शुक्लयजुर्वेदः/अध्यायः २३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २२ शुक्लयजुर्वेदः
अध्यायः २३
[[लेखकः :|]]
अध्यायः २४ →

अध्यायः 23
आश्वमेधिकाहुति मन्त्राः

23.1
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक ऽ आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥

23.2
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि ।
एष ते योनिः सूर्यस् ते महिमा ।
यस् ते ऽहन्त् संवत्सरे महिमा संबभूव यस् ते वायाव् अन्तरिक्षे महिमा संबभूव यस् ते दिवि सूर्ये महिमा संबभूव तस्मै ते महिम्ने प्रजापतये स्वाहा देवेभ्यः ॥

23.3
यः प्राणतो निमिषतो महित्वैक ऽ इद् राजा जगतो बभूव ।
य ऽ ईशे ऽ अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥

23.4
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि ।
एष ते योनिश् चन्द्रस् ते महिमा ।
यस् ते रात्रौ संवत्सरे महिमा संबभूव यस् ते पृथिव्याम् अग्नौ महिमा संबभूव यस् ते नक्षत्रेषु चन्द्रमसि महिमा संबभूव तस्मै ते महिम्ने प्रजापतये देवेभ्यः स्वाहा ॥

23.5
युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥

23.6
युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा ॥

23.7
यद् वातो ऽ अपो ऽ अगनीगन् प्रियाम् इन्द्रस्य तन्वम् ।
एतꣳ स्तोतर् अनेन पथा पुनर् अश्वम् आ वर्तयासि नः ॥

23.8
वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा ।
रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसा ।
आदित्यास् त्वाञ्जन्तु जागतेन छन्दसा ।
भूर् भुवः स्वर् लाजी3ञ् छाची3न् यव्ये गव्यऽ एतद् अन्नम् अत्त देवा ऽ एतद् अन्नम् अद्धि प्रजापते ॥

23.9
कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः ।
किꣳ स्विद्धिमस्य भेषजं किम् व् आवपनं महत् ॥

23.10
सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः ।
अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥

23.11
का स्विद् आसीत् पूर्वचित्तिः किꣳ स्विद् आसीद् बृहद् वयः ।
का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥

23.12
द्यौर् आसीत् पूर्वचित्तिः अश्व ऽ आसीद् बृहद् वयः ।
अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला ॥

23.13
वायुष् ट्वा पचतैर् अवतु ।
असितग्रीवश् छागैः ।
न्यग्रोधश् चमसैः ।
शल्मलिर् वृद्ध्या ।
एष स्य राथ्यो वृषा ।
पड्भिश् चतुर्भिर् एद् अगन् ।
ब्रह्माकृष्णश् च नो ऽवतु ।
नमो ऽग्नये ॥

23.14
सꣳशितो रश्मिना रथः सꣳशितो रश्मिना हयः ।
सꣳशितो अप्स्व् अप्सुजा ब्रह्मा सोमपुरोगवः ॥

23.15
स्वयं वाजिꣳस् तन्वं कल्पयस्व स्वयं यजस्व स्वयं जुषस्व ।
महिमा ते ऽन्येन न संनशे ॥

23.16
न वा ऽ उ ऽ एतन् म्रियसे न रिष्यसि देवाꣳ२ऽ इद् एषि पथिभिः सुगेभिः ।
यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु ॥

23.17
अग्निः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्न् अग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ।
वायुः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ।
सूर्यः पशुर् आसीत् तेनायजन्त स ऽ एतं लोकम् अजयद् यस्मिन्त् सूर्यः स ते लोको भविष्यति तं जेष्यसि पिबैता ऽ अपः ॥

23.18
प्राणाय स्वाहा ।
अपानाय स्वाहा ।
व्यानाय स्वाहा अम्बे ऽ अम्बिके ऽम्बालिके न मा नयति कश् चन ।
ससस्त्य् अश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥

23.19
गणानां त्वा गणपतिꣳ हवामहे प्रियाणां त्वा प्रियपतिꣳ हवामहे निधीनां त्वा निधिपतिꣳ हवामहे वसो मम ।
आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् ॥

23.20
ता ऽ उभौ चतुरः पदः सम्प्र सारयाव स्वर्गे लोके प्रोर्णुवाथां वृषा वाजी रेतोधा रेतो दधातु ॥

23.21
उत्सक्थ्या ऽ अव गुदं धेहि सम् अञ्जिं चारया वृषन् ।
य स्त्रीणां जीवभोजनः ॥

23.22
यकासकौ शकुन्तिकाहलग् इति वञ्चति ।
आ हन्ति गभे पसो निगल्गलीति धारका ॥

23.23
यको ऽसकौ शकुन्तक ऽ आहलग् इति वञ्चति ।
विवक्षत ऽ इव ते मुखम् अध्वर्यो मा नस् त्वम् अभि भाषथाः ॥

23.24
माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः ।
प्रतिलामीति ते पिता गभे मुष्टिम् अतꣳसयत् ॥

23.25
माता च ते पिता च ते ऽग्रे वृक्षस्य क्रीडतः ।
विवक्षत ऽइव ते मुखं ब्रह्मन् मा नस् त्वं वदो बहु ॥

23.26
ऊर्ध्वम् एनाम् उच्छ्रापय गिरौ भारꣳ हरन्न् इव ।
अथास्यै मध्यम् एधताꣳ शीते वाते पुनन्न् इव ॥

23.27
ऊर्ध्वम् एनम् उच्छ्रापय गिरौ भारꣳ हरन्न् इव ।
अथास्य मध्यम् एजतु शीते वाते पुनन्न् इव ॥

23.28
यद् अस्या ऽ अꣳहुभेद्याः कृधु स्थूलम् उपातसत् ।
मुष्काविदस्या ऽ एजतो गोशफे शकुलाव् इव ॥

23.29
यद् देवासो ललामगुं प्र विष्टीमिनम् आविषुः ।
सक्थ्ना देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥

23.30
यद्धरिणो यवम् अत्ति न पुष्टं पशु मन्यते ।
शूद्रा यद् अर्यजारा न पोषाय धनायति ॥

23.31
यद्धरिणो यवम् अत्ति न पुष्टं बहु मन्यते ।
शूद्रो यद् अर्यायै जारो न पोषम् अनु मन्यते ॥

23.32
दधिक्राव्णो ऽ अकारिषं जिष्णोर् अश्वस्य वाजिनः ।
सुरभि नो मुखा करत् प्र ण ऽ आयूꣳषि तारिषत् ॥

23.33
गायत्री त्रिष्टुब् जगत्य् अनुष्टुप् पङ्क्त्या सह ।
बृहत्य् उष्णिहा ककुप् सूचीभिः शम्यन्तु त्वा ॥

23.34
द्विपदा याश् चतुष्पदास् त्रिपदा याश् च षट्पदाः ।
विच्छन्दा याश् च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥

23.35
महानाम्न्यो रेवत्यो विश्वा आशाः प्रभूवरीः ।
मैघीर् विद्युतो वाचः सूचीभिः शम्यन्तु त्वा ॥

23.36
नार्यस् ते पत्न्यो लोम विचिन्वन्तु मनीषया ।
देवानां पत्न्यो दिशः सूचीभिः शम्यन्तु त्वा ॥

23.37
रजता हरिणीः सीसा युजो युज्यन्ते कर्मभिः ।
अश्वस्य वाजिनस् त्वचि सिमाः शम्यन्तु शम्यन्तीः ॥

23.38
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ॥

23.39
कस् त्वा छ्यति कस् त्वा वि शास्ति कस् ते गात्राणि शम्यति ।
क ऽ उ ते शमिता कविः ॥

23.40
ऋतवस्त ऽ ऋतुथा पर्व शमितारो वि शासतु ।
संवत्सरस्य तेजसा शमीभिः शम्यन्तु त्वा ॥

23.41
अर्धमासाः परूꣳषि ते मासा ऽ आ च्छ्यन्तु शम्यन्तः ।
अहोरात्राणि मरुतो विलिष्टꣳ सूदयन्तु ते ॥

23.42
दैव्या ऽ अध्वर्यवस् त्वा छ्यन्तु वि च आसतु ।
गात्राणि पर्वशस् ते सिमाः कृण्वन्तु शम्यन्तीः ॥

23.43
द्यौस् ते पृथिव्यन्तरिक्षं वायुश् छिद्रं पृणातु ते ।
सूयस् ते नक्षत्रैः सह लोकं कृणोतु साधुया ॥

23.44
शं ते परेभ्यो गात्रेभ्यः शम् अस्त्व् अवरेभ्यः ।
शम् अस्थभ्यो मज्जभ्यः शम् व् अस्तु तन्वै तव ॥

23.45
कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः ।
किꣳ स्विद्धिमस्य भेषजं किम् व् आवपनं महत् ॥

23.46
सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः ।
अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥

23.47
किꣳ स्वित् सूर्यसमं ज्योतिः किꣳ समुद्रसमꣳ सरः ।
किꣳ स्वित् पृथिव्यै वर्षीयः कस्य मात्रा न विद्यते ॥

23.48
ब्रह्म सूर्यसमं ज्योतिर् द्यौः समुद्रसमꣳ सरः ।
इन्द्रः पृथिव्यै वर्षीयान् गोस् तु मात्रा न विद्यते ॥

23.49
पृच्छामि त्वा चितये देवसख यदि त्वम् अत्र मनसा जगन्थ ।
येषु विष्णुस् त्रिषु पदेष्व् एष्टस् तेषु विश्वं भुवनम् आ विवेशाꣳ३ऽ ॥

23.50
अपि तेषु त्रिषु पदेष्व् अस्मि येषु विश्वं भुवनम् आविवेश ।
सद्यः पर्य् एमि पृथिवीम् उत द्याम् एकेनाङ्गेन दिवो ऽ अस्य पृष्ठम् ॥

23.51
केष्व् अन्तः पुरुष ऽ आ विवेश कान्य् अन्तः पुरुषे ऽ अर्पितानि ।
एतद् ब्रह्मन्न् उपवल्हामसि त्वा किꣳ स्विन् नः प्रति वोचास्य् अत्र ॥

23.52
पञ्चस्व् अन्तः पुरुष ऽ आ विवेश तान्य् अन्तः पुरुषे ऽ अर्पितानि ।
एतत् त्वात्र प्रतिमन्वानो ऽ अस्मि न मायया भवस्य् उत्तरो मत् ॥

23.53
का स्विद् आसीत् पूर्वचित्तिः किꣳ स्विद् आसीद् बृहद् वयः ।
का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥

23.54
द्यौर् आसीत् पूर्वचित्तिः अश्वऽ आसीद् बृहद् वयः ।
अविर् आसीत् पिलिप्पिला रात्रिर् आसीत् पिशङ्गिला ॥

23.55
का ऽ ईमरे पिशंगिला का ऽ ईं कुरुपिशंगिला ।
क ऽ ईम् आस्कन्दम् अर्षति क ऽ ईं पन्थां वि सर्पति ॥

23.56
अजारे पिशंगिला श्वावित् कुरुपिशंगिला ।
शश आस्कन्दम् अर्षत्य् अहिः पन्थां वि सर्पति ॥

23.57
कत्य् अस्य विष्ठाः कत्य् अक्षराणि कति होमासः कतिधा समिद्धः ।
यज्ञस्य त्वा विदथा पृच्छम् अत्र कति होतार ऽ ऋतुशो यजन्ति ॥

23.58
षड् अस्य विष्ठाः शतम् अक्षराण्य् अशीतिर् होमाः समिधो ह तिस्रः ।
यज्ञस्य ते विदथा प्र ब्रवीमि सप्त होतार ऋतुशो यजन्ति ॥

23.59
को ऽ अस्य वेद भुवनस्य नाभिं को द्यावापृथिवी ऽ अन्तरिक्षम् ।
कः सूर्यस्य वेद बृहतो जनित्रं को वेद चन्द्रमसं यतोजाः ॥

23.60
वेदाहम् अस्य भुवनस्य नाभिं वेद द्यावापृथिवी ऽ अन्तरिक्षम् ।
वेद सूर्यस्य बृहतो जनित्रं अथो वेद चन्द्रमसं यतोजाः ॥

23.61
पृच्छामि त्वा परम् अन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः ।
पृच्छामि त्वा वृष्णो ऽ अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥

23.62
इयं वेदिः परो ऽ अन्तः पृथिव्या ऽ अयं यज्ञो यत्र भुवनस्य नाभिः ।
अयꣳ सोमो वृष्णो ऽ अश्वस्य रेतः ब्रह्मायं वाचः परमं व्योम ॥

23.63
सुभूः स्वयम्भूः प्रथमो ऽन्तर् महत्य् अर्णवे ।
दधे ह गर्भम् ऋत्वियं यतो जातः प्रजापतिः ॥

23.64
होता यक्षत् प्रजापतिꣳ सोमस्य महिम्नः ।
जुषतां पिबतु सोमꣳ होतर् यज ॥

23.65
प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव ।
यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु । वयꣳ स्याम पतयो रयीणाम्॥

भाष्यम्(उवट-महीधर)

त्रयोविंशोऽध्यायः।
 
तत्र प्रथमा।
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। १ ।।
उ०. हिरण्यगर्भः सम् । महिम्नः पुरोरुक् । व्याख्यातम् ॥ १॥
म०. द्वाविंशे होममन्त्रास्त्रयोविंशेऽध्याये शिष्टं कर्मोच्यते । 'प्रातरुक्थ्यो महिमानौ गृह्णाति सौवर्णेन पूर्व ᳪं᳭ हिरण्यगर्भ इति' (का० । २० । ५। १-२)। प्रातर्द्वितीयेऽहनि उक्थ्यसंस्थमहर्भवति तत्र महिमसंज्ञौ द्वौ ग्रहौ गृह्णाति आगन्तुत्वादाग्रयणोक्थ्ययोर्मध्ये तौ गृह्णाति 'अन्तराग्रयणोक्थ्यावागन्स्थातुं ग्रहाणाम्' इति वचनात् द्वयोर्मध्ये पूर्वं महिमानं सौवर्णेनोलूखलेन गृह्णाति । व्याख्याता (अ० १३ । क० ४) ॥१॥

द्वितीया ।
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒: सूर्य॑स्ते महि॒मा ।
यस्तेऽह॑न्त्संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ वा॒याव॒न्तरि॑क्षे महि॒मा स॑म्ब॒भूव॒ यस्ते॑ दि॒वि सूर्ये॑ महि॒मा स॑म्ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ दे॒वेभ्य॑: ।। २ ।।
उ० उपयामगृहीतोसि । प्रजापतये त्वा जुष्टमभिरुचितं गृह्णामि । सादयति । एष ते तव योनिः स्थानं सूर्यस्तव महिमा महाभाग्यं शक्तिः दीपस्येव प्रभा । जुहोति । यस्तेऽहन् यस्तव अहनि संवत्सरे च महिमा संबभूव संभूत उत्पनः । अहनि निमित्तभूते सर्वाण्येव भूतानि संपद्यन्ते । निमित्तसप्तम्यश्चैताः । 'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्' इति यथा । यः ते वायौ अन्तरिक्षे च महिमा संबभूव । यस्ते दिवि सूर्ये च महिमा संबभूव । तस्मै ते तव महिम्ने प्रजापतये च स्वाहा देवेभ्यश्च ॥ २ ॥
म० उपयाम० प्रजापतये जुष्टं रुचितं त्वां हे ग्रह, अहं गृह्णामि । 'एष ते योनिरिति ग्रहसादनम्' (का० ९ । ५ । २५) । एष ते योनिः स्थानं ते तव महिमा शक्तिः सूर्यः दीपस्येव प्रभा । 'यस्तेऽहन्निति जुहोति' (का० २० । ७ । १६) । पूर्वमहिमानं ग्रहं जुहोति वषट्कृते सर्वहुतम् । देवदेवत्यं यजुः द्व्यधिका शक्वरी । हे महिमन् , यः ते तव महिमा अहन् अह्नि दिवसे संवत्सरे च निमित्ते संबभूव उत्पन्नः, वायौ अन्तरिक्षे च यः तव महिमा संबभूव, दिवि सूर्ये च यस्ते महिमा संबभूव ते तव तस्मै महिम्ने प्रजापतये देवेभ्यश्च स्वाहा सुहुतमस्तु ॥ २ ॥

तृतीया।
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। ३ ।।
उ० द्वितीयं गृह्णाति तस्य पुरोरुक्यः प्राणतः कायी प्राजापत्या । यः कः प्रजापतिः प्राणतः प्राणनं कुर्वतः भूतग्रामस्य निमिषतः निमेषणं कुर्वतः क्रियावत इत्यर्थान्तरम् महित्वा स्वकीयेन महाभाग्येन । एकइत् । इच्छब्द एवार्थे । एकएव समस्तस्य जगतो राजा बभूव संवृत्तः । यश्च ईशे ईष्टे अस्य द्विपदः प्राणिजातस्य यश्च चतुष्पदः ईष्टे प्राणिजातस्य । तस्मै कस्मै देवाय प्रजापतये हविषा विधेम । विदधातिर्दानकर्मा । हविरिति विभक्तिव्यत्ययो द्वितीयान्तः । हविर्दद्मः ॥३॥
म०. 'द्वितीयᳪं᳭ राजतेन यः प्राणत इति' (का० २० । ५।२)। द्वितीयं महिमानं ग्रहं राजतेनोलूखलेन गृह्णाति । हिरण्यगर्भदृष्टा कदेवत्या त्रिष्टुप् । तस्मै कस्मै प्रजापतये देवाय वयं हविर्विधेम हविर्दद्मः । विधृतिर्दानार्थः। तृतीया द्वितीयार्थे। तस्मै कस्मै । यः प्रजापतिः प्राणतः प्राणनं जीवनं कुर्वतो निमिषतो निमेषणं कुर्वतः । उपलक्षणमेतत् दृगादीन्द्रियव्यापारं कुर्वतः सचेतनस्य जगतः । विश्वस्य एक एव राजा बभूव । केन । महित्वा महेर्महिम्नो भावो महित्वं तेन महित्वेन । विभक्तेः पूर्वसवर्णः । महाभाग्येनेत्यर्थः । यश्चास्य द्विपदः द्वौ पादौ यस्य स द्विपात् तस्य ‘पादः पत्' (पा० ६।४। १३०) | इति पदादेशः। द्विपादस्य मनुष्यपक्ष्यादेः चतुष्पदः हस्तिगवादेः प्राणिजातस्य ईशे ईष्टे ऐश्वर्यं करोति । 'लोपस्त आत्मनेपदेषु' (पा० ७ । १ । ४१) इति तकारलोपे ईशे इति रूपम् । 'अधीगर्थदयेशां कर्मणि' (पा० २।३ । ५२) कर्मणि | षष्ठी ॥ ३ ॥

चतुर्थी।
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॑श्च॒न्द्रमा॑स्ते महि॒मा ।
यस्ते॒ रात्रौ॑ संवत्स॒रे म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॑ पृथि॒व्याम॒ग्नौ म॑हि॒मा स॑म्ब॒भूव॒ यस्ते॒ नक्ष॑त्रेषु च॒न्द्रम॑सि महि॒मा स॑म्ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये दे॒वेभ्य॒: स्वाहा॑ ।। ४ ।।
उ० उपयामगृहीतोऽसि प्रजापतये त्वां जुष्टं गृह्णामि । सादयति । एष ते योनिः चन्द्रमास्ते महिमा । जुहोति यस्ते रात्रौ संवत्सरे पृथिव्यामग्नौ च नक्षत्रेषु चन्द्रमसि च महिमा संबभूव तस्मै ते महिम्ने प्रजापतये देवेभ्यः स्वाहा ॥४॥
म० उपयामपात्रेण गृहीतोऽसि प्रजापतये जुष्टं त्वां गृह्णामि । सादयति । एष ते । चन्द्रमास्ते तव महिमा दीप्तिः । 'वपान्ते द्वितीयेन पूर्ववद् यस्ते रात्राविति जुहोति' (का० २० । ७ । २६ )। वपायागान्ते द्वितीयेन महिम्ना पूर्ववदिति सर्वहुतं महिमानं जुहोति । अष्टिः हे महिमन् , रात्रौ संवत्सरे च यस्ते तव महिमा संबभूव पृथिव्यामग्नौ च यस्ते महिमा संबभूव नक्षत्रेषु चन्द्रमसि च यस्तव महिमा संबभूव सर्वव्यापकस्तव यो महिमा तस्मै महिम्ने प्रजापतये देवेभ्यश्च स्वाहा सुहुतमस्तु ॥ ४॥

पञ्चमी।
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुष॑: । रोच॑न्ते रोच॒ना दि॒वि ।। ५ ।।
उ० अश्वं युनक्ति । युञ्जन्ति ब्रध्नम् । अश्वोऽत्रादित्यवत्स्तूयते उत्तरोर्धर्चः प्रथमं व्याख्यायते । यस्य भासा रोचन्ते देदीप्यन्ते रोचनाः रोचनानि दीप्तानि चन्द्रग्रहतारकादीनि। दिवि द्युलोके । तं युञ्जन्ति रथे बध्नन्ति । कथंभूतम् । ब्रध्नम् परिवृढं आदित्यम् अरुषमरोषणम् । चरन्तं गच्छन्तं वैदिककर्मसिध्यर्थम् । के युञ्जन्ति परितस्थुषः सर्वतः स्थिता ऋत्विग्यजमानाः ॥५॥
म० 'युनक्त्येनं युञ्जन्ति ब्रध्नमिति' (का० २० । ५ । ११)। अश्वं रथे युनक्ति । मधुच्छन्दोदृष्टा आदित्यदेवत्या गायत्री । तस्थुषः । विभक्तेर्व्यत्ययः । तस्थिवांसः कर्मार्थं स्थिता ऋत्विजः ब्रध्नमादित्यं युञ्जन्ति रथे योजयन्ति । अश्व आदित्यत्वेन स्तूयते । 'असौ वा आदित्यो ब्रध्नोऽरुषोऽमुमेवास्या आदित्यं युनक्ति स्वर्गस्य लोकस्य समष्ट्यै (१३ । २ ६।१) इति श्रुतेः । किंभूतं ब्रध्नम् । अरुषं रोषति क्रुध्यति रुषः 'इगुपध-' (पा० ३ । १ । १३५) इति कः । न रुषः अरुषः तं क्रोधरहितम् । परिचरन्तं वैदिककर्मसिद्ध्यर्थं सर्वत्र गच्छन्तम् । यस्य ब्रध्नस्य रोचना । विभक्तिलोपः । दीप्तयो दिवि आकाशे रोचन्ते प्रकाशन्ते । यद्वा रोचनानि दीप्तानि चन्द्रग्रहतारकादीनि ब्रध्नस्य भासा रोचन्ते 'तेजसां गोलकः सूर्यो नक्षत्राण्यम्बुगोलकाः' इति ज्योतिःशास्त्रोक्तेः ॥ ५॥

षष्ठी।
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ।। ६ ।।
उ० इतराश्वं युनक्ति । युञ्जन्त्यस्य । गायत्री । युञ्जन्ति रथे अस्थाश्वमेधिकस्याश्वस्य काम्या काम्यौ कामसंपादिनौ । नह्येको रथं वोढुं शक्तः । हरी हरितवर्णावश्वौ हरिणौ वा वेगवन्तौ विपक्षसा । विविधाः पक्षसः पक्षा ययोस्तौ विपक्षसौ विविधपक्षावस्थितौ । यद्वा विरिति शकुनिनाम वेतेर्गतिकर्मणः । वेः शकुनेरिव पक्षौ ययोस्तौ शोणा शोणौ। शोणशब्दोऽत्र वर्णवचनः । रक्तो वर्णो धूम्रभासः शोण इत्युच्यते । धृष्णू प्रसहनौ । नृवाहसा नृणां मनुष्याणां वोढारौ ॥६॥
म०. 'इतरांश्च युञ्जन्त्यस्येति' (का० २० । ५ । ११) इतरान्त्रीनश्वान्रथे युनक्ति । गायत्री अश्वस्तुतिः । ऋत्विजो हरी अश्वौ रथे युञ्जन्ति । कीदृशौ । अस्याश्वमेधिकाश्वस्य काम्या काम्यौ काम्येते तौ काम्यौ कामसंपादिनौ न त्वेको वोढुं शक्त इति तौ काम्यौ । विपक्षसा 'पक्ष परिग्रहे' असुन्प्रत्ययः । पक्षयन्ति शरीरं गृह्णन्ति पक्षसः पक्षाः विविधाः पक्षसः पक्षाः ययोस्तौ विपक्षसौ । यद्वा विरिति शकुनिनाम 'वेतेर्गतिकर्मणः' (निरु० २।६) इति यास्कः । वेः पक्षिण इव पक्षसो ययोस्तौ । शोणा शोणौ रक्तौ धृष्णू प्रगल्भौ 'ञिधृषा प्रागल्भ्ये' कुप्रत्ययः । नृवाहसा नॄन् वहतस्तौ । वहेरसुन्प्रत्ययः सर्वत्र विभक्तेराकारः । नृणां वोढारौ ॥ ६ ॥

सप्तमी।
यद्वातो॑ अ॒पो अ॑गनीगन्प्रि॒यामिन्द्र॑स्य त॒न्व॒म् । ए॒तᳪं᳭ स्तो॑तर॒नेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि नः ।। ७ ।।
उ० अपो यात्वावगाढेषु वाचयति । यद्वातः बृहती। | अश्वदेवत्या । यत् यस्मात् वातः वातवेगोऽश्वः अपः प्रति अगनीगन् अत्यर्थं गतः । प्रियांच इन्द्रस्य तन्वं शरीरम् अगनीगन् । अतो ब्रवीमि । एतम् अश्वम् हे स्तोतः अध्वर्यो, अनेन पथा येन गतः पुनः अश्वम् आवर्तयासि आवर्तय आनय नोऽस्माकम् ॥ ७ ॥
म० 'अपो यात्वावगाढेषु वाचयति यद्वात इति' (का. २० । ५। १४) । चतुर्भिरश्वैर्युक्तं रथमध्वर्युयजमानावारुह्य तडागादिजलं गत्वा जलं प्रविष्टेष्वश्वेषु यजमानं वाचयति । बृहती अश्वस्तुतिः । सिंहो माणवक इति वत् वातः वातसमानवेगोऽश्वः यत् यस्मात् अपो जलानि अगनीगन् इन्द्रस्य प्रियं तन्वं शरीरं चागनीगन् अत्यर्थं गतः 'दाधर्तिदर्धर्ति-' | (पा० ७ । ४ । ६५) इत्यादिना यङ्लुगन्तो निपातः । अतो हे स्तोतः अध्वर्यो, एतं नोऽस्माकमश्वमनेन पथा मार्गेण येन गतस्तेन पुनरावर्तयासि आवर्तय आनय । 'लेटोऽडाटौं' पुरुषव्यत्ययः ॥ ७ ॥

अष्टमी।
वस॑वस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ऽऽदि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा ।
भूर्भुव॒: स्वर्ला॒जी३ञ्छा॒ची३न्यव्ये॒ गव्य॑ ए॒तदन्न॑मत्त देवा ए॒तदन्न॑मद्धि प्रजापते ।। ८ ।।
उ० 'आगतमश्वं महिषी वावाता परिवृक्ता आज्येनाभ्यञ्जयन्ति वसवस्त्वेति प्रतिमन्त्रम् । वसवस्त्वाञ्जन्तु । निगदव्याख्यातम् । सौवर्णान्मणीनेकशतमश्वकेसरपुच्छेषु प्रवयन्ति पत्न्यः । भूर्भुवः स्वः । व्याख्यातम् । अश्वाय रात्रिहुतशेषं प्रयच्छति । लाजीन् शाचीन् । योयं लाजानां समूहो लाजीनित्युक्तः । योयं सक्तूनां समूहः शाचीनित्युक्तः । सक्तवो हि अतितरां शच्या कर्मणा निष्पद्यन्त इति शाचीनित्युक्ताः। यश्चायं यव्ये यवमयः समूह उक्तो धानाः । यश्चायं गोर्विकारसमूह उक्तो गव्य इति । एतदन्नम् अत्त भक्षयत हे देवाः । एतदन्नमद्धि भक्षय हे प्रजापते । येभ्योऽश्वः प्रोक्षितः तद्देवतत्वादेतद्देवत्य इति ॥ ८॥
म०. 'आयाय विमुक्तमश्वं महिषी वावाता परिवृक्ताज्येनाभ्यञ्जन्ति पूर्वकायमध्यापरकायान्यथादेशं वसवस्त्वेति प्रतिमन्त्रम्' (का० २।५।१५) । आयाय जलप्रदेशाद्देवयजनमागत्य रथाद्विमुक्तमश्वं महिष्याद्यास्तिस्रः पत्न्यो यथाक्रममश्वस्य पूर्वादिकानभ्यञ्जन्ति घृतेन महिषी पूर्वकायं वसव इति वावाता देहमध्यं रुद्रा इति परिवृक्ता पश्चाद्भागमादित्या इति मन्त्रेणेति सूत्रार्थः । त्रीणि यजूंषि लिङ्गोक्तदेवतानि । हे अश्व, वसवोऽष्टौ देवा गायत्रेण छन्दसा त्वा त्वामञ्जन्तु स्निग्धं कुर्वन्तु । रुद्रा एकादश त्रैष्टुभेन छन्दसा त्वामञ्जन्तु । आदित्या द्वादश जागतेन छन्दसा त्वामञ्जन्तु । 'अभ्रᳪं᳭श्यमानान्मणीन् सौवर्णानेकशतमेकशतं केसरापुच्छेष्वावयन्ति भूर्भुवः स्वरिति प्रतिमहाव्याहृति' (का० २० ।५।१६)। महिष्याद्यास्तिस्रः पत्न्यः एकाधिकं शतं सुवर्णमयमणीन् यथा न पतन्ति तथा केसरयोः शिरःस्कन्धस्थयोः पुच्छे चाबध्नन्ति महिष्यश्वशिरोरोमसु भूरिति एकशतं मणीन्प्रवयति वावाता ग्रीवारोमसु भुव इति परिवृक्ता पुच्छरोमसु स्वरिति वयतीति सूत्रार्थः । भूर्भुवः स्वः व्याख्याताः । 'अश्वाय रात्रिहुतशेषं प्रयच्छति लाजीञ्छाचीनिति' (का० २० । ५। १८)। सक्तुधानालाजारूपं रात्रिहुतशेषमश्वाय ददाति भक्ष्याय । अश्वो नात्ति चेत् जले प्रक्षेपः । लाजीन् अश्वदेवत्यं यजुः । लाजानां समूहो लाजीनित्युक्तः सक्तूनां समूहः । शाचीन् यश्चायं यव्ये यव्यः यवसमूहः गव्ये गव्यः गोर्विकारसमूहो दध्यादिः हे देवाः, एतदन्नमत्त भक्षयत । हे प्रजापते, एतदन्नमद्धि भक्षय । येभ्योऽश्वः प्रोक्षितस्तद्रूपोऽश्वः संबोध्यते ॥ ८॥

नवमी।
कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुन॑: । किᳪं᳭ स्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत् ।। ९ ।।
उ० ब्रह्मा पृच्छति होतारं यूपमभितः । कः स्वित् । चतस्रोऽनुष्टुभः प्रश्नप्रतिप्रश्नरूपाः । कः पुनरेकाकी असहायः चरति गच्छति । कउ स्वित् को नु विनष्टः सन् जायते। पुनः उकारः पादपूरणः । किं पुनः हिमस्य शीतस्य भेषजम् । किंच आवपनं महत् । उप्यते निक्षिप्यतेऽस्मिन्नित्यावपनम् ॥९॥
म० 'ब्रह्मा पृच्छति होतारं यूपमभितः कः स्विदेकाकीति' (का० २० । ५ । २०)। यूपस्य दक्षिणत उदङ्मुखो ब्रह्मा यूपोत्तरतो दक्षिणामुखं होतारं पृच्छति । ब्रह्मोद्ये कर्मणि होतुर्ब्रह्मणश्च प्रश्नप्रतिप्रश्नभूताश्चतस्रोऽनुष्टुभः। स्विदिति वितर्के। एकः असहायः कः चरति गच्छति । उ पादपूरणः । कःस्वित् विनष्टः सन् पुनर्जायते उत्पद्यते । किंस्वित् हिमस्य शीतस्य भेषजमौषधम् । किंस्वित् महत् आवपनम् आ समन्तादुप्यते यस्मिंस्तद्वपनस्थानम् ॥ ९॥

दशमी।
सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुन॑: । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ।। १० ।।
उ० होता प्रत्याह । सूर्य एकाकी चरति । चन्द्रमा जायते पुनः । अग्निश्च हिमस्य शीतस्य भेषजम् । भूमिः अयं लोकः आवपनं महत् ॥ १०॥
म० 'सूर्य इत्याचष्टे होता ब्रह्माणं प्रति वक्ति' (का २०।५।२१)। सूर्योऽसहायो गच्छति । अनेन होतृब्रह्माणौ यजमाने ब्रह्मवर्चसं धत्तः । 'असौ वा आदित्य एकाकी चरत्येष ब्रह्मवर्चसं ब्रह्मवर्चसमेवास्मिंस्तद्धत्ते' (१३ । २ । ६ ।१०) इति श्रुतेः । चन्द्रमाः क्षीणः पुनर्जायते वर्धते अनेनायुर्धत्तः । 'चन्द्रमा वै जायते पुनरायुरेवास्मिंस्तद्धत्ते' (१३।२। ६। ११) इति श्रुतेः । हिमस्य भेषजमग्निः अनेन तेजो धत्तः । 'अग्निर्वै हिमस्य भेषजं तेज एवास्मिंस्तद्धत्ते' (१३।२।६।१२) इति श्रुतेः । भूमिरयं लोको महदावपनम् अनेनास्मिन् प्रतिष्ठां धत्तः । 'अयं वै लोक आवपनं महदस्मिन्नेव लोके प्रतितिष्ठति' (१३ । २ । ६ । १३) इति श्रुतेः ॥ १० ॥

एकादशी।
का स्वि॑दासीत्पू॒र्वचि॑त्ति॒: किᳪं᳭ स्वि॑दासीद् बृ॒हद्वय॑: ।
का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ।। ११ ।।
उ० होता ब्रह्माणं पृच्छति । का स्वित् । का पुनः आसीत् पूर्वचित्तिः । किं पुनरासीत् बृहत् महत् वयः पक्षी। का पुनरासीत् पिलिप्पिला । का पुनरासीत् पिशङ्गिला ॥११॥
म० 'होता ब्रह्माणं का स्विदासीदिति' (का० २० ।५। २२) होता ब्रह्माणं पृच्छति । पूर्वं चिन्त्यत इति पूर्वचित्तिः सर्वेषां प्रथमस्मृतिविषया का स्वित् बृहत् महत् । वयः पक्षी किं स्वित् आसीत् । पिलिप्पिला का स्वित् पिशङ्गिला च का स्विदासीत् ॥ ११ ॥

द्वादशी।
द्यौरा॑सीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वय॑: ।
अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ।। १२ ।।
उ० ब्रह्मा प्रश्नान् व्याकरोति । द्यौरासीत् । द्युग्रहणेनात्र वृष्टिर्लक्ष्यते । सा हि पूर्वं सर्वैः प्राणिभिश्चित्यते अश्व आसीद्बृहद्वयः अश्वशब्देनाश्वमेधो लक्ष्यते । वयसा इव ह्यनेनाश्वमेधेन स्वर्गं लोकमारोहन्ति । अविरासीत् अविः पृथिव्यभिधीयते सा आसीत् पिलिप्पिला । वृष्ट्या हि क्लिद्यमाना पृथिवी पिलिप्पिला भवति । श्रीरिति श्रुत्या पृथिव्युक्ता च । रात्रिरासीत्पिशङ्गिला । पिशमिति रूपनाम । रात्रिर्हि सर्वाणि रूपाणि गिलति अदृश्यानि करोति ॥ १२ ॥
म० 'द्यौरिति प्रत्याह' ( का० २० । ५। २३)। ब्रह्मा होतारं प्रति वक्ति । पूर्वचित्तिः पूर्वस्मरणविषया द्यौर्वृष्टिरासीत् । द्योशब्देन वृष्टिर्लक्ष्यते सर्वप्राणिनामिष्टत्वात् । तथाच श्रुतिः 'द्यौः वृष्टिः पूर्वचित्तिर्दिवमेव वृष्टिमवरुन्द्धे' (१३ । २।। १४) इति । अश्वः बृहद्वयः आसीत् । अश्वशब्देनाश्वमेधो लक्ष्यते । अश्वमेधेन वयसेव स्वर्गमारोहतीत्यश्वमेधो वयः। अवतीत्यविः पृथिवी पिलिप्पिलासीत् । वृष्ट्या भूः पिलिप्पिला चिक्कणा भवति । 'श्रीवै पिलिप्पिला' (१३ । २ । ६।१६) इति श्रुत्या श्रयन्त एनामिति श्रीशब्देन भूरेव । रात्रिः पिशङ्गिला आसीत् । पिशमिति रूपनाम पिशं रूपं गिलतीति पिशङ्गिला रात्रौ सर्वाणि रूपाण्यन्तर्भवन्ति ॥ १२ ॥

त्रयोदशी।
वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागै॑र्न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑ ।
ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन्ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ नमो॒ऽग्नये॑ ।। १३ ।।
उ० प्रोक्षत्यश्वम् । वायुष्ट्वा वायुः त्वा पचतैः पाकैः अवतु । वाय्वग्निसंयोगाद्धि द्रव्याणि पच्यन्ते । असितग्रीवः छागैः असितग्रीवोऽग्निः धूमसंयोगात् । छागैः अवतु कृष्णग्रीवादिभिः पर्यङ्गैः । अश्वाङ्गेष्वालभ्यमाना अश्वायोपकुर्वन्ति अदृष्टेनोपकारेण । न्यग्रोधश्चमसैः अवतु सोमसंबन्धेन । शल्मलिः स्वकीयया वृद्ध्या त्वां अवतु पालयतु । एष स्यः एष सः राथ्यः रथे साधू राथ्यः । वृषा सेक्ता । पद्भिश्चतुर्भिः आ इत् आगन् आगतः । चतुर्ग्रहणं किम् । 'तस्मादश्वस्त्रिभिस्तिष्ठति अथ युक्तः सर्वैः सममायुत' इति श्रुतिः । ब्रह्माऽकृष्णश्च । ब्रह्मा परिवृढः अकृष्णः न विद्यते कृष्णमस्येत्यकृष्णश्चन्द्रमाः । स च नोऽस्माकम् अश्वम् अवतु । नमः अग्नये अग्निं नमस्करोत्यविघ्नाय ॥ १३ ॥
म० 'अश्वप्रोक्षणमद्भ्यस्त्वा वायुष्ट्वेति' (का० २० । ६ । ७)। अद्भ्यस्त्वोषधीभ्य इति प्राकृतमन्त्रेण ( ६ । ९) वायुष्ट्वेत्यारभ्य देवः सविता दधात्वित्यन्तेन (१६) कण्डिकाचतुष्टयेनाश्वमेधिकेन चाश्वप्रोक्षणं करोतीति सूत्रार्थः । चत्वारि यजूंष्यश्वदेवत्यानि । हे अश्व, वायुः पचतैः पाकैः त्वा त्वामवतु । वायुसंयोगादग्निः शीघ्रं पचति । असिता ग्रीवा यस्य धूमेनेत्यसितग्रीवोऽग्निः छागैः त्वामवतु । 'अग्निर्वा असितग्रीवः' (१३ । २ । ७।२) इति श्रुतेः । 'कृष्णग्रीव आग्नेयो रराटे' ( २४ । १) इति वक्ष्यमाणत्वादश्वाङ्गेषु कृष्णग्रीवादयः पञ्चदश पर्यङ्ग्याः पशवः सन्ति तैरग्निरवत्वित्यर्थः । न्यग्रोधः चमसैः सोमपात्रैः त्वामवतु । शल्मलिः वृक्षविशेषो वृद्ध्या त्वामवतु 'शल्मलिर्वनस्पतीनां वर्षिष्ठं वर्धते' (१३ । २ । ७।४) इति श्रुतेः । किंच स्यः स एष वृषा सेक्ताश्वः राथ्यः रथे साधुः पद्भिः पादैः चतुर्भिरेव आ अगन् आगतः आ इदगन्निति पदच्छेदः । अश्वस्त्रिभिः पादैस्तिष्ठति चतुर्भिश्च गच्छतीति चतुर्ग्रहणम् । तथाच श्रुतिः 'तस्मादश्वस्त्रिभिस्तिष्ठत्यथ युक्तः सर्वैः पद्भिः सममायुत' (१३ । २ । ७ । ५) इति । पदशब्दस्य डान्तत्वं छान्दसम् । किंच अकृष्णः नास्ति कृष्णं लाञ्छनं यस्मिन् स ब्रह्मा चन्द्रो नोऽस्मानवतु । 'चन्द्रमा वै ब्रह्मा कृष्णश्चन्द्रमस एनं परिददाति' (१३ । २ । ७ । ७) इति श्रुतेः । नोऽस्माकमश्वमवत्विति वा । अग्नये नमः नमस्कारोऽस्तु विघ्नाभावायाग्नेर्नतिः क्रियते ॥ १३ ॥

चतुर्दशी।
सᳪं᳭शि॑तो र॒श्मिना॒ रथ॒: सᳪं᳭शि॑तो र॒श्मिना॒ हय॑: ।
सᳪं᳭शि॑तो अ॒प्स्व॒प्सु॒जा ब्र॒ह्मा सोम॑पुरोगवः ।। १४ ।।
उ० सᳪं᳭ शितो रश्मिना । तिस्रोऽनुष्टुब्विराट्रि।यष्टुभः । प्रोक्षणे एव अश्वदेवत्याः । संपूर्वः श्यतिः शोभने वर्तते । संदर्शितः यथा दर्शनीयतमः रश्मिना रथो भवति । यथाच संशितः रश्मिना हयोऽश्वः । एवमयं संशितः । अप्सु । अद्भिः । अप्सुजाः अप्सु जातोऽश्वः । 'अप्सुजाता अश्वा' इति श्रुतिः । किंभूतः ब्रह्मा। विभर्ता परिवृढो वा । सोमपुरोगवः सोमसंस्कारान्पुरस्कृत्य स्वर्गं लोकं गच्छतीति सोमपुरोगवः । सोमार्था हि पशवः । स यत्पशुमालभते रसमेवास्मिन्दधाति' इति श्रुतिः ॥ १४ ॥
म० अश्वदेवत्यानुष्टुप् । संपूर्वः श्यतिः शोभनार्थः । रथः रश्मिना कृत्वा संशितः दर्शनीयो भवति 'तस्माद्रथः पर्युतो ।' दर्शनीयतमो भवति' (१३ । २ । ७ । ८) इति श्रुतेः । हयोऽश्वो रश्मिना संशितः शोभितः । अप्सु जायते अप्सुजा अश्वः अप्सु अद्भिः संशितः । विभक्तिव्यत्ययः । 'अप्सुयोनिर्वा अश्वः' (१३ । २ । ७ । ९) इति श्रुतेः । कीदृशः ब्रह्मा । परिवृढः सोमपुरोगमः सोमः पुरोगमोऽग्रगामी यस्य सः सोमं पुरस्कृत्य स्वर्गं लोकं गच्छति । 'सोमपुरोगममेवैनᳪं᳭ स्वर्गं लोकं गमयति' (१३ । २ । ७ । १०) इति श्रुतेः ॥१४॥

पञ्चदशी।
स्व॒यं वा॑जिँस्त॒न्वं॒ कल्पयस्व स्व॒यं य॑जस्व स्व॒यं जु॑षस्व । म॒हि॒मा ते॒ऽन्येन॒ न स॒न्नशे॑ ।। १५ ।।
उ० किंच । स्वयं वाजिन् । स्वयमेव हे वाजिन्, तन्वं , शरीरं कल्पयस्व । स्वराज्यं तवास्तीत्यर्थः । अतएव स्वयमेव यजस्व । तेन्यो यष्टा नास्तीति भावः । स्वयं च जुषस्व । स्वयमेवाभिरुचितं स्थानं कुरुष्व । किमर्थमिदमुच्यतेऽस्माभिरितिचेत् । महिमा ते तव संबन्धी अन्येन महिम्ना न संनशे। नशिरदर्शनार्थः । वेदे तु व्याप्त्यर्थोऽपि भवति न संव्याप्यते ॥ १५॥
म० आश्वी विराट् । हे वाजिन् , स्वयं तन्वं शरीरं त्वं कल्पयस्व 'स्वयं रूपं कुरुष्व यादृशमिच्छसि' (१३ । २ । ७ । ११) इति श्रुतेः । स्वाराज्यं तवास्तीति भावः । अतः स्वयं यजस्व न तवान्यो यष्टास्ति । स्वयं जुषस्व इष्टस्थानं सेवस्व । यतस्ते तव महिमा अन्येन न संनश्यते महिम्ना न संनशे न व्याप्यते । नशिरदर्शनार्थोऽत्र तु व्याप्त्यर्थः । यलोपे नशे रूपम् ॥ १५ ॥

षोडशी।
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ इदे॑षि प॒थिभि॑: सु॒गेभि॑: ।
यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ।। १६ ।।
उ० नवै ।वै उ पादपूरणौ । न एतत् म्रियसे यत् संज्ञप्यसे। न च रिष्यसि विनश्यसि विशस्यमानः । किमिति । यत् देवान् इत्प्रति एषि गच्छसि । पथिभिः सुगेभिः साधुगमनैर्देवयानैरित्यर्थः । किंच । यत्र आसते सुकृतः साधुकारिणः । यत्र च ते ययुः गताः तत्र त्वां देवः सविता दधातु ॥१६॥
म० आश्वी त्रिष्टुप् । हे अश्व, अस्माभिर्यत्त्वं संज्ञप्यसे एतत्त्वं न म्रियसे मरणं नाप्नोषि नच रिष्यसे न विनश्यसि विशस्यमानः । वै उ निपातौ पादपूरणौ । यत्सुगेभिः सुगैः 'सुदुरोरधिकरणे' (पा० ३ । १ । ४८) इति गमेर्डप्रत्ययः । साधुगमनैः पथिभिः देवयानमार्गैः देवानित् देवान्प्रति एषि गच्छसि । किंच सुकृतः साधुकारिणो नरा यत्र लोके आसते तिष्ठन्ति । यत्र च ते सुकृतो ययुर्गताः तत्र लोके सविता देवः त्वा त्वां दधातु स्थापयतु । 'सवितैवैनᳪं᳭ स्वर्गे लोके दधाति' (१३ । २ । ७ । १२) इति श्रुतेः ॥ १६ ॥

सप्तदशी।
अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।
वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॑न्वा॒युः स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।
सूर्य॑: प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँल्लो॒कम॑जय॒द्यस्मि॒न्त्सूर्य॒: स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।। १७ ।।
उ० उपगृह्णात्यपः । अग्निः पशुः सृष्टियज्ञे देवानामासीत् । तेनाग्निना ते अयजन्त । स चाग्निस्तत्र साधनभावमुपगतः सन् । एतं पृथिवीलोकम् अजयत् । यस्मिन् लोके अग्निः । अतः स ते लोको भविष्यति तं च जेष्यसि । पिब एताः प्रोक्षणीः अपः। वायुः सूर्यः पशुः । व्याख्यातमन्यत् ॥ १७ ॥
म० 'उपगृह्णात्यपां पेरुरग्निः पशुरिति' (का० २० । ६ । ८)। अपां पेरुरिति (अ० ६ । क० १०) प्राकृतेन मन्त्रेणाग्निः पशुरिति वैकृतेन च प्रोक्षणीरश्वास्ये उपगृह्णातीति सूत्रार्थः । अश्वदेवत्यानि त्रीणि यजूंषि । सृष्टिदेवानामग्निः पशुरासीत् तेनाग्निरूपेण पशुना देवा अयजन्त ईजिरे । स पशुभावमुपगतोऽग्निः एतं लोकं पृथ्वीलोकमजयत् यस्मिन् लोकेऽग्निः हे अश्व, स लोकः ते तव भविष्यति तं लोकं त्वं जेष्यसि एताः प्रोक्षणीरपः पिब । तथाच श्रुतिः ‘यावानग्नेर्विजयो यावांल्लोको यावदैश्वर्यं तावांस्ते विजयस्तावांल्लोकस्तावदैश्वर्यं भविष्यतीत्येवैनं तदाह' (१३ । २ । ७ । १३) इति ।
वायुः पशुरासीत् सूर्यः पशुरासीत् वायुलोकोऽन्तरिक्षं सूर्यलोकः स्वर्गः तावपि ते भविष्यत इत्यर्थः ॥ १७ ॥

अष्टादशी।
प्रा॒णाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ ।
अम्बे॒ अम्बि॒केऽम्बा॑लिके॒ न मा॑ नयति॒ कश्च॒न ।
सस॑स्त्यश्व॒कः सुभ॑द्रिकां काम्पीलवा॒सिनी॑म् ।। १८ ।।
उ० परिपशव्ये हुत्वा प्राणाय स्वाहेति । तिस्रोऽपराः वाचयति पत्नीर्नयन् । अम्बे । अनुष्टुप् । अश्वस्तुतिः। पत्न्यः परस्परमामन्त्रयन्ते । हे अम्बे, हे अम्बिके, हे अम्बाले, न मां नयति अश्वं प्रति प्रापयति कश्चन कश्चिदपि मदगमनेन च । ससस्ति 'सस् स्वप्ने' । यः अन्यां परिगृह्य शेते । कुत्सितोऽश्वः अश्वकः । अकुत्सितोऽपीर्ष्यया कुत्स्यते । सुभद्रिकाम् कुत्सिता सुभद्रा सुभद्रिका । इयमपीर्ष्यया कुत्स्यते । काम्पीलवासिनीम् । काम्पीलनगरे हि सुभगा सुरूपा विदग्धा विनीताश्च स्त्रियो भवन्ति ॥ १८ ॥
म० 'परिपशव्ये हुत्वा प्राणाय स्वाहेति तिस्रोऽपराः' (का० २० । ६ । ११)। 'परिपशव्ये खाहा देवेभ्यः स्वाहेति' (२० । ६ । ११) द्वे आहुती हुत्वा प्राणायेत्याद्यास्तिस्र आहुतीर्जुहोति एकामश्वसंज्ञपनादौ चतस्रोऽन्ते इति सूत्रार्थः । त्रीणि यजूंषि । प्राणाय अपानाय व्यानाय आभिराहुतिभिरश्वं प्राणवन्तं करोति । तथाच श्रुतिः 'प्राणानेवास्मिन्नेतद्दधाति तथो हास्यैतेन जीवतैव पशुनेष्टं भवति' (१३ । २। ८ । २)। 'वाचयति पत्नीर्नयन्नमस्तेऽन्व इति' (का०२०।६।१२)। 'सर्वाः पत्नीः पशुशोधनाय पान्नेजनीहस्ताः पशून् प्रति नयन्नमस्ते आतानेति' (२० । ६ । १२) प्राकृतं मन्त्रमम्बे इत्याश्वमेधिकं च वाचयतीति सूत्रार्थः । अश्वदेवत्यानुष्टुप् । पत्न्यः परस्परं वदन्ति हे अम्बे, हे अम्बिके, हे अम्बालिके, नामान्येतानि । कश्चन नरो मां न नयति अश्वं प्रति न प्रापयति । तर्हि किमर्थं गम्यते तत्राह । अश्वकः कुत्सितोऽश्वोऽश्वकः अकु त्सितोऽपीर्ष्यया कुत्स्यते । सुभद्रिकां कुत्सिता सुभद्रा सुभद्रिका ईर्ष्यया कुत्स्यते तां नारीमादाय ससस्ति शेते 'सस् स्वप्ने' ह्वादिः । मदगमनेऽश्वोऽन्यामादाय शयिष्यत इति मया गम्यते न तु मां कश्चिन्नयतीति भावः । किंभूतां सुभद्रिकाम् । काम्पीलवासिनीं काम्पीले नगरे वसतीति काम्पीलवासिनी ताम् । तत्र हि विदग्धाः सुरूपाः कामिन्यो भवन्ति । 'आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे' (पा० ६।१।११८) इति प्रकृतिभावः ॥ १८ ॥

एकोनविंशी।
ग॒णानां॑ त्वा ग॒णप॑तिᳪं᳭ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिᳪं᳭ हवामहे नि॒धीनां॑ त्वा॑ निधि॒पति॑ᳪं᳭ हवामहे वसो मम ।
आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ।। १९ ।।
उ० पत्न्यः त्रिः परियन्त्यश्वम् । [१]गणानां त्वा स्त्रीगणानां मध्ये त्वां युगपत् गणपतिं हवामहे आह्वयामः । एवमेव । प्रियाणां मनुष्याणां मध्ये त्वामेव प्रियपतिं प्रियं भर्तारं हवामहे । एवमेव निधीनां सुखनिधीनां मध्ये त्वामेव निधिपतिं हवामहे । कथं कृत्वा । हे वसो अश्व, मम त्वं पतिर्भूयाः इति । महिषी अश्वमुप संविशति । आहमजानि । आकृष्य अहम् अजानि 'अज गतिक्षेपणयोः' । क्षिपामि । गर्भधं गर्भस्य धारयितृ रेतः । आत्वमजासि गर्भधम् । आकृष्य च त्वं हे अश्व, अजासि क्षिपसि गर्भधं रेतः ॥१९॥
म० अश्वं त्रिस्त्रिः परियन्ति पितृवन्मध्ये गणानां प्रियाणां निधीनामिति' (का० २० । ६ । १३)। सर्वाः पत्न्यः पान्नेजनहस्ता एव प्राणशोधनात्प्राक् अश्वं त्रिस्त्रिः परियन्ति मध्ये पितृवत् अप्रदक्षिणं परियन्ति त्रिः त्रिभिर्मन्त्रैः । वसो ममेति त्रिष्वप्यनुषङ्गः । ततश्चैवं प्रथमं गणानामिति त्रिः प्रदक्षिणं परियन्ति । तत्र सकृन्मन्त्रेण द्विस्तूष्णीम् । ततः प्रियाणामित्यप्रदक्षिणं त्रिः निधीनामिति प्रदक्षिणं त्रिः एवं नवकृत्व इति सूत्रार्थः । त्रीणि यजूंषि लिङ्गोक्तदेवत्यानि । हे अश्व, वयं त्वां हवामहे आह्वयामः । कीदृशं त्वाम् । गणपतिं गणानां मध्ये गणपतिं गणरूपेण पालकम् । प्रियाणां वल्लभानां मध्ये प्रियपतिं प्रियस्य पालकम् । निधीनां सुखनिधीनां मध्ये निधिपतिं सुखनिधेः पालकं त्वां हवामहे । हे वसुरूप अश्व, मम पतिस्त्वं भूया इति शेषः । 'प्रक्षालितेषु महिष्यश्वमुपसंविशत्याहमजानीति' (का० २०।६।१४)। प्रक्षालितेषु शोधितेषु पशूनां प्राणेषु पत्नीभिरध्वर्युणा यजमानेन प्राणशोधने कृते महिषी अश्वसमीपे शेते । अश्वदेवत्यम् । हे अश्व, गर्भधं गर्भं दधाति गर्भधं गर्भधारकं रेतः अहम् आ अजानि आकृष्य क्षिपामि । 'अज गतिक्षेपणयोः' लोट् । तं च गर्भधं रेतः आ अजासि आकृष्य क्षिपसि ॥ १९॥

विंशी।
ता उ॒भौ च॒तुर॑: प॒दः सं॒प्रसा॑रयाव स्व॒र्गे लो॒के प्रोर्णु॑वाथां॒ वृषा॑ वा॒जी रे॑तो॒धा रेतो॑ दधातु ।। २० ।।
उ० ता उभौ । यो आवां कृतसंकेतौ तौ उभौ त्वं चाहं च । चतुरः पदः पादान् । द्वौ तव संबन्धिनौ द्वौ च मम संबन्धिनौ । संप्रसारयाव । एवं हि संबन्धे संवेशप्रकार इत्यभिप्रायः । अधीवासेन प्रच्छादयति । स्वर्गे लोके । 'एष वै स्वर्गो लोको यत्र पशुᳪं᳭ संज्ञपयन्ति' । प्रोर्णुवाथाम् । उर्णोतिराच्छादने । प्रोर्णुवनं कुरुतमित्यध्वर्युराह । अश्वशिश्नमुपस्थे कुरुते । वृषा वाजी वृषा सेक्ता वाजी अश्वः रेतोधा रेतसः धारयिता रेतो दधातु आसिञ्चतु ॥ २०॥
म० पूर्वमन्त्रशेषः । तौ त्वमहं च उभौ चतुरः पदः पादा नावां संप्रसारयाव तव द्वौ मम द्वौ एवं संवेशनप्रकारः । 'अधीवासेन प्रच्छादयति स्वर्गे लोक इति' ( का० २० । ६ ।१४) । अधीवासेनाश्वमहिष्यौ छादयति अध उपरिष्टाच्चाच्छादनक्षमं वासोऽधीवासः । अश्वदेवत्यम् । अध्वर्युर्वदति । हे अश्वमहिष्यौ, युवां स्वर्गे लोकेऽस्यां यज्ञभूमौ प्रोर्णुवाथां वास आच्छादयतम् । 'ऊर्णुञ् आच्छादने' 'एष वै स्वर्गों लोको यत्र पशुᳪं᳭ संज्ञपयन्ति' (१३ । २ । ८ । ५) इति श्रुतेः। 'अश्वशिश्नमुपस्थे कुरुते वृषा वाजीति' (का० २० । ६ । १६)। महिषी स्वयमेवाश्वशिश्नमाकृष्य स्वयोनौ स्थापयति । अश्वदेवत्यम् । वाजी अश्वो रेतो दधातु मयि वीर्यं स्थापयतु । कीदृशोऽश्वः । वृषा सेक्ता रेतोधाः रेतो दधातीति रेतोधाः वीर्यस्य धारयिता ॥ २०॥

एकविंशी।
उत्स॑क्थ्या॒ अव॑ गु॒दं धे॑हि॒ सम॒ञ्जिं चा॑रया वृषन् । यः स्त्री॒णां जी॑व॒भोज॑नः ।। २१ ।।
उ० उत्सक्थ्या । गायत्र्याऽश्वं यजमानोऽभिमन्त्रयते । उद्गते सक्थिनी यस्याः सा उत्सक्थी तस्या उत्सक्थ्या महिष्याः। अवगुदं धेहि अवाचीनं गुदम् रेतो धेहि सिञ्च । कथमितिचेत् । समञ्जिं चारया वृषन् संचारय अञ्जिम् । अनक्ति व्यनक्ति पुंस्त्वमित्यञ्जिः पुंस्त्वजननमुक्तम् । हे वृषन् सेक्तः । कथंभूतोऽञ्जिः । यः स्त्रीणां जीवभोजनः यस्मिन्सति स्त्रियो जीवन्तीत्युच्यन्ते । यस्मिंश्च सति भोजनादीन् भोगान् लभ्यते । स जीवभोजनः ॥ २१ ॥
म० 'उत्सक्थ्या इत्यश्वं यजमानोऽभिमन्त्रयते' (का० २० । ६ । १७)। अश्वदेवत्या गायत्री । हे वृषन् सेक्तः अश्व, महिष्या गुदमव गुदोपरि रेतो धेहि वीर्यं धारय । कीदृश्याः । उत्सक्थ्याः उत् ऊर्ध्वे सक्थिनी ऊरू यस्याः सा उत्सक्थी तस्याः । कथं तदाह । अञ्जिं लिङ्गं संचारय । अनक्ति व्यनक्ति पुंस्त्वमित्यञ्जिर्लिङ्गम् । लिङ्गं योनौ प्रवेशय । योऽञ्जिः स्त्रीणां जीवभोजनः जीवयति जीवः भोजयति भोजनः जीवश्चासौ भोजनश्च जीवभोजनः । यस्मिन् लिङ्गे योनौ प्रविष्टे स्त्रियो जीवन्ति भोगांश्च लभन्ते तं प्रवेशय ॥ २१ ॥

द्वाविंशी।
य॒कास॒कौ श॑कुन्ति॒काऽऽहल॒गिति॒ वञ्च॑ति । आह॑न्ति ग॒भे पसो॒ निग॑ल्गलीति॒ धार॑का ।। २२ ।।
उ० इत उत्तरं दशानुष्टुभोऽभिमेथिन्यः । पुंस्त्वजननमुक्तम् । द्वितीयोपरिष्टाद्बृहती । अत्र च यो यत्र भण्यते स तत्र देवतात्वमुपगच्छति । अध्वर्युः कुमारीमभिमेथयति । | यकासकौ । अकच्प्रत्ययोऽत्र कुत्सायाम् । अङ्गुल्या प्रदर्शयन्नाह । यकाऽसकौ शकुन्तिका । अल्पे कन् प्रत्ययः । अल्पीयसी पक्षिणीव । आहलक् इति प्रकारवचनम् । हलेहले इति ब्रुवन्ती । वञ्चति त्वरितं गच्छति । चपलेत्यर्थः । तस्या अपि आहन्ति । हन्तिर्गत्यर्थः। आगच्छति । अन्तर्भावितण्यर्थो वा । आगमयति प्रवेशयति । अत्यर्थं वाहन्ति । गभे पसः गभ इति आद्यन्तवर्णविपर्ययः । पसः पसतेः स्पृशतिकर्मणः । भगे शिश्नमाहन्तीत्यर्थः । अथ तदा निगल्गलीति अत्यर्थं शुक्रं मुञ्चति धारका योनिः । यद्वा शब्दानुकरणम् निगल्गलीति गिरते वा । निगिरति शिश्नं योनिः ॥ २२ ॥
म० 'अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारः कुमारीपत्नीभिः संवदन्ते यकासकाविति दशर्चस्य द्वाभ्यां द्वाभ्याᳪं᳭ हये-हयेऽसावित्यामन्त्र्यामन्त्र्य' ( का० २० । १।१८) । अध्वर्य्वादयः पञ्च हये हयेऽसाविति संबुद्ध्यन्तनामोच्चारणपूर्वकं संमुखीकृत्य यकासकाविति दशर्चसंबन्धिनीभ्यां द्वाभ्यामृग्भ्यां कुमारीपत्नीभिः सहसोपहासं संवदन्ते । तत्र प्रथममध्वर्युः कुमारीं पृच्छति कुमारि हये हये कुमारि यकासकौ शकुन्तिकेत्यर्थः । कुमार्यादिदेवत्या दश तन्मध्ये द्वितीयोपरिष्टाद्बृहती अन्या नवानुष्टुभः । 'अव्ययसर्वनाम्नामकच्प्राक्टेः' (पा० ५। ३ । ७१) इति अकच् कुत्सायाम् । अल्पा शकुन्तिः शकुन्तिका 'अल्प' (पा० ५। ३ । ८५) इति कन् । अङ्गुल्या योनिं प्रदर्शयन्नाह । यका या असकौ असौ शकुन्तिका अल्पपक्षिणीव आहलक् शब्दानुकरणम् । हले हले इति शब्दयन्ती वञ्चति गच्छति । स्त्रीणां शीघ्रगमने योनौ हलहलाशब्दो भवतीत्यर्थः । गभे वर्णविपर्यय आर्षः । भगे योनौ शकुनिसदृश्यां यदा पसो लिङ्गमाहन्ति आगच्छति । 'पस इति पसतेः स्पृशतिकर्मणः' (निरु. ५। १६) इति यास्कः । पुंस्प्रजननस्य नाम । हन्तिर्गत्यर्थः । यदा भगे शिश्नमागच्छति तदाधारका धरति लिङ्गमिति धारका योनिर्निगल्गलीति नितरां गलति वीर्यं क्षरति । यद्वानुकरणम् । गल्गलेति शब्द करोति ॥ २२ ॥

त्रयोविंशी।
य॒को॒ऽस॒कौ श॑कुन्त॒क आ॒हल॒गिति॒ वञ्च॑ति । विव॑क्षत इव ते॒ मुख॒मध्व॑र्यो॒ मा न॒स्त्वम॒भि भा॑षथाः ।। २३ ।।
उ० अध्वर्युं प्रत्याह कुमारी। यकोऽसकौ । यकः असकौ यः असौ शकुन्तक इव आहलगिति वञ्चति । तस्याश्लीलं भाषिणः किमन्यत् ब्रवीमि । विवक्षत इव ते मुखम् । असाधु वक्तुमिच्छत इव ते मुखं पश्यामि अतो हे अध्वर्यो, मा नः अस्मान् त्वमभिभाषथाः ॥ २३ ॥
म० कुमारी अध्वर्युं प्रत्याह । अङ्गुल्या शिश्नं प्रदर्शयन्त्याह । हे अध्वर्यो, यकः यः असकौ असौ शकुन्तकः पक्षीव विवक्षतः वक्तुमिच्छतस्ते तव मुखमिव आहलगिति वञ्चति इतस्ततश्चलति अग्रभागे सच्छिदं लिङ्गं तव मुखमिव भासते । अतो नोऽस्मान्प्रति मा अभिभाषथाः मा वद तुल्यत्वात् ॥ २३ ॥

चतुर्विशी।
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः । प्रति॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तᳪं᳭सयत् ।। २४ ।।
उ० ब्रह्मा महिषीमभिमेथति । माता च ते । हे महिषि, यदा माता च तव पिता च तव । अग्रं वृक्षस्य । वार्क्ष्यस्येति तद्धितलोपः । वार्क्ष्यस्य पर्यङ्कस्य उपरितनं भागं रोहतः मैथुनार्थमेकं पर्यङ्कमारोहत इति अश्लीलाभिप्रायं वचनम् तदा प्रतिलामीति 'तिल स्नेहने' । स्नेहाम्यहमनेन कर्मणा इति एवमिति प्रकारवचनं वदन् । तव पिता गभे भगे मुष्टिं मुष्ट्याकारं शिश्नम् अतंसयत् अक्षिपत् । एवं तवोत्पत्तिः ॥ २४ ॥
म० ब्रह्मा महिषीमाह । महिषि हे महिषि, ते तव माता च पुनस्ते तव पिता यदा वृक्षस्य वृक्षजस्य काष्ठमयस्य मञ्चकस्याग्रमुपरिभागं रोहतः आरोहतः तदा ते पिता गभे भगे मुष्टिं मुष्टितुल्यं लिङ्गमतंसयत् तंसयति प्रक्षिपति एवं तवोत्पत्तिरित्यश्लीलम् । 'तसि अलंकृतौ' चुरादिः । लिङ्गमुत्थानेनालंकरोति वा । किं कुर्वन् । प्रतिलामीति वदन्निति शेषः । 'तिल स्नेहने' तव भोगेन स्निह्यामीति वदन् । एवं तवोत्पत्तिः ॥ २४ ॥

पञ्चविंशी।
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रे॑ वृ॒क्षस्य॑ क्रीडतः । विव॑क्षत इव ते॒ मुखं॒ ब्रह्म॒न्मा त्वं व॑दो ब॒हु ।। २५ ।।
उ० महिषी प्रत्याह । माता च ते। हे ब्रह्मन् , यदा माता च ते पिता च ते अग्रे वृक्षस्य पर्यङ्कस्य क्रीडतः । तदा त्वमुत्पन्नः । तुल्योत्पत्तिरावयोः। यश्चोभयोर्दोषो न तमेकश्चोदयितुमर्हति । एवं सति यदसाधु वदितुमिच्छत इव ते मुखं पश्यामि तत् हे ब्रह्मन्, मा त्वं वदो बहु ॥ २५॥
म० सानुचरी महिषी ब्रह्माणं प्रत्याह । हे ब्रह्मन् , ते तव माता ते पिता च यदि वृक्षस्य वृक्षविकारस्य मञ्चकस्याग्रे क्रीडतः रमेते तदा तवोत्पत्तिरिति तवापि तुल्यम् । 'यत्रोभयोः समो दोषः परिहारोऽपि वा समः । नैकः पर्यनयोक्तव्यस्तादृगर्थविचारणे' इति न्यायात्त्वयेदं न वक्तव्यमिति भावः । एवं सत्यपि विवक्षतः वक्तुमिच्छोरिव ते तव मुखं लक्ष्यत इति शेषः । हे ब्रह्मन् , त्वं मा बहु वदः मा ब्रूहि ॥ २५ ॥

षड्विंशी।
ऊ॒र्ध्वमे॑ना॒मुच्छ्रा॑पय गि॒रौ भा॒रᳪं᳭ हर॑न्निव । अथा॑स्यै॒ मध्य॑मेधताᳪं᳭ शी॒ते वाते॑ पु॒नन्नि॑व ।। २६ ।।
उ० उद्गाता वावातामभिमेथयति ऊर्ध्वामेनाम् कंचित्पुरुषमाह । ऊर्ध्वामेनां वावाताम् उच्छ्रितां कुरु । कथमिव । गिरौ भारं मध्ये निगृह्य हरेत् एवमेनां मध्ये निगृह्य ऊर्ध्वामुच्छ्रापय । अथ यथेत्येतस्य स्थाने । तथाच उच्छ्रापय यथा अस्या वावाताया मध्यं योनिप्रदेशः एधताम् । 'एध वृद्धौ' वृद्धिं यायात् अथैनां गृह्णीयाः । शीते वाते पुनन्निव । यथा कृषीवलः धान्यं वाते शुद्धं कुर्वन् ग्रहणमोक्षौ झटिति करोति ॥ २६ ॥
म० उद्गाता वावातामाह । कंचिन्नरं प्रत्याह । हे नर, एनां वावातामूर्ध्वमुच्छ्रापय उच्छ्रितां कुरु । कथमिव । गिरौ भारं हरन्निव । यथा कश्चित् गिरौ पर्वते भारं हरन् पर्वतोपरि भारमारोपयन् यथा तमुच्छ्रयति तथैनामूर्ध्वां कुरु । कथमूर्ध्वा कार्या तदाह । अथेति निपातो यथार्थः । यथा अस्यै अस्या वावाताया मध्यमेधतां योनिप्रदेशो वृद्धिं यायात् । यथा योनिर्विशाला भवति तथा मध्ये गृहीत्वोच्छ्रापयेत्यर्थः । दृष्टान्तान्तरमाह । शीते वाते पुनन्निव । यथा शीतले वायौ वाति पुनन्धान्यपवनं कुर्वाणः कृषीवलो धान्यपात्रं यथा ऊर्ध्वं करोति तथेत्यर्थः ॥ २६ ॥

सप्तत्रिंशी।
ऊ॒र्ध्वमे॑न॒मुच्छ्र॑यताद्गि॒रौ भा॒रᳪं᳭ हर॑न्निव । अथा॑स्य॒ मध्य॑मेजतु शी॒ते वाते॑ पु॒नन्नि॑व ।। २७ ।।
उ० वावाता प्रत्याहोद्गातारम् । भवतोप्येतदेवम् । ऊर्ध्वमेनम् । उद्गातारमुच्छ्रयतात् उच्छ्रापय । अत्र स्त्री पुरुषायते । गिरौ भारं हरन्निव । अथैवं क्रियमाणस्यास्य मध्यं प्रजननम् एजतु चलतु । अथैनं निगृहीष्व शीते वाते पुनन्निव यवान् ॥ २७ ॥
म० वावातोद्गातारं प्रत्याह । भवतोऽप्येतत्समानम् । हे नर, एनमुद्गातारमूर्ध्वमुच्छ्रयतात् ऊर्ध्वं कुरु । गिरौ भारमिति पूर्ववत् । अथ यथास्य उद्गातुर्मध्यं लिङ्गमेजत् कम्पताम् ‘एजृकम्पने' लोट् । शीते वाते उक्तम् ॥ २७ ॥

अष्टाविंशी।
यद॑स्या अᳪं᳭हु॒भेद्या॑: कृ॒धु स्थू॒लमु॒पात॑सत् । मु॒ष्काविद॑स्या एजतो गोश॒फे श॑कु॒लावि॑व ।। २८ ।।
उ० होता परिवृक्तामभिमेथयति । यदस्याः । यत् यदा अस्याः परिवृक्तायाः । अंहुभेद्याः अल्पयोनेः । अंहुः हन्तव्यः भेद्यप्रदेशः प्रजननमस्या इति अंहुभेदी तस्याः अंहुभेद्याः । कृधु इति ह्रस्वनाम । ह्रस्वं शिश्नम् स्थूलं च उपातसत् उपसङ्गच्छेत् । अथ तदा अल्पत्वात् योनेः स्थूलत्वात् ह्रस्वत्वाच्च दुःप्रजननस्य । मुष्कौ वृषणौ इत् एवम् अस्याः प्रजननस्योपरि एजतः । 'एजृ कम्पने' कम्पनं कुरुतः । कथमिव गोशफे गोष्पदे उदकपूर्णे । शकुलाविव मत्स्याविव ॥२८॥
म० होता परिवृक्तामाह । यत् यदा अस्याः परिवृक्तायाः कृधु ह्रस्वं स्थूलं च शिश्नमुपातसत् उपगच्छेत् योनिं प्रति गच्छेत् 'तंस उपक्षये' तदा मुष्कौ वृषणौ इत् एव अस्याः योनेरुपरि एजतः कम्पेते । लिङ्गस्य स्थूलत्वाद्योनेरल्पत्वाद्वृषणौ बहिस्तिष्ठत इत्यर्थः । तत्र दृष्टान्तः । गोशफे जलपूर्णे गोः खुरे शकुलौ मत्स्याविव यथा उदकपूर्णे गोः पदे मत्स्यौ कम्पेते । कृध्विति ह्रस्वनाम । कीदृश्या अस्याः । अंहुभेद्याः अंहु भगं भेद्यं विदार्यं यस्याः सा अंहुभेदी तस्याः, अंहुर्भिद्यते यस्या वा ॥ २८ ॥

एकोनत्रिंशी।
यद्दे॒वासो॑ ल॒लाम॑गुं॒ प्र वि॑ष्टी॒मिन॒मावि॑षुः । स॒क्थ्ना दे॑दिश्यते॒ नारी॑ स॒त्यस्या॑क्षि॒भुवो॒ यथा॑ ।। २९ ।।
उ० परिवृक्ता प्रत्याह । यद्देवासः । होतृप्रमुखान् सर्वानेव ऋत्विजः परिवदति । यदा एते देवासः शिश्नदेवाः शिश्नक्रीडनाः । ललामगुम् । ललामेति सुखमभिधीयते । सुखं कर्तुं गच्छतीति ललामगुः शिश्नम् । यद्वा ललामेति पौण्ड्रमभिधीयते । शिश्नं हि योनिं प्रविशत् पौण्ड्रं भवति । प्रविष्टीमिनम् प्रवेश्य विष्टभ्य च । आविषुः आलिङ्गनचुम्बनादिभिर्निगृह्णीयुर्नारीम् । अथ तदा सक्थ्ना देदिश्यते नारी सक्थिकृतेन कुटिलगमनेन निर्दिश्यते लक्ष्यते नारी । नहि तस्याः किंचिदव्याप्तं पुरुषेण भवति अन्यत्र सक्थ्न इत्यभिप्रायः । कथमिव सत्यस्याक्षिभुवो यथा। द्विप्रकारं सत्यम् अक्षिप्रभवमनक्षिप्रभवं चेति । | अक्षिग्राह्यमक्षिप्रभवम् । तत्र हि सर्वं व्याप्तं भवति । अनक्षिप्रभवं श्रोत्रग्राह्यम् । तत्तु साकाङ्क्षं वक्तुराप्ततामपेक्षते । अतो विशिनष्टि अक्षिभुव इति । सत्यस्य अक्षिभुवो यथा अवितथत्वं तथेति ॥ २९॥
म० परिवृक्ता होतारमाह । यत् यदा देवासः देवाः दीव्यन्ति क्रीडन्ति देवा होत्रादय ऋत्विजो ललामगुं लिङ्गं प्र आविषुः योनौ प्रवेशयन्ति । 'अव रक्षे गतौ कान्तौ तृप्तौ ' प्रीतौ द्युतौ श्रुतौ । प्राप्तौ श्लेषेऽर्पणे वेशे भागे वृद्धौ गृहे वधे ॥'इत्युक्तेरत्रावधातुः प्रवेशनार्थः । लुङ् 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६ ) इति वर्तमाने लुङ् 'व्यवहिताश्च' (पा. १।४। ८२) इति प्रोपसर्गेण व्यवधानम् । ललामेति सुखनाम । ललाम सुखं गच्छति प्राप्नोति ललामगुः शिश्नः । यद्वा 'ललामं पुण्ड्रं गच्छति ललामगुः लिङ्गं योनिं प्रविशदुत्थितं पुड्राकारं भवतीत्यर्थः । कीदृशं ललामगुम् । विष्टीमिनं 'ष्टीम क्लेदे' विशेषेण स्तीमनं क्लेदनं विष्टीमः घञ्प्रत्ययः विष्टीमः क्लेदोऽस्यास्ति विष्टीमी तम् 'अत इनिठनौ' (पा० ५।२। । ११५) इत्यस्त्यर्थे इनिप्रत्ययः । शिश्नस्य योनिप्रवेशे क्लेदनं भवतीत्यर्थः । यदा देवाः शिश्नक्रीडिनो भवन्तो ललामगुं योनौ प्रवेशयन्ति तदा नारी सक्थ्ना ऊरुणा ऊरुभ्यां देदिश्यते
निर्दिश्यते अत्यन्तं लक्ष्यते । दिश्यतेर्यङ्प्रत्ययः । भोगसमये सर्वस्य नार्यङ्गस्य नरेण व्याप्तत्वादूरुमात्रं लक्ष्यते इयं नारीत्यर्थः । तत्र दृष्टान्तः । सत्यस्याक्षिभुवो यथेति । सत्यं द्विविधम् अक्षिभ्यां भवतीत्यक्षिभु प्रत्यक्षं । एकं च श्रोत्रग्राह्यम् । षष्ठ्यौ तृतीयार्थे । भवति यथा कश्चिदक्षिभुवा प्रत्यक्षेण सत्येन निर्दिश्यते तत्र विश्वासो भवति तथा उरुणा दृष्टेन नारीति लक्ष्यत इत्यर्थः । श्रोत्रग्राह्ये तु सत्ये वक्तुराप्ततमत्वमपेक्षितम् ॥ २९ ॥

त्रिंशी।
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं प॒शु मन्य॑ते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ।। ३० ।।
उ० क्षत्ता पालागलीमभिमेथयति । यद्धरिणः । यदा हरिणो मृगः यवं सस्यम् अत्ति भक्षयति । अथ तदा क्षेत्री। न पुष्टं पशु । पशुमिति प्राप्ते विभक्तिलोपः । पुष्टं पशुम् मन्यते अवगच्छति । मम क्षेत्रं भक्षितमिति यथा । एवं शूद्रा यत् यस्य शूद्रस्य भर्तुः । अर्यजारा अर्यः वैश्यः जारो यस्याः सा अर्यजारा भवेत् तदा स शूद्रः क्षेत्री । न पोषाय ममैतदिति मन्यते । नच तस्यां धनायति धनमिव च तां न मन्यते परस्योपभोग्यत्वात् ॥ ३०॥
म० क्षत्ता पालागलीमाह । यत् यदा हरिणो यवमत्ति मृगो यदा क्षेत्रस्थं धान्यं भक्षयति तदा क्षेत्री पशु पशुं हरिणं पुष्टं न मन्यते मम धान्यभक्षणेन पशुः पुष्टो जातः सम्यगिति न जानाति किंतु मदीयं क्षेत्रं भक्षितमिति दुःखी भवतीत्यर्थः । पशुशब्दात् 'सुपां सुलुक्' इत्यमो लुक् । एवं शूद्रा शूद्रजातिः स्त्री यदा अर्यजारा भवति 'अर्यः स्वामिवैश्ययोः' (पा० ३।१।१०३) इति निपातनादर्यो वैश्यो जार उपपतिर्यस्याः सा अर्यजारा । 'शूद्रा चामहत्पूर्वा जातिः' (पा. ४।१।४) इति शूद्राज्जात्यर्थे टाप् । वैश्यो यदा शूद्रां गच्छति तदा शूद्रः पोषाय न धनायते पुष्टिं न गच्छति मद्भार्या वैश्येन भुक्ता सती पुष्टा जातेति न मन्यते किंतु व्यभिचारिणी जातेति दुःखितो भवतीत्यर्थः । 'अशनायोदन्य-' (पा. ७ । ४ ।। ३४) इति क्यचि धनायतीति इच्छार्थे निपातः ॥ ३० ॥

एकत्रिंशी।
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं ब॒हु मन्य॑ते । शू॒द्रो यदर्या॑यै जा॒रो न पोष॒मनु॑ मन्यते ।। ३१ ।।
उ० पालागली प्रत्याह । यद्धरिणो यवमत्ति न पुष्टं बहु मन्यते क्षेत्रीति । यदुक्तं भवतोप्येतदेवमिति सोल्लुण्ठमाह ।' इयांस्तु विशेषः । शूद्र यत् अर्यायै अर्यायाः वैश्यायाः जारः जारयिता । तदा क्षेत्री वैश्यः आत्मनः पोषं नानुमन्यते । नहि सा तस्य पोष्या निकृष्टश्च शूद्रः उत्कृष्टा वैश्या इति । समाप्तमश्लीलभाषणम् ॥ ३१ ॥
म० पालागली क्षत्तारमाह । यदा हरिणो यवमत्ति तदा बहु यथा तथा पशुं पुष्टं न मन्यते । इदं भवतोऽपि तुल्यम् । इयान् विशेषः । यत् यदा शूद्रः अर्यायै अर्याया वैश्याया जारो भवति तदा वैश्यः पोषं पुष्टिं नानुमन्यते मम स्त्री पुष्टा जातेति नानुमन्यते किंतु शूद्रेण नीचेन भुक्तेति क्लिश्यतीत्यर्थः । अश्लीलभाषणं समाप्तम् ॥ ३१ ॥

द्वात्रिंशी।
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑: ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयू॑ᳪं᳭षि तारिषत् ।। ३२ ।।
उ० ऋत्विजो यजमानश्च सुरभिमतीमृचमन्तत आहुः वाचमेवं पुनन्ति । दधिक्राव्णः । अनुष्टुब्वैश्वदेवत्या । यत् दधिक्राव्णः अश्वस्य संस्कारार्थमश्लीलभाषणं अकारिषं अकार्षम् अकार्ष्म कृतवन्तः । वचनव्यत्ययः एकवचनस्य स्थाने बहुवचनं बोध्यम् । उपरिष्टाद्बहूनि पदानि बहुवचनान्तानि दृश्यन्ते । किंभूतस्य दधिक्राव्णः । जिष्णोः जेतुः अश्वस्य अशनस्य व्यापिनः वाजिनः। 'ओविजी भयचलनयोः' वेजनवतः तत्र सुरभीणि सुगन्धीनि । अश्लीलभाषणेन हि दुर्गन्धीनि मुखानि भवन्ति पापहेतुत्वात् । नः अस्माकं मुखानि । निकारलोपश्छान्दसः । करत् करोतु यज्ञ इत्यध्याहारः । किंच । प्राणः आयूंषि तारिषत् । प्रतारिषत् प्रवर्धयतु च नः अस्माकम् । बहुवचनं बालयौवनवृद्धवयोपेक्षम् ॥३२॥
म० 'महिषीमुत्थाप्य पुरुषा दधिक्राव्ण इत्याहुः' ( का० २० । ६ । २१)। महिषीं यजमानस्य प्रथमपरिणीतां पत्नीमश्वसमीपसुप्तामुत्थाप्य पुरुषा अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारो मन्त्रं पठेयुरिति सूत्रार्थः । वामदेवात्मजदधिक्रावदृष्टाश्वदेवत्यानुष्टुप् । वयमध्वर्यादयः अकारिषमकार्ष्म कृतवन्तः । वचनव्यत्ययः । अश्लीलभाषणमिति शेषः । किमर्थम् । अश्वस्य संस्कारायेति शेषः । अश्वसंस्कारायाश्लीलभाषणं कृतवन्त इत्यर्थः । कीदृशस्याश्वस्य । दधिक्राव्णः दधाति धारयति नरमिति दधिः 'आदृगमहन-' (पा० ३।२ । १७१) इति किप्रत्ययः । । दधिः सन् क्रामतीति दधिक्रावा । तस्य 'अन्येभ्योऽपि दृश्यते' (पा० ३ । २ । ७५) इति वनिप्प्रत्ययः 'विड्वनोरनुनासिकस्यात्-' (पा० ६ । ४ । ४१) इति धातोराकारः । जिष्णोः जयनशीलस्य । वाजिनः वजति गच्छतीति वाजी वाजोऽस्यास्तीति वा वाजी तस्य च नोऽस्माकं मुखा मुखानि सुरभि सुरभीणि करत् करोतु यज्ञ इति शेषः । अश्लीलभाषणेन दुर्गन्धं प्राप्तानि 'मुखानि सुरभीणि यज्ञः करोत्वित्यर्थः । तथाच श्रुतिः 'सुरभिमतीमृचमन्ततोऽन्वाहुर्वाचमेव पुनन्तः (१३ । २ । ९ । ९) इति । सुरभिशब्दाद्विभक्तिलोपः । किंच नोऽस्माकमायूंषि जीवनानि बाल्ययौवनवार्धकानि प्रतारिषत् प्रतारयतु प्रवर्धयतु । लेटि रूपम् ॥ ३२॥

त्रयस्त्रिंशी।
गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह । बृ॒ह॒त्युष्णिहा॑ क॒कुप्सू॒चीभि॑: शम्यन्तु त्वा ।। ३३ ।।
उ० पत्न्योसि पथं कल्पयन्ति । [२]गायत्री त्रिष्टुप् षड्भिर्ऋग्भिः । तत्राद्या उष्णिक् चतस्रोऽनुष्टुभः परा त्रिष्टुप् । गायत्री च त्रिष्टुप् च जगती च अनुष्टुप् च पङ्क्याषड सह बृहती च । उष्णिहा सह ककुप् च । सूचीभिः शम्यन्तु त्वाम् हे अश्व, मनमगानामभेदेन (?) वर्त्मनि दर्शनं सूचीभिः क्रियते तेन पथा असिः प्रवर्तते ॥ ३३ ॥
म० 'तिस्रः पत्न्योऽसि पथान्कल्पयन्त्यश्वस्य' सूचीभिर्लौहराजतसौवर्णीभिर्मणिसंख्याभिर्गायत्रीत्रिष्टुबिति द्वाभ्यां द्वाभ्याम् (का० २० । ७।१)। गायत्री त्रिष्टुबिति षडृचे द्वाभ्यां द्वाभ्यामृग्भ्यां महिष्याद्यास्तिस्रः पत्न्यः ताम्ररूप्यस्वर्णमयीभिः प्रत्येकमेकाधिकशतसंख्याभिः सूचीभिरश्वाङ्गेऽसेः शासस्य मार्गान्कुर्वन्ति । शासस्य सुखप्रवेशाय सूचीभिर्वितुद्य वितुद्याश्वत्वचं जर्जरीकुर्वन्तीति सूत्रार्थः । अश्वदेवत्याः षड़ृचः आद्योष्णिक् । हे अश्व, गायत्री त्रिष्टुप् जगती अनुष्टुप् पङ्क्यारा सह बृहती उष्णिहा सह ककुप् एतानि छन्दांसि सूचीभिरेताभिः त्वां शम्यन्तु संस्कुर्वन्तु । विकरणव्यत्ययः । असिपथार्थं त्वग्भेदनं संस्कारः ॥ ३३ ॥

चतुस्त्रिंशी।
द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः ।
विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभि॑: शम्यन्तु त्वा ।। ३४ ।।
उ० द्विपदा याः । याः द्विपदाः याश्च चतुष्पदाः याश्च त्रिपदाः याश्च षट्पदाः । याश्च विच्छन्दाः विगतं छन्दो याभ्यस्ताः । विषमाक्षराः विषमपदाः छन्दोलक्षणेनानभिसंबद्धाः । याश्च सच्छन्दाः अन्यूनातिरिक्ताक्षराश्छन्दसां जातयः ताः सर्वाः सूचीभिः शम्यन्तु त्वाम् ॥ ३४ ॥
म० चतस्रोऽनुष्टुभः । द्वे पदे यासां ता द्विपदाः याः चतुप्पदाः याः त्रिपदाः याः षट्पदाः याः विच्छन्दाः विगतं छन्दो याभ्यस्ताः छन्दोलक्षणहीनाः याः सच्छन्दाः छन्दोलक्षणयुताः ताः सर्वाः छन्दोजातयः हे अश्व, सूचीभिः त्वां शम्यन्तु ॥ ३४ ॥

पञ्चत्रिंशी।
म॒हाना॑म्न्यो रे॒वत्यो॒ विश्वा॒ आशा॑: प्र॒भूव॑रीः ।
मैघी॑र्वि॒द्युतो॒ वाच॑: सू॒चीभि॑: शम्यन्तु त्वा ।। ३५ ।।
उ० महानाम्न्यो रेवत्यः । महानाम्न्य ऋचः शाक्वर्य इति या भण्यन्ते । रेवत्य एता अपि रेवत्यः । रेवतं तासु साम भवति । विश्वाः सर्वाः आशा दिशः । प्रभूवरीः प्रभूततमाः । मैघीः मेघे भवाः विद्युतः तदुत्पन्ना याश्च वाचः ताः सर्वाः सूचीभिः शम्यन्तु । शमनेन हविः कुर्वन्तु त्वाम् ॥ ३५॥
म० महत् नाम यासां ता महानाम्न्यः शक्वर्य ऋचः। रेवत्यः ऋचः यस्यामृचि रैवतं साम गीयते सा रेवती । विश्वाः सर्वाः आशा दिशः। कीदृश्य आशाः । प्रभूवरीः प्रभवन्ति सर्वभूतानि धारयितुं समर्था भवन्ति प्रभूवर्यः 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) इति वनिप् 'ऋन्नेभ्यः-' (पा. ४। १ । ५) इति ङीप् 'वनो र च-' (पा० ४ । १।७) इति तस्य रेफः पूर्वसवर्णदीर्घत्वम् । मेघे भवा मैघ्यः । पूर्वसवर्णः । मेघोत्था विद्युतः वाचो वेदलक्षणा अन्या अपि । एताः सर्वाः सूचीभिः हे अश्व, त्वां शम्यन्तु हविः कुर्वन्तु ॥ ३५ ॥

षट्त्रिंशी।
नार्य॑स्ते॒ पत्न्यो॒ लोम॒ विचि॑न्वन्तु मनी॒षया॑ ।
दे॒वानां॒ पत्न्यो॒ दिश॑: सू॒चीभि॑: शम्यन्तु त्वा ।। ३६ ।।
उ० नार्यस्ते । नृणामपत्यानि बहूनि स्त्रीलक्षणानि नार्यः। ते तव । पत्न्यः यजमानस्य पत्न्यः । लोम लोमानि विचिन्वन्तु पृथक्कुर्वन्तु । मनीषया मनस इच्छया मनसः पर्यालोचनेन । देवानां च याः पत्न्यः दिशः ताः सर्वाः सूचीभिः शम्यन्तु शमनेन हविष्कुर्वन्तु त्वाम् ॥ ३६ ॥
म०. हे अश्व, नार्यः नृणामपत्यानि स्त्रियः ते तव लोम रोमाणि मनीषया मनसः इच्छया विचार्य विचिन्वन्तु पृथक्कुर्वन्तु । रोमेत्यत्र जातावेकवचनं विभक्तिलोपो वा । कीदृश्यो नार्यः । पत्न्यः ‘पत्युर्नो यज्ञसंयोगे' (पा. ४।१।३३) । इति नकारः । यजमानभार्या महिष्याद्या इत्यर्थः । किंच | देवानामिन्द्रादीनां पत्न्यः दिशः प्राच्याद्याः सूचीभिः त्वां शम्यन्तु ॥ ३६॥

सप्तत्रिंशी।
र॒ज॒ता हरि॑णी॒: सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः ।
अश्व॑स्य वा॒जिन॑स्त्व॒चि सिमा॑: शम्यन्तु॒ शम्य॑न्तीः ।। ३७ ।।
उ० रजता हरिणीः । रजतसुवर्णसीसमय्यः सूच्यः । युजः सहयोजनाः। युज्यन्ते कर्मभिः सीमालक्षणैः याः ताः अश्वस्य वाजिनः वेजनवतः त्वचि रोमसु सीमाः। सिमाशब्दः सीमपर्यायो मर्यादावचनः । सीमानं कुर्वाणाः शम्यन्तु हविः कुर्वन्तु । शम्यन्तीः हविष्कुर्वाणाः अश्वम् ॥३०॥ ।
म० रजताः रजतमय्यः हरिणीः हरिण्यः सुवर्णमय्यः सीसाः सीसं ताम्रं तन्मय्यः । 'त्रय्यः सूच्यो भवन्ति लोहमय्यो रजता हरिण्यः दिशो वै लोहमय्योऽवान्तरदिशो रजता ऊर्ध्वा हरिण्यस्ताभिरेवैनं कल्पयन्ति' (१३ । २।१०।६) इति श्रुतेः । सूचीनां दिग्रूपत्वादश्वसंस्कारक्षमत्वम् । ताः सूच्यः कर्मभिः अश्वदेहे सीमाकरणलक्षणैः युज्यन्ते योगं प्राप्नुवन्ति । सीमाकरणयोग्या भवन्तीत्यर्थः । कीदृश्यस्ताः । युजः युज्यन्ते ता युजः संयुताः । एकीभूता इत्यर्थः । ताः सूच्यो वाजिनो वेगवतोऽश्वस्य त्वचि सिमाः सीमारेखाः शम्यन्तु सम्यक् कुर्वन्तु। सिमाशब्दः सीमापर्यायः । कीदृश्यस्ताः । शम्यन्तीः शम्यन्त्यः संस्कारं कुर्वाणाः ॥ ३७ ॥

अष्टत्रिंशी।
कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ यज॑न्ति ।। ३८ ।।
उ० कुविदङ्गेति व्याख्यातम् ॥ ३८ ॥
म० इयं व्याख्याता (अ० १० । क० ३२ ) ॥ ३८ ॥

एकोनचत्वारिंशी।
कस्त्वाऽऽच्छ्य॑ति॒ कस्त्वा॒ विशा॑स्ति॒ कस्ते॒ गात्रा॑णि शम्यति । क उ॑ ते शमि॒ता क॒विः ।। ३९ ।।
उ० अश्वं विशास्ति अनुवाकेन षडृचेन । तत्राद्या गायत्री परा अनुष्टुभः । कस्त्वा । कः प्रजापतिः त्वाम् आच्छ्यति । 'छो छेदने' । आच्छिनत्ति त्वचः । कश्च प्रजापतिः त्वां विशास्ति त्वचा वियोजयति । कश्च प्रजापतिः ते तव गात्राणि शरीराणि शम्यति शमनेन हविर्भावमापादयति । क उ ते प्रजापतिरेव ते शमिता कविः मेधावी क्रान्तदर्शनः । यद्वा प्रश्नरूपोऽयं मन्त्रः । कोऽयं मनुष्यः त्वाम् आच्छ्यति कश्च त्वां विशास्ति कश्च ते गात्राणि शम्यति । कश्च उ ते शमिता कविः । न कश्चिदपीत्यभिप्रायः । उः पादपूरणः ॥ ३९ ॥
म० 'अश्वं विशास्त्यनुवाकेन कस्त्वाऽऽच्छ्यतीति' ( का. २०। ७ । ६)। षडृचेनानुवाकेनाश्वं विशास्ति अश्वोदरं पाटयति मेदस उद्धरणाय । वपाया अभावात् उदरमध्यस्थं स्त्यानं घृताभं घनं श्वेतं मांसं मेद इति सूत्रार्थः । अश्वदेवत्याः षडृचः। आद्या गायत्री । हे अश्व, कः प्रजापतिः त्वा त्वामाच्छ्यति छिनत्ति । 'छो छेदने' लट् 'ओतः श्यनि' (पा० ७ । ३ । ७१ ) इति ओकारलोपः । हे अश्व, कः त्वां विशास्ति त्वचा वियोजयति । ते तव गात्राणि कः शम्यति शमनेन हविः करोति । कः उ कश्च प्रजापतिरेव कविर्मेधावी ते तव शमिता शमयिता । प्रजापतिरेव सर्वं करोति नाहमित्यर्थः ॥ ३९॥

चत्वारिंशी।
ऋ॒तव॑स्त ऋतु॒था पर्व॑ शमि॒तारो॒ वि शा॑सतु । सं॒व॒त्स॒रस्य॒ तेज॑सा श॒मीभि॑: शम्यन्तु त्वा ।। ४० ।।
उ० यस्मिन् पक्षे कस्त्वा प्रजापतिस्त्वेति व्याख्यातं तस्मिन्पक्षे प्रतार्यते । ऋतवस्ते । ऋतवश्च तव शमितारः ऋतुथा ऋतावृतै काले काले पर्व पर्वणि । संवत्सरस्य च तेजसा । शमीभिः कर्मभिः शम्यन्तु शमनेन हविर्भावमापादयन्तु त्वां । हे अश्व, यदा तु कः त्वां विशासितुं समर्थों मनुष्य एवं व्याख्यातं तदा ऋतवो देवाः ते शमितार इत्येवं व्याख्येयम् ॥ ४० ॥
म० पञ्चानुष्टुभः । हे अश्व, ऋतवः शमितारः ऋतुथा ऋतौ ऋतौ काले काले ते तव पर्वणि पर्वणि अस्थिग्रन्थीन् शमीभिः कर्मभिः विशासतु भिन्नानि कुर्वन्तु । केन संवत्सरस्य संवत्सरात्मकस्य कालस्य तेजसा । किंच ऋतवः त्वा त्वां शम्यन्तु पर्वविशासनेन हविः कुर्वन्तु ॥ ४० ॥

एकचत्वारिंशी।
अ॒र्ध॒मा॒साः परू॑ᳪं᳭षि ते॒ मासा॒ आच्छ्य॑न्तु॒ शम्य॑न्तः । अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टᳪं᳭ सूदयन्तु ते ।। ४१ ।।
उ० अर्धमासाः पक्षाः मासाश्च ते तव परूंषि पर्वाणि आच्छ्यन्तु आच्छिन्दन्तु । शम्यन्तः शमनेन हविर्भावमापादयन्तः । किंच । अहोरात्राणि मरुतश्च विलिष्टं दुःश्लिष्टं सूदयन्तु । 'षूद क्षरणे' पठितोऽपीह संधाने वर्तते वाक्ययोगात् । संदधन्तु ते तव ॥ ४१ ॥
म० अर्धमासाः पक्षाः मासाश्च तदभिमानिनो देवाः शम्यन्तः संस्कुर्वन्तः सन्तो हे अश्व, ते तव परूंषि पर्वाणि आच्छ्यन्तु समन्ताच्छिन्दन्तु । 'ग्रन्थिर्ना पर्वपरुषी' इति कोशः । किंच अहोरात्राणि अहोरात्राभिमानिदेवा मरुतश्च देवाः ते तव विलिष्टं 'लिश अल्पीभावे' विशेषेणाल्पमङ्गम् तत् सूदयन्तु संदधतु 'सूद क्षरणे' अत्र सन्धानार्थः व्यर्थं मास्तु ॥४१॥

द्विचत्वारिंशी।
दैव्या॑ अध्व॒र्यव॒स्त्वाच्छ्य॑न्तु॒ वि च॑ शासतु । गात्रा॑णि पर्व॒शस्ते॒ सिमा॑: कृण्वन्तु॒ शम्य॑न्तीः ।। ४२ ।।
उ०. दैव्या अध्वर्यवः । ये च दैव्या दिव्या अध्वर्यवः अश्विप्रभृतयः ते च त्वा त्वाम् आच्छ्यन्तु विच शासतु चकारो भिन्नक्रमः । विशासतु च । किंच गात्राणि पर्वशः ते तव सिमाः मर्यादाः कृण्वन्तु कुर्वन्तु । शम्यन्तीः मर्यादादर्शनेन शमनं कुर्वाणाः ॥ ४२ ॥
म०. देवानामिमे दैव्याः अश्विनौ देवानामध्वर्यू इत्युक्तत्वात् अश्विप्रमृतयो देवसंबन्धिनोऽध्वर्यवः हे अश्व, त्वा त्वामाच्छ्यन्तु आच्छिन्दन्तु विशासतु च । चकारो भिन्नक्रमः । हविः कुर्वन्तु । किंच ते तव गात्राणि । विभक्तिव्यत्ययः । गात्रेषु शरीरेषु पर्वशः पर्वणि पर्वणि सिमाः सीमा मर्यादाः कृण्वन्तु कुर्वन्तु । 'कॄ करणे' स्वादिः । कीदृशीः सीमाः । शम्यन्तीः संस्कुर्वाणाः ॥ ४२ ॥

त्रिचत्वारिंशी।
द्यौ॑स्ते पृथि॒व्यन्तरि॑क्षं वा॒युश्छि॒द्रं पृ॑णातु ते । सूर्य॑स्ते॒ नक्ष॑त्रैः स॒ह लो॒कं कृ॑णोतु साधु॒या ।। ४३ ।।
उ० द्यौस्ते द्यौश्च ते तव पृथिवी च अन्तरिक्षं च वायुश्च छिद्रं पृणातु पूरयतु ते । किंच । सूर्यश्च ते तव नक्षत्रैः सह लोकं स्थानं कृणोतु । साधुया साधुम् । द्वितीयार्थे या छान्दसः ॥ ४३ ॥
म० द्यौः स्वर्गः पृथिवी अन्तरिक्षं लोकत्रयाभिमानिनो देवाः अग्निवायुसूर्याः वायुरन्योऽपि शरीरस्थः प्राणादिः हे अश्व, ते तव छिद्रं पृणातु । वचनव्यत्ययः पृणन्तु पूरयन्तु । यत् न्यूनं तत् पूरयन्तु । किंच नक्षत्रैः सह नक्षत्रयुक्तः सूर्यः ते तव साधुया साधुं समीचीनं लोकं कृणोतु करोतु । 'सुपां सुलुक्' इत्यादिना साधुशब्दात्परस्यामो यादेशः । सूर्यस्ते उत्तमं लोकं ददात्वित्यर्थः ॥ ४३ ॥

चतुश्चत्वारिंशी ।
शं ते॒ परे॑भ्यो॒ गात्रे॑भ्य॒: शम॒स्त्वव॑रेभ्यः । शम॒स्थभ्यो॑ म॒ज्जभ्य॒: शम्व॑स्तु त॒न्वै तव॑ ।। ४४ ।।
उ० शं ते सुखं ते तव अस्तु । हे अश्व, परेभ्यः गात्रेभ्यः । शं सुखम् अवरेभ्यः अस्तु । शम् अस्थभ्यः अस्थिभ्यः मज्जभ्यश्च अस्तु । शं चास्तु तन्वै शरीराय । षष्ठ्यर्थे छन्दसि चतुर्थी वक्तव्येति षष्ठ्यर्थे चतुर्थी । तन्वाः तव ॥४४॥
म० हे अश्व, ते तव परेभ्योऽवयवेभ्य उच्चेभ्यः शिरआदिभ्यः शं सुखमस्तु । अवरेभ्यः अधःस्थेभ्यश्च पादादिभ्यो गात्रेभ्यः शमस्तु । अस्थभ्यः तवास्थिभ्यश्च शमस्तु । 'अस्थिदधि-' (पा. ७ । १ । ७५) इत्यस्यानुवृत्तौ 'छन्दस्यपि दृश्यते' (पा० ७ । १ । ७६ ) इति सूत्रेण हलादावप्यस्थिशब्दस्यानङादेशः । मज्जभ्यः पृष्ठधातुभ्योऽपि शमस्तु । किंबहुना तव तन्वै तन्वाः सर्वस्यापि शरीरस्य शमु सुखमेवास्तु ।। षष्ठी चतुर्थ्यर्थे । आशिषि वा चतुर्थी । उ एवार्थे ॥ ४४ ॥

पञ्चचत्वारिंशी।
कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुन॑: । किᳪं᳭ स्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत् ।। ४५ ।।
उ० इत उत्तरं ब्रह्मोद्यमष्टादशर्चम् (उत्तरप्रत्युत्तरैः परस्परं संवादो ब्रह्मोद्यम्) । तत्राद्याश्चतस्रोऽनुष्टुभः कास्विदासीत्पूर्वचित्तिरित्याद्याश्च चतस्रोऽनुष्टुभः त्रिष्टुभोऽन्याः । होताध्वर्युं पृच्छति कः स्विदेकाकी इति ॥४५॥
म० 'प्राग्वपाहोमाद्धोताध्वर्युश्च सदसि संवदेते चतसृभिः' (का २० । ७ । १०)। कः स्विदेकाकीति पूर्ववत् । वपाहोमात्प्राक् च चतुर्ऋग्भिः पूर्ववदुक्तिप्रत्युक्त्या सदोमध्ये गत्वा होता अध्वर्युश्च संवादं कुरुतः । अष्टादश ऋचो ब्रह्मोद्यसंज्ञाः । ब्रह्मोद्यं परस्परं संवादः । आद्याश्चतस्रोऽनुष्टुभः का स्विदित्याद्याश्च (५३) अनुष्टुभः । होताध्वर्युं पृच्छति । व्याख्याता ॥४५॥

षट्चत्वारिंशी।
सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुन॑: । अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ।। ४६ ।।
उ० तं प्रत्याह । सूर्य एकाकी चरति । अग्रे व्याख्यातौ ॥ ४६॥
म० व्याख्याता ॥ ४६ ॥

सप्तचत्वारिंशी।
किᳪं᳭ स्वि॒त्सूर्य॑समं॒ ज्योति॒: किᳪं᳭ स॑मु॒द्रस॑म॒ᳪं᳭ सर॑: । किᳪं᳭ स्वि॑त्पृथि॒व्यै वर्षी॑य॒: कस्य॒ मात्रा॒ न वि॑द्यते ।। ४७ ।।
उ० अध्वर्युर्होतारं पृच्छति । किᳪं᳭ स्वित्सूर्यसमं ज्योतिः । किंच समुद्रसमं सरः । किंस्वित्पृथिव्यै पृथिव्याः वर्षीयः महत्तरम् । कस्य च मात्रा परिमाणं न विद्यते नास्ति ॥ ४७ ॥
म० अध्वर्युर्होतारं पृच्छति । हे होतः, स्विदिति तर्के । सूर्यसमं सूर्यमण्डलतुल्यं ज्योतिः तेजः किं तत् ब्रूहि । समुद्रसमं सरः किं स्वित् । पृथिव्यै पृथिव्याः सकाशात् वर्षीयः महत्तरं किं स्वित् । 'प्रियस्थिर-' (पा० ६ । ४ । १५७) इत्यादिना वृद्धस्य वर्षादेशः । कस्य मात्रा परिमाणं न विद्यते ॥ ४७ ॥

अष्टचत्वारिंशी।
ब्रह्म॒ सूर्य॑समं॒ ज्योति॒र्द्यौः स॑मु॒द्रस॑म॒ᳪं᳭ सर॑: । इन्द्र॑: पृथिव्यै॒ वर्षी॑या॒न् गोस्तु मात्रा॒ न वि॑द्यते ।। ४८ ।।
उ० तं प्रत्याह । ब्रह्म सूर्यसमम् । ब्रह्म त्रयीलक्षणं परं वा सूर्यसमं ज्योतिः। द्यौः समुद्रसमं सरः। इन्द्रः पृथिव्यै वर्षीयान् महत्तरः । गोस्तु मात्रा न विद्यते । गवा हि यज्ञो धार्यते । स जातः कारणं भवतीत्येतदभिप्रायम् । पृथिवी वा गौः ॥४८॥
म०. होता प्रत्याह सूर्यसमं ज्योतिर्ब्रह्म त्रयीलक्षणं परं च । समुद्रसमं सरो द्यौरन्तरिक्षं यतो वृष्टिर्भवति । पृथिव्यै पृथिव्याः सकाशात् इन्द्रः वर्षीयान् वृद्धतरः । तु पुनः गोः धेनोः मात्रा न विद्यते यज्ञधारकत्वात् ॥ ४८ ॥

एकोनपञ्चाशी।
पृ॒च्छामि॑ त्वा चि॒तये॑ देवसख॒ यदि॒ त्वमत्र॒ मन॑सा ज॒गन्थ॑ ।
येषु॒ विष्णु॑स्त्रि॒षु प॒देष्वेष्ट॒स्तेषु॒ विश्वं॒ भुव॑न॒मा वि॑वेशा३ ।। ४९ ।।
उ० ब्रह्मोद्गातारं पृच्छति । पृच्छामि त्वा भवन्तं चितये । 'चिती संज्ञाने' परिज्ञानाय । हे देवसख उद्गातः । यदि त्वम् अत्र पृष्टः सन्मनसा प्रश्नविवेचनाय सूक्ष्मानर्थान् जगन्थ अवगच्छसि । येषु विष्णुः यज्ञः त्रिषु पदेषु गार्हपत्याहवनीयदक्षिणाग्निषु आ इष्टः । यजेरेतद्रूपम् । तेषु विश्वं भुवनं भूतजातम् । आविवेश उत नेति प्रश्ने प्लुतः ॥ ४९ ॥
म० 'ब्रह्मोद्गातारौ च पृच्छामि त्वेति' ( का० २० । ७ । ११)। ब्रह्मोद्गातारं पृच्छति पृच्छामीति । चकाराच्चतुर्ऋग्भिः सदसि ब्रह्मोद्गातारौ संवदेते । ब्रह्मा उद्गातारं पृच्छति । पृच्छामि । देवानां सखा देवसखः 'राजाहःसखिभ्यष्टच्' हे देवसख देवानां मित्र उद्गातः, त्वा त्वां चितये ज्ञानायाहं पृच्छामि । अत्र मत्कृते प्रश्ने यदि त्वं मनसा जगन्थ जनासि गमेर्लिट् । ये गत्यर्थास्ते ज्ञानार्थाः । किं पृच्छसीत्यत आह । विष्णुः यज्ञो येषु त्रिषु पदेषु गार्हपत्याहवनीयदक्षिणाग्निषु एष्टः आ इष्टः यागेन तर्पितः । यजेः क्तः । तेषु त्रिषु पदेषु विश्वं सर्वं भुवनमाविवेश प्रविष्टमुत नेति प्रश्ने प्लुतः ॥ ४९ ॥

पञ्चाशी।
अपि॒ तेषु॑ त्रि॒षु प॒देष्व॑स्मि॒ येषु॒ विश्वं॒ भुव॑नमा वि॒वेश॑ ।
स॒द्यः पर्ये॑मि पृथि॒वीमु॒त द्यामेके॒नाङ्गे॑न दि॒वो अ॒स्य पृ॒ष्ठम् ।। ५० ।।
उ० प्रत्याह । अपि तेषु तेषु अहमस्मि अपि त्वं चेत्यपिशब्दः । तेषु गार्हपत्याहवनीयदक्षिणाग्निषु त्रिषु पदेषु । अहमस्मि त्वं च । केषु येषु । विश्वं भूतजातम् । आविवेश आविष्टम् । यत्पुनरेतदुक्तं भवता यदि त्वमत्र मनसा जगन्थेति । अत्र ब्रूमः । सद्यः एककालमेव । पर्येमि परिगच्छामि पृथिवीम् । उत अपिच द्याम् एकेन अङ्गेन मनसा अस्य दिवः पृष्ठं च किमुत भूतानि तत्राविष्टानीति ॥५०॥
म० उद्गाता प्रत्याह । येषु त्रिषु पदेषु विश्वं भुवनमाविवेशेति यत्त्वया पृष्टम् तेषु त्रिषु पदेषु गार्हपत्यादिषु अहमस्मि अहमपि तत्रैव स्थितोऽस्मि । अपिशब्दात् त्वं च तत्रैवासि । किमेतावदेव जानामि किंतु पृथिवीमुतापि च द्यां स्वर्गं दिवः स्वर्गस्य पृष्ठमुपरिभागमपि सद्यः तत्क्षणमेव एकेनाङ्गेन मनसा पर्येमि परिगच्छामि सर्वं जानामि किंपुनर्भूतानि प्रविष्टानीति भावः ॥ ५० ॥

एकपञ्चाशी।
केष्व॒न्तः पुरु॑ष॒ आ वि॑वेश॒ कान्य॒न्तः पुरु॑षे॒ अर्पि॑तानि ।
ए॒तद्ब्र॑ह्म॒न्नुप॑ वल्हामसि त्वा॒ किᳪं᳭ स्वि॑न्न॒: प्रति॑ वोचा॒स्यत्र॑ ।। ५१ ।।
उ० उद्गाता ब्रह्माणं पृच्छति । केष्वन्तः । केषु अन्तर्मध्ये पुरुषः आविवेश आविष्टः प्रविष्टः । कानि चान्तः : मध्ये पुरुषे अर्पितानि । एतत् हे ब्रह्मन् उपवल्हामसि । • 'वल्ह प्राधान्ये' । इह तु आह्वानपूर्वे संहर्षे वर्तते । उपसङ्गम्याहूयोत्क्षिप्य बाहू पृच्छामि भवन्तम् किंस्विन्नः किं पुनरस्माकं प्रति वोचासि मध्ये पुरुष आविवेश । किंच तानि प्राणाधीनानि करणानि अन्तः पुरुषे अर्पितानि । : एतत् त्वा भवन्तं प्रति मन्वानः प्रतिजानानः अस्मि अवस्थितः । नच मायया प्रज्ञया भवसि उत्तरः उद्गातृतरः मत् प्रति ब्रवीपि अत्र प्रश्ने ॥ ५१ ॥
म० उद्गाता ब्रह्माणं पृच्छति । हे ब्रह्मन् , पुरुषः केषु ' पदार्थेषु अन्तर्मध्ये आविवेश प्रविष्टः । पुरुषे अन्तः पुरुषमध्ये कानि वस्तूनि अर्पितानि स्थापितानि । एतत् त्वा त्वां वयमुपवल्हामसि उपवल्हामः स्पर्धया पृच्छामः 'वल्ह प्राधान्यपरिभाषणहिंसादानेषु' लट् 'इदन्तो मसि' अत्र प्रश्ने । किं स्वित् त्वं प्रतिवोचासि प्रतिवदसि । 'वच उम्' (पा० ७ । ४ । २० ) इति लेटि छान्दस उम् । 'लेटोऽडाटौ' (पा० ३ । । ४ । ९४) इत्याडागमः ॥५१॥

द्विपञ्चाशी। ।
प॒ञ्चस्व॒न्तः पुरु॑ष॒ आ वि॑वेश॒ तान्य॒न्तः पुरु॑षे॒ अर्पि॑तानि ।
ए॒तत्त्वात्र॑ प्रतिमन्वा॒नो अ॑स्मि॒ न मा॒यया॑ भव॒स्युत्त॑रो॒ मत् ।। ५२ ।।
उ० प्रत्याह । पञ्चस्वन्तः पञ्चस्विति प्राणाः ख्यायन्ते । पञ्चसु प्राणेषु मत्तः मामपेक्ष्य ॥ ५२ ॥
म० ब्रह्मा प्रत्याह । पुरुषः आत्मा पञ्चसु प्राणेषु अन्तः प्राणमध्ये आविवेश प्रविष्टः तानि प्रसिद्धानि श्रोत्राधिकरणानि पुरुषे अन्तः मध्ये अर्पितानि । प्राणात्मनामन्योन्यापेक्षासिद्धिरित्यर्थः । नचात्मानमन्तरेण प्राणाः ख्यायन्ते 'न प्राणानन्तरेणात्मेति' बह्वृचश्रुतेः । यद्वा पञ्चसु भूतेषु भूम्यादिषु आत्मा प्रविष्टस्तानि चात्मनि प्रविष्टानि 'तानि सृष्ट्वा तदेवानुप्राविशत्' इति श्रुतेः । उद्गातः, अहमत्र प्रश्ने । त्वा त्वां प्रति एतदुत्तरं प्रतिमन्वानः प्रतिजानानोऽस्मि । एवमुत्तरं ददामीत्यर्थः । किंच मायया बुद्ध्या मत् मत्तः उत्तरोऽधिकस्वं न भवसि । मत्तो बुद्धिमान्नासीत्यर्थः ॥ ५२ ॥

त्रिपञ्चाशी।
का स्वि॑दासीत्पू॒र्वचि॑त्ति॒: किᳪं᳭ स्वि॑दासीद् बृ॒हद्वय॑: ।
का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ।। ५३ ।।
उ० होताध्वर्युं पृच्छति । कास्विदासीत् ॥ ५३ ॥
म० 'पुनः पूर्वावपरेणोत्तरवेदिं का स्विदिति' (का. । २० । ७ । १२)। ततः सदसो निष्क्रम्य हविर्धानस्य पुर उत्तरवेदेः पश्चादुपविश्य पूर्वौ पूर्वोक्तौ होत्रध्वर्यू चतुर्ऋग्भिः संवदेते इति सूत्रार्थः । होताध्वर्युं पृच्छति । व्याख्याता (११) ॥ ५३ ॥

चतुःपञ्चाशी।
द्यौ॑रासीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वय॑: ।
अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ।। ५४ ।।
उ० प्रत्याह । द्यौरासीत् व्याख्यातौ ॥ ५४ ॥
म० व्याख्याता (१२) ॥ ५४ ॥

पञ्चपञ्चाशी।
का ई॑मरे पिशङ्गि॒ला का ईं॑ कुरुपिशङ्गि॒ला ।
क ई॑मा॒स्कन्द॑मर्षति॒ क ईं॒ पन्थां॒ वि स॑र्पति ।। ५५ ।।
उ० अध्वर्युर्होतारं पृच्छति । का ईमरे । ईमिति चकारार्थे । अरे इत्यामन्त्रितविषयः । उभावपि निपातौ । का च अरे होतः, पिशङ्गिला । का च कुरुपिशङ्गिला। कश्च आस्कन्दम् अर्षति कश्च पन्थां विसर्पति ॥ ५५ ॥
म० अध्वर्युर्होतारं पृच्छति । ईमिति निपातश्चार्थः । अरे होतः, का च पिशंगिला का च कुरुपिशंगिला कश्च आस्कन्दं णमुलन्तः । आस्कद्य उत्प्लुत्य अर्षति गच्छति 'ऋष गतौ' तुदादिः व्यत्ययेन शप् । कश्च पन्थां पन्थानं मार्गं प्रति विसर्पति विविधं गच्छति ॥ ५५ ॥

षट्पञ्चाशी।
अ॒जारे॑ पिशङ्गि॒ला श्वा॒वित्कु॑रुपिशङ्गि॒ला ।
श॒श आ॒स्कन्द॑मर्ष॒त्यहि॒: पन्थां॒ वि स॑र्पति ।। ५६ ।।
उ० प्रत्याह अजारे अजा नित्यारात्रिः अरे अध्वर्यो, पिशङ्गिला । सा हि पिशं रूपं गिलति भक्षयति । स हि तस्याः प्रभावः । श्वावित् सेधा उच्यते । कुरुपिशंगिला । कृत्वा उपलभ्योपलभ्य पिशं रूपं गिलति भक्षयति सा कुरुपिशंगिला । सा हि शतं मूलानां श्वोभक्षणाय कुक्षौ स्थापयति शतं च भक्षयति स हि तस्याः स्वभावः । शशश्च आस्कन्दं आस्कन्द्यास्कन्द्य अर्षति गच्छति स हि तस्य स्वभावः । अहिश्च स्वकीयं पन्थानम् विसर्पति विकुर्वन् गच्छति ॥ ५६ ॥
म० अरे अध्वर्यो, अजा पिशंगिला अजा नित्या माया रात्रिर्वा पिशंगिला पिशं रूपं गिलति भक्षयति पिशंगिला माया विश्वं ग्रसते । रात्रावपि रूपाणि न प्रतीयन्ते तमसा । श्वावित् सेधा कुरुपिशंगिला कुरुशब्दोऽनुकरणे ‘पिश अवयवे' इति धातोरिगुपधेति कप्रत्ययः । कुरु इति शब्दमनुकुर्वाणा पिशान् मूलाद्यवयवान् गिलति पिशंगिला । मूलानां शतं कुक्षौ स्थापयति शतं च भक्षयतीति सेधायाः स्वभावः । शशः वन्यो जीवविशेषः आस्कन्दमास्कन्द्यास्कन्द्य अर्षति स तस्य स्वभावः । अहिः सर्पः पन्थां पन्थानं विसर्पति विशेषेण | गच्छति ॥ ५६ ॥

सप्तपञ्चाशी।
कत्य॑स्य वि॒ष्ठाः कत्य॒क्षरा॑णि॒ कति॒ होमा॑सः कति॒धा समि॑द्धः ।
य॒ज्ञस्य॑ त्वा वि॒दथा॑ पृच्छ॒मत्र॒ कति॒ होता॑र ऋतु॒शो य॑जन्ति ।। ५७ ।।
उ० ब्रह्मोद्गातारं पृच्छति । कत्यस्य अस्य यज्ञस्य कति विष्ठाः विशेषेण तिष्ठति यज्ञो यासु ता विष्ठा अन्नानि । कति च अक्षराणि कति च होमाः कतिधा च समिद्धः समिधः यज्ञस्य त्वा भवन्तम् विदथा आवेदनेन हेतुना पृच्छं पृच्छामि । अत्र च यज्ञे कति होतारः ऋतुशः ऋतुयाज्यान् यजन्ति ॥ ५७ ॥ |
म० 'उत्तरौ च कत्यस्येति' ( का० २० । ७ । १३)। । उत्तरौ पश्चादुक्तौ ब्रह्मोद्गातारौ चतुर्ऋग्भिः संवदेते । ब्रह्मोद्गातारं पृच्छति । अस्य कति विष्टाः कियन्ति अन्नानि । का संख्या यासां ताः कति । विशेषेण तिष्ठति यज्ञो यासु ताः विष्ठाः अन्नानि कियत्प्रकाराणि यज्ञे । अक्षराणि च कति । होमासः होमाः कति । समिद्धः समिधः कतिप्रकाराः । धकारस्य द्वित्वमार्षम् । यज्ञस्य विदथा वेत्तीति विदः विदस्य भावो विदथा यज्ञावेदितृत्वेन हेतुना अत्र स्थले त्वा त्वामहं पृच्छमपृच्छं पृच्छामि । पृच्छतेर्लङ् । अडभाव आर्षः । ऋतुशः ऋतौ ऋतौ कति होतारः यजन्ति ॥ ५७ ॥

अष्टपञ्चाशी।
षड॑स्य वि॒ष्ठाः श॒तम॒क्षरा॑ण्यशी॒तिर्होमा॑: स॒मिधो॑ ह ति॒स्रः ।
य॒ज्ञस्य॑ ते वि॒दथा॒ प्र ब्र॑वीमि स॒प्त होता॑र ऋतु॒शो य॑जन्ति ।। ५८ ।।
उ० प्रत्याह । षडस्य । रससंख्ययोपसंजिहीर्षुराह । अस्य यज्ञस्य षड्विष्ठाः अन्नानि सर्वान्नानां पड्रसात्मकत्वात् शतमक्षराणि । छन्दसामुद्धारेणोपसंजिहीर्षुराह । चतुर्दश छन्दांसि गायत्रीप्रभृतीनि चतुर्विंशत्यक्षरादीनि । चतुरुत्तराणि अतिधृतिपर्यन्तानि । अतिधृतिस्तु षट्सप्तत्या भवति । एतैः प्रायशो यज्ञस्तायते । तत्र गायत्री अतिधृतिश्च शतम्। एवमुष्णिक् धृतिश्च शतम् । एवमन्येष्वपि छन्दस्सु इत्येतदभिप्रायम् । अशीतिर्होमाः । एकविंशतिरश्वमेधे यूपाः । । तत्राग्निष्टे अश्वस्तूपरो गोमृगान् नियुनक्ति । इतरेषु षोडशषोडश । तत्र विंशतियूपैः चतस्रोऽशीतयो भवन्ति तदभिप्रायमेतत् । कतिधा समिद्ध इति यदुक्तम् अत्र ब्रूमः । समिधो ह तिस्रः याभिः समिद्भिः संदीप्तो यज्ञः तास्तिस्रः अश्वस्तूपरो गोमृगाः प्राजापत्याः पशवः यज्ञस्य ते तव विदथा वेदनेन । ब्रवीमि सप्तहोतारः वषट्कर्तारः ऋतुशः । ऋतुयागेषु यजन्ति ॥ ५८ ॥
म० उद्गाता प्रत्याह । रससंख्यया अन्नसंख्यामाह । अस्य यज्ञस्य षट् विष्ठाः अन्नानि । सर्वेषामन्नानां षड्रसात्मकत्वात्षडेवान्नानीत्यर्थः । अस्य यज्ञस्य शतमक्षराणि छन्दोभिर्यज्ञो निष्पाद्यते तानि च छन्दांसि गायत्र्यादीन्यतिधृत्यन्तानि चतुर्दश चतुर्विशत्यक्षरादीनि चतुर्वर्णान्तराणि तेषां क्रमोत्क्रमगत्या द्वाभ्यां शतमक्षराणि भवन्ति । तथा हि । गायत्री चतुर्विंशतिवर्णा । अतिधृतिः षट्सप्तत्यक्षरा एवं द्वे मिलित्वा शतमक्षराणि उष्णिक् २८ धृतिः ७२ एवं शतम् । अनुष्टुप् ३२ अत्यष्टिः ६८ एवं शतम् । अष्टिः ६४ बृहती ३६ एवं शतम् । अतिशक्वरी ६० पङ्क्तिः ४० एवं शतम् । शक्वरी ५६ त्रिष्टुप् ४४ एवं शतम् । अतिजगती ५२ जगती ४८ एवं शतमक्षराणि । अनेनाभिप्रायेण शतमक्षराणीत्युक्तम् । होमाः अशीतिः अश्वमेध एकविंशतिर्यूपाः तत्राग्निष्टे मध्यमयूपेऽश्वतूपरगोमृगान्नियुनक्ति इतरेषु षोडश पशून् तत्र विंशतियूपेषु चतस्रोऽशीतयः पशवो भवन्तीत्यभिप्रायेणोक्तम् । अशीतिर्होमाः ह स्फुटम् । तिस्रः समिधः अश्वतूपरगोमृगाः प्राजापत्याः पशवः तद्रूपाभिः समिद्भिर्यज्ञो दीप्त इति तिस्रः समिध उक्ताः । यज्ञस्य विदथा वेदनेन हेतुना ते तुभ्यं प्रव्रवीमि प्रवदामि । किंच सप्त होतारो वषट्कर्तारः ऋतुशः ऋतुयाजेषु यजन्ति ॥ ५८ ॥

एकोनषष्टी।
को अ॒स्य वे॑द॒ भुव॑नस्य॒ नाभिं॒ को द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
कः सूर्य॑स्य वेद बृह॒तो ज॒नित्रं॒ को वे॑द च॒न्द्रम॑सं यतो॒जाः ।। ५९ ।।
उ० उद्गाता ब्रह्माणं पृच्छति । को अस्य । कः अस्य वेद जानाति । कश्च द्यावापृथिवी अन्तरिक्षं च वेद । कश्च सूर्यस्य वेद जानाति । बृहतः महतः जनित्रं जन्म । कश्च वेद चन्द्रमसम् । चन्द्रमसः इति विभक्तिव्यत्ययः । यतोजाः यतो जन्म ॥ ५९ ॥
म० उद्गाता ब्रह्माणं पृच्छति । हे ब्रह्मन् , अस्य भुवनस्य जातस्य नाभिं नभ्यते यत्र स नाभिर्बन्धनस्थानं कारणमिति यावत् । नाभौ हि सर्वा नाड्यो बध्यन्ते 'नभ हिंसायाम्' अत्र बन्धनार्थः । औणादिक इप्रत्ययः । भूतजातस्य कारणं को वेद जानाति । द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च को वेद । बृहतो महतो जनित्रं जन्म को वेद । सूर्यस्योत्पत्तिः कस्मादित्यर्थः । जनेस्त्रल्प्रत्ययः। यतो जायते उत्पद्यते इति यतोजाः यत इत्युपपदे 'जनसनखनक्रमगमो विट्' (पा० ३। २।६७) इति विट्प्रत्ययः । 'विड्वनोरनुनासिकस्य' (पा० ६। ४ । ४१) इति नकारस्यात्वम् । प्रथमा द्वितीयार्था । यतोजाः यत उत्पन्नं चन्द्रमसमिन्दुं को वेद । यतश्चन्द्रस्योत्पत्तिस्तं को वेदेत्यर्थः ॥ ५९॥

षष्टी।
वेदा॒हम॒स्य भुव॑नस्य॒ नाभिं॒ वेद॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
वेद॒ सूर्य॑स्य बृह॒तो ज॒नित्र॒मथो॑ वेद च॒न्द्रम॑सं यतो॒जाः ।। ६० ।।
उ० प्रत्याह । वेदाहम् । वेद जानामि अहम् । अस्य भुवनस्य नाभिं नहनं बन्धनं परं ब्रह्म । वेद च द्यावापृथिवी अन्तरिक्षं च ब्रह्मणो विकारभूतम् । वेद च सूर्यस्य बृहतः जनित्रं परमात्मलक्षणम् । अथो अपिच वेद जानामि चन्द्रमसं यतोजाः चन्द्रमसः यतो जन्म परमात्मनः यज्ञाद्वा ॥ ६०॥
म० ब्रह्मा प्रत्याह । अस्य भुवनस्य नाभिं कारणमहं वेद जानामि विदो लटो वा' (पा० ३।४। ८३ ) परब्रह्मव जगकारणं जानामीत्यर्थः । द्यावापृथिवी अन्तरिक्षं च वेद ब्रह्मणो विकारभूतं जानामि । वृहतः सूर्यस्य जनित्रमुत्पत्तिकारणं ब्रह्मैव वेद । अथो अपिच यतोजाः चन्द्रमसमहं वेद परमात्मनो जातं चन्द्रमहं वेमीत्यर्थः ॥ ६० ॥

एकषष्टी।
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभि॑: ।
पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॑: पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ।। ६१ ।।
उ० अध्वर्युं यजमानः पृच्छति पृच्छामि त्वा । पृच्छामि त्वां भवन्तम् परम् अन्तं पृथिव्याः । पृच्छामि च यत्र भुवनस्य नाभिः नहनम् । पृच्छामि च भवन्तम् वृष्णः सेक्तुः अश्वस्य रेतः । पृच्छामि च वाचः परमं व्योम व्यवनं स्थानम् ॥ ६१ ॥
म० 'यजमानोऽध्वर्यु पृच्छामि बेति' (का० २० । ७ । १४) । यजमानोऽध्वर्यु पृच्छति । हे अध्वर्यो, पृथिव्याः परमन्तमवधिभूतं पर्यन्तं त्वा त्वामहं पृच्छामि । द्विकर्मकः । यत्र यस्मिन्स्थले भुवनस्य भूतजातस्य नाभिः कारणं तदपि त्वां पृच्छामि । वृष्णः सेक्तुः अश्वस्य रेतः वीर्यं त्वां पृच्छामि । वाचो वाण्याः त्रयीलक्षणायाः परममुत्कृष्टं व्योम स्थानं त्वां पृच्छामि ॥ ६१ ॥

द्विषष्टी।
इ॒यं वेदि॒: परो॒ अन्त॑: पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभि॑: ।
अ॒यᳪं᳭ सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ।। ६२ ।।
उ० प्रत्याह इयं वेदिः । इयं वेदिः परः अन्तः पृथिव्याः। वेदिर्हि सर्वा पृथिवीरूपा भवति । अयं च यज्ञः भुवनस्य नाभिः नहनम् 'यज्ञाद्वै प्रजाः प्रजायन्ते' इति श्रुतेः । अयं च सोमः चन्द्रमाः लता सोमो वा वृष्णः सेक्तुः अश्वस्य रेतः । अयं च ब्रह्मा ऋत्विक् वाचः परमं व्योम व्यवनं स्थानम् त्रिवेदयोगात् । समाप्तं ब्रह्मोद्यम् ॥ ६२ ॥
म०. 'इयं वेदिरित्यध्वर्युः' (का० २० । ७ । १५) । अध्वर्युः यजमानं प्रत्याह । इयं वेदिः उत्तरवेदिः पृथिव्याः परः अन्तोऽवधिः । वेदेः सर्वपृथ्वीरूपत्वादित्यर्थः । भुवनस्य नाभिः कारणम् । अयं यज्ञोऽश्वमेधः भुवनस्य प्राणिजातस्य नाभिः कारणम् । 'यज्ञाद्वै प्रजाः प्रजायन्ते' इति श्रुतेः । वृष्णः अश्वस्य रेतः अयं सोमः सोमलताश्वस्य वीर्याज्जातेत्यर्थः । अयं ब्रह्मा ऋत्विक् वाचः त्रयीरूपायाः परमं व्योम स्थानम् । ब्रह्मणस्त्रिवेदसंयोगादित्यर्थः । ब्रह्मोद्यं समाप्तम् ॥ ६२ ॥

त्रिषष्टी।
सु॒भूः स्व॑य॒म्भूः प्र॑थ॒मोऽन्तर्म॑ह॒त्य॒र्ण॒वे । द॒धे ह॒ गर्भ॑मृ॒त्वियं॒ यतो॑ जा॒तः प्र॒जाप॑तिः ।। ६३ ।।
उ० महिम्नः पुरोनुवाक्या । सुभूः स्वयंभूः । अनुष्टुप् प्राजापत्या । साधुभवनः स्वयंभूः स्वेच्छया गृहीतशरीरः। प्रथमः अनादिनिधनः पुरुषः । किमकरोदित्याह । अन्तर्महत्यर्णवे दधेह । अन्तर्महतोऽर्णवस्य । हेति निपातः पुराकल्पद्योतनार्थः । किं दधे । गर्भं ऋत्वियं प्राप्तकालम् । कथंभूतं गर्भम् । यतो जातः प्रजापतिः । यस्माद्गर्भात् जातः प्रजापतिः अनन्योपमः ॥ ६३ ॥
म०. सुभूरिति पूर्वस्य महिम्नः पुरोऽनुवाक्या उत्तरस्य याज्या च । 'उदिते ब्रह्मोद्यं संप्रपद्याध्वर्युर्हिरण्मयेन पात्रेण प्राजापत्यं महिमानं ग्रहं गृह्णाति तस्य पुरोरुग्घिरण्यगर्भः समवर्तताग्र इत्यथास्य पुरोऽनुवाक्याः सुभूः स्वयंभूः' (१३ । ५ । २।२३) इति श्रुतेः । प्रजापतिदेवत्यानुष्टुप् । ह इति प्रसिद्धम् । प्रथमः सर्वस्य आदिः अनादिनिधनः पुरुषः महति अर्णवे कल्पान्तकालीने समुद्रे अन्तर्मध्ये गर्भं दधे स्थापितवान् । कीदृशः । सुष्ठू भूरुत्पत्तिर्यस्मात्स सुभूः विश्वोत्पादकः । खयं भवतीति स्वयंभूः स्वेच्छाधृतशरीरः । कीदृशं गर्भम् । ऋत्वियम् ऋतुः प्राप्तो यस्य । घस्प्रत्ययः । प्राप्तकालम् । यतो गर्भात् प्रजापतिः ब्रह्मा जातः उत्पन्नः ॥ ६३ ॥

चतुःषष्टी।
होता॑ यक्षत्प्र॒जाप॑ति॒ᳪं᳭ सोम॑स्य महि॒म्नः । जु॒षतां॒ पिब॑तु॒ सोम॒ᳪं᳭ होत॒र्यज॑ ।। ६४ ।।
उ० प्रैषः । होता यक्षत् । दैव्यो होता यजतु । प्रजापतिम् सोमस्य महिम्नः संबन्धिनम् । स चेज्यमानः सन् जुषतां प्रीत्या परिगृह्णातु पिबतु च सोमम् । त्वमपि च हे मनुष्यहोतः, यज ॥ ६४ ॥
म० महिम्नः प्रैषः । 'होता यक्षत्प्रजापतिमिति प्रैषः' ( १३ । ५।२।२३) इति श्रुतेः । आर्षी गायत्री । महिम्नः सोमस्य महिमसंज्ञस्य सोमग्रहस्य संबन्धिनं प्रजापतिं होता दैव्यो यक्षत् यजतु । इज्यमानः स प्रजापतिः जुषतां सोमं महिमग्रहं पिबतु च । हे मनुष्यहोतः, त्वमपि यज ॥ ६४ ॥

पञ्चषष्टी ।
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यᳪं᳭ स्या॑म॒ पत॑यो रयी॒णाम् ।। ६ ५ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां त्रयोविंशोऽध्यायः ॥ २३ ॥
उ० प्रजापते न । व्याख्यातो मन्त्रः ॥ ६५॥
इति उवटकृतौ मन्त्रभाष्ये त्रयोविंशोऽध्यायः ॥ २३ ॥
म० पूर्वस्य महिम्नो याज्या । 'प्रजापते न त्वदेतान्यन्य इति होता यजतीति' (१३ । ५ । २ । २३) इति श्रुतेः । व्याख्याता (१० । २०)॥६५॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
त्रयोविंशोऽयमध्यायो व्यरंसीदाश्वमेधिकः ॥ २३ ॥



  1. गण उपरि टिप्पणी
  2. छन्दोपरि टिप्पणी