शुक्लयजुर्वेदः/अध्यायः २१
← अध्यायः २० | शुक्लयजुर्वेदः अध्यायः २१ [[लेखकः :|]] |
अध्यायः २२ → |
अध्यायः 21
सौत्रामणी यागे आज्यादिप्रेषण मन्त्राः
21.1
इमं मे वरुण श्रुधी हवम् अद्या च मृडय ।
त्वाम् अस्वस्युर् आ चके ॥
21.2
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्य् उरुशꣳस मा न ऽ आयुः प्र मोषीः ॥
21.3
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽ अव यासिसीष्ठाः ।
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्य् अस्मत् ॥
21.4
स त्वं नो ऽ अग्ने ऽवमो भवोती नेदिष्ठो ऽ अस्या उषसो व्युष्टौ ।
अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न ऽ एधि ॥
21.5
महीमू षु मातरꣳ सुव्रतानाम् ऋतस्य पत्नीम् अवसे हुवेम ।
तुविक्षत्राम् अजरन्तीम् उरूचीꣳ सुशर्माणम् अदितिꣳ सुप्रणीतिम् ॥
21.6
सुत्रामाणं पृथिवीं द्याम् अनेहसꣳ सुशर्माणम् अदितिꣳ सुप्रणीतिम् ।
दैवीं नावꣳ स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥
21.7
सुनावम् आ रुहेयम् अस्रवन्तीम् अनागसम् ।
शतारित्राꣳ स्वस्तये ॥
21.8
आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् ।
मध्वा रजाꣳसि सुक्रतू ॥
21.9
प्र बाहवा सिसृतं जीवसे न ऽ आ नो गव्यूतिम् उक्षतं घृतेन ।
आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥
21.10
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तो ऽहिं वृकꣳ रक्षाꣳसि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥
21.11
वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
21.12
समिद्धो ऽ अग्निः समिधा सुसमिद्धो वरेण्यः ।
गायत्री छन्द ऽ इन्द्रियं त्र्यविर् गौर् वयो दधुः ॥
21.13
तनूनपाच्छुचिव्रतस् तनूपाश् च सरस्वती ।
उष्णिहा छन्द ऽ इन्द्रियं दित्यवाड् गौर् वयो दधुः ॥
21.14
इडाभिर् अग्निर् ईड्यः सोमो देवो ऽ अमर्त्यः ।
अनुष्टुप् छन्द ऽइन्द्रियं पञ्चाविर् गौर् वयो दधुः ॥
21.15
सुबर्हिर् अग्निः पूषण्वान्त् स्तीर्णबर्हिर् अमर्त्यः ।
बृहती छन्द ऽ इन्द्रियं त्रिवत्सो गौर् वयो दधुः ॥
21.16
दुरो देवीर् दिशो महीर् ब्रह्मा देवो बृहस्पतिः ।
पङ्क्तिश् छन्द ऽ इहेन्द्रियं तुर्यवाड् गौर् वयो दधुः ॥
21.17
उषे यह्वी सुपेशसा विश्वे देवा ऽ अमर्त्याः ।
त्रिष्टुप् छन्द ऽ इहेन्द्रियं पष्ठवाड् गौर् वयो दधुः ॥
21.18
दैव्या होतारा भिषजेन्द्रेण सयुजा युजा ।
जगती छन्द ऽ इन्द्रियम् अनड्वान् गौर् वयो दधुः ॥
21.19
तिस्र ऽ इडा सरस्वती भारती मरुतो विशः ।
विराट् छन्द ऽ इहेन्द्रियं धेनुर् गौर् न वयो दधुः ॥
21.20
त्वष्टा तुरीपो ऽ अद्भुत ऽ इन्द्राग्नी पुष्टिवर्धना ।
द्विपदा छन्द ऽ इन्द्रियम् उक्षा गौर् न वयो दधुः ॥
21.21
शमिता नो वनस्पतिः सविता प्रसुवन् भगम् ।
ककुप् छन्द ऽ इहेन्द्रियं वशा वेहद् वयो दधुः ॥
21.22
स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् ।
अतिच्छन्दा ऽइन्द्रियं बृहद् ऋषभो गौर् वयो दधुः ॥
21.23
वसन्तेन ऽ ऋतुना देवा वसवस् त्रिवृता स्तुताः ।
रथन्तरेण तेजसा हविर् इन्द्रे वयो दधुः ॥
21.24
ग्रीष्मेण ऽ ऋतुना देवा रुद्राः पञ्चदशे स्तुताः ।
बृहता यशसा बलꣳ हविर् इन्द्रे वयो दधुः ॥
21.25
वर्षाभिर् ऋतुनादित्या स्तोमे सप्तदशे स्तुताः ।
वैरूपेण विशौजसा हविर् इन्द्रे वयो दधुः ॥
21.26
शारदेन ऽ ऋतुना देवा ऽ एकविꣳश ऽ ऋभव स्तुताः ।
वैराजेन श्रिया श्रियꣳ हविर् इन्द्रे वयो दधुः ॥
21.27
हेमन्तेन ऽ ऋतुना देवास् त्रिणवे मरुत स्तुताः ।
बलेन शक्वरीः सहो हविर् इन्द्रे वयो दधुः ॥
21.28
शैशिरेण ऽ ऋतुना देवास् त्रयस्त्रिꣳशे ऽमृता स्तुताः ।
सत्येन रेवतीः क्षत्रꣳ हविर् इन्द्रे वयो दधुः ॥
21.29
होता यक्षत् समिधाग्निम् इडस् पदे ऽश्विनेन्द्रꣳ सरस्वतीम् अजो धूम्रो न गोधूमैः कुवलैर् भेषजं मधु शष्पैर् न तेज ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.30
होता यक्षत् तनूनपात् सरस्वती अविर् मेषो न भेषजं पथा मधुमता भरन्न् अश्विनेन्द्राय वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.31
होता यक्षन्नराशꣳसं न नग्नहुं पतिꣳ सुरया भेषजं मेषः सरस्वती भिषग् रथो न चन्द्र्य् अश्विनोर् वपा ऽ इन्द्रस्य वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.32
होता यक्षद् इडेडित ऽ आजुह्वानः सरस्वतीम् इन्द्रं बलेन वर्धयन्न् ऋषभेण गवेन्द्रियम् अश्विनेन्द्राय भेषजं यवैर् कर्कन्धुभिर् मधु लाजैर् न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.33
होता यक्षद् बर्हिर् ऊर्णम्रदा भिषङ् नासत्या भिषजाश्विनाश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् दुह ऽ इन्द्राय भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.34
होता यक्षद् दुरो दिशः कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिश ऽ इन्द्रो न रोदसी दुघे दुहे धेनुः सरस्वत्य् अश्विनेन्द्राय भेषजꣳ शुक्रं न ज्योतिर् इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.35
होता यक्षत् सुपेशसोषे नक्तं दिवाश्विना समञ्जति सरस्वत्या त्विषिम् इन्द्रे न भेषजꣳ श्येनो न रजसा हृदा श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.36
होता यक्षद् दैव्या होतारा भिषजाश्विनेन्द्रं न जागृवि दिवा नक्तं न भेषजैः शूषꣳ सरस्वती भिषक् सीसेन दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.37
होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस्त्रिधातवो पसो रूपम् इन्द्रे हिरण्ययम् अश्विनेडा न भारती वाचा सरस्वती मह ऽ इन्द्राय दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.38
होता यक्षत् सुरेरसम् ऋषभं नर्यापसं त्वष्टारम् इन्द्रम् अश्विना भेषजं न सरस्वतीम् ओजो न हूतिर् इन्द्रियं वृको न रभसो भिषग् यशः सुरया भेषजꣳ श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.39
होता यक्षद् वनस्पतिꣳ शमितारꣳ शतक्रतुं भीमं न मन्युꣳ राजानं व्याघ्रं नमसाश्विना भामꣳ सरस्वती भिषग् इन्द्राय दुह ऽ इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.40
होता यक्षद् अग्निꣳ स्वाहाज्यस्य स्तोकानाꣳ स्वाहा मेदसां पृथक् स्वाहा छागम् अश्विभ्याꣳ स्वाहा मेषꣳ सरस्वत्यै स्वाह ऽ ऋषभम् इन्द्राय सिꣳहाय सहस ऽ इन्द्रियꣳ स्वाहाग्निं न भेषजꣳ स्वाहा सोमम् इन्द्रियꣳ स्वाहेन्द्रꣳ सुत्रामाणꣳ सवितारं वरुणं भिषजां पतिꣳ स्वाहा वनस्पतिं प्रियं पाथो न भेषजꣳ स्वाहा देवा ऽ आज्यपा जुषाणो ऽ अग्निर् भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥
21.41
होता यक्षद् अश्विनौ छागस्य वपाया मेदसो जुषेताꣳ हविर् होतर् यज ।
होता यक्षत् सरस्वतीं मेषस्य वपाया मेदसो जुषताꣳ हविर् होतर् यज ।
होता यक्षद् इन्द्रम् ऋषभस्य वपाया मेदसो जुषताꣳ हविर् होतर् यज ॥
21.42
होता यक्षद् अश्विनौ सरस्वतीम् इन्द्रꣳ सुत्रामाणम् इमे सोमाः सुरामाणश् छागैर् न मेषैर् ऋषभैः सुताः शष्पैर् न तोक्मभिर् लाजैर् महस्वन्तो मदा मासरेण परिष्कृताः शुक्राः पयस्वन्तो ऽमृताः प्रस्थिता वो मधुश्चुतस् तान् अश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा जुषन्ताꣳ सोम्यं मधु पिबन्तु व्यन्तु होतर् यज ॥
21.43
होता यक्षद् अश्विनौ छागस्य हविष ऽ आत्ताम् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासे ऽ अज्राणां यवसप्रथमानाꣳ सुमत्क्षराणाꣳ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ङ्गाद्-अङ्गाद् अवत्तानां करत एवाश्विना जुषेताꣳ हविर् होतर् यज ॥
21.44
होता यक्षत् सरस्वतीं मेषस्य हविष ऽ आवयद् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन् नूनं घासे ऽ अज्राणां यवसप्रथमानाꣳ सुमत्क्षराणाꣳ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ऽङ्गाद्-अङ्गाद् अवत्तानां करद् एवꣳ सरस्वती जुषताꣳ हविर् होतर् यज ॥
21.45
होता यक्षद् इन्द्रम् ऋषभस्य हविष ऽ आवयद् अद्य मध्यतो मेद ऽ उद्भृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन् नूनं घासे ऽ अज्राणां यवसप्रथमानाꣳ सुमत्क्षराणाꣳ शतरुद्रियाणाम् अग्निष्वात्तानां पीवोपवसानां पार्श्वतः श्रोणितः शितामत ऽ उत्सादतो ऽङ्गाद्-अङ्गाद् अवत्तानां करद् एवम् इन्द्रो जुषताꣳ हविर् होतर् यज ॥
21.46
होता यक्षद् वनस्पतिम् अभि हि पिष्टतमया रभिष्ठया रशनयाधित ।
यत्राश्विनोश् छागस्य हविषः प्रिया धामानि यत्र सरस्वत्या मेषस्य हविषः प्रिया धामानि यत्रेन्द्रस्य ऽऋषभस्य हविषः प्रिया धामानि यत्राग्नेः प्रिया धामानि यत्र सोमस्य प्रिया धामानि यत्रेन्द्रस्य सुत्राम्णः प्रिया धामानि यत्र सवितुः प्रिया धामानि यत्र वरुणस्य प्रिया धामानि यत्र वनस्पतेः प्रिया पाथाꣳसि यत्र देवानाम् आज्यपानां प्रिया धामानि यत्राग्नेर् होतुः प्रिया धामानि तत्रैतान् प्रस्तुत्येवोपस्तुत्येवोपाव स्रक्षद् रभीयस ऽइव कृत्वी करद् एवं देवो वनस्पतिर् जुषताꣳ हविर् होतर् यज ॥
21.47
होता यक्षद् अग्निꣳ स्विष्टकृतम् अयाड् अग्निर् अश्विनोश् छागस्य हविषः प्रिया धामान्य् अयाट् सरस्वत्या मेषस्य हविषः प्रिया धामान्य् अयाड् इन्द्रस्य ऽ ऋषभस्य हविषः प्रिया धामान्य् अयाड् अग्नेः प्रिया धामान्य् अयाट् सोमस्य प्रिया धामान्य् अयाड् इन्द्रस्य सुत्राम्णः प्रिया धामान्य् अयाट् सवितुः प्रिया धामान्य् अयाड् वरुणस्य प्रिया धामान्य् अयाड् वनस्पतेः प्रिया पाथाꣳस्य् अयाड् देवानाम् आज्यपानां प्रिया धामानि यक्षद् अग्नेर् होतुः प्रिया धामानि यक्षत् स्वं महिमानम् आ यजताम् एज्या ऽ इषः कृणोतु सो ऽ अध्वरा जातवेदा जुषताꣳ हविर् होतर् यज ॥
21.48
देवं बर्हिः सरस्वती सुदेवम् इन्द्रे ऽ अश्विना ।
तेजो न चक्षुर् अक्ष्योर् बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
21.49
देवीर् द्वारो ऽ अश्विना भिषजेन्द्रे सरस्वती ।
प्राणं न वीर्यं नसि द्वारो दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
21.50
देवी ऽ उषासाव् अश्विना सुत्रामेन्द्रे सरस्वती ।
बलं न वाचम् आस्य ऽ उषाभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
21.51
देवी जोष्ट्री सरस्वत्य् अश्विनेन्द्रम् अवर्धयन् ।
श्रोत्रं न कर्णयोर् यशो जोष्ट्रीभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
21.52
देवी ऽ ऊर्जाहुती दुघे सुदुघेन्द्रे सरस्वत्य् अश्विना भिषजावतः ।
शुक्रं न ज्योति स्तनयोर् आहुती धत्त ऽ इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
21.53
देवा देवानां भिषजा होताराव् इन्द्रम् अश्विना ।
वषट्कारैः सरस्वती त्विषिं न हृदये मतिꣳ होतृभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
21.54
देवीस् तिस्रस् तिस्रो देवीर् अश्विनेडा सरस्वती ।
शूषं न मध्ये नाभ्याम् इन्द्राय दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
21.55
देव ऽ इन्द्रो नराशꣳसस् त्रिवरूथः सरस्वत्याश्विभ्याम् ईयते रथः ।
रेतो न रूपम् अमृतं जनित्रम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज ॥
21.56
देवो देवैर् वनस्पतिर् हिरण्यपर्णो ऽ अश्विभ्याꣳ सरस्वत्या सुपिप्पल ऽ इन्द्राय पच्यते मधु ।
ओजो न जूतिर् ऋषभो न भामं वनस्पतिर् नो दधद् इन्द्रियाणि वसुवने वसुधेयस्य व्यन्तु यज ॥
21.57
देवं बर्हिर् वारितीनाम् अध्वरे स्तीर्णम् अश्विभ्यामूर्णम्रदाः सरस्वत्या स्योनम् इन्द्र ते सदः ।
ईशायै मन्युꣳ राजानं बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज ॥
21.58
देवो ऽ अग्निः स्विष्टकृद् देवान् यक्षद् यथायथꣳ होताराव् इन्द्रम् अश्विना वाचा वाचꣳ सरस्वतीम् अग्निꣳ सोमꣳ स्विष्टकृत् स्विष्ट इन्द्रः सुत्रामा सविता वरुणो भिषग् इष्टो देवोवनस्पतिः स्विष्टा देवा ऽ आज्यपाः स्विष्टो ऽ अग्निर् अग्निना होता होत्रे स्विष्टकृद् यशो न दधद् इन्द्रियमूर्जम् अपचितिꣳ स्वधां वसुवने वसुधेयस्य व्यन्तु यज ॥
21.59
अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्तीः पचन् पुरोडाशान् बध्नन्न् अश्विभ्यां छागꣳ सरस्वत्यै मेषम् इन्द्राय ऽ ऋषभꣳ सुन्वन्न् अश्विभ्याꣳ सरस्वत्या ऽइन्द्राय सुत्राम्णे सुरासोमान् ॥
21.60
सूपस्था ऽ अद्य देवो वनस्पतिर् अभवद् अश्विभ्यां छागेन सरस्वत्यै मेषेणेन्द्राय ऽऋषभेणाक्षꣳस् तान् मेदस्तः प्रति पचतागृभीषतावीवृधन्त पुरोडाशैर् अपुर् अश्विना सरस्वतीन्द्रः सुत्रामा सुरासोमान् ॥
21.61
त्वाम् अद्य ऽ ऋष ऽ आर्षेय ऽ ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य ऽ आ संगतेभ्य ऽ एष मे देवेषु वसु वार्यायक्ष्यत ऽ इति ता या देवा देव दानान्य् अदुस् तान्य् अस्मा ऽ आ च शास्स्वा च गुरस्वेषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ॥
भाष्यम्(उवट-महीधर)
एकविंशोऽध्यायः।
तत्र प्रथमा।
इ॒मं मे॑ वरुण श्रु॒धी हव॑म॒द्या च॑ मृडय ।
त्वाम॑स्व॒स्युराच॑के ।। १ ।।
उ० इमं मे इत्यनेनानुवाकेनैष्टिकं हौत्रम् । प्रथमे वारुण्यौ गायत्री त्रिष्टुभौ वारुणस्य हविषो याज्यानुवाक्ये । हे वरुण, त्वं मे मम इमं हवमाह्वानं श्रुधि शृणु च । अपरम् अद्य मृडय सुखय कालविलम्बनं मा कृथाः । यतः अहम् अवस्युः आत्मनोऽवनं पालनमिच्छन् त्वाम् आचके । आचक इति कान्तिकर्मा । कामये ॥ १ ॥
प्रणम्य शिरसा देवं लक्ष्मीकान्तमुमापतिम् ।
एकविंशेऽधुनाध्याये वेददीपो वितन्यते ।
म०. 'इमं मे तत्त्वेत्येककपालस्य' (का० १९ । ७ । १३)। अवभृथेष्टौ वारुणस्यैककपालस्य पुरोडाशस्य द्वे पुरोऽनुवाक्यायाज्ये इत्यर्थः । वरुणदेवत्ये गायत्रीत्रिष्टुभौ शुनःशेपदृष्टे । हे वरुण, त्वं मे मम इमं हवमाह्वानं श्रुधि शृणु । 'शुशृणु-' (पा. ६।४।१०२) इति हेर्धिः। संहितायां दीर्घः। च पुनः अद्यदिने मृडयास्मान् सुखय । यतोऽहं त्वामाचके कामये । आचक इति कान्तिकर्मा । कीदृशोऽहम् । अवस्युः अवनमवः पालनम् । अवतेरसुन् तदिच्छति अवस्युः 'सुप आत्मनः क्यच्' (पा० ३ । १। ८) 'क्याच्छन्दसि' (पा० ३ । २ । १७०) इत्युप्रत्ययः । आत्मनो रक्षणमिच्छन् त्वामिच्छामीत्यर्थः ॥ १॥
द्वितीया।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शᳪं᳭स॒ मा न॒ आयु॒: प्र मो॑षीः ।। २ ।।
उ० तत्त्वा यामि ॥ २॥
म० व्याख्याता ( अ० १९ । क० ४९)॥२॥
तृतीया।
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडो अव॑यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒: शोशु॑चानो॒ विश्वा॒ द्वेषा॑ᳪं᳭सि॒ प्र मु॑मुग्ध्य॒स्मत् ।। ३ ।।
उ० त्वं नः। आग्निवारुण्यौ त्रिष्टुभौ अग्निवरुणयोः स्विष्टकृतोर्याज्यानुवाक्ये । हे अग्ने, त्वं नोऽस्मान्प्रति वरुणस्य देवस्य हेडः क्रोधम् । अवयासिसीष्ठा: 'यसु उपक्षये अस्यावपूर्वस्य ण्यन्तस्य लिङि रूपम् । अवगमय । यजिष्ठः यष्टृतमः । वह्नितमः वोढृतमो हविषाम् । शोशुचानः देदीप्यमानः । किंच अस्मत् अस्मत्तः विश्वा विश्वानि सर्वाणि द्वेषांसि दौर्भाग्यानि प्रमुमुग्धि मुञ्च ॥ ३ ॥
म० 'अग्निवरुणयोस्त्वं नः स त्वं न इति' ( का० १८ । ७। १४ ) । अवभृथेष्टावेवाग्निवरुणयागे पुरोनुवाक्यायाज्ये अग्निवरुणदेवत्ये त्रिष्टुभौ वामदेवदृष्टे । हे अग्ने, त्वं नोऽस्मान्प्रति वरुणस्य देवस्य हेडः क्रोधमवयासिसीष्ठाः निवर्तय । 'यसु उपक्षये' अवपूर्वस्य णिजन्तस्याशीर्लिङि रूपम् । किंच विश्वा विश्वानि सर्वाणि द्वेषांसि दौर्भाग्यानि अस्मत् अस्मत्तः सकाशात् प्रमुमुग्धि प्रमुञ्च दूरीकुरु । मुचेर्व्यत्ययेन शपः श्लुः । कीदृशस्त्वम् । विद्वान् स्वाधिकारं जानन् यजिष्ठः अतिशयेन यष्टा यजिष्ठः । 'तुरिष्ठेमेयःसु' (पा० ६ । ४ । १५४) इति तृचो लोपः । वह्नितमः वहतीति वह्निः अत्यन्तं वह्निर्वह्नितमः हविषां वोढा । शोशुचानः अत्यन्तं शोचते दीप्यते शोशुचानः । शोचतेर्यङन्ताच्छानच्प्रत्ययः॥ ३ ॥
चतुर्थी।
स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॒ष्टौ ।
अव॑ यक्ष्व नो॒ वरु॑ण॒ᳪं᳭ ररा॑णो वी॒हि मृ॑डी॒कᳪं᳭ सु॒हवो॑ न एधि ।। ४ ।।
उ० स त्वं नः हे अग्ने, स त्वम् ऊती ऊत्या अवनेन । नः अस्माकम् । अवमः अवितृतमः पालयितृतमः भव । अस्या उषसः व्युष्टौ व्युष्टिकाले अस्मिन्नेवाहनीति भावः । नेदिष्ठः अन्तिकतमश्च भव । रराणः रममाणः 'रा दाने' । हविर्ददद्वा । नोऽस्माकं वरुणम् अवयक्ष्व अवगत्य यज । अवपूर्वो यजतिर्नाशनार्थः । इहतु धात्वन्तरयोगात्स्वार्थमेव वक्ति । ततः सुमृडीकं सुखकरं हविः वीहि भक्षय । नः अस्माकं सुहवः स्वाह्वानः एधि ॥ ४॥
म० हे अग्ने, स त्वमस्या उषसो व्युष्टौ व्युष्टिकालेऽस्मिन्नहनि ऊती ऊत्या अवनेन नोऽस्माकमवमः रक्षकः नेदिष्ठोऽन्तिकतमः समीपतमश्च भव । अवतीत्यवमः अवतेरमप्रत्ययः । यद्वा अवतीत्यवः पचाद्यच् अत्यन्तमवोऽवतमः तलोपश्छान्दसः । अत्यन्तमन्तिको नेदिष्ठः 'अन्तिकबाढयोर्नेदसाधौ' (पा० ५। ३ । ६३) इति इष्ठे परे नेदादेशः । किंच रराणो हविर्ददत् सन् नोऽस्माकं वरुणमवयक्ष्व अवयज । अवपूर्वाद्यजतेर्लोटि शपो लुक् । ततो मृडीकं सुखकरं हविः वीहि भक्षय । 'वी कान्तिव्याप्तिक्षेपप्रजनस्वादनेषु' । किंच नोऽस्माकं सुहवः स्वाह्वान एधि भव । 'ध्वसोरेद्धावभ्यासलोपश्च' (पा० ६ । ४ । ११९) इत्येकारः ॥ ४ ॥
पञ्चमी ।
म॒हीमू॒ षु मा॒तर॑ᳪं᳭ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम ।
तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒चीᳪं᳭ सु॒शर्मा॑ण॒मदि॑तिᳪं᳭ सु॒प्रणी॑तिम् ।। ५ ।।
उ० महीमूषु आदित्यचरोर्याज्यानुवाक्ये त्रिष्टुभौ । महीं महतीम् । ऊसु निपातोपसर्गौ छन्दःपरिपूर्तिफलौ । मातरं निर्मात्रीं साधुव्रतानाम् । ऋतय यज्ञस्य पत्नीं जायां पालयित्रीं वा । अवसे अवनाय तर्पणाय वा । हुवेम आह्वयाम । तुविक्षत्रां बहुक्षरणां वा बहुक्षतत्राणां वा । अजरन्तीं जरारहिताम् । उरूचीं बहुव्यञ्जनाम् । सुशर्माणं कल्याणाश्रयां साधुसख्याम् । अदितिमदीनाम् । सुप्रणीतिं सुप्रणेत्रीम् ॥ ५॥
म० 'आदित्यस्य सुत्रामाणं महीमूषु मातरमिति' ( का० १९ । ७।१५)। आदित्यं चरुं यक्ष्यमाणो निर्वपत्यादित्यमीजान इत्यादावन्ते चादित्यश्चरुरुक्तस्तस्य सुत्रामाणमिति (६) पुरोऽनुवाक्या महीमूष्विति याज्या अदितिदेवत्या त्रिष्टुप् । ऊ सु निपातौ पादपूरणौ । संहितायामाद्यस्य दीर्घोऽन्त्यस्य षत्वम् । वयमवसे अवितुं रक्षितुमदितिं हुवेम आह्वयामः । तुमर्थे असेप्रत्ययः । कीदृशीमदितिम् । महीं महतीम् सुव्रतानां शोभनकर्मणां मातरं निर्मात्रीम् । व्रतमिति कर्मनाम । ऋतस्य यज्ञस्य पत्नीं पालयित्रीम् । तुविक्षत्राम् । तुवीति बहुनाम । बहुक्षतात् त्राणशीलाम् । अजरन्तीं न जीर्यत्यजरन्ती तां जरारहिताम् । उरु अञ्चतीति उरूचीं बहुगमनशीलाम् । सुशर्माणं शोभनं शर्माश्रयः सुखं वा यस्यास्ताम् । सुप्रणीतिं शोभना प्रणीतिः प्रणयनं भजनं यस्यास्ताम् । 'अदितिरदीना देवमाता' ( निरु० ४ । २२ ) इति ॥ ५॥
षष्ठी।
सु॒त्रामा॑णं पृथि॒वीं द्याम॑ने॒हस॑ᳪं᳭ सु॒शर्मा॑ण॒मदि॑तिᳪं᳭ सु॒प्रणी॑तिम् ।
दैवीं॒ नाव॑ᳪं᳭ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये॑ ।। ६ ।।
उ० सुत्रामाणं साधुपालयित्रीम् । पृथिवीम् पृथिवीमिव । लुप्तोपमानमेतत् । द्यामनेहसम् द्यामिव वाहयित्रीं जीवनहेतुभूताम् सुशर्माणं साधुशरणां शोभनाश्रयां वा । आदितिमदीनाम् । सुप्रणीतिं सुप्रणेत्रीम् । दैवीं यज्ञमयीं नावम् । स्वरित्रां साधुकेन्दुवालां, अरित्रशब्दः केन्दुवालवचनः। अनागसमनपराधाम् । अस्रवन्तीम् अपूर्यमाणामुदकेन । अनवच्छिन्नसाधुकर्मदायिनीमित्यर्थः । आरुहेम । स्वस्तये अविनाशाय ॥ ६॥
म० अदितिदेवत्या त्रिष्टुप् गयःप्लातदृष्टा । दैवीं देवसंबन्धिनीं नावं यज्ञरूपां स्वस्तये कल्याणायाविनाशाय वयमारुहेम । यज्ञं कृत्वा स्वर्गं गच्छेमेत्यर्थः । कीदृशीं नावम् । सुत्रामाणं सुष्ठु त्रायते रक्षति सुत्रामा ताम् । पृथिवीं विशालाम् । द्यां स्वर्गरूपाम् । स्वर्गहेतुभूतामित्यर्थः । अनेहसम् । एह इति क्रोधनाम । नास्ति एहो यत्र क्रोधरहिताम् । यद्वा लुप्तोपमानम् । पृथिवीमिव सुत्रामाणं पालयित्रीं द्यामिवानेहसमक्रोधाम् । सुशर्माणं साधुशरणभूताम् । अदितिमखण्डितामदीनां वा । सुप्रणीतिं सुष्ठु प्रणयतीति सुप्रणीतिः साधुप्रणेत्री। स्वरित्रां साधुकेन्दुवालाम् । अरित्रशब्दः केन्दुवालवाचकः । 'अरित्रं केनिपातकः' इत्यभिधानात् । प्रयाजानुयाजादयोऽरित्र स्थानीयाः । अनागसमनपराधाम् । अस्रवन्तीमच्छिद्राम् । निर्दोषामित्यर्थः । ईदृशीं नावमारुहेम । संहितायां दीर्घः ॥ ६॥
सप्तमी।
सु॒नाव॒मा रु॑हेय॒मस्र॑वन्ती॒मना॑गसम् ।
श॒तारि॑त्राᳪं᳭ स्व॒स्तये॑ ।। ७ ।।
उ० सुनावम् । गायत्री । 'तद्वै सर्व एव यज्ञो नौः । स्वर्ग्या' इति श्रुतेरुपकल्पना । कल्याणीं नावम् आरुहेयम् । अस्रवन्तीम् अच्छिद्राम् । निर्दोषामित्यर्थः । अनागसमपापाम् । अभीष्टितार्थसाधनतत्परामित्यर्थः । शतारित्रां बहुकेन्दुवालाम् । ऋग्यजुःसामाभिप्रायम् । स्वस्तये अविनाशाय । संसारसागरोत्तरणाय वा ॥ ७॥
म० स्वर्गसंबन्धिनी यज्ञदेवत्या गायत्री । 'तद्वै सर्व एव | यज्ञो नौः स्वर्ग्या' इति श्रुतेः स्वर्ग्या नौर्यज्ञ एव । सुनावं शोभनां नावं यज्ञरूपां स्वस्तयेऽविनाशाय संसारसागरोत्तरणायाहमारुहेयमारोहेयम् । यज्ञं कुर्यामित्यर्थः । कीदृशीम् । अस्रवन्तीमच्छिद्राम् । अनागसं निरपराधां सर्वेष्टदामित्यर्थः । शतारित्रां बहुकेन्दुबालाम् । ऋग्यजुःसामभिरित्यर्थः । स्मार्ते नावारोहणे विनियोगोऽस्या ऋचः ॥ ७ ॥
अष्टमी।
आ नो॑ मित्रावरुणा घृतै॒र्गव्यू॑तिमुक्षतम् ।
मध्वा॒ रजा॑ᳪं᳭सि सुक्रतू ।। ८ ।।
उ०. आ नः । मैत्रावरुण्याः पयस्यायाज्यानुवाक्ये गायत्रीत्रिष्टुभौ आ उक्षन्तम् आसिञ्चतम् नः अस्माकम् हे मित्रावरुणौ । घृतैः अक्षारोदकैः । गव्यूतिम् गवि पृथिव्यामवनहेतुभूतं क्षेत्रं गोप्रचारं वा । किंच मध्वा रजांसि मधुस्वादोदकेन रजांसि । लोका रजांस्युच्यन्ते । तान् आ उक्षतम् । हे सुक्रतू सुकर्माणौ ॥ ८ ॥ ।
म० 'आ नः प्र वाहवेति पयस्यायाः' (का० १९ । ७।| १६ ) । अवभृथादुदेत्य मैत्रावरुण्या पयस्यया यजतीति या पयस्या तस्या आ नो मित्रावरुणेति पुरोनुवाक्या प्र बाहवेति याज्या मित्रावरुणदेवत्या गायत्री विश्वामित्रदृष्टा । हे मित्रावरुणा मित्रवरुणौ देवौ, नोऽस्माकं गव्यूतिं यज्ञमार्गं घृतैर्युवामा उक्षतं सर्वतः सिञ्चतम् । यद्वा गवि पृथिव्यामूतिमवनहेतुभूतं क्षेत्रं घृतैः शुद्धोदकैः सिञ्चतम् । किंच हे सुक्रतू शोभनः क्रतुः कर्म ययोस्तौ हे सुकर्माणौ, मध्वा मधुना रजांसि लोकानां उक्षतम् । अनित्यमागमशासनमिति नुमभावः ॥ ८ ॥
नवमी।
प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ ।
आ मा॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ।। ९ ।।
उ० प्रबाहवा प्रसिसृतम् । अन्तर्भावितण्यर्थः । प्रसारयतम्। बाहवा बाहू। किमर्थमिति चेत् । जीवसे नः जीवनायास्माकम् । बाहुप्रसारणं जीवनहेतुप्रतिपक्षनिराकरणायेत्यर्थः।। तत आ उक्षतम् आभिमुख्येन सिञ्चतम् नः अस्माकम् गव्यूतिम् । गवि पृथिव्यामूतिमवनम् । जीवनहेतुभूतानि क्षेत्राण्यत्राभिप्रेतानि । तदर्थं हि वृष्टिः प्रार्थ्यमाना दृष्टार्था भवति।। गोजातिविषयभूतां वा ऊतिम् अवनमार्गम् । भक्षणमार्गाभिप्रायतो गोप्रवाटमिति यावत् । घृतेनाक्षारोदकेन । आ मा जने श्रवयतं युवाना । एवमक्षारोदकेन सिक्तधान्यनिष्पत्तिहेतुना यज्ञं कुर्वाणम् मा माम् जने जनपदे आ श्रवयतं प्रकथयतम् । इत्थमदादित्थमयाक्षीदिति । हे युवानौ उच्छिन्नजरसौ । श्रुतम् आशृणुतं मम । हे मित्रावरुणौ हवेमा हवान् आह्वानानि इमानि। श्रुत्वा चातिष्ठतमित्यभिप्रायः॥९॥
म०. मित्रावरुणदेवत्या त्रिष्टुप् वसिष्ठदृष्टा । हे मित्रावरुणौ, हे युवाना युवानौ तरुणौ छिन्नजरसौ, नोऽस्माकं जीवसे चिरं जीवनाय बाहवा बाहू प्रसिसृतम् । अन्तर्भूतण्यर्थः प्रसारयतम् । जीवनविघ्ननिवारणाय बाहुप्रसारणं कुरुतमित्यर्थः । किंच नोsस्माकं गव्यूतिं क्षेत्रं घृतेन जलेन आ उक्षतं सिञ्चतम् । भवत्सिक्तक्षेत्रनिष्पन्नधान्यैः यज्विनं मा मां जने जनपदे युवामश्रवयतम् आश्रावयतम् । इत्थमदात् इत्थमयाक्षीदिति लोके मां कथयतमित्यर्थः । वृद्ध्यभाव आर्षः । किंच युवां मे मम इमा इमानि हवा हवानि आह्वानानि श्रुतं शृणुतम् । श्रुत्वा पूर्वोक्तं कुरुतमित्यर्थः । शृणोतेः शपो लुक् ॥ ९ ॥
दशमी।
शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिं॒ वृक॒ᳪं᳭ रक्षा॑ᳪं᳭सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ।। १० ।।
उ० शं नः । व्याख्यातम् ॥ १० ॥
म० 'वाजिनस्य शं नो वाजेवाज इति' (का० १६ । ७। १७) पयस्यायां वाजिनयागोऽस्ति तत्र शं न इति पुरोनुवाक्या वाजेवाज इति याज्या । व्याख्याते (९ । १६ । १८)॥ १० ॥ ११ ॥
एकादशी।
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्व॑: पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानै॑: ।। ११ ।।
उ०. वाजेवाजेऽवत ॥ वाजिनस्य याज्यानुवाक्ये व्याख्याते ॥ १० ॥११॥
द्वादशी।
समि॑द्धो अ॒ग्निः स॒मिधा॒ सुस॑मिद्धो॒ वरे॑ण्यः ।
गा॒य॒त्री छन्द॑ इन्द्रि॒यं त्र्यविर्गौ॒र्वयो॑ दधुः ।। १२ ।।
उ० समिद्धो अग्निः । एकादश आप्रियः । अनराशंसा ऐन्द्राय वायोधसेऽनुष्टुभः । समिद्धः संदीप्तः अग्निः समिधा प्रयाजदेवतया । सुसमिद्धः प्रयाजघृतेन । वरेण्यः वरणीयः संभजनीयः । गायत्रीछन्दः। त्र्यविश्च गौः वयः अवयः अनुचरत्वेन यस्य स तथोक्तः । इन्द्रियं वीर्यं च । वयः सत्त्वमन्नं वा आयुर्वा इन्द्रे दधुः निदध्युः ॥ १२ ॥
म० 'वायोधस आप्रियः समिद्धो अग्निः समिधेति' (का०. : १९ । ७ । १९)। वायोधसे पशौ समिद्धो अग्निरियाद्या एकादश ऋच आप्रियः प्रयाजानां याज्या इति सूत्रार्थः । एकादश आप्रीदेवत्या अनुष्टुभः स्वस्त्यात्रेयदृष्टाः । अग्निः गायत्री छन्दो गौश्च एते त्रय इन्द्रे इन्द्रियं वीर्यं वयः सत्त्वमन्नमायुर्वा दधुः दधतु प्रयच्छन्तु । कीदृशोऽग्निः । समिधा प्रयाजदेवतया समिद्धः दीप्तः सुसमिद्धश्च अतिदीप्तः प्रयाजघृतेनेति शेषः । वरेण्यः वरणीयः संभजनीयः । कीदृशो गौः । त्र्यविः त्रयोऽवयोऽनुचरत्वेन यस्य स त्र्यविः । यद्वा षण्मासावधिः कालोऽविः त्रयोऽवयो यस्य सार्धवत्सरो गौरित्यर्थः ॥ १२ ॥
त्रयोदशी । ।
तनू॒नपा॒च्छुचि॑व्रतस्तनू॒पाश्च॒ सर॑स्वती ।
उ॒ष्णिहा॒ छन्द॑ इन्द्रि॒यं दि॑त्य॒वाड्गौर्वयो॑ दधुः ।। १३ ।।
उ० तनूनपात् । तनूनामपां नपान्नप्ता अग्निः । गौर्वा तनूः तस्या नप्ता घृतम् । शुचिव्रतः उज्ज्वलकर्मा । तनूपाः सरस्वती च । उष्णिहा विभक्तिव्यत्ययः । उष्णिक्छन्दः दित्यवाट् गौः एते चत्वारः इन्द्रियं वयश्च इन्द्रे दधुः ॥१३॥ ।
म० तनूनामपां नपात् पौत्रोऽग्निः तनूनां गवां नपात् घृतं वा प्रयाजदेवता सरस्वती उष्णिहा छन्दः । हलन्तत्वादाप उष्णिक् छन्दः । गौश्च एते चत्वार इन्द्रे इन्द्रियं वयश्च दधुः दधतु । कीदृशस्तनूनपात् । शुचिव्रतः शुचि शुद्धं व्रतं कर्म यस्य सः । कीदृशी सरस्वती । तनूपाः तनूं शरीरं पाति रक्षतीति । कीदृशो गौः । दित्यवाट् दिव्यं हविर्वहतीति ॥ १३ ॥
चतुर्दशी।
इडा॑भिर॒ग्निरीड्य॒: सोमो॑ दे॒वो अम॑र्त्यः ।
अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यं पञ्चा॑विर्गौ॒र्वयो॑ दधुः ।। १४ ।।
उ० इडाभिरग्निः । इडाभिः प्रयाजदेवतया सह अग्निः ईड्यः स्तोतव्यः । सोमश्च देवः अमर्त्यः अमरणधर्मा अनुष्टुप्छन्दः । पञ्चाविश्च गौः इन्द्रियं वयश्च इन्द्रे दधुः ॥१४॥
म० इडाभिः प्रयाजदेवताभिः सहाग्निः सोमो देवः अनुष्टुप्छन्दः गौः एते पञ्च इन्द्रियं वयश्चेन्द्रे दधुः । कीदृशोऽग्निः । ईड्यः स्तुत्यः । कीदृशः सोमः । अमर्त्यः अमरणधर्मा । कीदृशो गौः । पञ्चाविः पञ्चावयोऽनुचराः कालविशेषा वा यस्य सार्धद्विवर्षः ॥ १४ ॥
पञ्चदशी।
सु॒ब॒र्हिर॒ग्निः पू॑ष॒ण्वान्त्स्ती॒र्णब॑र्हि॒रम॑र्त्यः ।
बृ॒ह॒ती छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सो गौर्वयो॑ दधुः ।। १५ ।।
उ० सुबर्हिरग्निः शोभनबर्हिः प्रायाजदेवतयाग्निः । पूषण्वान् पूष्णा संयुक्तः । स्तीर्णबर्हिः स्तीर्णं बर्हिर्यस्य स तथोक्तः । अमर्त्यः अमरणधर्मा । बृहतीच्छन्दः त्रिवत्सश्च गौः एते इन्द्रियं वयश्व इन्द्रे दधुः ॥ १५॥
म० शोभनं बर्हिः प्रयाजदेवता अग्निः बृहती छन्दः गौः एते चत्वार इन्द्रियं वयश्चेन्द्रे दधुः । कीदृशोऽग्निः । पूषण्वान् पूषास्यास्तीति पूष्णा युक्तः । स्तीर्णबर्हिः स्तीर्णं बहिर्यस्य सः ।। अमर्त्यः अनश्वरः । कीदृशो गौः । त्रिवत्सः त्रयो वत्सा अनुचरा वत्सरा वा यस्य स त्रिवत्सः ॥ १५॥
षोडशी।
दुरो॑ दे॒वीर्दिशो॑ म॒हीर्ब्र॒ह्मा दे॒वो बृह॒स्पति॑: ।
प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यं तु॑र्य॒वाड्गौ॒र्वयो॑ दधुः ।। १६ ।।
उ० दुरो देवीः । दुरः द्वारः प्रयाजदेवताः । छान्दसं संप्रसारणम्। देवीः देव्यः दिशश्च। महीः महत्यः । ब्रह्मा च देवः बृहस्पतिश्च । पङ्क्तिश्च छन्दः । इहेत्यभिनयनिर्देशः।। इह यज्ञावयवे इह इन्द्रशरीरावयवे । तुर्यवाट् गौश्च इन्द्रियं वयश्च दधुः ॥ १६ ॥
म०. दुरो द्वारो देव्यः प्रयाजदेवताः छान्दसं संप्रसारणम् । महीर्महत्यो दिशः ब्रह्मा देवो बृहस्पतिः पङ्क्तिश्छन्दः तुर्यं चतुर्थं वर्षं वहतीति तुर्यवाट् गौः एते षट् देवा इह इन्द्रे इन्द्रियं वयश्च दधुः ॥ १६ ॥
सप्तदशी।
उ॒षे य॒ह्वी सु॒पेश॑सा॒ विश्वे॑ दे॒वा अम॑र्त्याः ।
त्रि॒ष्टुप्छन्द॑ इ॒हेन्द्रि॒यं प॑ष्ठ॒वाड्गौ॒र्वयो॑ दधुः ।। १७ ।।
उ० उषे यह्वी । उषे इति द्विवचनसामर्थ्यात्सहचरितत्वाच्च द्वितीयारात्रिर्गृह्यते । उषाश्च रात्रिश्च । कीदृश्यौ । यह्वी महत्यौ । सुपेशसा साधुरूपे । विश्वे च देवाः अमर्त्याः अमरणधर्माणः । त्रिष्टुप् छन्दः । इह इन्द्रयज्ञयोः । पष्ठवाट् च गौः । पष्ठं भारं वहतीति पष्ठवाट् । इन्द्रियं वयश्च दधुः ॥ १७ ॥
म० उषे द्विवचनाद्दिनं रात्रिश्च । अमाः विश्वेदेवाः त्रिष्टुप् छन्दः । पष्ठं भारं वहतीति पष्ठवाड् गौः । एते पञ्चेहेन्द्रियं वयश्च दधुः । कीदृश्यौ उषे । यह्वी यह्व्यौ महत्यौ । यह्व इति महन्नाम । सुपेशसा शोभनं पेशो रूपं ययोस्ते सुपेशसौ सुरूपे । विभक्तेराकारः ॥ १७ ॥
अष्टादशी।
दैव्या॒ होता॑रा भि॒षजेन्द्रे॑ण स॒युजा॑ यु॒जा ।
जग॑ती॒ छन्द॑ इन्द्रि॒यम॑न॒ड्वान्गौ॒र्वयो॑ दधुः ।। १८ ।।
उ० दैव्या होतारा अयं चाग्निः । असौ च मध्यमः । भिषजौ इन्द्रेण सयुजौ संयुक्तौ समानकायौं । युजा परस्परेण युक्तौ । जगती च्छन्दः । अनड्वांश्च गौः एते इन्द्रे इन्द्रियं वयश्च दधुः ॥ १८ ॥
म०. दैव्यौ होतारौ प्रयाजदेवौ अयं चाग्निरसौ च मध्यमो वायुः । जगती छन्दः । अनः शकटं वहतीत्यनड्वान् गौः एते चत्वार इन्द्रे इन्द्रियं वयश्च दधुः । कीदृशौ होतारौ । भिषजा भिषजौ वैद्यौ इन्द्रेण सयुजौ सह युज्येते सयुजौ संयुक्तौ युजौ परस्परं संयुक्तौ ॥ १८ ॥
एकोनविंशी।
ति॒स्र इडा॒ सर॑स्वती॒ भार॑ती म॒रुतो॒ विश॑: ।
वि॒राट् छन्द॑ इ॒हेन्द्रि॒यं धे॒नुर्गौर्न वयो॑ दधुः ।। १९ ।।
उ० तिस्र इडा । तिस्रो देव्यः इडा सरस्वती भारती । | मरुतश्च विशः इन्द्रस्य प्रजाः । विराट् छन्दः । धेनुर्दोग्ध्री गौश्च । नकारश्चार्थे । एते इन्द्रियं वयश्च इन्द्रे दधुः ॥१९॥
म० इडा सरस्वती भारतीति तिस्रः प्रयाजदेव्यः मरुतो विशः इन्द्रप्रजाः विराट् छन्दः धेनुर्दोग्ध्री गौश्च । नकारश्वार्थे । एते षट् इहेन्द्रे इन्द्रियं वयश्च दधुः ॥ १९ ॥
विंशी।
त्वष्टा॑ तु॒रीपो॒ अद्भु॑त इन्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना ।
द्विप॑दा॒ छन्द॑ इन्द्रि॒यमु॒क्षा गौ॒र्न वयो॑ दधुः ।। २० ।।
उ० त्वष्टा तुरीपः तूर्णमापन्नः अद्भुतः । अद्भुत इव महानित्यर्थः । इन्द्राग्नी च पुष्टिवर्धनौ । द्विपदा च छन्दः । उक्षा गौर्न । नकारश्चार्थे । उक्षा सेक्ता च गौः । एते इन्द्रे इन्द्रियं वयश्च दधुः ॥ २० ॥
म० त्वष्टा प्रयाजदेवः इन्द्राग्नी द्विपदा छन्दः । उक्षा सेक्ता गौश्च पञ्चेन्द्रे इन्द्रियं वयश्च दधुः । कीदृशः त्वष्टा । तुरीपः तूर्णमाप्नोति व्याप्नोति तुरीपः अद्भुतो महान् । कीदृशाविन्द्राग्नी । पुष्टिवर्धना पुष्टिं धनादिपोषं वर्धयतस्तौ पुष्टिवर्धनौ । । नश्चार्थः ॥ २०॥
एकविंशी
श॒मि॒ता नो॒ वन॒स्पति॑: सवि॒ता प्र॑सु॒वन् भग॑म् ।
क॒कुप्छन्द॑ इ॒हेन्द्रि॒यं व॒शा वे॒हद्वयो॑ दधुः ।। २१ ।।
उ०. शमिता नः शमयिता इति प्राप्ते 'शमिता मन्त्रे' इति छान्दसः प्रयोगः । शमिता नः अस्माकं वनस्पतिः सविता च प्रसुवन् भगं धनम् ककुप् च छन्दः । इहेत्यभिनयः । इह इन्द्रे वशा वन्ध्या गौः वेहच्च विहति त्यजति गर्भं या गौः सा तथोक्ता । इन्द्रियं वयश्च दधुः ॥ २१ ॥
म० वनस्पतिः प्रयाजदेवः सविता सूर्यः ककुप्छन्दः वशा वन्ध्या गौः वेहत् गर्भघ्नो गौः एते पञ्च इहेन्द्रं इन्द्रियं वयश्च दधुः । कीदृशो वनस्पतिः। नोऽस्माकं शमिता शमयति सुखयति शमिता । 'शमिता मन्त्रे' (पा० ६ । ४ । ५४) इति छान्दसो णिचो लोपः । कीदृशः सविता । भगं प्रसुवन् धनं प्रेरयन् ददत् ॥ २१ ॥
द्वाविंशी।
स्वाहा॑ य॒ज्ञं वरु॑णः सुक्ष॒त्रो भे॑ष॒जं क॑रत् ।
अति॑च्छन्दा इन्द्रि॒यं बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः ।। २२ ।।
उ० स्वाहा यज्ञम् । स्वाहाकृतिभिः यज्ञं भेषजं करत् करोतु । कः करोतु । वरुणः सुक्षत्रः । अतिच्छन्दाश्च च्छन्दः बृहदृषभश्च गौः इन्द्रे इन्द्रियं वयश्च दधुः ॥ २२ ॥
म० शोभनं क्षत्रं क्षतत्राणं यस्य स सुक्षत्रः शोभनक्षतत्राता वरुणः खाहा । नामैकदेशे नामग्रहणम् । स्वाहाकृतिभिः प्रयाजदेवैः सह यज्ञं भेषजं यज्ञलक्षणमौषधमिन्द्राय करत् करोतु । किंच अतिच्छन्दाः छन्दः बृहत् महान् ऋषभः समर्थो गौः वरुणश्च स्वाहाकृतयोऽपि एते चत्वार इन्द्रियं वयश्च इन्द्रे दधुः दधतु ॥ २२॥
त्रयोविंशी।
व॒स॒न्तेन॑ ऋ॒तुना॑ दे॒वा वस॑वस्त्रि॒वृता॑ स्तु॒ताः ।
र॒थ॒न्त॒रेण॒ तेज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २३ ।।
उ० वसन्तेन ऋतुना । वपापुरोडाशपशूनां याज्यानुवाक्या अनुष्टुभः। वयोधसस्य पशोः। इन्द्रश्च वयोधा देवता । वसन्तेन ऋतुना सहायेन देवाः वसवः त्रिवृता स्तोमेन स्तुताः सन्तः रथन्तरेण च पृष्ठेन च सहायेन इन्द्रे तेजसा सह हविर्वपाख्यं वयश्च दधुः । यद्वा वसन्तेन ऋतुना स्तुताः त्रिवृता स्तोमेन च स्तुताः रथन्तरेण च पृष्ठेन स्तुताः सन्तो वसवो देवाः स्वकीयेन तेजसा इन्द्रे हविर्वयश्च दधुः। एवमुत्तरेष्वपि योज्यम् ॥ २३ ॥
म० 'याज्याः पुरोनुवाक्याश्च वपापुरोडाशपशूनां वसन्तेन ऋतुनेति' (का. १९ । ७ । २०) । चकाराद्वयोधसे पशावेव षडृचो यथाक्रमं वपादीनां याज्यानुवाक्याः वपायागे । वसन्तेनेति ( २३ ) पुरोऽनुवाक्या ग्रीष्मेणेति ( २४ ) याज्या, पशुपुरोडाशयागे वर्षाभिरिति ( २५) पुरोनुवाक्या शारदेनेति (२६) याज्या, हृदयादियागे हेमन्तेनेति (२७) पुरोनुवाक्या, शैशिरेणेति (२८) याज्येति सूत्रार्थः । अनुष्टुभः षट् लिङ्गोक्तदेवता । वयोधा इन्द्रो देवतेत्यर्थः । वसवो देवा इन्द्रे तेजसा सह हविर्वपाख्यं वयः शक्तिं च दधुः दधतु स्थापयन्तु । कीदृशा वसवः । वसन्तेन ऋतुना त्रिवृता स्तोमेन रथन्तरेण पृष्ठेन च स्तुताः ॥ २३ ॥
चतुर्विशी।
ग्री॒ष्मेण॑ ऋ॒तुना॑ दे॒वा रु॒द्राः प॑ञ्चद॒शे स्तु॒ताः ।
बृ॒ह॒ता यश॑सा॒ बल॑ᳪं᳭ ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २४ ।।
उ० ग्रीष्मेण ऋतुना सह देवा रुद्राः पञ्चदशे । पञ्चदशेनेति विभक्तिव्यत्ययः । पञ्चदशेन स्तोमेन स्तुताः सन्तः बृहता पृष्ठेन च सह । यशसा सह बलं हविः इन्द्रे वयश्च दधुः ॥ २४ ॥
म०. रुद्रा देवा इन्द्रे यशसा सह बलं हविर्वयश्च दधुः । कीदृशा रुद्राः । ग्रीष्मेण ऋतुना पञ्चदशः पञ्चदशेन स्तोमेन । विभक्तिव्यत्ययः । बृहता पृष्ठेन च स्तुताः ॥ २४ ॥
पञ्चविंशी।
व॒र्षाभि॑र्ऋ॒तुना॑ऽऽदि॒त्या स्तोमे॑ सप्तद॒शे स्तु॒ताः ।
वै॒रू॒पेण॑ वि॒शौज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २५ ।।
उ० वर्षाभिर्ऋतुना सह आदित्याः स्तोमे सप्तदशे स्तोमे । सप्तदशेनेति विभक्तिव्यत्ययः । स्तुताः सन्तः वैरूपेण पृष्ठेन सह विशा च ओजसा च हविरिन्द्रे वयश्च दधुः ॥ २५ ॥
म० आदित्या देवाः इन्द्रे विशा प्रजया ओजसा च सह हविर्वयश्च दधुः । कीदृशाः । वर्षाभिर्ऋतुना सप्तदशेन स्तोमेन । तृतीयार्थे सप्तम्यौ । वैरूपेण पृष्ठेन च स्तुताः ॥ २५ ॥
षड्विंशी।
शा॒र॒देन॑ ऋ॒तुना॑ दे॒वा ए॑कवि॒ᳪं᳭श ऋ॒भव॑: स्तु॒ताः ।
वै॒रा॒जेन॑ श्रि॒या श्रिय॑ᳪं᳭ ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २६ ।।
उ० शारदेन ऋतुना सह ऋभवो देवाः एकविᳪं᳭शे। एकविंशेनेति विभक्तिव्यत्ययः । एकविंशेन स्तोमेन स्तुताः सन्तः विराजेन च पृष्ठेन सह श्रिया च श्रियं च हविरिन्द्रे वयश्च दधुः ॥ २६॥
म० ऋभवः ऋभुसंज्ञा देवाः इन्द्रे श्रियं हविर्वयश्च दधुः । | कीदृशाः । शारदेन ऋतुना एकविंशेन स्तोमेन वैराजेन पृष्ठेन । श्रिया लक्ष्म्या च स्तुताः । सप्तमी तृतीयार्थे ॥ २६ ॥
सप्तविंशी।
हे॒म॒न्तेन॑ ऋ॒तुना॑ दे॒वास्त्रि॑ण॒वे म॒रुत॑: स्तु॒ताः ।
बले॑न॒ शक्व॑री॒: सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २७ ।।
उ० हेमन्तेन ऋतुना सह देवाः मरुतः त्रिणवे । त्रिणवेनेति विभक्तिव्यत्ययः । त्रिणवेन स्तोमेन स्तुताः सन्तः। बलेन शक्वरीः सह । शक्वरीरिति योनिनिर्देशः । शाक्वरस्य । शाक्वरेणेति विभक्तिव्यत्ययः । शाक्वरेण च पृष्ठेन सह । बलेन च सह । हविः इन्द्रे वयश्च दधुः ॥ २७ ॥
म० मरुतो देवाः इन्द्रे बलेन सह । सहः इन्द्रियसामर्थ्यं हविर्वयश्च दधुः । कीदृशा मरुतः । हेमन्तेन ऋतुना त्रिणवेन स्तोमेन स्तुताः । शक्वरीरिति शाक्वरस्य योनिनिर्देशः । शाक्वरेण पृष्ठेन स्तुता इत्यर्थः ॥ २७ ॥
अष्टाविंशी।
शै॒शि॒रेण॑ ऋ॒तुना॑ दे॒वास्त्र॑यस्त्रि॒ᳪं᳭शेऽमृता॑ स्तु॒ताः ।
स॒त्येन॑ रे॒वती॑: क्ष॒त्रᳪं᳭ ह॒विरिन्द्रे॒ वयो॑ दधुः ।। २८ ।।
उ० शैशिरेण ऋतुना । सह देवाः अमृताः । त्रयस्त्रिᳪं᳭शे । त्रयस्त्रिंशेनेति विभक्तिव्यत्ययः । त्रयस्त्रिंशेन स्तोमेन स्तुताः सन्तः। सत्येन रेवतीः। रेवतीरिति रैवतस्य योनिनिर्देशः । रैवतेन च पृष्ठेन सह सत्येन च । क्षत्रं हविश्व इन्द्रे वयश्च दधुः ॥ २८ ॥
म० अमृता देवाः सत्येन सह क्षत्रं क्षतत्राणं हविर्वयः च इन्द्रे दधुः दधतु । कीदृशा अमृताः । शारदेन ऋतुना त्रयस्त्रिंशेन स्तोमेन स्तुताः । रेवतीरिति रैवतस्य योनिः । रैवतेन च पृष्ठेन स्तुता इत्यर्थः ॥ २८ ॥
एकोनत्रिंशी ।
होता॑ यक्षत्स॒मिधा॒ऽग्निमि॒डस्प॒देऽश्विनेन्द्र॒ᳪं᳭ सर॑स्वतीम॒जो धू॒म्रो न गो॒धूमै॒: कुव॑लैर्भेष॒जं मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। २९ ।।
उ० होता यक्षत् । द्वादशाप्रियस्तनूनपान्नराशंसयुक्ताः । प्रैषिकमश्विसरस्वतीन्द्रदेवत्यम् । दैव्यो होता यक्षत् यजतु । समिधा प्रयाजदेवतयाग्निमवस्थितम् । इडस्पदे इडा गौरुच्यते तस्याः पदे आहवनीये स्थाप्यते तदभिप्रायमेतत् ।। गोः पदे अवस्थितमाहवनीयमग्निम् । एताश्च देवताविशेषाः यजतु । अश्विनौ इन्द्रं सरस्वतीम् । अजो धूम्रो न । नकारः प्रायः समुच्चयार्थः । अजो धूम्रो मेषश्च । गोधूमः कुवलैश्च सहितः भेषजमत्र संपद्यते । मधुशष्पैः न । मधु च संपद्यते स शष्पैरङ्कुरितव्रीहिभिः सहितः । तेजः इन्द्रियं च इन्द्रस्य यजमानस्य वा संपद्यते । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रा इज्यमानाः सन्तः पयः सोमश्च । सोममिति विभक्तिव्यत्ययः । परिस्रुता सह घृतं मधु च । व्यन्तु पिबन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज आज्यं देहि ॥ २९ ॥
म० होता यक्षत्समिधाग्निमिति प्रयाजप्रैषास्त्रिपशोः' (का० १९ । ६ । १४)। होता यक्षत्समिधाग्निमिडस्पद इत्यादयो द्वादश कण्डिकास्त्रिपशोः प्रयाजप्रैषाः स्युः । द्वादशाप्रीणां प्रयाजयाज्यानां प्रैषा अश्विसरस्वतीन्द्रदेवत्याः आद्या अष्टिः । दैव्यो होता समिधा प्रयाजदेवत्या सह अग्निमश्विना अश्विनौ इन्द्रं सरस्वती च इडः पदे गोपदे आहवनीये यक्षत् यजतु । | गोपदे स्थाप्यत इत्यभिप्रायेणेदं वचनम् । तत्र यागे अजो धूम्रो मेषश्च गोधूमैः कुवलैः बदरैः शष्पैः अङ्कुरितव्रीहिभिश्च सहितो भेषजमौषधं भवति । नकारौ चार्थौ । इन्द्रायेति शेषः । कीदृशं भेषजम् । मधु मधुरं तेजः तेजःप्रदमिन्द्रियमिन्द्रियसामर्थ्यप्रदम् । किंच ते अश्विसरस्वतीन्द्रा दैव्येन होत्रेज्यमानाः सन्तः पयः परिस्रुता मदिरया सह सोमः सोमं घृतं मधु च व्यन्तु पिबन्तु । सोम इति विभक्तिव्यत्ययः । सर्वत्र हे होतर्मनुष्यहोतः, त्वमपि आज्यस्य यज । कर्मणि षष्ठी । यजतिर्दानार्थः । अंश्व्यादिभ्य आज्यं देहीत्यर्थः ॥ २९ ॥
त्रिंशी।
होता॑ यक्ष॒त्तनू॒नपा॒त्सर॑स्वती॒मवि॑र्मे॒षो न भे॑ष॒जं प॒था मधु॑मता॒ भर॑न्न॒श्विनेन्द्रा॑य वी॒र्यं बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भि॒: पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३० ।।
उ० होता यक्षत्तनूनपात्सरस्वतीम् । तनूनपातमिति विभक्तिव्यत्ययः । सरस्वतीं च । अश्विनेन्द्रायेत्युपरिष्टाद्व्यवहितं यत्पठ्यते तदिह कृतविभक्तिव्यत्ययं योज्यतेऽर्थसंबन्धात् । अश्विनौ इन्द्रं च । अविर्मेषो न भेषजम् । नकारः समुच्चयार्थीयो भिन्नक्रमः । अविश्व मेषश्च भेषजम् इन्द्राय यजमानाय वा करोति । पथा मधुमता भरन् । पथा यज्ञमार्गेण मधुमता रसवता आत्मानं भरन् हरन् हवींषि देवान्प्रति । | 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः। वीर्यं बदरैरुपवाकाभिर्भेषजं तोक्मभिः उपवाकाभिरिन्द्रयवैः। तोक्मभिरङ्कुरितयवैः । वीर्यं भेषजं करोति मेष एव । इन्द्राय यजमानाय वा । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रा इज्यमानाः पयःप्रभृतीनि पिबन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥३०॥
म० एकाधिका अत्यष्टिः । तनूनपादिति प्रथमा द्वितीयार्थे । इन्द्रायेति चतुर्थी द्वितीयार्थे । नकारश्चार्थः । दैव्यो होता तनूनपातं प्रयाजदेवं सरस्वतीमश्विनौ इन्द्रं च यजतु । तत्र यागे अविः अजः मेषश्च । नश्चार्थे । मधुमता रसवता पथा यज्ञमार्गेण भरन् आत्मानं हरन् सन् बदरर्बदरीफलैः । उपवाकाभिरिन्द्रयवैः तोक्मभिरङ्कुरितव्रीहिभिर्यवैर्वा सहितो वीर्यं वीर्यकरं भेषजं भवति । अश्विसरस्वतीन्द्रा दैव्येन होत्रेज्यमानाः पयआदीनि व्यन्तु । हे होतः, त्वमपि आज्यस्य यज आज्यं देहि ॥ ३०॥
एकत्रिंशी।
होता॑ यक्ष॒न्नरा॒शᳪं᳭सं॒ न न॒ग्नहुं॒ पति॒ᳪं᳭ सुर॑या भेष॒जं मे॒षः सर॑स्वती भि॒षग्रथो॒ न च॒न्द्र्यश्विनो॑र्व॒पा इन्द्र॑स्य वी॒र्यं बद॑रैरुप॒वाका॑भिर्भेष॒जं तोक्म॑भि॒: पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३१ ।।
उ० होता यक्षन्नराशᳪं᳭सं न । दैव्यो होता यजतु नराशंसं न नग्नहुं पतिम् । व्यवहितपदकल्पना । नराशंसं च। पतिमधिपतिं जगतः । यज्ञो हि नराशंसः स आहुतिपरिणामद्वारेण जगद्बिभर्ति । नग्नहुम् सुरया सहितं नग्नहुं किण्वं च होता यजत्वित्यनुवर्तते । भेषजं मेषः वपा इन्द्रस्येत्युपरिष्टात्प्रैषस्य श्रूयते स इहानुषज्यते । भेषजं मेषः इन्द्रस्य करोत्विति वाक्यशेषः । सरस्वती भिषक् इन्द्रस्य भवतु । रथो न चन्द्र्यश्विनोः । रथश्च भिषगिन्द्रस्य भवतु । कथंभूतो रथः । चन्द्री । चन्द्रमिति हिरण्यनाम । तदस्यास्तीति चन्द्री सुवर्णखचितः । अश्विनोः संबन्धी । नन्वश्विनोः संबन्धिनो रथस्य कथं भिषिक्त्वम् । शृणु । 'आयुधं वाहनं वापि स्तुतौ यस्येह दृश्यते । तमेव तत्स्तुतं विन्द्यात्तस्यात्मा बहुधा हि सः' । वपा इन्द्रस्य वीर्यं कुर्वन्त्विति शेषः । वपा इति बहुवचनोपदेशस्त्रिपशुविषयः । बदरैः उपवाकाभिः तोक्मभिः भेषजमिन्द्रस्य भवत्वितिशेषः। अश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि पिबन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३१ ॥
म० दैव्यो होता नराशंसं प्रयाजदेवं सरस्वती सरस्वतीं भिषक् भिषजोः अश्विनोः रथः रथंच यक्षत् यजतु । कीदृशो रथः । चन्द्री चन्द्रं सुवर्णमस्मिन्नस्तीति चन्द्री सुवर्णमयः। रथस्य यागोऽश्विनोरेव । तदुक्तम् 'आयुधं वाहनं वापि स्तुतौ यस्येह दृश्यते । तमेव तत्स्तुतं विन्द्यात्तस्यात्मा बहुधा हि सः' इति । सरस्वतीरथयोः प्रथमा द्वितीयार्थे । भिषजि । प्रथमा षष्ठ्यर्थे । तत्र सुरया सह नग्नहुं नग्नहुः किण्वः मेषः वपाः ।। बहुत्वात्त्रिपशुसंबन्धिन्यो वपाः बदरैः उपवाकाभिर्यवैः तोक्मभिश्च व्रीहिभिः सहिता इन्द्रस्य वीर्यकरं भेषजं भवतु । अश्व्यादयः पयआदीनि पिबन्तु । हे होतः, आज्यस्य यज देहि। कीदृशं नराशंसम् । पतिं पालकम् । नग्नहुः सुराकन्दः । नकारौ चार्थौ । द्वितीयो भेषजशब्द आर्षः ॥ ३१ ॥
द्वात्रिंशी।
होता॑ यक्षदि॒डेडि॒त आ॒जुह्वा॑न॒: सर॑स्वती॒मिन्द्रं॒ बले॑न व॒र्धय॑न्नृष॒भेण॒ गवे॑न्द्रि॒यम॒श्विनेन्द्रा॑य भेष॒जं यवै॑: क॒र्कन्धु॑भि॒र्मधु॑ लाजै॒र्न मास॑रं॒ पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३२ ।।
उ० होता यक्षदिडेडितः । होता यजतु । इडा प्रयाजदेवतया ईडितः स्तुतः सन् । किंकुर्वन् । आजुह्वानः सरस्वतीं सरस्वतीमाह्वयन् । अश्विनेन्द्रायेत्युपरिष्टात्प्रैषस्य पठ्यते तदेतत्पदद्वयमिह कृतविभक्तिव्यत्ययं संबध्यते । उक्तंच 'यस्य येनार्थसंबन्धो दूरस्थस्यापि तस्य तत् । अर्थतो ह्यसमानाना(?)मानन्तर्यकारण' मिति । अश्विनौ इन्द्रं च । किंच । इन्द्रं बलेन वर्धयन् । ऋषभेण गवा च इन्द्रियमिन्द्रस्य वर्धयन् । मधु मासरं च उपादायेति शेषः । यवैः कर्कन्धुभिर्लाजैश्च भेषजमिन्द्रस्य वर्धयन् । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३२ ॥
म० दैव्यो होता इडा इडां प्रयाजदेवतां सरस्वतीमिन्द्रमश्विना अश्विनौ च यक्षत् यजतु । किं कुर्वन् । ऋषभेण गवा च धेन्वा च बलेन वर्धयन् इडादीन् समर्धयन् यजतु । कीदृशो होता । ईडितः ऋत्विग्भिः स्तुतः । आजुह्वानः इडादीनाह्वयन् । तत्र यवैः लाजैश्च सहितं मधु मासरमोदनं निःस्रावं च इन्द्राय इन्द्रियं वीर्यकरं भेषजं भवति । अश्विसरस्वतीन्द्रा होत्रेज्यमानाः पयआदीनि पिबन्तु । हे होतः, त्वं च यज ॥ ३२॥
त्रयस्त्रिंशी।
होता॑ यक्षद्ब॒र्हिरूर्ण॑म्रदा भि॒षङ्नास॑त्या भि॒षजा॒ऽश्विनाऽश्वा॒ शिशु॑मती भि॒षग्धे॒नुः सर॑स्वती भि॒षग्दु॒ह इन्द्रा॑य भेष॒जं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॑र्यज ।। ३ ३ ।।
उ० होता यक्षद्बर्हिरूर्णम्रदाः होता यजतु प्रकृता देवता । बर्हिश्च प्रयाजदेवता । ऊर्णम्रदाः ऊर्णम्रद इति प्राप्ते उर्णम्रदा इति छान्दसो लिङ्गविपर्ययः। ऊर्णेव मृदुर्भिषग्भवतु इन्द्राय । भिषग्वैद्य उक्तः । नासत्या भिषजाश्विना । नासत्या नासिकाप्रभवावश्विनौ भिषजौ भवतामिन्द्रस्य । अश्वा वडवा शिशुमती धेनुश्च भिषगिन्द्रस्य भवतु । इत्थंभूता हि सा दक्षिणा पठ्यते । कस्मात्पुनरेवमाशास्यत इत्यत आह । यतः सरस्वती भिषक् स्वयमेव दुहे दोग्धि इन्द्राय भेषजम् । अतो यूयमपि भिषजौ भवथेति । अश्विसरस्व तीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३३ ॥
म० दैव्यो होता ऊर्णम्रदाः ऊर्णमिव म्रदीयः बर्हिः प्रयाजदेवम् । भिषजा भिषजौ वैद्यौ । नासत्या न असत्यौ सत्यरूपौ अश्विना अश्विनौ । सरस्वती सरस्वतीं च यक्षत् यजतु । तत्र शिशुमती बालकोपेता अश्वा वडवा भिषक् धेनुः भिषक् च इन्द्राय भेषजमौषधं दुहे दुग्धे पूरयति । अश्वादयो दक्षिणा दीयन्ते । 'लोपस्त आत्मनेपदेषु' (पा. ७।१।४१) इति तलोपः । ते पयआदीनि व्यन्तु होतर्यज ॥ ३३ ॥
चतुस्त्रिंशी।
होता॑ यक्ष॒द्दुरो॒ दिश॑: कव॒ष्यो न व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिश॒ इन्द्रो॒ न रोद॑सी॒ दुघे॑ दु॒हे धे॒नुः सर॑स्वत्य॒श्विनेन्द्रा॑य भेष॒जᳪं᳭ शु॒क्रं न ज्योति॑रिन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३४ ।।
उ० होता यक्षद्दुरो दिशः होता यजतु । दुरः द्वार इति प्राप्ते छान्दसं संप्रसारणम्। द्वाराणीति लिङ्गव्यत्ययेन पर्यायः। कथंभूता यज्ञगृहद्वारः । दिशः कवष्यो न व्यचस्वतीः । लुप्तोपमानमेतत् । दिश इव याः कवष्यः ससुषिराः । व्यचस्वतीः व्यञ्चनवत्यः गमनवत्यश्च याः । अश्विभ्यां न दुरो दिशः । अश्विभ्यां च वा अधिष्ठिताः यज्ञगृहद्वारो दिश इव बभूवुः । इन्द्रो न रोदसी दुघे इन्द्रश्च या अधिष्ठाय रोदसी द्यावापृथिव्यौ दुहे । हकारस्य घकारः । दुग्धवान् । याश्चाधिष्ठाय दुहे धेनुर्भूत्वा सरस्वती अश्विनौ च । कस्मै दुहे किंच दुह इत्यत आह । इन्द्राय भेषजं शुक्रं शुक्लं ज्योतिश्च इन्द्रियं च दुहे । अश्विसरस्वतीन्द्राश्च पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥३४॥
म० दैव्यो होता दुरो द्वारः प्रयाजदेवीः इन्द्रः इन्द्रं सरस्वती सरस्वतीं अश्विना अश्विनौ च यक्षत् यजतु । नकाराश्चार्थाः । द्वारशब्दस्य संप्रसारणम् । कीदृशीः द्वारः । दिशः दिश इव सावकाशाः कवष्यः ससुषिराः । अतएव व्यचस्वतीः व्यचो व्यञ्चनं गमनं विद्यते यासु ताः गमनवत्यः । दिशो दिक्तुल्या दुरो द्वारः अश्विभ्यां सहिताः सत्यो रोदसी द्यावापृथिव्यौ इन्द्राय भेषजमौषधं दुहे दुग्धे । कीदृश्यों रोदसी । दुधे 'दुहः कव्घश्च' (पा० ३ । २ । ७० ) इति हकारस्य घकारः । दुहे इत्यत्र तलोपश्च वचनव्यत्ययः । दुहते। रोदसीभ्यां सकाशादिन्द्रायौषधं दुहते इत्यर्थः । 'अकथितं च' (पा० १ । ४ । ५१) इति द्विकर्मकत्वम् । सरस्वती च धेनुर्भूत्वा इन्द्राय शुक्रं शुक्लं शुद्धं ज्योतिरिन्द्रियं वीर्यं च दुहे दुग्धे । अन्यद्व्याख्यातम् ॥ ३४ ॥
पञ्चत्रिंशी।
होता॑ यक्षत्सु॒पेश॑सो॒षे नक्तं॒ दिवा॒ऽश्विना॒ सम॑ञ्जाते॒ सर॑स्वत्या॒ त्विषि॒मिन्द्रे॒ न भे॑ष॒जᳪं᳭ श्ये॒नो न रज॑सा हृ॒दा श्रि॒या न मास॑रं॒ पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३५ ।।
उ०. होता यक्षत्सुपेशसोषे । होता यक्षत् यजतु सुपेशसा सुरूपे । उषे इति द्विवचनोपदेशाद्रात्रिश्च उषाश्च गृह्येते । नक्तंदिवा रात्रौ च अहनि च । यौ चाश्विनौ समञ्जातः संश्लेषयतः सरस्वत्या सहितौ । त्विर्षि दीप्तिम् इन्द्रे । इन्द्रभेषजं च संश्लेषयतः । तौ च होता यजतु । यश्च श्येनः रजसा । रजःशब्दो ज्योतिर्वचनः । ज्योतिषा हृदा हृदयेन । श्रिया न । नकाराः सर्वे समुच्चयार्थीया इहानुवाके प्रायशः । श्रिया च सह मासरमुपादाय इन्द्रे समनक्ति । तं च होता यजतु । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रा इज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३५॥
म० होता सुपेशसा सुरूपे उषे द्विवचनाद्रात्रिश्च नक्तोषे प्रयाजदेवौ सरस्वत्या सहितौ अश्विनौ च यक्षत् । तौ चाश्विनौ नक्तं दिवा दिने च रजसा ज्योतिषा । रजःशब्दो ज्योतिर्वचनः । हृदा चित्तेन श्रिया च सह मासरं भेषजं मासररूपमौषधं श्येनः श्येनपत्रं त्विषिं कान्तिं च इन्द्रे समञ्जाते संश्लेषयतः । नकाराश्चार्थाः । ते पयआदीनि व्यन्तु । हे होतः, त्वं यज ॥ ३५ ॥
षट्त्रिंशी।
होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ऽश्विनेन्द्रं॒ न जागृ॑वि॒ दिवा॒ नक्तं॒ न भे॑ष॒जै: शूष॒ᳪं᳭ सर॑स्वती भि॒षक् सीसे॑न दुह इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३६ ।।
उ० होता यक्षद्दैव्या होतारा होतारौ अयं चाग्निरसौ च मध्यमः । भिषजौ अश्विनौ इन्द्रं न इन्द्रंच होता यजतु । जागृवि दिवानक्तं न भेषजैः शूषᳪं᳭ सरस्वती भिषक्सीसेन दुह इन्द्रियम् । या चैषा सरस्वती भिषक् जागृवि स्वकार्यसिद्धावप्रमत्ता जागरणशीला । विभक्तिलोपः। दिवानक्तं च भेषजैरौषधैः शूषं बलम् सीसेन च दुहे दोग्धि । इन्द्रियं च इन्द्रार्थम् । तां च दैव्यो होता यजतु । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३६॥
म०. दैव्यो होता दैव्या होतारा दैव्यौ होतारौ अयं अग्निरसौ च मध्यमः एतौ प्रयाजदेवौ भिषजौ वैद्यौ अश्विनौ इन्द्रं च यक्षत् यजतु । नौ चार्थौ । भिषग्भूता सरस्वती भेषजैः सह शूषं बलमिन्द्रियं वीर्यं च सीसेन कृत्वा दुहे दुग्धे । दुहेर्लट् - 'लोपस्त आत्मनेपदेषु' (पा० ७ । १ । ४१) । तलोपः ।
इन्द्रियार्थम् । कीदृशी सरस्वती । दिवानक्तमहोरात्रं जागृवि जागरणशीला स्वकार्यसिद्धावप्रमत्ता 'सुपां सुलुक्' (पा० ७ ।१ । ३९ )। सोर्लुक् तां च दैव्यो होता यजतु । अश्याौ दयः पयआदीनि व्यन्तु । हे होतः, त्वमपि यज ॥ ३६ ॥
सप्तत्रिंशी।
होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपसो॑ रू॒पमिन्द्रे॑ हिर॒ण्यय॑म॒श्विनेडा॒ न भार॑ती वा॒चा सर॑स्वती॒ मह॒ इन्द्रा॑य दुह इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३७ ।।
उ० होता यक्षत्तिस्रो देवीः । होता यजतु तिस्रो देवीः वक्ष्यमाणाः । नभेषजं त्रयस्त्रिधातवोपसः । नकारः समुच्चयार्थीयो भिन्नक्रमः । भेषजं च या इन्द्रे कुर्वन्ति ताश्च होता यजतु । त्रयः पशवः त्रिधातवः । आश्विनो धूम्रः सारस्वतो मेषः ऐन्द्र ऋषभः इति त्रयः पशवः । प्रधानाङ्गोपाङ्गभेदात्त्रिधातवः पशवः । अपसः अपस्विन इति प्राप्ते छान्दसो मतुब्लोपः । कर्मवन्तः । अग्नयो वा त्रयस्त्रिधातवः । रूपमिन्द्रे हिरण्ययमश्विनेडा न भारती । ये च इन्द्रे रूपं हिरण्मयं कुर्वन्ति ताश्च होता यजतु । के ते इत्यत आह । अश्विनौ इडा च भारती च । वाचा सरस्वती मह इन्द्राय दुह इन्द्रियम् । या च वाचा त्रयीलक्षणया सरस्वती महः महत्त्वं पूजामिन्द्राय दुहे दोग्धि इन्द्रियं च । तां च होता यजतु । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३७॥
म० नौ चार्थौ । दैव्यो होता । इडा भारती सरस्वती चेति तिस्रो देवीः प्रयाजदेवीः इन्द्रे इन्द्रमश्विना अश्विनौ च यक्षत् यजतु । या सरस्वती वाचा त्रयीलक्षणया भेषजमौषधं हिरण्ययं द्योतमानं रूपं च महस्तेजश्च इन्द्रियं चेन्द्राय इन्द्रार्थं । दुहे दुग्धे । कैः कृत्वा । त्रयस्त्रिधातवः त्रिभिः पशुभिः । तृतीयार्थे प्रथमा । त्रयो धातवः प्रधानाङ्गोपाङ्गलक्षणाः प्रकारा येषां ते त्रिधातवः पशवः । ते च त्रयः आश्विनो धूम्रः सारस्वतो मेषः ऐन्द्र ऋषभः । कीदृशाः पशवः । अपसः । अप इति कर्मनाम विनो लोपः । अपस्विनः कर्मवन्तः । त्रिभिः पशुभिर्भेषजरूपेन्द्रियमहांसि इन्द्राय दुग्धे । तेऽश्यालोदयः पयआदीनि पिबन्तु। हे होतः, त्वमप्याज्यस्य यज घृतं देहि ॥ ३७ ॥
अष्टत्रिंशी।
होता॑ यक्षत् सु॒रेतसमृष॒भं नर्या॑पसं॒ त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ भि॒षजं॒ न सर॑स्वती॒मोजो॒ न जू॒तिरि॑न्द्रि॒यं वृको॒ न र॑भ॒सो भि॒षग् यश॒: सुर॑या भेष॒जᳪं᳭ श्रि॒या न मास॑रं॒ पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३८ ।।
उ० होता यक्षत्सुरेतसम् । होता यजतु सुरेतसं शोभनं रेतः उदकलक्षणं यस्य । 'शोभनं ह्येतस्य रेतो यदुदकम् । यद्वा सुष्ठु रेतो यस्मात्तं पुंसो रेतःकारणभूतम् । ऋषभं वर्षितारम् । नर्यापसम् नरेभ्यो हितं नर्यम् तद्यस्य । अपः कर्म । स नर्यापसः तं नर्यापसं त्वष्टारम् दैव्यो होता यजतु। किंच इन्द्रमश्विना भिषजं न सरस्वतीम् । इन्द्रम् अश्विनौ भिषजं च सरस्वतीम् दैव्यो होता यजतु । केन यजतु । ओजो न जूतिरिन्द्रियं वृको न रभसो भिषक् । नकारः समुच्चयार्थीयः । ओजश्च जूतिर्जवः इन्द्रियं च यो वृकः सरभसः सोद्यमो दक्षः भिषक् तेन यजतु । सुरायां वृकलोमानि क्षिप्यन्त इत्यत एवमुच्यते । पयः सुरया भेषजं श्रिया न मासरम् । तथा मासरमुपादाय सुरया च यजतु । यशो भेषजं श्रिया सह इन्द्रे यजमाने वा । अश्विसरस्वती. न्द्राश्च दैव्येन होत्रा इज्यमानाः पयःप्रभतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३८ ॥
म० नकाराश्चार्थाः । होता त्वष्टारं प्रयाजदेवमिन्द्रमश्विना अश्विनौ सरस्वती भिषजं च यक्षत् यजतु । कीदृशं त्वष्टारम् । सुरेतसं शोभनं रेतो वीर्यं वृष्टिलक्षणं यस्य स सुरेताः तम् । यद्वा सुष्ठु रेतो यस्मात्तम् पुंसो रेतःकारणभूतम् । ऋषभं वर्षितारम् नर्यापसं नरेभ्यो हितं नर्यमपः कर्म यस्य स नर्यापा: तम् । केन यजतु तदाह । रभसः सोद्यमो भिषग्वैद्यभूतो यो वृकः तेन । प्रथमा तृतीयार्थे । सुरायां वृकलोमानि क्षिप्यन्तेऽतो वृकेन यजतु सुरया च यजतु । भेषजं यन्मासरं तेन च यजतु । एवंच यागे ओजस्तेजः जूतिर्वेगः इन्द्रियं वीर्ये श्रिया सह यशश्चेन्द्रे भवन्त्विति शेषः । अश्व्यादयः पयआदीनि व्यन्तु । हे होतः, त्वमप्याज्यस्य यज ॥ ३८॥
एकोनचत्वारिंशी।
होता॑ यक्ष॒द्वन॒स्पति॑ᳪं᳭ शमि॒तार॑ᳪं᳭ श॒तक्र॑तुं भी॒मं न म॒न्युᳪं᳭ राजा॑नं व्या॒घ्रं नम॑सा॒ऽश्विना॒ भाम॒ᳪं᳭ सर॑स्वती भि॒षगिन्द्रा॑य दुह इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ३९ ।।
उ० होता यक्षद्वनस्पतिम् होता यजतु । वनस्पतिं शमितारं शतक्रतुं बहुकर्माणम् भीमं न मन्युं राजानं व्याघ्रम् । भीमं भयानकम् मन्युं क्रोधात्मानम् । राजानमारण्यानां पशूनां व्याघ्रं च होता यजतु । नमसाश्विना हविषा । अश्विनौ च होता यजतु । भामं सरस्वती भिषगिन्द्राय दुह इन्द्रियम् । या च भामं क्रोधम् । सरस्वतीभिषक् इन्द्राय दुहे दोग्धि इन्द्रियं च तां च दैव्यो होता यजतु । अश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ३९ ॥
म० दैव्यो होता वनस्पतिं प्रयाजदेवं व्याघ्रं विशेषेणाजिघ्रतीति व्याघ्रः । व्याघ्रमिव राजानं शतक्रतुमिन्द्रमश्विना अश्विनौ सरस्वती सरस्वतीं च नमसा अन्नेन यक्षत् यजतु । कीदृशं वनस्पतिम् । शमितारं पशूनां संस्कर्तारं यूपरूपेण । । भीमं भयंकरं मन्युं क्रोधात्मानम् । भिषक् वैद्यरूपा या सरस्वती इन्द्राय भामं क्रोधमिन्द्रियं वीर्यं च दुहे दोग्धि । ते वनस्पत्यादयः इज्यमानाः पयआदीनि पिबन्तु । हे होतर्यज ॥ ३९ ॥
चत्वारिंशी।
होता॑ यक्षद॒ग्निᳪं᳭ स्वाहाऽऽज्य॑स्य स्तो॒काना॒ᳪं᳭ स्वाहा॒ मेद॑सां॒ पृथ॒क् स्वाहा॒ छाग॑म॒श्विभ्या॒ᳪं᳭ स्वाहा॑ मे॒षᳪं᳭ सर॑स्वत्यै॒ स्वाहा॑ ऋष॒भमिन्द्रा॑य सि॒ᳪं᳭हाय॒ सह॑स इन्द्रि॒यᳪं᳭ स्वाहा॒ऽग्निं न भे॑ष॒जᳪं᳭ स्वाहा॒ सोम॑मिन्द्रि॒यᳪं᳭ स्वाहेन्द्र॑ᳪं᳭ सु॒त्रामा॑णᳪं᳭ सवि॒तारं॒ वरु॑णं भि॒षजां॒ पति॒ᳪं᳭ स्वाहा॒ वन॒स्पतिं॑ प्रि॒यं पाथो॒ न भे॑ष॒जᳪं᳭ स्वाहा॑ दे॒वा आ॑ज्य॒पा जु॑षा॒णो अ॒ग्निर्भे॑ष॒जं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑।। ४०।।
उ० होता यक्षदग्निं स्वाहा । दैव्यो होता यजतु । अग्निं प्रयाजदेवतां वा आहवनीयं वा । स्वाहाज्यस्य स्तोकानाम् | सुष्ठु आह शोभनमाह यजमानः आज्यस्य स्तोकानाम् । स्तोका विप्रुषः । स्वाहा मेदसां पृथक् । शोभनमाह यजमानः मेदसां वपासंबद्धानाम् पृथक् पृथक् । वपाः श्रप्यमाणा आज्येनाभिघार्यन्ते तदभिप्रायमेतत् । स्वाहा छागमश्विभ्याम् । छागमेषर्षभशब्दाः पशुवचनाः। शोभनमाह यजमानश्छागपशुमश्विभ्यां मेषं शोभनं सरस्वत्यै च । स्वाहा ऋषभमिन्द्राय । शोभनमाह यजमानः ऋषभं इन्द्राय । कथंभूताय इन्द्राय । सिंहाय अभिभवित्रे । पुनः कथंभूताय । सहसे बलात्मकाय च । किंभूतमृषभम् । इन्द्रियं इन्द्रियात्मकमिति सामानाधिकरण्यात्संबन्धः । स्वाहाग्निं न भेषजम् आज्यभागौ सुआह यजमानः । अग्निं च भेषजम् । स्वाहा सोममिन्द्रियं शोभनमाह यजमानः सोममिन्द्रियात्मकम् । स्वाहेन्द्रं सुत्रामाणं सवितारं वरुणं भिषजांपतिम् । पशुपुरोडाशदेवताः । सुआह यजमानः । इन्द्रं सुत्रामाणम् सवितारं च । वरुणं वैद्यानां पतिं च । स्वाहा वनस्पतिम् प्रियं पाथोन भेषजम् । सुआह यजमानः वनस्पतिम् प्रियं पाथश्चान्नं भेषजं च । पशुदेवतानां वनस्पतिम् स्वाहादेवा आज्यपाः । प्रयाजानुयाजा वै देवा आज्यपाः । शोभनमाह यजमानः देवा आज्यपाः इज्यमाना वै देवा उत्तमे से प्रयाजे स्मर्यन्त इत्यतो विभक्तिव्यत्ययोत्र न कृतः । श्रुतिस्तु 'देवा ह वा ऊचुर्हन्त विजितमेवानुसर्व यज्ञᳪं᳭ सᳪं᳭स्थापय' इत्युपक्रम्य 'त उत्तमे प्रयाजे स्वाहाकारेणैव सर्वं यज्ञᳪं᳭ सᳪं᳭स्थापयन्' इत्याह । अतः स्वाहाकारा समाप्तिवचनाः समाप्तिवचनत्वाच्च स्वाहाकाराणां देवतापदस्य चतुर्थ्या भवितव्यम् । स्वाहा देवेभ्य . आज्यपेभ्य इत्ययं प्रकारः। त्र जुषाणो अग्निर्भेषजम् । जुषाणः सेवमानः अग्निः भेषजमौषधम् इन्द्रस्य यजमानस्य वा करोतु अश्विसरस्वतीन्द्राश्च प्रा दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । त्वमपि हे मनुष्यहोतः, आज्यस्य यज ॥ ४०॥
म० होता अग्निं प्रयाजदेवमाहवनीयं वा यक्षत् यजतु । किंच आज्यस्य घृतस्य स्तोकानां विप्रुषां स्वाहा सुष्ठु आह शोभनं वदति । 'द्व्यचोऽतस्तिङः' ( पा० ६ । ३ । १३५ ) इति दीर्घः । ब्रुवो रूपम् । यजमान इति शेषः । यजमानो घृतबिन्दून् शोभनान्वदतीत्यर्थः । कर्मणि षष्ठी । मेदसां वपासंबन्धिनां पृथक् स्वाहा । वपासंबन्धिमेदांसि समीचीनानीति पृथग्वदति अश्विभ्यामश्विनोरर्थे छागं शोभनमाह । सरस्वत्यै मेषं शोभनमाह । इन्द्राय इन्द्रियं वीर्यप्रदमृषभं सु आह । कीदृशायेन्द्राय । सिंहाय सिंहतुल्याय हिनस्तीति सिंहस्तस्मै शत्रूणामभिभवित्रे । तथा सहसे बलात्मकाय । भेषजं हितकारिणमग्निं च सु आह । नश्चार्थः । इन्द्रियं वीर्यप्रदं च सोमं सु आह । एतावग्नीषोमावाज्यभागौ सु आहेत्यर्थः । सुष्ठु त्रायते सुत्रामा तं सुत्रामाणमिन्द्रं सवितारं भिषजां वैद्यानां पतिं वरुणं च सु आह । पशुपुरोडाशदेवताः सु आहेत्यर्थः । प्रियमिष्टं पाथोऽन्नमन्नभूतं भेषजं च पशुदेवतानां वनस्पतिं प्रयाजदेवं सु आह । नकारश्चार्थः। आज्यपा देवा आज्यपान् देवान् सु आह । 'प्रयाजानुयाजा वै देवा आज्यपाः' । स्वाहेतिक्रियाया यजमानः कर्ता । 'देवा ह वा ऊचुर्हन्त विजितमेवानु सर्व यज्ञं सᳪं᳭स्थापय' इत्युपक्रम्य 'तत उत्तमे प्रयाजे स्वाहाकारेणैव यज्ञᳪं᳭समस्थापयन्' इत्याहेति श्रुतेः समाप्तिवचनाः स्वाहाकाराः। भेषजमौषधभूतं जुषाणः सेवमानोऽग्निरश्विसरस्वतीन्द्राश्च दैव्येन होत्रेज्यमानाः पयआदीनि व्यन्तु । हे मनुष्यहोतः, त्वमपि यज ॥ ४० ॥
एकचत्वारिंशी।
होता॑ यक्षद॒श्विनौ॒ छाग॑स्य व॒पाया॒ मेद॑सो जु॒षेता॑ᳪं᳭ ह॒विर्होत॒र्यज॑ ।
होता॑ यक्ष॒त्सर॑स्वतीं मे॒षस्य॑ व॒पाया॒ मेद॑सो जु॒षता॑ᳪं᳭ ह॒विर्होत॒र्यज॑ ।
होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ व॒पाया॒ मेद॑सो जु॒षता॑ᳪं᳭ ह॒विर्होत॒र्यज॑ ।। ४१।।
उ० होता यक्षदश्विनौ छागस्य त्रयो वपानां प्रैषा यथालिङ्गम्। दैव्यो होता यजतु। अश्विनौ छागस्य वपाया मेदसः स्नेहप्रकृतिर्मेदः। तौ चेज्यमानौ जुषेतां हविः। त्वं च हे मनुष्यहोतः यज। होता यक्षत्सरस्वतीं मेषस्य। जुषतामित्येकवचनविशेषः। होता यक्षदिन्द्रमृषभस्य। सममन्यत्। ॥४१॥
म० होता यक्षदश्विनाविति त्रयो वपानां प्रैषा यथालिङ्गम्' ( का० १९ । ६ । २२) । होता यक्षदश्विनौ छागस्य होता यक्षत्सरस्वतीम् होता यक्षदिन्द्रमृषभस्येति त्रयो वपात्रयस्य क्रमात् प्रैषा एककण्डिकायामिति सूत्रार्थः । सप्त लिङ्गोक्तदेवताः । तत्राद्यास्त्रयो वपानां प्रैषाः त्रयाणां प्राजापत्या पङ्क्तिश्छन्दः । द्वितीयस्य द्व्यधिका प्रथमतृतीययोरेकाधिका । दैव्यो होता अश्विनौ यक्षत् यजतु । इज्यमानौ तावश्विनौ छागस्य वपाया मेदसः हविर्जुषेतां सेवेताम् । मेद स्निग्धभागः । हे होतर्यज । होता सरस्वतीं यक्षत् । सा मेषस्य वपाया मेदसो हविर्जुषताम् । हे होतः, त्वं यज । होता इन्द्रं यक्षत् स इन्द्रः ऋषभस्य वपाया मेदसो हविर्जुषताम् । हे मनुष्यहोतः त्वमपि यज ॥ ४१ ॥
द्विचत्वारिंशी।
होता॑ यक्षद॒श्विनौ॒ सर॑स्वती॒मिन्द्र॑ᳪं᳭ सु॒त्रामा॑णमि॒मे सोमा॑: सु॒रामा॑ण॒श्छागै॒र्न मे॒षैरृ॑षभैः सु॒ताः शष्पै॒र्न तोक्म॑भिर्ला॒जैर्मह॑स्वन्तो॒ मदा॒ मास॑रेण॒ परि॑ष्कृताः शु॒क्राः पय॑स्वन्तो॒ऽमृता॒: प्रस्थि॑ता वो मधु॒श्चुत॒स्तान॒श्विना॒ सर॑स्व॒तीन्द्र॑: सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ᳪं᳭ सो॒म्यं मधु॒ पिब॑न्तु॒ मद॑न्तु॒ व्यन्तु॒ होत॒र्यज॑ ।। ४२ ।।
उ० होता यक्षदश्विनौ सरस्वतीम् । ग्रहाणां प्रैषः । दैव्यो होता यजतु । अश्विनौ च सरस्वतीं च इन्द्रं च सुत्रामाणम् । एवं होतारमुक्त्वाथेदानीमध्वर्यूनाह । हे अध्वर्यवः, इमे सोमाः सुरामाणः सुरमणीयाः सुरावन्तो वा । सुरामया वा। छागैर्न मेषैः ऋषभैः सुताः। नकाराः सर्वे समुच्चयार्थीयाः । छागैश्च मेषैश्च ऋषभैश्च सुता अभिषुताः समर्थीकृताः । शष्पैश्च तोक्मभिश्च लाजैश्च महस्वन्तः महाभाग्ययुक्ताः महातर्पणीयाः । मासरेण परिष्कृताः । 'संपर्युपेभ्यः करोतौ भूषणे' इति सुट् । मासरेण अलंकृताः । शुक्राः शोचिष्मन्तः पयस्वन्तः पयसा संयुक्ताः । अमृताः अमृतकल्पाः । प्रस्थिताः होमाभिमुखीभूताः । वः युष्मत्संबन्धेन । इत्यध्वर्युविषयम् । मधुश्चुतः मधुस्रवाः मधुक्षरणाः तानेतान्सोमान् अश्विनौ च सरस्वती च इन्द्रश्च सुत्रामा । साधुत्राणः वृत्रहा जुषताम् जुषित्वा च । सोम्यं सोममयं मधु पिबन्तु च मदन्तु च व्यन्तु च । त्वमपि हे मनुष्यहोतः, यज ॥ ४२ ॥
म० 'ग्रहाणां चतुर्थः' (का० १९ । ६ । २३)। होता यक्षदश्विनौ सरस्वतीमिन्द्रमिति चतुर्थो ग्रहाणां प्रैषः । होता यक्षदश्विनौ सरस्वतीं सुष्ठु रक्षितारमिन्द्रं च यक्षत् यजतु । एवं होतारमुक्त्वाध्वर्यूनाह । हे अध्वर्यवः, इमे सोमाः वो युष्माकं युष्माभिः सुता अभिषुताः । कीदृशाः सोमाः । छागैर्मेषैर्ऋषभैश्च सुरामाणः सुष्ठु रमयन्ति ते सुरामाणः रमणीयाः । रमतेरनण्प्रत्ययः । पशुभिः कृला रमणीयाः नौ चार्थौ । सुरावन्तः सुरामया वा । तथा शष्पैः तोक्मभिर्यवाङ्कुरैर्लाजैश्च महस्वन्तः तेजोयुताः । मदाः मदयन्ति तर्पयन्तीति मदाः । मासरेण पूर्वोक्तेन परिष्कृता अलंकृताः 'संपर्युपेभ्यः-' (पा० ६।१। १३७) इति सुट् । शुक्राः शोचिष्मन्तः । पयस्वन्तः पयसा युक्ताः अमृताः अमृतकल्पाः । प्रस्थिताः होमाभिमुखं चलिताः। मधुश्चुतः मधु श्चोतन्ते ते मधुस्राविणः । अश्विनौ सरस्वती सुत्रामा वृत्रहा वृत्रासुरहन्ता इन्द्रश्च तान् सोमान् जुषन्तां सेवन्ताम् । सोम्यं मधु पिबन्तु मदन्तु तृप्यतु व्यन्तु राजन्तां हविर्भक्षयन्तु वा । हे होतः, त्वमपि यज ॥ ४२ ॥
त्रिचत्वारिंशी।
होता॑ यक्षद॒श्विनौ॒ छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भो घस्तां॑ नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪं᳭ सु॒मत्क्ष॑राणाᳪं᳭ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑त ए॒वाश्विना॑ जु॒षेता॑ᳪं᳭ ह॒विर्होत॒र्यज॑ ।। ४३ ।।
उ० होता यक्षदश्विनौ छागस्य । प्रैषः । होता यजतु । अश्विनौ छागस्य छागाङ्गस्य तावश्विनौ छागसंबन्धिनः हविषः अत्ताम् । 'अद भक्षणे' । अभक्षयतां भक्षितवन्तौ । अद्य अस्मिन्द्यवि । मध्यतो मेद उद्भृतम् उदरमध्यतो वपालक्षणं मेदः उद्धृतम् । 'हृग्रहोर्भश्छन्दसि' इति हस्य भकारः । पुराद्वेषोभ्यः पूर्वमसुररक्षोभ्यः यज्ञद्वेष्टृभ्यो वा । पुरा च पौरुषेय्यागृभः पुरुषार्थं गृह्यते इति पौरुषेयीगृप् तस्याः पौरुषेय्यागृभः । इडाया इत्यर्थः । नहि वपायागे इडा विद्यते । यावेवं वपाहविष आत्तां ताविदानीं घस्तां भक्षयताम् । अङ्गानां स्वमंशभूतमिति शेषः। विशेषणैर्विशेष्यस्याध्याहारः। नूनं निश्चयेन । किंभूतानामङ्गानाम् । घासे ग्रासे अज्राणाम् अवत्तानाम् । घासेयैरजितं स्वेच्छया घासे वा यान्यजराणि स्युः। यवसप्रथमानां यवसानामन्नानां यानि प्रथमानि मन्त्रैः संस्कृतत्वात् । 'एतद्वै परममन्नाद्यं यन्मांसम्' इति श्रुतेः । सुमत्क्षराणाम् । सुमत् स्वयमित्यर्थः । स्वयमेव यानि क्षरन्ति अदितानि । शतरुद्रियाणाम् बहुस्तुतीनाम् । रुद्र इति हि स्तोतृनामसु पठितम् । रुद्रस्य स्तोतुरिमा रुद्रियाः स्तुतयः । बहुशो वा रुद्राणां अग्निष्वात्तानां अग्निना साधुपाकार्थमासादितानाम् । अग्निना सुश्रुतानामित्यर्थः । पीवोपवसनानाम् । पीवशब्दः स्थूलवचनः । पीवभिः स्थूलैरुपोषितं यैरवदानैः स्थूलानामुपवसनं समीपस्थितिर्येषामिति वा । किंच । पार्श्वतः श्रोणितः शितामत उत्सादतः। अङ्गादङ्गादवत्तानां पार्श्वतोवत्तानाम् पार्श्वं परशुमयमङ्गं भवति । श्रोणितोऽवत्तानां शितामतोऽवत्तानाम् । शितामशब्देन यकृद्वाशिताम् योनिर्वाशिताम् मेदोवाशिताम् इति व्याख्याभेदाः। उत्सादनप्रदेशात् छेदनप्रदेशात् । अवत्तानाम् । एवमङ्गादङ्गादवत्तानाम् । करत एवाश्विनौ तृप्तिमिति शेषः । जुषेतां च । पुनर्वचनमादरार्थम् । त्वमपि हे मनुष्यहोतः, यज ॥ ४५ ॥
म० 'हविषामुत्तरे यथालिङ्गम्' (का० १९ । ६ । २४)।' चतुर्थात्प्रैषादग्रे पठ्यमाना 'होता यक्षदश्विनौ छागस्य हविषः' इत्याद्यास्त्रयो यथालिङ्गमाश्विनादिहविर्यागानां प्रैषा इत्यर्थः । दैव्यो होता अश्विनौ यक्षत् यजतु । ताविज्यमानावश्विनौ छागस्य हविषः छागसंबन्धि हविः आत्ताम् अभक्षयताम् । कर्मणि षष्ठी । किंच अद्य अस्मिन् दिने मध्यतः उदरमध्यादुद्भृतमुद्धृतं मेदो वपारूपं चात्ताम् । 'हृग्रहोर्भश्छन्दसि' । कथमुद्धृतं तत्राह । द्वेषोभ्यः द्विषन्तीति द्वेषांसि । द्वेषेरसुन्प्रत्ययः । यज्ञद्वेष्टॄणि असुररक्षांसि तेभ्यः उद्धृतम् । यावत्तानि पराभवायागच्छन्ति ततः पुरैवोद्धृतमित्यर्थः । तथा गृभः गृह्यते भक्ष्यार्थमिति गृप् तस्या गृभः इडायाः पुरा प्रथममुद्धृतम् । वपायामिडाप्रयोजनाभावात् । कीदृश्या गृभः । पौरुषेय्याः पुरुषार्थमियं पौरुषेयी ऋत्विगर्था तस्याः । तावश्विनौ नूनं निश्चितमङ्गानां घस्तामङ्गानि भक्षयताम् । 'घस्लृ अदने' विशेषणैर्विशेष्यस्याध्याहारः । कीदृशानामङ्गानाम् । घासे अज्राणाम् । एकपदं घासे ग्रासे अजराणां नवानां रुचिजनकानाम् । अन्यानि ग्रासेषूत्तरोत्तरमरुचिं जनयन्ति नेमानि । तथा यवसप्रथमानां यवसानामन्नानां मध्ये प्रथमानां मुख्यानां मांसत्वात् । 'एतद्वै परममनाद्यं यन्माᳪं᳭सम्' इति श्रुतेः । सुमत्क्षराणां सुमत् स्वयं क्षरन्ति तानि सुमत्क्षराणि तेषाम् । सुमदिति स्वयमित्यस्य पर्यायः। शतरुद्रियाणाम् । रुद्र इति स्तोतृनामसु पठितम् । रुद्रस्य स्तोतुरिमा रुद्रियाः स्तुतयः । शतमसंख्या रुद्रिया येषां तेषाम् । बहुमन्त्रैः स्तुतानामित्यर्थः । अग्निष्वात्तानाम् अग्निना स्वात्तानामास्वादितानाम् । पाककाले पूर्वमग्निना सुशृतानामित्यर्थः । पीवोपवसनानाम् । पीवस्शब्दोऽसुन्नन्तः स्थूलवाची । पीवसां स्थूलानामङ्गानामुप समीपे वसनं स्थितिर्येषां तानि पीवोपवसनानि तेषाम् । स्थूलाङ्गसमीपस्थितानां सूक्ष्माणामित्यर्थः । 'उपवसने पीवः' इति प्रातिशाख्यसूत्रेण उपवसने परे पीवसो विसर्गलोपः । किंच पार्श्वतः पार्श्वप्रदेशात् । श्रोणितः कटिप्रदेशात् । शितामतो बाहुप्रदेशात् । उत्सादतः उत्सादनमुत्सादः, छेदनप्रदेशः तस्मात् । एवमङ्गादङ्गात् एकपदम् 'नित्यवीप्सयोः' (पा० ८।१।४) इति द्वित्वम् । प्रसङ्गात् अवत्तानामवदान- : धर्मेण गृहीतानामङ्गावयवानामश्विनौ घस्ताम् तान् भक्षयतामिति पूर्वेण संबन्धः । एव एवमश्विना अश्विनौ हविर्जुषेतां सेवेताम् भक्षितावदानौ तौ करतः कुरुतः । तृप्तिमिति शेषः । विकरणव्यत्ययः। पुनर्वचनमादराय । हे मनुष्यहोतः, त्वमपि यज । शितामशब्देन बाहुयकृद्योनिमेदांस्युच्यन्ते ॥ ४३ ॥
चतुश्चत्वारिंशी।
होता॑ यक्ष॒त् सर॑स्वतीं मे॒षस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भो घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪं᳭ सु॒मत्क्ष॑राणाᳪं᳭ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वᳪं᳭ सर॑स्वती जु॒षता॑ᳪं᳭ ह॒विर्होत॒र्यज॑ ।। ४४ ।।
उ० होता यक्षत्सरस्वतीं मेषस्य । होता यजतु सरस्वतीम् । या हविष आवयत् । आङ्पूर्वस्य वनेः स्वादनार्थस्य लिटि भूतार्थाभिधायिन्येतद्रूपम् । घसत् लोडर्थे लेट् । जुषतामेकवचनम् । अन्यदुक्तम् ॥ ४४ ॥
म० होता सरस्वतीं यक्षत् या सरस्वती मेषस्य हविषः हविः आवयत् अभक्षयत् । आङ्पूर्वस्य वेतेर्लङि रूपम् । यद्वा भक्षयतु । लेटि वाडागमे रूपम् । अद्य मध्यतो मेद इत्यादिव्याख्या पूर्ववत् । सा अङ्गानि घसत् । एवं सरस्वती हविर्जुषतां तृप्तिं च करदित्येकवचनानि । अन्यदुक्तम् ॥ ४४ ॥
पञ्चचत्वारिंशी।
होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भो घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪं᳭ सु॒मत्क्ष॑राणाᳪं᳭ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसानानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वमिन्द्रो॑ जु॒षता॑ᳪं᳭ ह॒विर्होत॒र्यज॑ ।। ४५ ।।
उ० होता यक्षदिन्द्रमृषभस्य । तुल्यव्याख्यानम् ॥४५॥
म० होता इन्द्रं यक्षत् । स इन्द्र ऋषभस्य हविष आवयत् भक्षयतु । एवमिन्द्रो हविर्जुषतामित्यन्तं पूर्ववत् ॥ ४५ ॥
षट्चत्वारिंशी।
होता॑ यक्ष॒द्वन॒स्पति॑म॒भि हि पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाधि॑त । यत्रा॒श्विनो॒श्छाग॑स्य ह॒विष॑: प्रि॒या धामा॑नि॒ यत्र॒ सर॑स्वत्या मे॒षस्य॑ ह॒विष॑: प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य ऋष॒भस्य॑ ह॒विष॑: प्रि॒या धामा॑नि॒ यत्रा॒ग्नेः प्रि॒या धामा॑नि॒ यत्र॒ सोम॑स्य प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य सु॒त्राम्ण॑: प्रि॒या धामा॑नि॒ यत्र॑ सवि॒तुः प्रि॒या धामा॑नि॒ यत्र॒ वरु॑णस्य प्रि॒या धामा॑नि॒ यत्र॒ वन॒स्पते॑: प्रि॒या पाथा॑ᳪं᳭सि॒ यत्र॑ दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यत्रा॒ग्नेर्होतु॑: प्रि॒या धामा॑नि॒ तत्रै॒तान्प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑वो॒पाव॑स्रक्ष॒द्रभी॑यस इव कृ॒त्वी कर॑दे॒वं दे॒वो वन॒स्पति॑र्जु॒षता॑ᳪं᳭ ह॒विर्होत॒र्यज॑ ।। ४६ ।।
उ० होता यक्षद्वनस्पतिम् । वनस्पतिप्रैषः । होता यजतु वनस्पतिं यूपम् । अभि हि पिष्टतमया रभिष्टतया रशनयाधित । कस्माद्वनस्पतिं यजतु । हिशब्दो यस्मादर्थे । यस्मात् अभ्यधित । 'स्थाध्वोरिच्च' इति दधातेर्लुङ् । इत्यभिधारितवान् । केनाभिधारितवान् । पिष्टशब्दो रूपवाची । पिष्टतमया रभिष्टया च आलब्धतमया । अतिशयेन नियमकारिण्या । रशनया जालभूतया । प्रार्थयामि वनस्पतिम् । यत्र देशे अश्विनौ छागस्य च हविषश्च प्रिया प्रियाणि धामानि स्थानानि । यत्र सरस्वत्याः यत्रेन्द्रस्य । एताः पशुदेवताः अथाज्यभागौ । यत्राग्नेः यत्र सोमस्य । अथ पशुपुरोडाशदेवताः। यत्रेन्द्रस्य सुत्राम्णः यत्र सवितुः यत्र वरुणस्य यत्र वनस्पतेः प्रियापाथांसि। पाथःशब्दोऽन्नवचनः। वनस्पतिः पशोरिवाङ्गम् । अथ प्रयाजानुयाजाः । यत्र देवानामाज्यपानाम् । अथ स्विष्टकृत् । यत्राग्नेर्होतुः प्रियाणि स्थानानि तत्र तेषु स्थानेषु एतान् पशून् । प्रस्तुत्येव प्रस्तुत्य च उपस्तुत्येव । अतिशयार्थं पुनर्वचनम् । उपावस्रक्षत् उपावसृजतु । रभीयस इव कृत्वी 'रभ राभस्ये' रभसांश्च पशून् कृत्वा करत् करोतु । एवं देवो वनस्पतिर्जुषतां हविः । त्वमपि हे मनुष्यहोतः, यज ॥ ४६ ।।
म० 'उत्तमौ वनस्पतिस्विष्टकृतोः' ( का० १९ । ६ । २५)। अन्ते पठ्यमानौ होता यक्षद्वनस्पतिमभि होता यक्षदग्निं स्विष्टकृतमिति क्रमेण वनस्पतियागे स्विष्टकृद्यागे च प्रैषौ । यूपो देवता । दैव्यो होता वनस्पतिं यूपमभियक्षत् अभियजतु । हि यस्मात् वनस्पतिः रशनया रज्ज्वा कृत्वा अधित धृतवान् । पशुनिति शेषः । दधातेर्लुङि 'स्थाध्वोरिच्च' (पा० १।२। १७) इतीकारः । कीदृश्या रज्ज्वा । पिष्टतमया । पिष्टशब्दो रूपवाची । अत्यन्तं पिष्टा सुरूपा पिष्टतमा तया । रभिष्ठया रभते पशून्नियच्छतीति रब्धी तृच ङीप् । अत्यन्तं रब्धी रभिष्ठा तया । 'तुश्छन्दसि' (पा० ५। ३ । ५९ ) इतीष्ठनि तृचो लोपः । समर्थयेत्यर्थः । इदानीं वनस्पतिः प्रार्थ्यते ।। यत्र अश्विनोः संबन्धिनः छागस्य हविषः छागरूपस्य हविषः प्रिया प्रियाणि इष्टानि धामानि स्थानानि वर्तन्त इति शेषः । एवमग्रेऽपि । यत्र सरस्वत्या मेषस्य मेषरूपस्य हविषः प्रियाणि धामानि यत्र इन्द्रस्य ऋषभस्य हविषः प्रियाणि धामानि एतेषां पशुदेवानां स्थानानि । यत्राग्नेः प्रियाणि धामानि यत्र करणस्य प्रियाणि धामानि एते पशुपुरोडाशदेवा यत्र सोमस्य प्रियाणि धामानि एतावाज्यभागौ । यत्र सुत्राम्ण इन्द्रस्य प्रियाणि धामानि । यत्र सवितुः प्रियाणि धामानि यत्र वनस्पतेः प्रियाणि पाथांसि अन्नानि । अथ यत्र आज्यपानां देवानां प्रयाजानुयाजानां प्रियाणि धामानि । यत्र होतुरग्नेः स्विष्टकृतः प्रियाणि धामानि । एताञ्छागादीन् पशून् रभीयस इव कृत्वी रभन्ते ते रब्धारः अत्यन्तं रब्धारो रभीयांसः सरभसांश्च कृत्वा इवश्चार्थः । प्रस्तुत्येव प्रकर्षेण स्तुत्वा च उपस्तुत्येव उप समीपे स्तुत्वा च । इवौ चार्थौ । तत्र तेषु पूर्वोक्तेषु स्थानेषु वनस्पतिर्देव उपावस्रक्षत् उपावसृजतु स्थापयतु । सृजेर्लुङि रूपं । लेटि वा 'सिब्बहुलं लेटि' (पा० ३ । १।३४) | इति सिप्प्रत्ययेऽडागमे च रूपम् । वनस्पतिर्देव एवं करत् करोतु । हविश्च जुषताम् । हे मनुष्यहोतः, त्वमपि यज ॥ ४६ ॥
सप्तचत्वारिंशी।
होता॑ यक्षद॒ग्निᳪं᳭ स्वि॑ष्ट॒कृत॒मया॑ड॒ग्निर॒श्विनो॒श्छाग॑स्य ह॒विष॑: प्रि॒या धामा॒न्यया॒ट् सर॑स्वत्या मे॒षस्य॑ ह॒विष॑: प्रि॒या धामा॒न्यया॒डिन्द्र॑स्य ऋष॒भस्य॑ ह॒विष॑: प्रि॒या धामा॒न्यया॑ड॒ग्नेः प्रि॒या धामा॒न्यया॒ट् सोम॑स्य प्रि॒या धामा॒न्यया॒डिन्द्र॑स्य सु॒त्राम्ण॑: प्रि॒या धामा॒न्यया॑ट् सवि॒तुः प्रि॒या धामा॒न्यया॒ड् वरु॑णस्य प्रि॒या धामा॒न्यया॒ड् वन॒स्पते॑: प्रि॒या पाथा॒ᳪं᳭स्यया॑ड् दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यक्ष॑द॒ग्नेर्होतु॑: प्रि॒या धामा॑नि॒ यक्ष॒त् स्वं म॑हि॒मान॒माय॑जता॒मेज्या॒ इष॑: कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दा जु॒षता॑ᳪं᳭ ह॒विर्होत॒र्यज॑ ।। ४७ ।।
उ० होता यक्षदग्निं स्विष्टकृतम् । स्विष्टकृत्प्रैषः । दैव्यो होता यजतु । अग्निं स्विष्टकृतम् । कस्माद्धेतोरित्यत आह । अयाट् अयाक्षीत् इष्टवान् । एवमग्रेऽपि । योऽग्निः अश्विनोः छागस्य च हविषश्च प्रियाणि धामानि । अयाट् सरस्वत्याः अयाट् इन्द्रस्य । प्रधानदेवताः। अयाट् अग्नेः अयाट् सोमस्य । आज्यभागौ । अयाट् इन्द्रस्य सुत्राम्णः अयाट् सवितुः अयाट् वरुणस्य । पशुपुरोडाशदेवताः । अयाट् वनस्पतेः प्रियाणि पाथांस्यन्नानि । वनस्पतिः प्रधानाङ्गदेवता । अयाट् देवानाम् आज्यपानाम् प्रयाजानुयाजा आज्यपाः । यक्षदग्नेर्होतुः यक्षत् इष्टवान् । अग्नेर्होतुः स्विष्टकृतः स्वयमेव प्रियाणि धामानि यक्षत् अयाक्षीत् । स्वं महिमानं स्वकीयां विभूतिम् । किंच । आयजतामेज्या इषः । यजतामिति वचनव्यत्ययः । आइज्या अभियष्टव्या यागार्हा इषः प्रजाः। इषान्नेन तासां स्थितिरुत्पत्तिश्चेति इषः प्रजा उक्ताः । यागशीला यागार्हा: प्रजा भवन्तीत्यर्थः । कृणोतु करोतु । सः अध्वरा अध्वरानू यज्ञान् जातवेदाः जुषतां च हविः । हे मनुष्यहोतः, त्वमपि यज ॥ ४७ ॥
म० स्विष्टकृदग्निदेवता । होता स्विष्टकृतमग्निं यक्षत् यजतु । योऽग्निः स्विष्टकृत् अश्विनोः छागस्य हविषः संबन्धीनि प्रियाणि धामानि अयाट् अयाक्षीत् इष्टवान् । अवदानानि यजति स्मेत्यर्थः । एवमग्रेऽपि । सरस्वत्या मेषस्य हविषः प्रियाणि धामानि अवदानानि अयाट् इन्द्रस्य ऋषभस्य हविषः प्रियाणि धामानि अयाट् एताः प्रधानदेवताः अग्नेः प्रिया धामान्ययाट् सोमस्य प्रिया धामानि अयाट् एतावाज्यभागौ । सुष्ठु त्रायते सुत्राम्ण इन्द्रस्य प्रियाणि सवितुः प्रियाणि वरुणस्य प्रियाणि एताः पशुपुरोडाशदेवताः । वनस्पतेः प्रियाणि एतत्प्रधानाङ्गम् । आज्यपानां देवानां प्रियाणि एते प्रयाजानुयाजाः । होतुरग्नेः स्विष्टकृतः स्वस्यैव प्रियाणि धामानि यक्षत् इष्टवान् । स्वं महिमानं स्वां विभूतिं यक्षत् । किंच आ इज्याः समन्ताद् यष्टुं योग्या एज्याः यागार्हाः । इषः इच्छन्तीति इषः सकामाः प्रजाः आयजतां सम्यक् यजतु । वचनव्यत्ययः। प्रजा यागशीला यागयोग्याश्च भवन्त्वित्यर्थः । स जातवेदाः स्विष्टकृदग्निः अध्वरा अध्वरान्यज्ञान् कृणोतु करोतु । हविश्च जुषताम् । हे मनुष्यहोतः, त्वं यज । विभक्तेराकारः ॥ ४७ ॥
अष्टचत्वारिंशी।
दे॒वं ब॒र्हिः सर॑स्वती सुदे॒वमिन्द्रे॑ अ॒श्विना॑ ।
तेजो॒ न चक्षु॑र॒क्ष्यो॒र्ब॒र्हिषा॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ४८ ।।
उ० देवं बर्हिः एकादशानुयाजप्रैषाः अश्विसरस्वतीन्द्रदेवत्या व्यवहितपदप्रायाः। यत् देवं बर्हिः सुदेवम् शोभना देवा अस्येति सुदेवम् । तेन बर्हिषा सरस्वती अश्विनौ च इन्द्रे । तेजो न । नकारः समुच्चये । तेजश्च चक्षुश्च इन्द्रियं च अक्ष्योः अक्ष्णोः दधुः । वसुवननाय धनलाभाय । वसुधेयस्य धननिधानाय च । व्यन्तु पिबन्तु अश्विसरस्वतीन्द्राः । त्वमपि यज । अथ समस्तार्थः । यद्देवं बर्हिः सुदेवं तेन बर्हिषा सरस्वती अश्विनौ च तेजश्व अक्ष्णोः इन्द्रियं च दधुः । एवमग्रेऽपि ॥ ४८॥
म० 'अनुयाजप्रैषा देवं बर्हिरिति याज्याश्च' ( का० १९ ।७।८-९) देवं बर्हिः सरस्वतीत्याद्या एकादश कण्डिकास्त्रिपशोरनुयाजानां प्रैषा याज्याश्च भवन्तीत्यर्थः । एकादशानुयाजप्रैषा अश्विसरस्वतीन्द्रदेवत्याः चतस्र आर्ष्यस्त्रिष्टुभः व्यवहितपदप्रायाः । शोभना देवा यस्य तत्सुदेवं यद्बर्हिः देवमनुयाजदेवता तेन बर्हिषा सरस्वती अश्विना अश्विनौ च इन्द्रे तेजो दधुः दधतु । कक्ष्योः इन्द्रनेत्रयोः चक्षुः इन्द्रियं च दधुः । नकारश्चार्थः । एवमग्रेऽपि । वसुवने वसुवननाय धनलाभाय वसुधेयस्य वसुनो धेयं वसुधेयं तस्य वसुनिधानाय च अश्विसरस्वतीन्द्रा व्यन्तु हविर्भक्षयन्तु । हे मनुष्यहोतः, त्वमपि यज । सप्तमीषष्ठ्यौ चतुर्थ्यर्थे ॥ ४८ ॥
एकोनपञ्चाशी।
दे॒वीर्द्वारो॑ अ॒श्विना॑ भि॒षजेन्द्रे॒ सर॑स्वती ।
प्रा॒णं न वी॒र्यं॒ न॒सि द्वारो॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ४९ ।।
उ० देवीर्द्वारः । या देव्यः यज्ञगृहद्वारः ताभिः अश्विनौ भिषजौ च । सरस्वती च प्राणं च । नसि नासिकायाम्। वीर्यं च इन्द्रियं च । द्वारः द्वार्भिरिति विभक्तिव्यत्ययः । इन्द्रे दधुः । वसुवने इति व्याख्यातम् ॥ ४९ ॥
म० उत्तरार्धे द्वार इति प्रथमा तृतीयार्था । या द्वारो देवीः यज्ञगृहद्वारो देव्योऽनुयाजदेवाः ताभिर्द्वार्भिः सह भिषजा अश्विना वैद्यावश्विनौ सरस्वती च इन्द्रे वीर्य बलं दधुः । नसि इन्द्रस्य नासिकायां प्राणमिन्द्रियं घ्राणेन्द्रियं च दधुः । वसु० व्याख्यातम् ॥ ४९ ॥
पञ्चाशी।
दे॒वी उ॒षासा॑व॒श्विना॑ सु॒त्रामेन्द्रे॒ सर॑स्वती ।
बलं॒ न वाच॑मा॒स्य॒ उ॒षाभ्यां॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५०।।
उ० देवी उषासौ । नक्तोषासाविति प्राप्ते छान्दसः प्रातिपदिकलोपः । यौ देव्यौ नक्तोषासौ । ताभ्याम् अश्विनौ सुत्रामा शोभनत्राणौ सरस्वती च । बलं च वाचं च आस्ये मुखे । इन्द्रियं च इन्द्रे । उषाभ्यां नक्तोषोभ्यां दधुः व्याख्यातमन्यत् ॥ ५० ॥
म० नक्तोषासाविति प्राप्ते छान्दस आदिपदलोपः । उषासा देवी नक्तोषसी अनुयाजदेव्यौ ताभ्यामुषाभ्यां नक्तोषोभ्यां सह अश्विनौ सुमात्रा शोभनरक्षणकर्त्री सरस्वती च इन्द्रे बलं दधुः आस्ये इन्द्रमुखे वाचमिन्द्रियं वागिन्द्रियं च दधुः । नश्चार्थः । वस्वित्युक्तम् ॥ ५० ॥
एकपञ्चाशी।
दे॒वी जोष्ट्री॒ सर॑स्वत्य॒श्विनेन्द्र॑मवर्धयन् ।
श्रोत्रं॒ न कर्ण॑यो॒र्यशो॒ जोष्ट्री॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५१ ।।
उ० देवी जोष्ट्री । ये देव्यौ जोषयित्र्यौ द्यावापृथिव्यौ इति वा । अहोरात्रे इति वा । 'शस्यं च समा चेति 'कात्थक्यः' । ताभ्यां जोष्ट्रीभ्याम् सरस्वती चाश्विनौ च इन्द्रं अवर्धयन् । कथमवर्धयन् । श्रोत्रं च कर्णयोः यशश्च इन्द्रियं च इन्द्रे दधुः । वसुवन इति समञ्जसम् ॥ ५१ ॥
म० ये जोष्ट्री जोषयित्र्यौ सुखस्य सेवयित्र्यौ देवी देव्यौ । अनुयाजदेव्यौ द्यावापृथिव्यौ अहोरात्रे वा । 'शस्यं च समा चेति कात्थक्यः' ( निरु० ९ । ४१ । ६ ) ताभ्यां जोष्ट्रीभ्यां सह सरस्वती अश्विना अश्विनौ च इन्द्रमवर्धयन् । कथमवर्धयन् तत्राह । इन्द्रे यशो दधुः । तत्कर्णयोश्च श्रोत्रमिन्द्रियं दधुः । वसु० व्याख्यातम् ॥ ५१॥
द्विपञ्चाशी।
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघेन्द्रे॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑ऽवतः ।
शु॒क्रं न ज्योति॒ स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५२ ।।
उ० देवी ऊर्जाहुती । जोष्ट्र्यास्तुल्यदेवताविकल्पः । ये देव्यौ ऊर्जाहुती रसवती आहुतिराह्वानम् । दुघे दुग्धे सुदुघे सुदोहने। उपरितनेर्धर्चे आहुतीशब्दः श्रूयते स इह कृतविभक्तिव्यत्ययः समर्थीक्रियते । ताभ्यामाहुतिभ्याम् सरस्वती च अश्विनौ च भिषजौ अवतः । अवन्तीति वचनव्यत्ययः । इन्द्रमिति शेषः । कथं कृत्वा । शुक्रं च ज्योतिश्च पयोलक्षणं स्तनयोः इन्द्रियं च इन्द्रे धत्त इति विभक्तिव्यत्ययः । दधुः। वसुवने इति व्याख्यातम् ॥ ५२ ॥
म० उत्तरार्धे आहुतीशब्दस्तृतीयार्थः । जोष्ट्र्योरेव देवताविकल्पः । ये देवी ऊर्जाहुती ऊर्जा रसवती आहुतिराह्वानं होमो वा ययोस्ते ऊर्जाहुती । दुघे दुग्धस्ते दुघे कामपूरके । सुदुघे सुदोहने ताभ्यामाहुतिभ्यां सह सरस्वती भिषजावश्विनौ च इन्द्रे इन्द्रमवतः अवन्ति रक्षन्ति । वचनव्यत्ययः । कथं तदाह । ज्योतिः तेज इन्द्रे धत्तः दधति । स्तनयोः शुक्रमिन्द्रियं च धत्तः । वचनव्यत्ययः नश्चार्थः । व्याख्यातमन्यत् ॥ ५२॥
त्रिपञ्चाशी।
दे॒वा दे॒वानां॑ भि॒षजा॒ होता॑रा॒विन्द्र॑म॒श्विना॑ ।
व॒ष॒ट्का॒रै॒: सर॑स्वती॒ त्विषिं॒ न हृद॑ये म॒तिᳪं᳭ होतृ॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५३ ।।
उ०. देवा देवानाम् । यौ देवौ होतारौ देवानां भिषजौ ताभ्यां होतृभ्यां वषट्कारैश्च । अश्विनौ सरस्वती च इन्द्रं । इन्द्रे इति विभक्तिव्यत्ययः । इन्द्रियं च त्विर्षि दीप्तिं च हृदये मतिं च दधुः । वसुवने इति समञ्जसम् ॥ ५३ ॥
म० देवानां देवा देवौ यौ होतारौ अनुयाजदेवौ ताभ्यां होतृभ्यां सह वषट्कारैश्च सह भिषजौ अश्विनौ सरस्वती च इन्द्रमिन्द्रे त्विर्षि कान्तिं दधुः । हृदये मतिमिन्द्रियं बुद्धीन्द्रियं च दधुः । नश्चार्थः । वसु० उक्तम् ॥ ५३ ॥
चतुःपञ्चाशी।
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर॒श्विनेडा॒ सर॑स्वती ।
शूषं॒ न मध्ये॒ नाभ्या॒मिन्द्रा॑य दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५४ ।।
उ० देवीस्तिस्रः । या देव्यस्तिस्रः सरस्वतीडाभारत्यः तिस्रो देवीः । अत्र विभक्तिव्यत्ययोऽध्याहारश्च वाक्यवशात् । तिसृभिर्देवीभिः सरस्वतीडाभारतीभिः । अश्विनौ च इडा च सरस्वती च । शूषं बलं च मध्ये नाभ्याम् इन्द्रियं च इन्द्राय । इन्द्रे इति विभक्तिव्यत्ययः । दधुः । वसुवने इति समानम् ॥ ५४ ॥
म. यास्तिस्रो देव्यो भारती इडा सरस्वती तिस्रो देवीः । विभक्तिव्यत्ययः । ताभिस्तिसृभिः देवीभिः सह अश्विनौ सरस्वती इडा च इन्द्राय इन्द्रे नाभ्यां मध्ये च शूषं बलमिन्द्रियं च दधुः । नश्चार्थः । वसु० व्याख्यातम् ॥ ५४ ॥
पञ्चपञ्चाशी ।
दे॒व इन्द्रो॒ नरा॒शᳪं᳭स॑स्त्रिवरू॒थः सर॑स्वत्य॒श्विभ्या॑मीयते॒ रथ॑: ।
रेतो॒ न रू॒पम॒मृतं॑ ज॒नित्र॒मिन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५५ ।।
उ० देव इन्द्रः । यो देव इन्द्रः । 'इदि परमैश्वर्ये' । परमैश्वर्ययुक्तः । नराशंसः नरा अस्मिन्नासीनाः शंसन्तीति नराशंसः । त्रिवरूथः त्रिगृहः सदोहविर्धानाग्नीध्रैः । त्रिलोक्या वा त्रिगृहः । यस्य च सरस्वत्या अश्विभ्यां च ईयते उह्यते नीयते रथः। स यज्ञः। रेतोन रेतश्च अमृतं च रूपं च जनित्रं जन्म च । इन्द्राय इन्द्रे इन्द्रस्य वेति विभक्तिव्यत्ययः । कथम्भूतो यज्ञः । त्वष्टा त्वक्षतिः करोत्यर्थः । जगतः कर्ता । दधत् दधातु इन्द्रियाणि च । वसुवन इति व्याख्यातम् ॥ ५५॥
म० 'नरा अस्मिन्नासीनाः शंसन्ति' (निरु०८।६) | इति यास्कोक्तेः नराशंसो देवोऽनुयाजरूपो यज्ञः रेतो वीर्यं रूपं सौन्दर्यममृतं जनित्रमुत्तमं जन्म इन्द्रियाणि च इन्द्राय दधद्दधातु । नश्चार्थः। कीदृशो नराशंसः । इन्द्रः इन्दतीतीन्द्र ऐश्वर्यवान् । 'इदि परमैश्वर्ये' । त्रिवरूथः त्रीणि वरूथानि गृहाणि सदोहविर्धानाग्नीध्राणि यस्य सः । तथा त्वष्टा । वक्षतिः करोतिकर्मा । जगतः कर्ता यज्ञादेव जगदुत्पत्तेः । यस्य नराशंसस्य रथः सरस्वत्या अश्विभ्यां च ईयते नीयते ऊह्यते । वसु० व्याख्यातम् ॥ ५५॥
षट्पञ्चाशी।
दे॒वो दे॒वैर्वन॒स्पति॒र्हिर॑ण्यपर्णो अ॒श्विभ्या॒ᳪं᳭ सर॑स्वत्या सुपिप्प॒ल इन्द्रा॑य पच्यते॒ मधु॑ ।
ओजो॒ न जू॒तिर्ऋ॑ष॒भो न भामं॒ वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५६ ।।
उ० देवो देवैः । यो देवो वनस्पतिर्यूपः । देवैर्हिरण्यपर्णः यस्य देवा हिरण्मयानि पर्णानि । रूपकोऽत्रालंकारः । यश्च अश्विभ्यां सरस्वत्या च सुपिप्पलः । अश्विनौ सरस्वती च यस्य वनस्पतेः फलानीत्यर्थः । इन्द्राय इन्द्रार्थं च यः पच्यते फलति मधु मधुराणि फलानि । स वनस्पतिः ऋषभः। ऋषभशब्दः पूजावचनः। पूज्यः। जूतिः जूतिर्जवतेः। वेगवान् । ओजश्च भामं च । भामशब्दः क्रोधवचनः ।। इन्द्रियाणि च नः अस्माकम् । 'अस्मदो द्वयोश्च' इति बहुवचनम् । दधत् दधातु । वसुवने इति व्याख्यातम् ॥ ५६ ॥
म० वनस्पतिर्देवो नोऽस्माकमोजः तेजः जूतिः जूतिं जवं वेगं भामं क्रोधमिन्द्रियाणि च दधत् दधातु । यो वनस्पतिर्यूपः इन्द्राय मधु मधुरं फलं पच्यते पचति फलति इन्द्राय फलं ददाति । नकारौ चार्थौ । कीदृशो वनस्पतिः । देवैर्हिरण्यपर्णः हिरण्यरूपाणि पर्णानि यस्य । देवा यस्य हिरण्मयानि पर्णानीत्यर्थः । अश्विभ्यां सरस्वत्या च सुपिप्पलः शोभनं पिप्पलं फलं यस्य सः । अश्विनौ सरस्वती च यस्य वनस्पतेः फलानीत्यर्थः । ऋषभः पूज्यः । ऋषभशब्दः पूजावचनः । वसु० व्याख्यातम् ॥५६॥
सप्तपञ्चाशी।
दे॒वं ब॒र्हिर्वारि॑तीनामध्व॒रे स्ती॒र्णम॒श्विभ्या॒मूर्ण॑म्रदा॒: सर॑स्वत्या स्यो॒नमि॑न्द्र ते॒ सद॑: ।
ई॒शायै॑ म॒न्युᳪं᳭ राजा॑नं ब॒र्हिषा॑ दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५७ ।।
उ० देवं बर्हिः । यस्माद्देवं बर्हिः वारितीनाम् उदकवतीनां वा वारिप्रभवाणां वा वरतराणां वा ओषधीनां संबन्धि । अध्वरे स्तीर्णम् अश्विभ्यामध्वर्युभ्याम् ऊर्णम्रदाः ऊर्णेव मृदु । सरस्वत्या च । स्तीर्णमित्यनुवर्तते । तस्मात् स्योनं सुखरूपं । हे इन्द्र, तव सदः स्थानम् । किंच तस्मिन्सदसि । ईशायै ईशिताय ऐश्वर्याय मन्युं क्रोधम् त्वां राजानम् इन्द्रियं च अश्विनौ च सरस्वती च बर्हिषा दधुः । यद्वा ईशानाय तव मन्युं राजानमिन्द्रियं च । अश्विनौ सरस्वती च हविषा दधुः। वसुवन इति व्याख्यातम् ॥५७॥
म० हे इन्द्र, वारितीनां वारि जले इतिर्गतिर्यासां ता वारितयः तासां जलोद्भवानामोषधीनां संबन्धि बर्हिः ते तव सदः सदसि अध्वरे यज्ञे अश्विभ्यां सरस्वत्या च स्तीर्णमास्तृतम् । कीदृशं बर्हिः । देवं दीप्यमानम् । ऊर्णम्रदाः ऊर्णमिव म्रदीयः । छान्दस ईयोलोपः । अतएव स्योनं सुखरूपम् । किंच अश्विसरस्वत्यः बर्हिषा सह राजानं दीप्यमानं मन्युं क्रोधमिन्द्रियं च हे इन्द्र, त्वयि दधुः । किमर्थम् । ईशायै ऐश्वर्याय ईशनमीशा तस्यै 'गुरोश्च हलः' (पा० ३ । ३ । ३०३) इति स्त्र्यधिकारे ईशतेरप्रत्ययः स्त्रीत्वादाप् । वसु० व्याख्यातम् ॥ ५७ ॥
अष्टपश्चाशी।
दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वान्य॑क्षद्यथाय॒थᳪं᳭ होता॑रा॒विन्द्र॑म॒श्विना॑ वा॒चा वाच॒ᳪं᳭ सर॑स्वतीम॒ग्निᳪं᳭ सोम॑ᳪं᳭ स्विष्ट॒कृत् स्वि॑ष्ट॒ इन्द्र॑: सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षगि॒ष्टो दे॒वो वन॒स्पति॒: स्वि॒ष्टा दे॒वा आ॑ज्य॒पाः स्वि॑ष्टो अ॒ग्निर॒ग्निना॒ होता॑ हो॒त्रे स्वि॑ष्ट॒कृद्यशो॒ न दध॑दिन्द्रि॒यमूर्ज॒मप॑चितिᳪं᳭ स्व॒धां व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। ५८ ।।
उ० देवो अग्निः । यो देवो अग्निः स्विष्टकृत् शोभनमिष्टं कर्तव्यमित्ययमधिकारो यस्य स तथोक्तः । देवान् यक्षत् इष्टवान् । यथायथम् यथास्वं यथायथम् । यो यथा यष्टव्यः स तथेत्यर्थः । एवं सामान्यत उक्त्वा अथेदानीं विशेषत आह । होतारौ अयं चाग्निरसौ च मध्यमो वायुः होतृमित्रावरुणौ वा। इन्द्रं च अश्विनौ च वाचं कृत्वा वाचं च सरस्वतीं च अग्निं च सोमं च यक्षदिति संबन्धः। स्विष्टकृच्च स्विष्टः शोभनमिष्टः इन्द्रः सुत्रामा च इष्टः सविता इष्टः वरुणो भिषक् इष्टश्च देवो वनस्पतिः । स्विष्टा देवा आज्यपाः प्रयाजानुयाजाः इष्टश्चाग्निरग्निना । अथेदानीं होता स्विष्टकृत् होत्रे मानुषाय । यशो न दधत् । ददात्यर्थे दधातिः । ददातु । इन्द्रियं च ऊर्जं च अपचितिं पूजां च स्वधामन्नं च । वसुवने इति व्याख्यातम् ॥ ५८॥
म०. शोभनमिष्टं यागं करोतीति स्विष्टकृत् अग्निर्देवो यथायथं यथास्वं यो यथा यष्टव्यस्तथा देवान् वक्ष्यमाणान् यक्षत् इष्टवान् । कान् देवानत आह । होतारौ अयं चाग्निरसौ च मध्यमो वायुः होतृमैत्रावरुणौ वा इन्द्रम् अश्विना अश्विनौ च वाचा मन्त्रेण वाचं च यक्षत् सरखतीमग्निं सोमं च । किंच स्विष्टकृत् शोभनयज्ञकारी सुत्रामा शोभनरक्षकः । मनिन्प्रत्ययः । इन्द्रः स्विष्टः सुष्ठु इष्टः सविता वरुणो भिषगिष्टः वनस्पतिर्देवश्च इष्टः । आज्यपा देवाः प्रयाजानुयाजाः स्विष्टाः । अग्निरधिष्ठाता अग्निना भौमेन हविर्द्वारा सुष्ठु इष्टः । किंच होता दैव्यः स्विष्टकृत् होत्रे मानुषाय यशः इन्द्रियमूर्जमन्नमपचितिं पूजां स्वधां पित्रर्थमन्नं दधत् ददतु । नकारश्चार्थः । वसुवननाय वसुधनाय च देवा व्यन्तु हविरदन्तु । मनुष्यहोतर्यज ॥ ५८॥
एकोनषष्टी।
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मान॒: पच॒न् पक्ती॒: पच॑न् पुरो॒डाशा॑न् ब॒ध्नन्न॒श्विभ्यां॒ छाग॒ᳪं᳭ सर॑स्वत्यै मे॒षमिन्द्रा॑य ऋष॒भᳪं᳭ सु॒न्वन्न॒श्विभ्या॒ᳪं᳭ सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे॑ सुरासो॒मान् ।। ५९ ।।
उ० अग्निमद्य । सूक्तवाकप्रैषः । अग्निम् अद्य अस्मिन्द्यवि होतारम् अवृणीत वृतवानयं यजमानः । किं कुर्वन् । पचन् पक्तीः । पक्तव्यानि वसूनि इति सामान्यवचनम् । अथ विशेषः । पचन पुरोडाशान् पशुपुरोडाशान् । बध्नन् पशुं यूपे इति शेषः । अश्विभ्यां छागम् अश्विनोरर्थे छागम् सरस्वत्यै मेषम् इन्द्राय च ऋषभम्। अन्यच्च सुन्वन् अश्विभ्यां सरस्वत्यै च इन्द्राय च सुत्राम्णे सुरासोमान्। तानि च वस्तूनि कुतोऽन्ययजमानः अग्निं होतारमवृणीतेति संबन्धः॥५९॥
म० 'अग्निमद्येति सूक्तवाकप्रैषः' ( का० १९ । ७ । १०)। अग्निमद्य होतारमित्यादिः सूक्ता ब्रूहीत्यन्तः कण्डिकात्रयात्मकः सूक्तवाके प्रैषो भवति । लिङ्गोक्तदेवतः प्रैषः । प्रथमा अष्टिः द्वितीया धृतिः तृतीया विकृतिः । अयं यजमानोऽद्य अग्निं होतारमवृणीत वृतवान् । वृणातेर्लङ् । किं कुर्वन् । पक्तीः पक्तव्यानि हवींषि पचन् । सामान्येनोक्त्वा विशेषमाह । पुरोडाशान्पचन् अश्विभ्यामश्विनोरर्थे छागं बध्नन् । यूपे इति शेषः। सरस्वत्यै मेषं बध्नन् इन्द्राय ऋषभं च बध्नन् तथा अश्विभ्यां सरस्वत्यै सुत्राम्णे रक्षकाय इन्द्राय च सुरासोमान्सुन्वन् अग्निमवृणीत ॥ ५९॥
षष्टी।
सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवद॒श्विभ्यां॒ छागे॑न॒ सर॑स्वत्यै मे॒षेणेन्द्रा॑य ऋष॒भेणाक्षँ॒स्तान् मे॑द॒स्तः प्रति॑ पच॒तागृ॑भीष॒तावी॑वृधन्त पुरो॒डाशै॒रपु॑र॒श्विना॒ सर॑स्व॒तीन्द्र॑: सु॒त्रामा॑ सुरासो॒मान् ।। ६०।।
उ० सूपस्था अद्य । साधुयज्ञमुपतिष्ठति इति सूपस्थाः अद्यास्मिन्द्यवि देवः वनस्पतिः अभवत् । अश्विभ्यां छागेन सरस्वत्यै च मेषेण इन्द्राय च ऋषभेण । कथमेवमवगम्यत इत्यत आह । अक्षंस्तान् भक्षितवन्तः अश्विप्रभृतयः तान् छागादीन् । कुत आरभ्येत्याह । मेदस्तः वपाया आरभ्य । प्रतिपचतागृभीषत । प्रत्यग्रभीषत प्रतिगृहीतवन्तः । पचता पक्वानि अग्निपक्वानि अवदानानि । अवीवृधन्त च पुरोडाशैः। किंच । अपुः पीतवन्तः अश्विनौ च सरस्वती च इन्द्रश्च सुत्रामा । सुरासोमान् सुरा च सोमाश्च । यद्वा सुरामयान्सोमान् ॥ ६०॥
म० अद्य वनस्पतिर्देवः छागेन कृत्वा अश्विभ्यां सूपस्था अभवत् सुष्ठु उपतिष्ठते सेवते सूपस्थाः । छागेनाश्विनोः सेवां चकारेत्यर्थः। मेषेण सरस्वत्यै सूपस्था अभवत्। ऋषभेण इन्द्राय सूपस्था अभवत् । वनस्पतिना छागमेषर्षभैरश्व्यादीनामुपस्थानं कृतं तत्कथं ज्ञायते तत्राह । अश्व्यादयो मेदस्तः मेदो वपामारभ्य तान् छागादीन् अक्षन् अभक्षयन् । पुनः पचता पच्यन्ते तानि पचता पचतानि पक्वानि अवदानानि प्रत्यगृभीषत प्रत्यगृह्णन् । पचतेः 'मृदशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच' (उणा० ३ । १०९) इत्यतच्प्रत्ययः । 'भूतेऽपि दृश्यन्ते' (पा० ३ । ३ । २) इति वचनाद्भूतेऽपि द्रष्टव्यः । विभक्तेराकारः । पुनस्ते पुरोडाशैरवीवृधन्त ऐधन्त । किंच अश्विना सरस्वती सुत्रामा इन्द्रश्च सुरासोमानपुः पीतवन्तः । पातेर्लङ् पिबादेशाभावश्छान्दसः । ररक्षुर्वा । सुराश्च सोमाश्च तान् सुरामयान् सोमान् वा ॥ ६०॥
एकषष्टी।
त्वाम॒द्य ऋ॑ष आर्षेय ऋषीणां नपादवृणीता॒यं यज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्याय॑क्ष्यत॒ इति॒ ता या दे॒वा दे॑व॒ दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्स्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ।। ६१ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायामेकविंशोऽध्यायः॥ २१ ॥
उ० त्वामद्य । दैव्यो होताग्निरुच्यते । त्वाम् अद्य हे ऋषे मन्त्राणां द्रष्टः, हे आर्षेय, यजमान आर्षेयैर्व्रियते इत्येवं संबोध्यते । हे ऋषीणामृत्विजां नपात् पुत्र, अवृणीत वृतवान् अयं यजमानः । बहुभ्यो देवेभ्यः आसङ्गतेभ्यः त्वामेव अवृणीतेत्यभिप्रायः । किमर्थम् । एषः मे मह्यम् देवेषु वसु धनम् वारि वरणीयम् आयक्ष्यते आदास्यति अयं दातुं समर्थ इति । एवंच । ता या देवदानान्यदुः । ता तानि । या यानि । हे देव, यानि देव, दानानि अदुः दत्तवन्तः इमानि अस्मै यजमानाय दातव्यानीति । तानि अस्मै यजमानाय । आच शास्स्वाच गुरस्व । आकारौ भिन्नक्रमौ । आशास्व च इच्छ । आगुरस्व च 'गुरी उद्यमने' । उद्यच्छ च । दानाय प्रेषितश्चासि । हे होतः, भद्रवाच्याय भन्दनीनयवचनाय । भद्रं च वचनं त्वं ब्रूया इति । अथेदानीं प्रेषितो मानुषो होता सूक्तवाकाय । कथं कृत्वा सूक्ता ब्रूहि । सूक्तानि साधुवचनानि वद इति ॥ ६१ ॥
समाप्ता सौत्रामणी ।
इति उवटकृतौ मन्त्रभाष्ये एकविंशोऽध्यायः ॥ २१ ॥
म० दैव्यो होता अग्निरुच्यते । हे ऋषे मन्त्राणां द्रष्टः, हे आर्षेय, यजमानार्षेयैर्व्रियत इत्येवं संबोध्यते । हे ऋषीणां नपात् पुत्र, अयं यजमानः बहुभ्यः सङ्गतेभ्यः मिलितेभ्यो देवेभ्य इति हेतोरथ त्वामेव आ अवृणीत सम्यग् वृतवान् । ' इति किम् । एषोऽग्निर्मे मह्यं देवेषु वारि वरीतुं योग्यं वारि वरणीयं वसु धनमायक्ष्यते आदास्यते । यजतेर्दानार्थाल्लृट् । मया देवेभ्यो दातुं ग्रहीष्यते इत्यर्थः । किंच हे देव अग्ने, या यानि ता तानि दानानि देवा अदुः दत्तवन्तः तानि दानानि अस्मै यजमानाय आशास्स्व च इच्छ । तानि यजमानाय दातव्यानीति इच्छेत्यर्थः । आगुरस्व च उद्यच्छ । 'गुरी उद्यमे' - तुदादिः । दानायोद्यमं कुरु । आकारौ चकारौ च भिन्नक्रमौ । हे होतः, त्वमिषितः प्रेषितोऽसि प्रेरितोऽसि । कथं तदाह । भद्रवाच्याय वक्तुं योग्यं वाच्यं भद्रं शुभं च तत् वाच्यं च भद्रवाच्यं तस्मै । भद्रं ब्रूहीति प्रेषितोऽसीत्यर्थः । किंच सूक्ता सूक्तानि त्वं ब्रूहि इति सूक्तवाकाय सूक्तवचनाय सूक्तानि वक्तुं मानुषः होता च प्रेषितोऽस्ति ॥ ६१॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
एकविंशोऽयमध्यायो याज्यादिप्रेषणान्तिमः ॥ २१ ॥