इह यज्ञे त्वं देवानासादयात् आसादय स्थापय । कीदृशमग्निम् । दूतं देवानां हव्यवाहं हविषां वोढारम् ॥ १७ ॥

अष्टादशी।
अजी॑जनो॒ हि प॑वमान॒ सूर्यं॑ वि॒धारे॒ शक्म॑ना॒ पय॑: । गोजी॑रया॒ रᳪं᳭ह॑माण॒: पुर॑न्ध्या ।। १८ ।।
उ० अजीजनो हि । पावमानी सौमी विहृतिः अनुष्टुप् । यस्मात् अजीजनः जनितवानसि जनयसि वा हे पवमान सोम, सूर्यम् । यस्माच्च शक्मना चर्मणा पयः अपः विधारे उपरिष्टात् विधारयसि । केन हेतुना । गोजीरया जीवेरेतदूपम् । गोजीविकया हेतुभूतया । कथंनु नाम गावो जीवेयुरिति । गोभिर्हि यज्ञस्तायते प्राणिनश्च जीवन्तीति । किं कुर्वन् । रंहमाणः पुरंध्या रंहमाणः गच्छन् दशापवित्राद्द्रोणकलशं प्रति पुरन्ध्या बहुधारयित्र्या धारया । तस्मात्त्वां स्तुम इति शेषः ॥ १८॥
म० अरुणत्रसदस्युभ्यां दृष्टा पवमानदेवत्या पिपीलिकमध्या कृतिरनुष्टुप् । यस्या आद्यतृतीयौ पादौ द्वादशार्णौ द्वितीयोऽष्टार्णः सा पिपीलिकमध्या कृतिरनुष्टुप् जागतावष्टकश्च कृतिर्मध्ये चेदष्टकः पिपीलिकमध्येति वचनात् । पवमानस्तुतिः । हे पवमान, त्वं सूर्यमजीजनः उत्पादितवानसि । जनेर्णिजन्ताल्लुङ् । शक्मना शकनं शक्म 'शक्लृ शक्तौ' मनिन्प्रत्ययः । शक्मना सामर्थ्येन पयः जलं विधारे विशेषेण धारयामि वृष्टये । केन हेतुना । गोजीरया जीवनं जीरा । वस्य रेफः छान्दसः । गवां जीरा गोजीरा तया गवां जीविकाहेतुना जलं धारयसि तासां हविषा यज्ञनिष्पत्तेः प्राणिनां जीवनाच्च । कीदृशस्त्वम् । पुरन्ध्या रंहमाणः पुरं बहु दधाति पुरन्धिर्धारा तया रंहमाणः रंहत इति रंहमाणो गच्छन् । दशापवित्राद्द्रोणकलशमभिगच्छन्नित्यर्थः । विधारे विधारये विधारयसि पुरुषव्यत्ययः । धारयतेस्तङि लटि उत्तमैकवचने धारये इति प्राप्ते 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इति शितोऽप्यार्धधातुकत्वे सति ‘णेरनिटि' (पा० ६।४।११) इति शिलोपे धारे इति रूपम् ॥ १८॥

एकोनविंशी।
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राऽश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ मयो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॒सि॒ वृषा॑ऽसि नृ॒मणा॑ असि । ययु॒र्नामा॑ऽसि॒ शिशु॒र्नामा॑स्यादि॒त्यानां॒ पत्वाऽन्वि॑हि॒ देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्वं॒ मेधा॑य॒ प्रोक्षि॑तᳪं᳭ रक्षते॒ह रन्ति॑रि॒ह र॑मतामि॒ह धृति॑रि॒ह स्वधृ॑ति॒: स्वाहा॑ ।। १९ ।।
उ० अध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतः। विभूर्मात्रा। अश्व उच्यते । यस्त्वं विभूरसि विभवसि मात्रा प्रभवसि च पित्रा । 'इयं वै मातासौ ते पिता' इति श्रुतिः । अथाश्वं नामक्रियाभिः स्तौति । अश्वो महाशनस्त्वमसि । हयोऽसि 'हि गतौ' अस्य हयः । अत्योऽसि 'अत सातत्यगमने' । |मयोऽसि मय इति सुखनाम । सुखरूपोऽसि अर्वासि ऋगतावस्यार्वा । सप्तिरसि सरणोसि । वाज्यसि वेजनवानसि । वृषा सेक्ता असि । नृमणा असि नृणां मनुष्याणां यत्र मनः स नृमणाः । ययुर्नामासि ययुः एवं नामा त्वमसि । ययुर्यानशीलः । शिशुर्नामासि शिशुः एवंनामा त्वमसि शंसनीयो भवसि । अपारमार्थिको वा नामशब्दः । यस्त्वमेवंप्रभावः तं त्वां ब्रवीमि । आदित्यानां पत्वान्विहि । पत्वा पतनमार्गेण । येन यथा आदित्याः पतन्ति गच्छन्ति तमनुगच्छेत्यर्थः । रक्षिणोऽस्यादिशति । देवा आशापालाः । एतं देवेभ्यः प्रोक्षितम् अश्वम् मेधाय यज्ञाय रक्षत । चतस्रो धृतीर्जुहोति । अश्व उच्यते । इह रन्तिः रमणम् । इह रमताम् । इह धृतिः इह स्वधृतिः साधुधृतिः । इह यज्ञे हे अश्व, तव क्रीडादय इत्यर्थः ॥ १९ ॥
म०. 'अध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतो विभूर्मात्रेति' (का० २० । २ । १८ )। तृतीयायां सावित्र्यामिष्टौ समाप्तायामध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतोऽभिभूर्मात्रेति सूत्रार्थः । अश्वदैवतं यजुः अतिजगतीच्छन्दस्कम् । मात्रा पित्रेति तृतीये पञ्चम्यर्थे । हे अश्व, त्वं मात्रा मातुः पृथिव्याः सकाशात् विभूरसि विभवति विभूः समर्थोऽसि । पित्रा पितुः सकाशाद्दिवः प्रभुः समर्थोऽसि । 'इयं वै मातासौ पिता ताभ्यामेवैनं परिददाति' ( १३ । १ । ६ । १) इति श्रुतेः । अथ नामभिरश्वं स्तौति । त्वमश्वोऽसि । अश्नुते व्याप्नोति मार्गमित्यश्वः 'अशूप्रुषि-' ( उणा० १ । १५०) इत्यादिना अशेः क्वन्प्रत्ययः । अश्नाति वाश्वः । हयोऽसि हयति याति हयः 'हय गतौ' पचाद्यच् । अत्योऽसि 'अत सातत्यगमने' अततीत्यत्यः सततगामी । औणादिको यत्प्रत्ययः । मयोऽसि मयते गच्छति मयः 'यम गतौ' पचाद्यच् । यद्वा मय इति सुखनाम । सुखरूपोऽसि। अर्वासि इयर्ति गच्छतीति अर्वा 'स्रामदिपद्यर्तिपॄशकिभ्यो वनिन्' (उणा० ४ । ११४) इति ननिन्प्रत्ययः । यद्वा अर्वति हिनस्ति रिपूनित्यर्वा कनिन्प्रत्ययः । सप्तिरसि सपति सैन्येन समवैति सुप्तिः ‘सप संबन्धे' क्तिन्प्रत्ययः । वाजी असि वाजति तच्छीलो वाजी । 'वज गतौ' अनेकगतिसूचनाय पुनः पुनर्गत्युक्तिः । यद्वा वाजाः पक्षा अभूवन्नस्येति वाजी । वृषासि वर्षति सिञ्चति वृषा 'कनिन्युवृषि-' ( उणा० १।१५५) इत्यादिना कनिन्प्रत्ययः । नृमणा असि नृषु यजमानेषु मनो यस्य स नृमणाः । नाम नाम्ना ययुरसि । अत्यर्थं याति ययुः 'ययुरश्वोऽश्वमेधीयः' इत्यभिधानात् 'यो द्वे च' (उणा० १।२१) इत्युप्रत्ययः । किंच नाम्ना शिशुरसि । श्यति कृशं करोति स्तनमिति शिशुः 'शः कित्सन्वच्च' (उणा० १ । २०) उप्रत्ययः सन्वद्भावाद् द्वित्वमभ्यासस्येकारश्च । एवंविधनामा त्वमादित्यानामदितेरपत्यानां देवानां पत्वा मार्गमन्विहि । पतन्ति गच्छन्ति यत्र स पत्वा मार्गः 'स्रामदि-' ( उणा० ४ । ११४ ) इत्यादिना वनिन्प्रत्ययः। आदित्या येन पथा गच्छन्ति तमनुगच्छ । देवा आशापाला इति रक्षिणोऽस्यादिशत्यनुचरीजातीयास्तावतस्तावतः कवचिनिषङ्गिकलापिदण्डिनो यथासंख्यम् (का० २० । २ । २०) । चतुर्विंशतिवार्षिकाश्वशतमध्यस्थस्यैशान्यामुत्सृष्टस्य रक्षकान्नरानादिशति । कीदृशान् । अनुचरीसजातीयान् तावतोऽनुचरीसंख्यान् तेन शतं राजपुत्रान् शतं क्षत्रियपुत्रान् शतं सूतग्रामण्यां पुत्रान् । सूता अश्वपोषकास्तेषां मध्ये ग्रामण्यो मुख्यास्तत्सुतानित्यर्थः । शतं क्षात्रसंग्रहीतॄणां पुत्रान् । क्षत्तार आयव्ययाध्यक्षास्तत्समूहः क्षात्रं तत्राधिकृताः क्षात्रसंगृहीतारस्तत्सुतान् क्रमात्कवचिनिषङ्गिकलापिदण्डिनः तेन राजपुत्राः संनाहवन्तः क्षत्रियपुत्रा निषङ्गिणः सखड्गाः सूतग्रामणीपुत्रा इषुधिमन्तः क्षात्रसंग्रहीतृपुत्राः । वंशादिदण्डधरा इत्यर्थः । वडवाभ्यो जलस्नानाच्चाश्ववारणम् वर्षमश्वरक्षणम् तावद्यजमानो वावातोर्वोः शेते सावित्रीः कारयति वीणागानं पारिप्लवशस्त्रपाठं धृतिहोमं चेत्यादि ज्ञेयमिति सूत्रार्थः । देवदेवत्यं यजुः ऋगुष्णिक् । आशा दिशः पालयन्तीति आशापाला हे देवाः, यूयमेतमश्वं रक्षत । कीटशम् । मेधाय यागाय प्रोक्षितं प्रोक्षणेन संस्कृतम् । राजपुत्रादय एवाशापालाः । तदुक्तम् 'शतं वै तल्प्या राजपुत्रा आशापालास्तेभ्य एवैनं परिददातीति' (१३ । १।६। २)। 'आहवनीयेऽस्तमिते चतस्रो धृतीरिह रन्तिरिति' (का० २० । ३। ४) । अस्तमितेऽर्केऽग्निहोत्रहोमात् प्रागग्निहोत्राद्धृते आहवनीयेऽसौ चतस्रो धृतिसंज्ञा आहुतीः प्रतिमन्त्रं जुहोति वर्षपर्यन्तं प्रत्यहम् एवं चत्वारिंशदधिका चतुर्दशशती भवति । तथाच श्रुतिः 'संवत्सरमाहुतीर्जुहोति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनं बध्नातीति' ( १३ । १। ६ । २)। चत्वारि यजूंषि अग्निदेवत्यानि । चतुर्थमन्त्रान्ते स्वाहाकारश्रवणात्रिष्वपि स्वाहाकारः प्रयोज्यः । अश्वं प्रत्युच्यते । हे अश्व, इह रन्तिः रमणं तेऽस्तु । इह भवान् रमताम् । इह ते धृतिः सन्तोषोऽस्तु । इह यज्ञे स्वधृतिः स्वा निजा धृतिर्धारणमस्तु स्वाहा ॥ १९ ॥

विंशी।
काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहा॒ स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहा॒ स्वाहा॒ मन॑: प्र॒जाप॑तये॒ स्वाहा॑ चि॒त्तं विज्ञा॑ता॒यादि॑त्यै॒ स्वाहा ऽदि॑त्यै मह्यै॒ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॒ सर॑स्वत्यै बृहत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॒य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा॒ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒ विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ विष्ण॑वे शिपिवि॒ष्टाय॒ स्वाहा॑ ।। २० ।।
उ० औद्ग्रभणानि जुहोति । काय स्वाहा । कस्मै स्वाहा । कतमस्मै स्वाहा । स्वाहाधिमाधीताय । पूर्वं स्वाहाकारान्तास्तिस्र आहुतयः प्राजापत्याः । आधिमाध्यानम् । चतुर्थी चात्र कर्तव्या । आधये स्वाहेति । आधीताय स्वाहा । चित्तं विज्ञाताय । चित्तायेति विभक्तिव्यत्ययः । | मनः मनसे इति विभक्तिव्यत्ययः । प्राजापत्याय स्वाहा । अदित्यै मह्यै । 'मह पूजायाम्' पूजितायै अदित्यै सुमृडीकायै 'मृड सुखने' । सुख यित्र्यै सरस्वत्यै स्वाहा । सरस्वत्यै पावकायै पावयित्र्यै । सरस्वत्यै बृहत्यै महत्यै । पूष्णे स्वाहा पूष्णे प्रपथ्याय । प्रगतः पन्थाः प्रपथः तत्र भवः प्रपथ्यः । पूष्णे नरन्धिषाय । नरान् दधाति धारयतीति नरन्धिषः । त्वष्ट्रे स्वाहा । त्वष्ट्रे तुरीपाय । तूर्णं पाति रक्षतीति तुरीपः । त्वष्ट्रे पुरुरूपाय बहुरूपाय विष्णवे स्वाहा । विष्णवे निभूयपाय । नीचैर्भूत्वा यः पाति स निभूयपः । विष्णवे शिपिविष्टाय । शिपिं पशुं यज्ञस्य वेष्टयति साधुं करोतीति शिपिविष्टः ॥ २० ॥
म० 'काय स्वाहेति चाश्वमेधिकानि' ( का० २० । ४ । ३-५) त्रीणि कृष्णाजिनदीक्षातोऽध्वरदीक्षणीयायाश्चत्वारि त्रीणि त्रीणि चाश्वमेधिकानि । चत्वार्याध्वरिकाण्यौद्ग्रभणानि हुत्वा काय स्वाहेत्याश्वमेधिकानि त्रीण्यौद्ग्रभणानि जुहुयात् अत औद्ग्रभणहोमानन्तरं दीक्षणीयाशेषं समाप्य कृष्णाजिनदीक्षा तत्रोपवेशनान्ता कर्तव्या । 'सप्ताहं प्रचरन्ति' (१३ । १। | ७।२) इति श्रुतेः सप्ताहं दीक्षणीया कार्या । तत्र प्रत्यहं कर्तव्यमाह । अध्वरदीक्षणीयायाश्चत्वारि चत्वार्यौद्ग्रभणानि आकूत्यै प्रयुजे इत्यादीनि ( ४ । ७) त्रीणि त्रीणि चाश्वमेधिकानि काय स्वाहेति कण्डिकापठितानि प्रत्यहमन्यान्यन्यानि पाठक्रमेण एवं सप्त-सप्त प्रत्यहं हूयन्ते । काय स्वाहेति कण्डिकायां सप्त त्रिकाणि पठितानि तन्मध्ये सप्तस्वहःसु क्रमेणैकैकं त्रिकं हूयते तत्र द्वितीयत्रिके स्वाहाकाराद्यं मन्त्रत्रयं स्वाहाधिमाधीतायेत्यादीति सूत्रार्थः । औद्ग्रभणसंज्ञानि यजूंषि लिङ्गोक्तदेवतानि । काय प्रजापतये सुहुतमस्तु । कस्मै प्रजापतये कतमस्मै प्रजापतिश्रेष्ठाय । आधिमाधानमाधीताय प्राप्ताय मनः मनसि वर्तमानाय प्रजापतये चित्तं विज्ञाताय सर्वेषां चित्तसाक्षिणे । अदित्यै अखण्डितायै मह्यै पूज्यायै अदित्यै सुमृडीकायै सुखयित्र्यै अदित्यै । सरस्वत्यै वागधिष्ठात्र्यै पावयति पावका तस्यै शोधयित्र्यै सरस्वत्यै बृहत्यै महत्यै सरस्वत्यै । पूष्णे प्रपथ्याय प्रगतः पन्थाः प्रपन्थाः तत्र भवः प्रपथ्यः तस्मै पूष्णे । नरन्धिषाय ‘धिष् शब्दे' ह्वादिर्वैदिकः । नरं दिधेष्टि शब्दयति उदयेन स नरन्धिषः तस्मै पूष्णे ‘इगुपध-' (पा० ३ । १ । १३५) इति कः । त्वष्ट्रे त्वक्षति तनूकरोति त्वष्टा तस्मै । तुरीपाय 'तुर वेगे' तस्य रूपम् । तुरी वेगस्तं पाति रक्षति तुरीपस्तस्मै । त्वष्ट्रे पुरुरूपाय पुरूणि बहूनि रूपाणि यस्य तस्मै त्वष्ट्रे । वेवेष्टि व्याप्नोति विष्णुस्तस्मै निभूयपाय नितरां भूत्वा मत्स्याद्यवतारं कृत्वा पाति निभूयपस्तस्मै विष्णवे शिपिषु पशुषु प्राणिषु विष्टः प्रविष्टोऽन्तर्यामिरूपेण शिपिविष्टस्तस्मै विष्णवे। एते औद्ग्रभणमन्त्राः॥२०॥

एकविंशी ।
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् ।
विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।। २१ ।।
उ० विश्वो देवस्येति व्याख्यातम् ॥ २१ ॥
म० 'षडाग्निकानि चतुःस्थाने दशमं विश्वो देवस्येति' (का० २० । ४ । ९ । १०) । सप्तम्यां दीक्षणीयायामयं विशेषः । प्रत्ययानि चत्वार्यौद्ग्रभणान्याध्वरिकाणि हूयन्ते तेषां चतुर्णां स्थाने षडाग्निकानि आकूतिं प्रयुजमग्निᳪं᳭ स्वाहेति (११ । ६६) हुत्वाश्वमेधिकानि च त्रीणि विष्णवे स्वाहेत्यादीनि हुत्वा विश्वो देवस्येति दशममौद्ग्रभणं जुहोतीति सूत्रार्थः । व्याख्याता (अ० ४ । क. ८) ॥२१॥

द्वाविंशी।
आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा रा॒ष्ट्रे रा॑ज॒न्यः शूर॑ इष॒व्योऽतिव्या॒धी म॑हार॒थो जा॑यतां॒ दोग्ध्री॑ धे॒नुर्वोढा॑न॒ड्वाना॒शुः सप्ति॒: पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवास्य यज॑मानस्य वी॒रो जा॑यतां॒ निका॒मे-नि॑कामे नः प॒र्जन्यो॑ वर्षतु॒ फल॑वत्यो न॒ ओष॑धयः पच्यन्तां योगक्षे॒मो न॑: कल्पताम् ।। २२ ।।
उ० जपति । आब्रह्मन् आ जायतां हे ब्रह्मन् , ब्राह्मणः ब्रह्मवर्चसी । यज्ञाध्ययनशीलो ब्राह्मण आजायतामित्यर्थः । राष्ट्रे । आजायतां च राष्ट्रे राजन्यः शूरः इषव्यः इषुभिः विध्यति इषव्यः इषुषु वा साधुः इषव्यः । अतिव्याधी महारथः । अतिविध्यति द्विषन्तमित्यतिव्याधी । महारथश्च | दोग्ध्री धेनुः राष्ट्रे आजायतामिति सर्वत्र संबन्धः । वोढा अनड्वान् आशुः शीघ्रः सप्तिरश्वः । पुरन्धिर्योषा । पुरं शरीरं रूपादिगुणसमन्वितं धारयतीति पुरन्धिः । जिष्णू रथेष्ठाः। जयनशीलः रथे तिष्ठतीति रथेष्ठाः युयुत्सुः सभेयो युवा । सभामर्हति विद्यागुणचरित्रैः सभेयः युवा आ अस्य यजमानस्य आजायतां चास्य यजमानस्य धीरः पुत्रः । किंच निकामे निकामे नः पर्जन्यो वर्षतु प्रार्थनायामवश्यं भवतीति निकामः । अभ्यासो वीप्सार्थः । अस्माकं राष्ट्र इत्यर्थः । फलवत्य अतिशयेन फलयुक्ताः नोऽस्माकं राष्ट्रे ओषधयः पच्यन्ताम् । योगक्षेमो नः कल्पताम् । योगो द्रव्यादीनां संयोगः क्षेमस्तेषामेव परिपालनम् । योगश्च क्षेमश्चास्माकं क्लृप्तो भवतु । योगश्च क्षेमश्चेति द्वन्द्वः । तत्र नपुंसकलिङ्गता वा स्यात् द्विर्वचनं वा इति । तत्र छान्दसो विसर्जनीयो द्रष्टव्यः ॥२२॥
म० 'कृष्णाजिनाद्या समिदाधानात् कृत्वा ब्रह्मन्निति जपत्युत्सर्गकाल एके' (का० २० । ४ । ११) । कृष्णाजिनदीक्षात आरभ्योखायां त्रयोदशसमिदाधानान्तं कृत्वाध्वर्युरेव ब्रह्मन्निति जपति उत्सर्गैरुपतिष्ठत इत्युत्सर्गोपस्थानकाले एके आ ब्रह्मन्निति जपमिच्छन्ति । यद्वाश्वस्योत्सर्गकाले विभूर्मात्रेति जपानन्तरमित्यर्थः । लिङ्गोक्तदेवता उत्कृतिः । हे ब्रह्मन् , राष्ट्रेऽस्मद्देशे ब्रह्मवर्चसी यज्ञाध्ययनशीलो ब्राह्मणः आजायतामुत्पद्यताम् । राजन्यः क्षत्रियश्चेदृश आजायताम् । कीदृशः । शूरः पराक्रमी । 'शूर विक्रान्तौ' शूरयति शूरः इषव्यः इषुभिर्विध्यतीति इषव्यः । यद्वा इषौ कुशलः इषव्यः । अतिव्याधी अत्यन्तं विध्यतीत्यतिव्याधी शत्रुभेदनशीलः । महारथः एकः सहस्रं यजति स महारथः । दोग्ध्री दुग्धपूरयित्री धेनुः आजायतां राष्ट्रे इति सर्वत्र संबन्धः । अनड्वान् वृषभो वोढा वहनशीलो जायताम् । सप्तिरश्व आशुः शीघ्रगामी जायताम् । | योषा स्त्री पुरन्धिः पुरं शरीरं सुर्वगुणसंपन्नं दधाति पुरन्धिः । रथे तिष्ठतीति रथेष्टाः क्विप् सप्तम्या अलुक् । रथे स्थितो युयुत्सुर्नरो जिष्णुः जयनशीलो जायताम् । युवा आ अस्येति पदच्छेदः । अस्य यजमानस्य युवा समर्थः सभेयः सभायां योग्यो वीरः पुत्रो जायताम् । सभायां साधुः सभेयः 'ढच्छन्दसि' (पा० ४ । ४ । १०६) इति सभाशब्दात्तत्र साधुरित्यर्थे ढप्रत्ययः । तस्य ण्यादेशः। किंच नोऽस्माकं राष्ट्रे पर्जन्यो निकामे निकामे नितरां कामनायां सत्यां वर्षतु । अभ्यासो वीप्सार्थः । नोऽस्माकमोषधयः यवाद्याः फलवत्यः फलयुक्ताः पच्यन्तां स्वयमेव पक्वा भवन्तु । नोऽस्माकं योगक्षेमः कल्पतां योगेन युक्तः क्षेप्तो योगक्षेमः स क्लृप्तो भवतु । अलब्धलाभो योगः । लब्धस्य परिपालनं क्षेमः ॥ २२ ॥

त्रयोविंशी।
प्रा॒णाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॒ चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॑ वा॒चे स्वाहा॒ मन॑से॒ स्वाहा॑ ।। २३ ।।
उ० 'आज्यसक्तुधानालाजानामेकैकं जुहोति प्राणाय स्वाहेति प्रतिमन्त्रं सर्वरात्रमावर्तम्' ॥ २३ ॥
म० 'आज्यसक्तुधानालाजानामेकैकं जुहोति प्राणाय स्वाहेति प्रतिमन्त्रᳪं᳭ सर्वरात्रमावर्तम्' (का० २० । ४ । ३१) । आज्यादीनां प्रतिप्रहरमेकैकं क्रमेण सर्वरात्रमुत्तरवेदिस्थाग्नौ जुहोति प्राणाय स्वाहेत्यादिद्वादशकण्डिकात्मकैरनुवाकैः । किं कृत्वा। आवर्तम् प्राणाय स्वाहेत्यादिकमेकशताय स्वाहेत्यन्तं मन्त्रगणमावर्त्यावर्त्य सर्वरात्रमिति द्वितीयाग्रहणाद्धोमक्रियाया रात्रेः कार्त्स्न्येन संयोगः कार्यः । ततः प्रथमयामे घृतेन यागः द्वितीये सक्तुभिः तृतीये धानाभिः चतुर्थे लाजैः । एकस्मै इति द्वादशेऽनुवाके (३४) एकस्मै स्वाहा द्वाभ्याᳪं᳭ स्वाहेत्यत्र त्रिभ्यः स्वाहा चतुर्भ्यः स्वाहा पञ्चभ्यः स्वाहा षड्भ्यः स्वाहा सप्तभ्यः स्वाहा अष्टभ्यः खाहा नवभ्यः स्वाहेत्येवमादयो मन्त्रा अपठिता अपि ककैकोच्चयेन शतपर्यन्ताः प्रयोज्याः । ‘एकोत्तरा जुहोति' (१३ । २।१ । ५) इति श्रुतेः । व्युष्टायां समाप्तायां रात्रौ व्युष्ट्यै स्वाहेति घृताहुतिमेकामुदिते सूर्ये स्वर्गाय स्वाहेति च जुहोतीति सूत्रार्थः । लिङ्गोक्तदेवतानि यजूंषि । प्राणादय इन्द्रियदेवाः ॥ २३ ॥

चतुर्विंशी।
प्राच्यै॑ दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहा॒ दक्षि॑णायै दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहा॑ प्र॒तीच्यै॑ दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहोदी॑च्यै दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहो॒र्ध्वायै॑ दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहा ऽर्वा॑च्यै दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहा॑ ।। २४ ।।
उ० प्राच्यै । दिग्देवताः ॥ २४ ॥
म० प्राच्यै । दिग्देवताः ॥ २४ ॥

पञ्चविंशी।
अ॒द्भ्यः स्वाहा॑ वा॒र्भ्यः स्वाहो॑द॒काय॒ स्वाहा॒ तिष्ठ॑न्तीभ्य॒: स्वाहा॒ स्रव॑न्तीभ्य॒: स्वाहा॒ स्यन्द॑मानाभ्य॒: स्वाहा॒ कूप्या॑भ्य॒: स्वाहा॒ सूद्या॑भ्य॒: स्वाहा॒ धार्या॑भ्य॒: स्वाहा॑ ऽर्ण॒वाय॒ स्वाहा॑ समु॒द्राय॒ स्वाहा॑ सरि॒राय॒ स्वाहा॑ ।। २५ ।।
उ० अद्भ्यः । जलदेवताः ॥ २५ ॥
म० अद्भ्यः । जलदेवताः ॥ २५॥

षड्विंशी।
वाता॑य॒ स्वाहा॑ धू॒माय॒ स्वाहा॒ ऽभ्राय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ स्त॒नय॑ते॒ स्वाहा॑ ऽव॒स्फूर्ज॑ते॒ स्वाहा॒ वर्ष॑ते॒ स्वाहा॑ ऽव॒वर्ष॑ते॒ स्वाहो॒ग्रं वर्ष॑ते॒ स्वाहा॑ शी॒घ्रं वर्ष॑ते॒ स्वाहो॑द्गृह्ण॒ते स्वाहोद्गृ॑हीताय॒ स्वाहा॑ प्रुष्ण॒ते स्वाहा॑ शीकाय॒ते स्वाहा॒ प्रुष्वा॑भ्य॒: स्वाहा॑ ह्रा॒दुनी॑भ्य॒: स्वाहा॑ नीहा॒राय॒ स्वाहा॑ ।। २६ ।।
उ० वाताय । मेघोपयोगिदेवताः ॥ २६ ॥
म० वाताय । मेघोपयोगिदेवताः ॥ २६ ॥

सप्तविंशी।
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेन्द्रा॑य॒ स्वाहा॑ पृथिव्यै॒ स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ दि॒ग्भ्यः स्वाहा ऽऽशा॑भ्य॒: स्वाहो॒र्व्यै॒ दि॒शे स्वाहा॒ ऽर्वाच्यै॑ दि॒शे स्वाहा॑ ।। २७ ।।
उ० आग्नये । अग्न्यादयः प्रसिद्धाः ॥ २७ ॥
म. आग्नये । अग्न्यादयः प्रसिद्धाः ॥ २७ ॥

अष्टाविंशी।
नक्ष॑त्रेभ्य॒: स्वाहा॑ नक्ष॒त्रिये॑भ्य॒: स्वाहा॑ ऽहोरा॒त्रेभ्य॒: स्वाहा॑ ऽर्धमा॒सेभ्य॒: स्वाहा॒ मासे॑भ्य॒: स्वाहा॑ ऋ॒तुभ्य॒: स्वाहा॑ ऽऽर्त॒वेभ्य॒: स्वाहा॑ संवत्स॒राय॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ᳪं᳭ स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ र॒श्मिभ्य॒: स्वाहा॒ वसु॑भ्य॒: स्वाहा॑ रु॒द्रेभ्य॒: स्वाहा॑ ऽऽदि॒त्येभ्य॒: स्वाहा॑ म॒रुद्भ्य॒: स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्य॒: स्वाहा॒ मूले॑भ्य॒: स्वाहा॒ शाखा॑भ्य॒: स्वाहा॒ वन॒स्पति॑भ्य॒: स्वाहा॒ पुष्पे॑भ्य॒: स्वाहा॒ फले॑भ्य॒: स्वाहौष॑धीभ्य॒: स्वाहा॑ ।। २८ ।।
उ० नक्षत्रेभ्यः । नक्षत्रादयः कालाधिष्ठात्र्यः ॥२८॥
म० नक्षत्रेभ्यः । नक्षत्रादयः कालाधिष्ठात्र्यः ॥ २८ ॥

एकोनत्रिंशी ।।
पृ॒थि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ नक्ष॑त्रेभ्य॒: स्वाहा॒ ऽद्भ्यः स्वाहौ॑षधीभ्य॒: स्वाहा॒ वन॒स्पति॑भ्य॒: स्वाहा॑ परिप्ल॒वेभ्य॒: स्वाहा॑ चराच॒रेभ्य॒: स्वाहा॑ सरीसृ॒पेभ्य॒: स्वाहा॑ ।। २९ ।।
उ० पृथिव्यै । पृथिव्यादयो लोकाधिष्ठात्र्यः ॥ २९ ॥
म० पृथिव्यै । पृथिव्यादयो लोकाधिष्ठात्र्यः ॥ २९ ॥

त्रिंशी।
अस॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ वि॒भुवे॒ स्वाहा॒ विव॑स्वते॒ स्वाहा॑ गण॒श्रिये॒ स्वाहा॑ ग॒णप॑तये॒ स्वाहा॑ ऽभि॒भुवे॒ स्वाहा ऽधि॑पतये॒ स्वाहा॑ शू॒षाय॒ स्वाहा॑ सᳪं᳭स॒र्पाय॒ स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ ज्योति॑षे॒ स्वाहा॑ मलिम्लु॒चाय॒ स्वाहा॒ दिवा॑ प॒तय॑ते॒ स्वाहा॑ ।। ३० ।।
उ० असवे । अस्वादयश्च ॥ ३० ॥
म० असवे । अस्वादयश्च ॥ ३० ॥

एकत्रिंशी।
मध॑वे॒ स्वाहा॒ माध॑वाय॒ स्वाहा॑ शु॒क्राय॒ स्वाहा॒ शुच॑ये॒ स्वाहा॒ नभ॑से॒ स्वाहा॑ नभ॒स्या॒य॒ स्वाहे॒षाय॒ स्वाहो॒र्जाय॒ स्वाहा॒ सह॑से॒ स्वाहा॑ सह॒स्या॒य॒ स्वाहा॒ तप॑से॒ स्वाहा॑ तप॒स्या॒य॒ स्वाहा॑ ऽᳪं᳭हसस्प॒तये॒ स्वाहा॑ ।। ३१ ।।
उ० मधवे । मध्वादयो मासाधिष्ठातारः ॥ ३१ ॥
म० मधवे । मध्वादयो मासाधिष्ठातारः ॥ ३१ ॥

द्वात्रिंशी।
वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑ ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ स्व: स्वाहा॑ मू॒र्ध्ने स्वाहा॑ व्यश्नु॒विने॒ स्वाहा ऽन्त्या॑य॒ स्वाहा ऽन्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहा ऽधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ ।। ३२ ।।
उ० वाजाय । वाजादयोऽन्नाधीशाः ॥ ३२ ॥
म० वाजाय । वाजादयोऽन्नाधीशाः ॥ ३२ ॥

त्रयस्त्रिंशी।
आयु॑र्य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॑ प्रा॒णो य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॑ ऽपा॒नो य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॑ व्या॒नो य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहो॑दा॒नो य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॑ समा॒नो य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॒ वाग्य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॒ मनो॑ य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॒ ऽऽत्मा य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॑ ब्र॒ह्मा य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॒ ज्योति॑र्य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॒ स्व॒र्य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॑ पृ॒ष्ठं य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॑ य॒ज्ञो य॒ज्ञेन॑ कल्पता॒ᳪं᳭ स्वाहा॑ ।। ३३ ।।
उ० आयुः । यज्ञेनाश्वमेधेनायुः कल्पताम् । एवमग्रेऽपि प्रार्थनामन्त्राः ॥ ३३ ॥
म. आयुः । यज्ञेनाश्वमेधेनायुः कल्पताम् । एवमग्रेऽपि प्रार्थनामन्त्राः ॥ ३३ ॥

चतुस्त्रिंशी।
एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒ᳪं᳭ स्वाहा॑ श॒ताय॒ स्वाहैक॑शताय॒ स्वाहा॒ व्यु॒ष्ट्यै॒ स्वाहा॑ स्व॒र्गाय॒ स्वाहा॑ ।। ३४ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां द्वाविंशोऽध्यायः ॥ २२॥
उ० व्युष्ट्या इति व्युष्ट्यम् स्वर्गायेत्युदिति । प्राणायस्वाहेत्यारभ्य द्वादशभिः कण्डिकासंमितैरनुवाकैर्देवता उक्ताः आज्यादिहविर्भिः । एते सर्वे एव यागाः महतो यज्ञस्य लोककालाग्न्यादिवपुषोऽवयविनोऽवयवभूताः । यथा देवदत्तस्यावयविनोऽवयवभूताः शिरःपाण्यादयः एवं सोऽयमश्वमेधः प्रजापतेरवयविनोऽवयवभूतः । प्रजापतेश्चात्मनः सोऽयमात्मा । शाखाप्रशाखागतः स्तूयते हूयते च ज्ञानकर्मसमुच्चयकारिभिर्यजमानैः । एकस्मै स्वाहा द्वाभ्या ᳪं᳭ स्वाहेति प्रकारदर्शनम् । त्रिभ्यः स्वाहा चतुर्भ्यः स्वाहेति एकशतात् ॥ ३४॥
इति उवटकृतौ मन्त्रभाष्ये द्वाविंशोऽध्यायः ॥ २२ ॥
म० एकस्मै । संख्याधीशाः । व्युष्टी रात्रिः स्वर्गो दिनम् । 'रात्रिर्वै व्युष्टिरहः स्वर्गोऽहोरात्रे एव तत् प्रीणाति' ( १३ । २।१।६) इति श्रुतेः । प्राणादयोऽश्वमेधस्यावयविनोऽवयवाः स च प्रजापतेरवयवः स आत्मन इत्यात्मैव स्तूयते इज्यते इति भावः । 'सर्वमिदं यदयमात्मा'इति श्रुतेः ॥ ३४ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
अश्वमेधाहुतिर्नाम द्वाविंशोऽध्याय ईरितः ॥ २२ ॥


[सम्पाद्यताम्]