शुक्लयजुर्वेदः/अध्यायः ०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१ शुक्लयजुर्वेदः
अध्यायः ०२
[[लेखकः :|]]
अध्यायः ०३ →

अध्याय 2
दर्शपूर्णमासयागः 2.1-2.28, पिण्डपितृयज्ञः 2.29-2.34

2.1
कृष्णोऽस्य् आखरेष्ठो ऽग्नये त्वा जुष्टं प्रोक्षामि ।
वेदिर् असि बर्हिषे त्वा जुष्टां प्रोक्षामि ।
बर्हिर् असि स्रुग्भ्यस् त्वा जुष्टं प्रोक्षामि ॥

2.2
अदित्यै व्युन्दनम् असि ।
विष्णो स्तुपो ऽसि ।
ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थां देवेभ्यः ।
भुवपतये स्वाहा ।
भुवनपतये स्वाहा ।
भूतानां पतये स्वाहा ॥

2.3
गन्धर्वस् त्वा विश्वावसुः परि दधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽīडितः ।
इन्द्रस्य बाहुर् असि दक्षिणो विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः ।
मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिर् अस्य् अग्निर् इड ऽ ईडितः ॥

2.4
वीतिहोत्रं त्वा कवे द्युमन्तꣳ सम् इधीमहि ।
अग्ने बृहन्तम् अध्वरे ॥

2.5
समिद् असि ।
सूर्यस् त्वा पुरस्तात् पातु कस्याश् चिद् अभिशस्त्यै ।
सवितुर् बाहू स्थः ।
ऽ ऊर्णम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः ।
ऽ आ त्वा वसवो रुद्रा ऽ आदित्याः सदन्तु ॥

2.6
घृताच्य् असि जुहूर् नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सद ऽ आ सीद ।
घृताच्य् अस्य् उपभृन् नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सद ऽ आ सीद ।
घृताच्य् असि ध्रुवा नाम्ना सेदं प्रियेण धाम्ना प्रियꣳ सदऽ आ सीद ।
प्रियेण धाम्ना प्रियꣳ सद ऽआ सीद ।
ध्रुवा ऽ असदन्न् ऋतस्य योनौ ता विष्णो पाहि ।
पाहि यज्ञं ।
पाहि यज्ञपतिम् ।
पाहि मां यज्ञन्यम् ॥

2.7
अग्ने वाजजिद् वाजं त्वा सरिष्यन्तं वाजजितꣳ सं मार्ज्मि ।
नमो देवेभ्यः ।
स्वधा पितृभ्यः ।
सुयमे मे भूयास्तम् ॥

2.8
अस्कन्नम् अद्य देवेभ्यऽ आज्यꣳ सं भ्रियासम् ।
अङ्घ्रिणा विष्णो मा त्वाव क्रमिषम् ।
वसुमतीम् अग्ने ते छायाम् उप स्थेषं विष्णो स्थानम् असि ।
इत ऽ इन्द्रो वीर्यम् अकृणोद् ऊर्ध्वो ध्वर ऽआस्थात् ॥

2.9
अग्ने वेर् होत्रं वेर् दूत्यम् ।
अवतां त्वां द्यावापृथिवी ।
ऽअव त्वं द्यावापृथिवी स्विष्टकृद् देवेभ्यो इन्द्रऽ आज्येन हविषा भूत् स्वाहा ।
सं ज्योतिषा ज्योतिः ॥

2.10
मयीदम् इन्द्र ऽइन्द्रियं दधात्व् अस्मान् रायो मघवानः सचन्ताम् ।
अस्माकꣳ सन्त्व् आशिषः सत्या नः सन्त्व् आशिषः ।
ऽउपहूता पृथिवी मातोप मां पृथिवी माता ह्वयताम् ।
अग्निर् आग्नीध्रात् स्वाहा ॥

2.11
उपहूतो द्यौष् पितोप मां द्यौष् पिता ह्वयताम् अग्निर् आग्नीध्रात् स्वाहा ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
प्रति गृह्णामि ।
अग्नेष् ट्वास्येन प्राश्नामि ॥

2.12
एतं ते देव सवितर् यज्ञं प्राहुर् बृहस्पतये ब्रह्मणे ।
तेन यज्ञम् अव तेन यज्ञपतिं तेन माम् अव ॥

2.13
मनो जूतिर् जुषताम् आज्यस्य बृहस्पतिर् यज्ञम् इमं तनोतु ।
अरिष्टं यज्ञꣳ सम् इमं दधातु विश्वे देवासऽ इह मादयन्ताम् ओ3ं प्र तिष्ठ ॥

2.14
एषा तेऽ अग्ने समित् तया वर्धस्व चा च प्यायस्व ।
वर्धिषीमहि च वयम् आ च प्यासिषीमहि ।
अग्ने वाजजिद् वाजं त्वा ससृवाꣳसं वाजजितꣳ सं मार्ज्मि ॥

2.15
अग्नीषोमयोर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि ।
अग्नीषोमौ तम् अपनुदतां योऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि ।
इन्द्राग्न्योर् उज्जितिम् अनूज्जेषं वाजस्य मा प्रसवेन प्रोहामि ।
इन्द्राग्नी तम् अप नुदतां यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामि ॥

2.16
वसुभ्यस् त्वा ।
रुद्रेभ्यस् त्वा ।
आदित्येभ्यस् त्वा ।
सं जानाथां द्यावापृथिवी ।
मित्रावरुणौ त्वा वृष्ट्यावताम् ।
व्यन्तु वयो क्तꣳ रिहाणाः ।
मरुतां पृषतीर् गच्छ वशा पृश्निर् भूत्वा दिवं गच्छ ततो नो वृष्टिम् आ वह ।
चक्षुष्पा ऽअग्ने ऽसि चक्षुर् मे पाहि ॥

2.17
यं परिधिं पर्यधत्थाऽ अग्ने देव पणिभिर् गुह्यमानः ।
तं तऽ एतम् अनु जोषं भराम्य् नेत् त्वद् अपचेतयातै ।
ऽअग्नेः प्रियं पाथोऽपीतम् ॥

2.18
सꣳस्रवभागा स्थेषा बृहन्तः प्रस्तरेष्ठाः परिधेयाश् च देवाः ।
इमां वाचम् अभि विश्वे गृणन्त ऽआसद्यास्मिन् बर्हिषि मादयध्वम् ।
स्वाहा वाट् ॥

2.19
घृताची स्थो धुर्यौ पातꣳ सुम्ने स्थः सुम्ने मा धत्तम् ।
यज्ञ नमश् च तऽ उप च यज्ञस्य शिवे सं तिष्ठस्व स्विष्टे मे संतिष्ठस्व ॥

2.20
अग्नेऽ दब्धायो ऽशीतम पाहि मा दिद्योः ।
पाहि प्रसित्यै ।
पाहि दुरिष्ट्यै ।
पाहि दुरद्मन्याऽ अविषं नः पितुं कृणु ।
सुषदा योनौ स्वाहा वाट् ।
अग्नये संवेशपतये स्वाहा ।
सरस्वत्यै यशोभगिन्यै स्वाहा ॥

2.21
वेदो ऽसि येन त्वं देव वेद देवेभ्यो वेदोऽ भवस् तेन मह्यं वेदो भूयाः ।
देवा गातुविदो गातुं वित्त्वा गातुम् इत ।
मनसस् पतऽ इमं देव यज्ञꣳ स्वाहा वाते धाः ॥

2.22
सं बर्हिर् अङ्क्ताꣳ हविषा घृतेन सम् आदित्यैर् वसुभिः सं मरुद्भिः ।
सम् इन्द्रो विश्वदेवेभिर् अङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा ॥

2.23
कस् त्वा वि मुञ्चति स त्वा वि मुञ्चति कस्मै त्वा वि मुञ्चति तस्मै त्वा वि मुञ्चति ।
पोषाय ।
रक्षसां भागो ऽसि ॥

2.24
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन ।
त्वष्टा सुदत्रो वि दधातु रायोऽ नुमार्ष्टु तन्वो यद् विलिष्टम् ॥

2.25
दिवि विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अन्तरिक्षे विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो योऽ स्मान् द्वेष्टि यं च वयं द्विष्मः ।
पृथिव्यां विष्णुर् व्यक्रꣳस्त जागतेन छन्दसा ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
अस्माद् ऽअन्नादस्यै प्रतिष्ठायै ।
ऽ अगन्म स्वः ।
सं ज्योतिषाभूम ॥

2.26
स्वयम्भूर् असि श्रेष्ठो रश्मिर् ऽवर्चोदा असि वर्चो मे देहि ।
सूर्यस्यावृतम् अन्व् आवर्ते ॥

2.27
अग्ने गृहपते सुगृहपतिस् त्वयाऽग्ने ऽहं गृहपतिना भूयासꣳ सुगृहपतिस् त्वं मयाऽग्ने गृहपतिना भूयाः ।
अस्थूरि णौ गार्हपत्यानि सन्तु शतꣳ हिमाः ।
सूर्यस्यावृतम् अन्व् आवर्ते ॥

2.28
अग्ने व्रतपते व्रतम् अचारिषं तद् अशकं तन् मेऽ राधि ।
इदम् अहं यऽ एवाऽस्मि सोऽस्मि ॥

2.29
अग्नये कव्यवाहनाय स्वाहा ।
सोमाय पितृमते स्वाहा ।
अपहता ऽ असुरा रक्षाꣳसि वेदिषदः ॥

2.30
ये रूपाणि प्रतिमुञ्चमाना ऽ असुराः सन्तः स्वधया चरन्ति ।
परापुरो निपुरो ये भरन्त्य् अग्निष्टाँन् लोकात् प्र णुदात्य् अस्मात् ॥

2.31
अत्र पितरो मादयध्वं यथाभागम् आ वृषायध्वम् ।
अमीमदन्त पितरो यथाभागम् आ वृषायिषत ॥

2.32
नमो वः पितरो रसाय नमो वः पितरः शोषाय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे नमो वः पितरः पितरो नमो वो गृहान्नः पितरो दत्त सतो वः पितरो देष्मैतद्वः पितरो वासः॥

2.33
आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् ।
यथेह पुरुषो ऽसत् ॥

2.34
ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् ।
स्वधा स्थ तर्पयत मे पितॄन् ॥



भाष्यम्(उवट-महीधर)

द्वितीयोऽध्यायः।
तत्र प्रथमा।
कृष्णो॑ऽस्याखरे॒ष्ठोऽग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ वेदि॑रसि ब॒र्हिषे॑ त्वा॒ जुष्टां॒ प्रोक्षा॑मि ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ जुष्टं॒ प्रोक्षा॑मि ।। १ ।।
उ० इध्मं प्रोक्षति । कृष्णोऽस्याखरेष्ठः । अस्ति कृष्णशब्दो वर्णवचनोऽन्तोदात्तः। अस्ति कृष्णशब्दो मृगवचन आद्युदात्तः। तदिहाद्युदात्तत्वात्कृष्णमृगो गृह्यते । तथाहि श्रुतिः 'यज्ञो ह देवेभ्योऽपचक्राम स कृष्णो भूत्वा चचार' इति । इध्मपूलक उच्यते । कृष्णमृगो यज्ञस्त्वमसि । यज्ञसाधनत्वाद्यज्ञ इत्युच्यते । आखरेष्ठः । आङध्यर्थे । आहवनीयाख्ये खरे खं स्वर्गं राति ददाति तत्र अधि उपरि तिष्ठतीत्याखरेष्ठः । एतदुक्तं भवति । आहवनीयाख्ये खरे स्थितस्त्वं कृष्णमृगो यज्ञो भवसि । अतोऽग्नये त्वा जुष्टमभिप्रेतमभिरुचितं प्रोक्षामि । वेदिं प्रोक्षति । 'वेदिरसि तद्यदेतेनेमा सर्वं समविन्दत तस्माद्वेदिर्नाम' इति । तां व्युत्पत्तिमङ्गीकृत्याह वेदिस्त्वमसि । अतो बर्हिषे त्वामभिरुचितं प्रोक्षामि । बर्हिः प्रोक्षति । बर्हिरसि बर्हिस्त्वमसि । अतः सुग्भ्यस्त्वामभिरुचितं प्रोक्षामि ॥ १ ॥
म० 'इध्मं प्रोक्षति विस्रᳪं᳭स्य वेदिं च बर्हिः प्रतिगृह्य वेद्यां कृत्वा पुरस्ताद्ग्रन्थि कृष्णोऽसीति प्रतिमन्त्रम्' (का० २।७।१९) इति ॥ इध्मं विस्रस्य प्रोक्षेत् । वेदिं च प्रोक्षेत् । बर्हिरादाय वेद्यां पूर्वग्रन्थि कृत्वा प्रोक्षेत्क्रमान्मन्त्रत्रयेणेति सूत्रार्थः ॥ कृष्णोऽसि । हे इध्म, त्वं कृष्णोऽसि कृष्णमृगरूपो यज्ञोऽसि । इध्मपूलकस्य यज्ञसाधनत्वाद्यज्ञत्वोपचारः । किंभूतः। आखरेष्ठः । आ समन्तात् खरे कठिने वृक्षे तिष्ठतीति आखरेष्ठः। यद्वा खं स्वर्गं राति ददातीति खरः आहवनीयस्तत्रासमन्तात्तिष्ठतीत्याखरेष्ठः । अन्तोदात्तः कृष्णशब्दो वर्णवाची, अयं तु कृष्णशब्द आद्युदात्तत्वान्मृगवाची ॥ यज्ञः कदाचिद्देवेभ्योऽपक्रान्तः स्वगोपनाय कृष्णमृगो भूत्वा वने यज्ञियतरुमध्ये प्रविश्य कुत्रचित्कठिने वृक्षे तस्थौ । तदेतदभिप्रेत्य कृष्ण आखरेष्ठ इति द्वयमुच्यते । 'यज्ञो ह देवेभ्योऽपचक्राम स कृष्णो भूत्वा चचार' (१।१।४।१) इत्यादि श्रुतेः । 'स्थे च भाषायाम्' (पा० ६ । ३ । २० ) इति स्थे परपदे भाषायां सप्तम्यां अलुग्निषेधाद्वेदेऽलुक् । 'पूर्वपदात्-' (पा० ८ । ३ । १०६ ) इति षत्वम् । अतोऽग्नये जुष्टं प्रियं त्वां प्रोक्षामि । शुद्ध्यर्थं जलेनेति शेषः । 'वेदिरसीति वेदिं प्रोक्षति' । त्वं वेदिरसि । विद्यते लभ्यत इति वेदिः । 'विद्लृ लाभे' । देवैरसुरेभ्यो लब्धत्वाद्वेदिः । अतो बर्हिर्जुष्टां बर्हिषो धारणोपयोगितया प्रियां त्वां प्रोक्षामि । पृथ्वीरूपाया वेदेः प्रजारूपस्य बर्हिषो धारकत्वं युक्तम् ॥ बर्हिरसीति बर्हिःप्रोक्षणम् । हे दर्भ, त्वं बर्हिरसि प्रभूतत्वाद्वेदिबृंहणसमर्थमसि । अतः सुग्भ्यो जुष्टं स्रुचां धारणात्प्रियं त्वां प्रोक्षामि ॥१॥
अग्निर्देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । स वनस्पतीन्प्राविशत् । कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहेत्याह । अग्नय एवैनं जुष्टं करोति । - तैब्रा. ३.३.६.२

द्वितीया ।
अदि॑त्यै॒ व्युन्द॑नमसि॒ विष्णोः॑ स्तु॒पोऽस्यूर्ण॑म्म्रदसं त्वा स्तृणामि स्वास॒स्थां दे॒वेभ्यो॒ भुव॑पतये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ भू॒तानां॒ पत॑ये॒ स्वाहा॑ ।। २ ।।
उ० शेषं मूलेषूपसिञ्चति अदित्यै व्युन्दनमसि । इयं वै पृथिव्यदितिः। षष्ठ्यर्थे चतुर्थी । अदित्याः पृथिव्याः व्युन्दनम् । 'उन्दी क्लेदने । क्लेदनं सेचनं भवसि । उदकमुच्यते । प्रस्तरं गृह्णाति । विष्णोः स्तुपोसि विष्णोर्यज्ञस्य स्तुपः । 'ष्ट्यै स्त्यै शब्दसंघातयोः' । स्त्यायतेः संघातः शिखा असि । वेदिं स्तृणाति । ऊर्णम्रदसम् ऊर्णामिव मृद्वीं त्वां कर्तुं स्तृणामि । 'स्तृञ् आच्छादने' आच्छादयामि । स्वासस्थां साधु मर्यादया यस्यामासीदन्ति सा तथोक्ता तां त्वां स्तृणामि देवेभ्योऽर्थाय । स्कन्नमभिमृशति । भुवपतये स्वाहा । अस्याग्नेर्ये भ्रातरः पूर्वे त्रयो बभूवुः ते वषट्कारभयादिमां पृथिवीं प्राविशन् पृथिवीं प्रविष्टाः । अयं चाग्निः प्रपलाय्याप्सु प्राविविक्षत प्रवेष्टुमैच्छत् । स देवैरानीय स्वाधिकारे नियुज्यमान एवमुवाच । एतैरग्निभिर्मां परिधत्त त एते परिधयः तेषां चायं भागः क्लृप्तोग्नीनाम् । भुवशब्देन मध्यमा व्याहृतिरुच्यते, भुवनशब्देन जगदुच्यते, भूतानामितिशब्देन भूतान्येवोच्यन्ते तेषां येऽधिपतयोऽग्नयस्तेभ्यः स्वाहेति संबन्धः ॥२॥
म०. 'शेषं मूलेषूपसिञ्चत्यदित्यै व्युन्दनम्' (का० २।७।२०) 'इति । हे प्रोक्षणशेषोदक, त्वमदित्यै अदित्या भूम्याः व्युन्दनमसि विशेषेण क्लेदनमसि ॥ 'बर्हिर्विस्रᳪं᳭स्य पुरस्तात्प्रस्तरग्रहणं विष्णोरिति' (का० २।७।२१) इति । हे प्रस्तर दर्भमुष्टिरूप, त्वं विष्णोर्यज्ञस्य स्तुपोऽसि । 'ष्ट्रयै स्त्यै शब्दसङ्घातयोः' । औणादिको डुप्प्रत्ययः । दर्भसङ्घातरूपत्वात्केशसङ्घातरूपा शिखेव भवसि ॥ 'वेदिᳪं᳭स्तृणात्यूर्णम्रदसमिति' (का० २। ७ । २२) इति । हे वेदे, त्वां स्तृणामि बर्हिषा छादयामि । किंभूतां त्वाम् । ऊर्णम्रदसमूर्णमिव मृदुतरामतिशयेन मृदुर्म्रदीयसी । ईयलोपश्छान्दसः। यथा प्रभोरुपवेष्टुं भूमिः कम्बलादिनाच्छाद्यते काठिन्याभावाय तथा दभैंराच्छादिता वेदिर्मृदुः स्यात् । पुनः किंभूतां त्वां । देवेभ्यः स्वासस्थां देवोपकाराय सुखेनासितुं स्थानभूतां सुखेन आसेनासनेन स्थीयते यस्यां सा स्वासस्था ताम् । 'स्कन्नमभिमृशति भुवपतये स्वाहेति' (का० २।७। २२) इति । एतन्मन्त्रत्रयस्यात्रोत्कर्षः। भुवपत्यादयस्त्रयोऽग्नेर्भ्रातरः । स्वाहाशब्दो निपातो देवान्प्रति दानवाची। स्वाहाकारं च वषट्कारं च देवा उपजीवन्ति' इति श्रुतेः । हविर्ग्रहकाले परिधिभ्यो बहिर्यद्धविः स्कन्नं तद्भुवपत्यादिभ्यः । अग्नेर्भ्रातरो वषट्कारभयाद्भूमिं प्राविशंस्तद्दुःखेनाग्निरपि पलाय्योदके प्राविशत्ततो देवैरानीय स्वाधिकारे स्थाप्यमान एवमवदद्यदेतैर्मद्भ्रातृभिर्मां परिधत्तैषां च यज्ञभागः कल्प्यतामिति । ततस्तेऽग्नेर्भ्रातरः परिधयो जातास्तेषां च स्कन्नं हविर्भागः कृत इति कथा ॥२॥

तृतीया।
ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्टयै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः। मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः ।। ३ ।।
उ० परिधीन्परिदधाति । गन्धर्वस्त्वा परिधिरुच्यते । गन्धर्वो विश्वावसुस्त्वां परिदधातु सर्वतः स्थापयतु। विश्वस्य सर्वस्व । अरिष्ट्यै अविनाशाय । 'रिषि रुषि हिंसायाम्। रिषतिर्हिंसार्थः। सा तत्र प्रतिषिद्धा । किंच यजमानस्य परिधिरसि न केवलमाहवनीयस्य किं तर्हि यजमानस्यापि परिधिरसि । किंच अग्निरसि आहवनीयस्य भ्राता । अत एवमुच्यते । इडे स्तोत्राय । होत्रभिप्रायमेतत् । ईडितः । 'ईड स्तुतौ' । स्तुत इत्यर्थः । दक्षिणं परिदधाति । इन्द्रस्य बाहुरसि दक्षिणः । इन्द्रस्य दक्षिणेन बाहुना परिधिरुपमीयते । व्याख्यातः शेषः । उत्तरं परिदधाति । मित्रावरुणौ त्वोत्तरतः। मित्रावरुणौ वाय्वादित्यौ त्वाम् उत्तरतः सर्वतः परिधत्ताम् । ध्रुवेण अचलेन । धर्मणा धारकेण । विश्वस्यारिष्ट्या इति व्याख्यातम् ॥ ३ ॥
म० 'परिधीन्परिदधाति मध्यमदक्षिणोत्तरान् गन्धर्व इति प्रतिमन्त्रम्' ( का० २। ८ । १) इति । आदौ पश्चात् हे परिधे, विश्वावसुनामा गन्धर्वः त्वां परिदधातु आहवनीयस्य पश्चात्सर्वतः स्थापयतु । विश्वस्मिन्सर्वस्मिन्प्रदेशे वसतीति विश्वावसुः द्युलोकस्थं सोमं रक्षितुं तत्पार्श्वे सर्वत्र गन्धर्वोऽवसदिति श्रुत्यन्तरकथा । किमर्थं स्थापयतु । विश्वस्यारिष्ट्यै । "रिष हिंसायां' रेषणं रिष्टिः न रिष्टिः अरिष्टिस्तस्यै । आहवनीयस्थानरूपस्य विश्वस्य हिंसापरिहाराय । परिध्यभावेऽसुराः प्रविश्य हिंसन्ति । किंच त्वं यजमानस्य परिधिरसि । न केवलमग्नेः परिधिः यजमानमप्यसुरेभ्यो रक्षितुं पश्चिमदिशि स्थापितोऽसि । किच अग्निरिडः ईडितश्चासि । आवहनीयस्य प्रथमो भ्राता भुवपतिनामाग्निरूपस्त्वमसि । ईड्यते स्तूयते इतीड् स्तुतियोग्यः । अतएव ईडितः स्तुतो होत्रादिभिः । ईड स्तुतौ' । दक्षिणं परिधिं परिदधाति । इन्द्रस्य बाहुरसि । हे द्वितीय परिधे, त्वमिन्द्रस्य दक्षिणो बाहुरसि । रक्षणसमर्थत्वादिन्द्रबाहुत्वोपचारः । विश्वस्येत्यादि व्याख्यातम् । अत्राग्निशब्देन भुवनपतिनामा द्वितीयो भ्राता ॥ तृतीयमुत्तरं परिधिं परिदधाति । मित्रावरुणौ । हे तृतीयपरिधे, मित्रावरुणौ वाय्वादित्यौ ध्रुवेण स्थिरेण धर्मणा धारणेन उत्तरस्यां दिशि त्वां परिधत्तां परितः स्थापयताम् । विश्वस्येत्यादि पूर्ववत् । अत्राग्निर्भूतानां पतिस्तृतीयो भ्राता ॥३॥

चतुर्थी।
वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्त॒ᳪं᳭ समि॑धीमहि । अग्ने॑ बृ॒हन्त॑मध्व॒रे ।। ४ ।।
उ० आहवनीये इध्मकाष्ठमादधाति । वीतिहोत्रम् । आग्नेयी गायत्री । वीतिहोत्रम् । 'वी गतिप्रजननकान्त्यसनखादनेषु' । वीतिः अभिलाषः होतृकर्मणि यस्य स वीतिहोत्रः । अथवा विविधा ईतिर्गतिर्होतृप्रशास्त्रादिषु होत्रासु यस्य स वीतिहोत्रः हे भगवन्नग्ने, वीतिहोत्रं त्वाम् । कवे क्रान्तदर्शन । अतीतानागतविप्रकृष्टविषयं युगपद्दर्शनं यस्य सः क्रान्तदर्शनः । द्युमन्तम् दीप्तिमन्तम् । समिधीमहि । 'इन्धी दीप्तौ' । संदीपयामः । अनेन इध्मकाष्ठेन बृहन्तं महान्तम् । अध्वरे यज्ञे ॥४॥
म० 'प्रथमं परिधिᳪं᳭ समिधोपस्पृश्य वीतिहोत्रमित्यादधाति' ( का० २। ८ । २) इति । इयमृक् अग्निदेवत्या गायत्रीच्छन्दस्का । हे कवे क्रान्तदर्शिन् हे अग्ने, अध्वरे यागे निमित्ते त्वां वयं समिधीमहि अनेनेध्मकाष्ठेन दीपयामः । अतीतानागतदूरवर्तिपदार्थानां यस्य युगपज्ज्ञानं स कविः । | किंभूतं त्वाम् । वीतिहोत्रम् । 'इण् गतौ' इतिर्गतिः व्याप्तिः पुत्रपौत्रपशुधनादिभिः समृद्धिरित्यर्थः । वीतये समृद्ध्यै होत्रं होमो यस्य स वीतिहोत्रस्तं यत्र होमे कृते समृद्धिप्राप्तिः स्यादित्यर्थः । यद्वा वीतिरभिलाषो होत्रे होतृकर्मणि यस्य तम् । तथा द्युमन्तम् । द्यौः कान्तिरस्यास्तीति द्युमान् तं स्वत एव द्युत्युपेतम् तथा बृहन्तं महान्तम् ॥ ४ ॥

पञ्चमी।
स॒मिद॑सि सूर्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्या॑श्चिद॒भिश॑स्त्यै । सवि॒तुर्बा॒हू स्थ॒ ऊर्ण॑म्म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्य॒ आ त्वा॒ वस॑वो रु॒द्रा आ॑दि॒त्याः स॑दन्तु ।। ५ ।।
उ० द्वितीयमादधाति । समिदसि । अङ्गप्रधानार्थस्याग्नेः समिन्धनमसि । समित्स्तूयते।आहवनीयमीक्षमाणो जपति । सूर्यस्त्वा पुरस्तात्पातु गोपायतु । गुप्त्यैवाभितः परिधयो भवन्ति । 'अथैतत्सूर्यमेव पुरस्ताद्गोप्तारं करोति' इति श्रुतिः। | कस्याश्चिदभिशस्त्यै । यः कश्चिदभिशापस्तस्मादित्यर्थः । अभिशस्त्या इति चतुर्थी षष्ठ्यर्थे । बर्हिषस्तृणे तिरश्ची निदधाति । सवितुर्बाहू स्थः । अनेन प्रस्तरस्य धारणकर्मणा युवां सवितुर्बाहू भवथः तयोः प्रस्तरं स्तृणाति । उर्णम्रदसम् । उर्णामिव मृदुं त्वां स्तृणामि । स्वासस्थम्, देवेभ्यः साधु अस्मिन्नासीदन्ति तिष्ठन्ति इति स्वासस्थः प्रस्तरः । देवेभ्य इति षष्ठ्यर्थे चतुर्थी । देवानामिति यावत् । प्रस्तरमभिनिदधाति । आत्वा वसवः । स्कन्दिर्गतिशोषणयोः' । आसदन्तु त्वां सवनदेवता रुद्रा आदित्याः ॥५॥
म०. अनुपस्पृश्य द्वितीयं समिदसीति (का० २। ८।३) | इति ॥ हे इध्मकाष्ठ, त्वं समिदसि अग्नेः समिन्धनं दीपनमसि ॥ 'सूर्यस्येति जपत्याहवनीयमीक्षमाणः' ( का० २।८।४) | इति ॥ हे आहवनीय, सूर्यः पुरस्तात्पूर्वस्यां दिशि कस्याश्चिदभिशस्त्यै सर्वस्या अभिशस्तेर्हिंसायाः सकाशात्त्वा त्वां पातु रक्षतु । चतुर्थी पञ्चम्यर्थे । या काचिद्धिंसा प्रसक्ता तां सर्वां परिहरत्वित्यर्थः । इतरदिक्त्रये परिधित्रयं रक्षकं पूर्वस्यां तदभावात् सूर्यः । तथाच श्रुतिः 'गुप्त्यै वा अभितः परिधयो भवन्त्यथैतत्सूर्यमिव पुरस्ताद्गोप्तारं करोति' (१।३।४।८) इति। 'बर्हिषस्तृणे तिरश्च्यो निदधाति सवितुरिति' (का०२।८।५) इति । तृणद्वयं प्रस्तरस्थापनार्थं तिर्यग् निदध्यात् । हे तृणे, युवामुभे सवितुर्देवस्य बाहू स्थः । प्रस्तरधारणेन सूर्यस्य बाहू इव भवथः ॥ 'तयोः प्रस्तरᳪं᳭ स्तृणात्यूर्णम्रदसमिति' (का. २। ८ । १०) इति । ऊर्णमिव मृदुं देवेभ्यो देवानां स्वासस्थं सुखेनासनेन स्थीयते यत्र तादृशं त्वां स्तृणामि । 'अभिविदधात्या वा वसवः' (का० २ । ८ । ११) इति । प्रस्तरंप्रति पाणी निदधाति । वसवो रुद्रा आदित्याः सवनत्रयाभिमानिनस्त्रयो देवाः त्वामासदन्तु आसादयन्तु सर्वतः प्रसारयन्तु ॥ ५॥

षष्ठी।
घृ॒ताच्य॑सि जु॒हूर्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪं᳭ सद॒ आसी॑द घृ॒ताच्य॑स्युप॒भृन्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪं᳭ सद॒ आसी॑द घृ॒ताच्य॑सि ध्रु॒वा नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪं᳭ सद॒ आसी॑द प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪं᳭ सद॒ आसी॑द । ध्रु॒वा अ॑सदन्नृ॒तस्य॒ योनौ॒ ता वि॑ष्णो पाहि पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒न्य॒म्।। ६ ।।
उ० जुहूं निदधाति । घृताच्यसि । 'अञ्जु गतिपूजनयोः'। घृतमञ्चितं प्राप्तं यस्यां स्रुचि, घृतं वा अच्यते यया स्रुचा सा घृताची। जुहूर्नाम्ना । क्रियाभिप्रायमेतत् । हूयते अनयेति जुहूः । सेदं प्रियेण धाम्नेति तदः श्रवणाद्यदोऽध्याहारः । या त्वं घृताच्यसि जुहूश्च नाम्ना सा इदं प्रियं सदः स्थानम् आसीद अधितिष्ठ । प्रियेण धाम्ना सहिता । 'एतद्वै देवानां प्रियं धाम यदाज्यम्' इति श्रुतिः । आज्यसहितेत्यर्थः । अथवा 'धामानि भवन्ति स्थानानि नामानि जन्मानीति वा। अस्मिन् पक्षे प्रियेण नाम्ना सहिता सतीति योज्यम् । उपभृतं सादयति । घृताच्यस्युपभृन्नाम्ना । उपाभरणादुपभृत् । व्याख्यातमन्यत् । ध्रुवां सादयति । घृताच्यसि ध्रुवा नाम्ना। ध्रुवा स्थिरा । व्याख्यातमन्यत् । अन्यद्धविः सादयति । प्रियेण धाम्ना । व्याख्यातमन्यत् । तानि हवीᳪं᳭ष्यभिमृशति । ध्रुवा असदन् । ता विष्णो पाहीति तदः संबन्धाद्यदोऽध्याहारः । यान्येतानि ध्रुवाणि असदन आसादितानि ऋतस्य योनौ यज्ञस्योत्सङ्गे ता विष्णो तानि हवींषि पाहि गोपाय । किंच । पाहि यज्ञम् गोपाय यज्ञम् । किंच पाहि यज्ञपतिं यजमानम् । आत्मानमुपस्पृशति । पाहि माम् । अध्वर्युरात्मानं ब्रवीति गोपाय माम् । यज्ञन्यम् यज्ञं नयतीति यज्ञनीः । गोपाय मां यज्ञस्य नेतारमित्यर्थः ॥ ६॥
म० 'सव्याशून्ये जुहूं प्रतिगृह्य निदधाति घृताचीत्येवमितरे उत्तराभ्यां प्रतिमन्त्रम्' (का० २। ८ । १२-१३) इति । हे जुहु, त्वं घृताची असि । घृतमञ्चति प्राप्नोतीति घृताची घृतपूर्णा भवसि । नाम्ना च जुहूः । हूयतेऽनयेति जुहूः । 'क्विपि द्युतिगमिजुहोतीनां द्वे च जुहोतेर्दीर्घश्च' (पा० क०. | ३ । २ । १७८) इति द्वित्वं दीर्घश्च । सा त्वं प्रियेण धाम्ना । देववल्लभेनाज्येन सह इदं प्रियं सदः प्रस्तरलक्षणमासीद | अधितिष्ठ । 'एतद्वै देवानां प्रियतमं धाम यदाज्यम्' (२ । ३ । | २ । १७) इति श्रुतेः । प्रियधामशब्देनाज्यम् । उपभृतं सादयति । उप समीपे स्थित्वा बिभर्ति आज्यं धारयतीत्युपभृत् । व्याख्यातमन्यत् । ध्रुवां सादयति । 'ध्रुव स्थैर्ये' । | यथा होमार्थं जुहूपभृतोश्चलनं तद्वदस्याश्चलनाभावेन स्थिरत्वान्नाम्ना ध्रुवा । अन्यद्व्याख्यातम् । 'प्रियेण धाम्नेति हवीᳪं᳭षि वेद्यां कृत्वा' (का० २ । ८ । १९) इति । हे हविः, प्रियेण धाम्नाज्येन सह प्रियं सद आसीदेत्येकै हविः संबोध्य वचनम् । “धुवा असदन्निति सर्वाण्यालभते' (का० २।८।१९) इति । ऋतस्यावश्यंभाविफलोपेतत्वेन सत्यस्य यज्ञस्य योनौ स्थाने ध्रुवाणि यानि हवींषि असदन्नतिष्ठन् । हे विष्णो व्यापक यज्ञपुरुष, ता तानि हवींषि पाहि रक्ष । यज्ञं च पाहि यज्ञपतिं च पाहि । 'पाहि मामित्यात्मानम्' (का० २ । ८ । २०) | इति । यज्ञं नयतीति यज्ञनीः तं यज्ञन्यमध्वर्युं मां पाहि ॥६॥

सप्तमी।
अग्ने॑ वाजजि॒द्वाजं॑ त्वा सरि॒ष्यन्तं॑ वाज॒जित॒ᳪं᳭ सम्मा॑र्ज्मि । नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्य॑: सु॒यमे॑ मे भूयास्त॒म् ।। ७ ।।
उ० अग्नेः संमार्गं करोति । अग्ने वाजजित् । हे भगवन्नग्ने, वाजजित् वाजस्यान्नस्य जेतः, वाजं त्वा सरिष्यन्तमिति । 'सृ गतौ' । यज्ञं त्वां प्रापयिष्यन्तम् । वाजजितं अस्य जेतारं संमार्ज्मि । 'मृजूष् शुद्धौ' । अञ्जलिं करोति । नमो देवेभ्यः देवेभ्यो निह्नवः । दक्षिणत उत्तानं पाणिं करोति । स्वधापितृभ्यः पितृभ्यो निह्नवः । जुहूपभृतावादत्ते । सुयमे मे । स्रुचावुच्येते । साधु यमे मे मम भूयास्तं भवतम् ॥ ७ ॥
म० 'इध्मसन्नहनैरनुपरिधि समार्य्ट्उग्ने वाजजिदिति त्रिस्त्रिः परिक्रामम्' (का० ३ । १ । १३) इति । वाजमन्नं जयतीति वाजजित् । तत्संबुद्धौ हे वाजजित् हे अग्ने, त्वामहं संमार्ज्मि शोधयामि । किंभूतं त्वाम् । वाजं सरिष्यन्तमन्नमुद्दिश्य गमिष्यन्तमन्नसंपादनोपयुक्तम् । तथा वाजजितमन्नमुद्दिश्य जयोपेतम् । अन्नप्रतिबन्धनिवारकमित्यर्थः । 'अपरमाहवनीयादञ्जलिं करोति नमो देवेभ्य इति' (का०३।१।१५) इति । ये देवा अनुष्ठानमनुगृह्णन्ति तेभ्यो नमस्करोति । 'स्वधा पितृभ्य इति दक्षिणत उत्तानम्' (का० ३।१।१५) इति । प्राङ्मुखेनादौ देवनत्यर्थमञ्जलिः कृतः । इदानीं पितृनत्यर्थं दक्षिणामुख उत्तानमञ्जलिं कुर्यात् । ये पितरः पालकाः सन्ति तेभ्यः स्वधाऽस्तु । स्वधाशब्दो निपातः पितॄनुद्दिश्य देयद्रव्यस्य दाने वर्तते । अतो यद्देयं तद्दास्याम इत्यर्थः । अनेन मत्रद्वयेन देवाः पितरश्चोपचर्यन्ते । 'सुयमे म इति जुहूपभृतावादाय' ( का० ३ । १।१६) इति । हे जुहूपभृतौ मे मदर्थं सुयमे सुष्ठु नियते युवां भूयास्तं भवतम् । यथा युवयोः स्थितमाज्यं न स्कन्दति तथा धारयतमित्यर्थः ॥ ७ ॥

अष्टमी।
अस्क॑न्नम॒द्य दे॒वेभ्य॒ आज्य॒ᳪं᳭ संभ्रि॑यास॒मङि्॑घ्रणा विष्णो॒ मा त्वाव॑क्रमिषं वसु॑मतीमग्ने ते च्छा॒यामुप॑स्थेष॒स विष्णो॒ स्थान॑मसीत इन्द्रो॑ वी॒र्य॒मकृणोदू॒र्ध्वो॑ऽध्व॒र आस्था॑त् ।। ८ ।।
उ० यथाहं सुसंयताभ्यां स्रुग्भ्याम् अस्कन्नं सकलम् अद्य अस्मिन् कर्मणि देवेभ्योर्थाय आज्यम्।आज्यशब्देन यज्ञो लक्ष्यते । यज्ञं संभ्रियासं संबिभृयाम् । दक्षिणातिक्रामति । अङ्घ्रिणा विष्णो अङ्घ्रेत्यर्थस्य अङ्घ्रिः पादः । पादेन विष्णो यज्ञ । मा त्वावक्रमिषम् । माङि लुङ् । मात्वामवाचीनं क्रमिषम् । वसुमतीमित्यवस्थाय । वसुमतीं धनवतीम् । हे भगवन्नग्ने, ते तव छायाम् । छायाशब्द आश्रयवचनः । युष्माकं पादच्छायायां वसामीति यथा आश्रयम् । उपस्थेषम् उपतिष्ठेयम् । विष्णोर्यज्ञस्थानं भवसि । यज्ञस्य ह्येतत्स्थानं यत्र स्थितैर्यागः क्रियते यत् जुहोति । इत इन्द्रः इत अस्मात् यजतिस्थानाद् । उत्थायेतिशेषः । इन्द्रो वीर्यं वीरस्य कर्म वीर्यम् अकृणोत् । 'कृञ् हिंसाकरणयोः' । कृतवान् । 'अतो हीन्द्रस्तिष्ठन्दक्षिणतो नाष्ट्रा रक्षांस्यपहन्ति' इति श्रुतिः। किंच ऊर्ध्वोध्वर आस्थात् । यतश्च यजतिस्थानादूर्ध्वं प्रगुणः यज्ञः आस्थात् आस्थितः । अध्वर्युमुखयागाभिप्रायमेतत् ॥ ८॥
म० तथा सति अद्यास्मिन्ननुष्ठानदिने देवेभ्यो देवोपकारायाज्यं युवयोः स्थितं घृतम् अस्कन्नं भूमौ यथा न स्कन्दति तथा संभ्रियासं सम्यक् पोषणं करोमि धारणं वा । आशीर्लिङि उत्तमे रूपम् । 'दक्षिणातिक्रामत्यङ्घ्रिणा पादेन त्वा त्वाम् अहं मा अवक्रमिषम् मा कार्षम् । पादेनातिक्रमणदोषो मे मा भूदित्यर्थः । 'वसुमतीमित्यवस्थाय' (का० ३।१।१९) इति । हे अग्ने, ते तव छायां छायावत्समीपवर्तिनीं वसुमतीं भूमिम् अहमुपस्थेषम् उपतिष्ठेयं सेवेय । उपपूर्वस्तिष्ठतिः सेवार्थः । स एवमेवोपकारः कथ्यते । हे वसुमति, त्वं विष्णोर्यज्ञस्य स्थानमसि । अत्र स्थित्वा यागः कर्तुं शक्यत इत्यर्थः । आहवनीयसमीपवर्तित्वादस्या भूमेर्यज्ञस्थानत्वम् । यद्वा अयमर्थः । हे अग्ने, ते तव वसुमतीं धनवतीं धनप्राप्तिकरीं छायामाश्रयं उपस्थेषं सेवेय । छायाशब्द आश्रयवाचकः । युष्मत्पादच्छायायां वसामीति यावत् । यतस्त्वं विष्णोर्यज्ञस्य स्थानमसि । 'इत इन्द्र इति जुहोति' (का० ३।२।१) इति । पूर्वमन्त्रे यज्ञसंबन्धि यत्स्थानमुक्तं तदेव देवानां विजयहेतुत्वादितःशब्देन परामृश्यते । देवयजनव्यतिरिक्तभूमिरसुराधीनत्वेन तत्र देवानां पराजयेऽपि यज्ञप्रदेशः पराजयरहितः । तदेवोच्यते मन्त्रेण । इत इन्द्रः । इन्द्र इतोऽस्माद्देवयजनस्थानात् उद्युक्तः सन्निति शेषः । वीर्यमकृणोत् वीरस्य कर्म वीर्यं शत्रुवधरूपमकरोत् । अतएवाध्वरो यज्ञ ऊर्ध्वमास्थात् उन्नतः स्थितः । इन्द्रेण वीर्ये कृते शत्रुकृतविघ्नाभावादध्वरस्यौन्नत्यम् ॥ ८॥

नवमी।
अग्ने॒ वेर्हो॒त्रं वेर्दू॒त्यमव॑तां॒ त्वां द्यावा॑पृथि॒वी अव॒ त्वं द्यावा॑पृथि॒वी स्वि॑ष्ट॒कृद्दे॒वेभ्य इन्द्र॒ आज्ये॑न ह॒विषा॑ भू॒त्स्वाहा॒ सं ज्योति॑षा॒ ज्योति॑: ।। ९ ।।
उ० अग्ने वेर्होत्रं वेर्दूत्यम् । हे अग्ने, वेः । 'विद ज्ञाने' -विद्धि जानीहि अवगतार्थो भव । मया होत्रं कर्तव्यम् । वेर्दूत्यम् । विद्धि च दूत्यं दूतस्य कर्म मया कर्तव्यम् । 'उभयं वा एतदग्निर्देवानाᳪं᳭ होता च दूतश्च' इति श्रुतिः। अवतां त्वा द्यावापृथिवी । त्वां कर्मणि प्रवृत्तं पालयेतां द्यावापृथिव्यौ । स्विष्टकृत् साधु इष्टं करोतीति स्विष्टकृत् । देवेभ्योऽन्येभ्यः सकाशात्प्रथमम् । इन्द्र आज्येन 'अज गतिक्षेपणयोः' । अजनेन हविषा हवनेन भूत् भूयात् । स्वाहा सुवाक् आह । 'वाचे वा एतमाघारयतीन्द्रो वागित्युवाच आहुः इति श्रुतिः। 'जुह्वा ध्रुवां समनक्ति संज्योतिषा ज्योतिः'। संगच्छतामित्यध्याहारः । ज्योतिषा आज्येन ज्योतिः आज्यं सङ्गच्छताम् ॥९॥ -
म० तस्मात् हे अग्ने, होत्रं वेः होतुः कर्म विद्धि। । लङि अडभावे रूपम् । दूत्यं दूतकर्म च वेः विद्धि । होतृत्वं दूतत्वं चाग्नेः कर्म । तथाच श्रुतिः 'उभयं वा एतदग्निर्देवानाᳪं᳭ होता च दूतश्च' (१।४।५ । ४) इति । ईदृशं त्वां द्यावापृथिवी अवतां पालयताम् । हे अग्ने, त्वमपि द्यावापृथिवी लोकद्वयदेवते अव पालय । इत्थमन्योन्यपालने सति इन्द्रः आज्येन हविषास्माभिर्दत्तेन देवेभ्यो देवार्थं स्विष्टकृत् भूत् । सुष्ठु इष्टं करोतीति स्विष्टकृत् तादृशो भवतु । अडभावश्छान्दसः । यद्यस्माभिरिज्यते तत्तदिष्टं सर्वं वैकल्यरहितं करोत्वित्यर्थः । स्वाहा सुहुतं अस्तु । इन्द्रं देवमुद्दिश्य इदमाज्यं दत्तमित्यर्थः ।स्वाहेति निपातो देवोद्देशेन दाने वर्तते। जुह्वा ध्रुवां समनक्ति संज्योतिषा' (का० ३।२।२) इति । संगच्छतामित्यध्याहारः । ज्योतिषा ध्रुवास्थिताज्यरूपज्योतिषा सह ज्योतिर्जुह्वासिच्यमानरूपं ज्योतिः संगच्छताम् ॥ ९॥

दशमी।
मयी॒दमिन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम् । अ॒स्माक॑ᳪं᳭ सन्त्वा॒शिष॑: स॒त्या न॑: सन्त्वा॒शिष॒ उप॑हूता पृथि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त्स्वाहा॑ ।। १० ।।
उ० यजमानो जपति मयीदमिन्द्रः । मयि इदम् इन्द्रः इन्द्रियं वीर्यम् । आधातु स्थापयतु । किंच अस्मान् रायः धनानि मघवानः मघं धनं विद्यते येषां ते मघवानः धनिनः। सचन्तां सेवन्ताम् । 'षच सेवने । एतदुक्तं भवति । धनानि धनिनश्चास्मान् सेवन्ताम् । किंच अस्माकं सन्त्वाशिषः सत्या अवितथाः नः अस्माकं भवन्तु आशिषः । अग्नीन् प्राश्नाति । उपहूता अभ्यनुज्ञाता पृथिवी माता जगतो निर्मात्री । उप मां पृथिवी ह्वयताम् । अभ्यनुजानातु मां पृथिवी माता भक्षणाय । अहं तु अग्निः सन् भक्षयामि ॥ १० ॥
म० 'आशासने मयीदमिति यजमानो जपति' (का० ३॥४॥ २१) इति । प्रधानयागानन्तरं पुरोडाशशेषप्राशनसमये होतरि आशिषं प्रयुञ्जाने सति यजमानो जपति । इन्द्रः परमेश्वर इदमिन्द्रियं मयि दधातु । इदम् अस्मदपेक्षितम् इन्द्रियं वीर्य मयि यजमाने स्थापयतु । किंच रायो धनानि दैवमानुषभेदेन द्विविधानि मघवानः धनवन्तश्चास्मान्यजमानान् सचन्तां सेवन्ताम् । 'षच सेवने । किंच अस्माकं यजमानानामाशिषोऽभीष्टार्थस्याशंसनानि सन्तु विद्यन्ताम् । किंच नोऽस्माकमाशिषः पूर्वोक्ताः सत्या अवितथाः सन्तु । मघमिति धननाम तद्विद्यते येषां ते मघवानः । अस्त्यर्थे वन्प्रत्ययः (पा० ५। २ । १०९)। “एकैकमाहरति द्यावापृथिव्योरुपह्वानेऽग्नीधे षडवत्तम् । प्राश्नात्युपहूता पृथिवीति' (का० ३।४।१८-२०) यदा होता द्यावापृथिव्योरुपह्वानं करोति तदोभयोः पुरोडाशयोरेकैकमंशं षडवत्ते षडवत्ते कृत्वाग्नीधे ददाति स चोपहूतेति मन्त्रेण तत्प्राश्नातीति सूत्रार्थः । उपहूता येयं पृथिवी दृश्यते सा जगतो माता निर्मात्री मयोपहूता अभ्यनुज्ञाता । सा च पृथिवी माता मातृत्वेनास्माभिर्भाविता सती मामुपह्वयतामनुजानातु हविःशेषभक्षणायाज्ञां ददातु । अहं चाग्नीध्रात् । अग्नीध इदं कर्माग्नीध्रं तस्माद्धेतोरग्निः सन् तं भागं प्राश्नामीति शेषः । स्वाहा सुहुतमस्तु जाठरेऽग्नौ ॥ १०॥

एकादशी।
उप॑हूतो॒ द्यौष्पि॒तोप॒ मां द्यौ॑ष्पि॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त्स्वाहा॑ । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । प्रति॑गृह्णाम्य॒ग्नेष्ट्वा॒स्ये॒न॒ प्राश्ना॑मि ।।११ ।।
उ० अग्नीत् द्वितीयं प्राश्नाति । उपहूतो द्यौः पिता अभ्यनुज्ञातो द्यौः पिता पाता। उप मां द्यौः पिता ह्वयताम् उपहूयताम् । अभ्यनुजानातु मां द्यौः पिता पाता । अहं तु अग्निः आग्नीध्रादिति समानम् । इत उत्तरं ब्रह्मत्वं प्रतिष्ठान्तं बृहस्पतिराङ्गिरसोऽपश्यत् । प्राशित्रं गृह्णाति देवस्य त्वेति व्याख्यातम् । प्रतिगृह्णामीत्युत्तमः पुरुषः । प्राश्नाति । अग्नेस्त्वास्येन । अग्नेः संबन्धिना आस्येन मुखेन त्वां प्राशित्रं प्राश्नामि भक्षयामि ॥ ११ ॥
म० द्वितीयं प्राश्नाति । एवं द्यौः पिता जगत्पालक उपह्वयतामित्यादि समानार्थम् । देवस्य त्वा । इतःप्रभृति 'ओंप्रतिष्ठ' (ख० १३) इत्यन्तं ब्रह्मत्वम् । तस्याङ्गिरसो बृहस्पतिर्ऋषिः । 'देवस्य त्वेति प्रतिगृह्णाति' (का० २।२।१६) इति । ब्रह्मा देवस्य त्वेति प्राशित्रं गृह्णाति । मन्त्रो व्याख्यातः । प्रतिगृह्णामि स्वीकरोमीति शेषः । 'अग्नेष्ट्वेति प्राश्नाति दन्तैरनुपस्पृशन्' (का० २।२।१८) इति । हे प्राशित्र अग्नेः आस्य, ते वह्निदेवताया मुखेन त्वा त्वां प्राश्नामि भक्षयामि ॥ ११॥

द्वादशी।
ए॒तं ते॑ देव सवितर्य॒ज्ञं प्राहु॒र्बृह॒स्पत॑ये ब्र॒ह्मणे॑ । तेन॑ य॒ज्ञम॑व॒ तेन॑ य॒ज्ञप॑तिं॒ तेन॒ माम॑व ।। १२ ।।
उ० समिदामन्त्रितः प्रसौति । एतं ते देव । अध्वर्युराह ब्रह्मन् प्रस्थास्यामीति । एतं यज्ञं ते तव हे देव दानादिगुणयुक्त सवितः प्रसवितः,प्राहुः। एकवचनस्य स्थाने बहुवचनम् । प्राह ब्रवीति । 'तत्सवितारं प्रसवायोपधावति' इति श्रुतिः। किंच बृहस्पतये ब्रह्मणे प्राह बृहस्पतिर्वै देवानां ब्रह्मा तदधिष्ठित एवायं मानुषो ब्रह्मत्वं करोति तेन यज्ञमव । तेन हेतुना यज्ञम् अव पालय । तेन च यज्ञपतिं यजमानं च पालय । तेन च माम् अव पालय ॥ १२॥
म० 'एतं त इति समिदामन्त्रितः प्रसौति' (का० २। २।२१) इति समिधमाधातुमनुज्ञाप्रदानाय बोधितो ब्रह्मा मन्त्रेणानुजानीयात् । एतं त इत्यादिः ओंप्रतिष्ठेत्यन्तो मन्त्रः । हे देव दानादिगुणयुक्त, हे सवितः प्रसवितः, एतं यज्ञमिदानीं क्रियमाणमिमं मखं ते तुभ्यं त्वदर्थं प्राहुर्यजमानाः कथयन्ति । अनुज्ञापयन्तीत्यर्थः । किंच त्वया प्रेरितो देवानां यज्ञे यो ब्रह्मा तस्मै ब्रह्मणे बृहस्पतये च प्राहुः बृहस्पतिर्वै देवानां ब्रह्मा तदधिष्ठित एवायं मानुषो ब्रह्मत्वं करोति । किंच । तेन हेतुना त्वदीयत्वेन यज्ञमव रक्ष । तथा तेनैव हेतुना यज्ञपतिं यजमानं चाव रक्ष । तथा तेनैव हेतुना मां ब्रह्माणमव पालय ॥ १२॥

त्रयोदशी।
मनो॑ जू॒तिर्जु॑षता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नोत्वरि॑ष्टं य॒ज्ञᳪं᳭ समि॒मं द॑धातु । विश्वे॑दे॒वास॑ इ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ ।। १३।।
उ० किंच मनो जूतिर्जुषतामाज्यस्य मनो जुषताम् सेवताम् आज्यस्य स्वमंशम् । कथंभूतं मनः । जूतिः। जवतेर्गतिकर्मणो जूतिः । अतीतानागतवर्तमानेषु कालेषु पदार्थेषु यद्गन्तृ गच्छति । किंच बृहस्पतिर्यज्ञमिमं तनोतु विस्तारयतु । अरिष्टं यज्ञᳪं᳭ समिमं दधातु । रिषतिर्हिँसार्थः । अरिष्टमविनष्टं यज्ञमिमं कृत्वा दधातु । इडाभक्षणेन हि यज्ञो विच्छिन्नः इत्यत एवमुच्यते । किंच विश्वेदेवासः देवा एव देवासः । 'आज्जसेरसुक्' । सर्वे देवा इह कर्मणि मादयन्ताम् । 'मदी हर्षे' । हर्षं कुर्वन्तु । स्वार्थिको णिच् । अवतेराप्नोतेर्वा ओंकार इहाभ्युपगमार्थः । प्रतिष्ठ प्रकर्षेण तिष्ठ ॥ १३ ॥
म० किंच । मनः आज्यस्य जुषताम् । कर्मणि षष्ठी। मनः घृतं सेवताम् । हे सवितः, त्वदीयं चित्तं यज्ञसंबन्धिन्याज्ये स्थापयेत्यर्थः । किंभूतं मनः । जूतिः । जवतेर्गतिकर्मणो जूतिरिति क्तिन्प्रत्ययान्तो निपातः । स्त्रीत्वं छान्दसम् । अतीतानागतवर्तमानकालगतपदार्थेषु गमनशीलं हि मनः । जवते शीघ्रं गच्छतीति जूतिः । किंच बृहस्पतिरिमं यज्ञं तनोतु विस्तारयतु ब्रह्मत्वात् । तत इमं यज्ञमरिष्टं हिंसारहितं कृत्वा संदधातु । इडाभक्षणेन हि मध्ये यज्ञो विच्छिन्न इत्येवमुच्यते । किंच विश्वेदेवासः सर्वे देवाः इह यज्ञकर्मणि मादयन्ताम् । 'मद तृप्तौ' चुरादिः । तृप्यन्ताम् । एवं प्रार्थितः सविता देवः ओंप्रतिष्ठेत्यनुज्ञां प्रयच्छतु । ओमित्यङ्गीकारार्थः । तथास्तु । प्रतिष्ठ प्रयाणं कुरु । समिदाधानकाले यजमानस्याभिप्रेतं प्रयाणमवगम्य सविता देवोऽङ्गीकृत्य प्रयाणे प्रेरयतीत्यर्थः ॥ १३ ॥

चतुर्दशी।
ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि ।
अग्ने॑ वाजजि॒द्वाजं॑ त्वा ससृ॒वाᳪं᳭सं॑ वाज॒जित॒ᳪं᳭ सम्मा॑र्ज्मि ।। १४।।
उ० एषा ते अग्ने । इतःप्रभृति प्राकृतमार्षम् । आग्नेयी अनुष्टुप् समिदनुमन्त्रणे विनियुक्ता । हे भगवन्नग्ने, एषा ते तव । समित् समिन्धनम् । तया समिधा वर्धस्व च आ च प्यायस्व । चकारो भिन्नक्रमः । आप्यायस्व च । वर्धमानाप्यायने समिधा कुर्वित्यर्थः । किंच त्वत्प्रसादाद्वयं वर्धिषीमहि पुत्रपश्वादिभिः । आ च प्यासिषीमहि । चकारो भिन्नक्रमः । आप्यासिषीमहि च । प्यायतेर्लिङि सीयुटि उत्तमपुरुषैकवचने एतद्रूपम् । तत्र सीयुटश्छान्दसोऽभ्यासः । अग्निं संमार्ष्टि । अग्नेवाजजित् । ससृवांसं सृवन्तमिति विशेषः ॥ १४॥
म० एषा त इति होतानुमन्त्रयते' (का० ३ । ५। २) इति । ब्रह्मत्वं समाप्तम् । अतः प्राकृतमार्षम् । इयमनुष्टुबग्निदेवत्या । हे अग्ने, एषा ते तव समित् समिन्धनहेतुः काष्ठविशेषः । तया समिधा त्वं वर्धस्व वृद्धिं गच्छ । आप्यायस्व च । अस्मानपि सर्वतो वृद्धिं प्रापय । तथाच सति त्वत्प्रसादाद्वयं वर्धिषीमहि वृद्धिं प्राप्नुयाम प्यासिषीमहि च । अस्मदीयपुत्रपश्वादीन्सर्वतो वृद्धान्करवाम । 'संमार्ष्टि पूर्ववदपरिक्रामᳪं᳭ सकृत्सकृत्ससृवाᳪं᳭सम्' (का० ३।५। ४) इति । 'पूर्वमग्ने वाजजिदिति' (ख० ७) मन्त्रेण यथेध्मसन्नहनैरग्नेः संमार्गः कृतस्तथात्रापि संमार्ष्टि । तत्र परिक्रम्य त्रिस्त्रिः कृतः । अत्र तु परिक्रमणं विनैकैकवारमिति विशेष इति सूत्रार्थः । मन्त्रो व्याख्यातः । इयान्विशेषः । हे अग्ने, त्वां संमार्ज्मि । किंभूतं त्वाम् । वाजं ससृवांसमन्नमुद्दिश्य गतवन्तमन्नं संपादितवन्तमित्यर्थः । अन्यत् पूर्ववत् ॥ १४ ॥

पञ्चदशी।
अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि ।
अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ।
इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि ।
इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ।। १५।।
उ० जुहूपभृतौ व्यूहति । तत्र जुह्वायमानसंस्तवः अग्नीषोमयोः प्रधानदेवतयोः उज्जितिमनु ऊर्ध्वजयनमनु । उज्जेषम् ऊर्ध्वं जयेषम् । किंच वाजस्य अस्य पुरोडाशादेः । मा मां प्रसवेन अभ्यनुज्ञया करणभूतया । प्रोहामि प्रेरयामि। प्रकृतत्वादग्नीषोमयोरुज्जितिमनु हविषः प्रसवस्य करणत्वेन विवक्षितत्वात् मामित्यात्मनः कर्मत्वं प्रोहामीति कर्तृत्वं चोपपद्यते । उपभृतं प्रतीचीं प्रेरयति । अग्नीषोमौ प्रधानहविर्भाजौ । तं शत्रुम् । अपनुदताम् । ‘णुद प्रेरणे' । अपगमं नयताम् । योऽस्मान्द्वेष्टि । 'द्विष अप्रीतौ' । योऽस्माभिर्न प्रीयते । यं च वयं द्विष्मः । येन च वयं न प्रीयेमहि । किंच एवमग्नीषोमाभ्यामपनुद्यमानं शत्रुमन्यस्य प्रसवेन अपोहामि अपाञ्चं प्रेरयामि । अधो नयामीत्यर्थः । उत्तरौ मन्त्रौ समानव्याख्यानौ ॥ १५ ॥
म० 'जुहूपभृतौ व्यूहत्यग्नीषोमयोरिति' (का० ३।५। १७-१८) इति । तत्र जुहूं प्राचीं प्रेरयति यजमानः । व्यूहनं परस्परविपरीतत्वेनापनोदनम् । अग्नीषोमयोर्द्वितीयपुरोडाशदेवतयोरुज्जितिमनु अविघ्नेन हविःस्वीकाररूपमुत्कृष्टं जयमनुसृत्याहमुज्जेषमुत्कृष्टं जयं प्राप्तवानस्मि । वाजस्यान्नस्य पुरोडाशादेः प्रसवेनाभ्यनुज्ञया मां प्रोहामि मां यजमानं जुहूरूपधारिणं प्रोत्साहयामि । यद्यप्यूहतिधातुर्वितर्कार्थस्तदाप्युपसर्गवशादुत्साहार्थः । अन्यत्पूर्ववत् । उपभृतं प्रतीचीं प्रेरयति । यः शत्रुरसुरादिरस्मान्द्वेष्टि अस्मदीययज्ञविनाशाय द्वेषं करोति । यं च वयं द्विष्मः । यमालस्यादिरूपमस्मदीयानुष्ठानविरोधिनं शत्रुं द्विष्मः विनाशायोद्योगं कुर्मः तमुभयविधं शत्रुमग्नीषोमौ देवावपनुदतां निराकुरुताम् । किंच । अहमप्येनं द्विविधं शत्रुमुपभृद्रूपं वाजस्य प्रसवेन पुरोडाशदेवताया अभ्यनुज्ञयापोहामि निराकरोमि । उत्तरौ मन्त्रौ ( इन्द्राग्नी ) दर्शदेवताविषयौ समानार्थौ ॥ १५ ॥

षोडशी।
वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वा ऽऽदि॒त्येभ्य॑स्त्वा॒ संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॑वताम् ।
व्यन्तु॒ वयो॒क्तᳪं᳭ रिहा॑णा म॒रुतां॒ पृषतीर्गच्छ व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒माव॑ह ।
च॒क्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ।। १६।।
उ० परिधीननक्ति अध्वर्युः । वसुभ्यस्त्वा परिधिरुच्यते । वसुभ्योर्थाय त्वामनज्मि । रुद्रेभ्योर्थाय त्वामनज्मि । आदित्येभ्योर्थाय त्वामनज्मि । एतदुक्तं भवति । इत्थंभूता यूयं येन युष्मदभ्यञ्जनेन सवनदेवतानां तृप्तिः । प्रस्तरमादत्ते । संजानाथाम् । हे द्यावापृथिव्यौ, युवां संजानाथाम् । अवगतार्थे भवतम् । युवाभ्यां वृष्टिर्दातव्येति । किंच मित्रावरुणौ वां वृष्ट्यावताम् । वायुर्वै वर्षस्येष्टे स चाध्यात्मम् । प्राणोदानभूतौ मित्रावरुणशब्दाभ्यामुच्यते। तद्योयं वायुरध्यात्मगतः स प्रस्तररूपापन्नं यजमानं त्वां वृष्ट्या अवतु पालयतु । 'यजमानो वै प्रस्तरः' इति श्रुतिः । अनक्ति । व्यन्तु वय इति । छन्दांस्यभिधीयन्ते गायत्र्यादीनि । वेतिर्गत्यर्थः । व्यन्तु गच्छन्तु । वयोरूपाणि छन्दांसि प्रस्तरमादायेति शेषः । अक्तं द्रुतमेव प्रस्तरम् । रिहाणाः लिहाना आस्वादयन्तः । नीचैर्हरति । मरुतां पृषतीः । बृहती प्रस्तरदेवत्या । चतुर्थः पाद आग्नेयः । आहुतिपरिमाणं त्रिभिः पादैराह । अन्तरिक्षस्थाना मरुतः तेषामादिष्टोपयोजनं पृषत्यो गावो वाहनं । मरुतां संबन्धिनीः पृषतीर्गच्छ । ततः अन्तरिक्षं तर्पयित्वा।। वशा त्वं पृश्निर्भूत्वा दिवं गच्छ । 'इयं वै वशापृश्निर्यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्ठितं तेनेयं वशापृश्निः ' इति श्रुतिः । पृथिवीसंबन्धिभिर्भोगैर्द्युलोकं तर्पयित्वा इत्युक्तं भवति । ततो नो वृष्टिमावह । ततस्तस्मात् द्युलोकात् नः अस्माकं वृष्टिमावह । वृष्ट्या इमां पृथिवीं तर्पयेत्यर्थः । आत्मानमुपस्पृशति चक्षुष्पाः । हे भगवन्नग्ने, यतस्त्वं चक्षुष्पा भवसि स्वरसप्रवृत्त्या । अतश्चक्षुर्मे पाहि गोपाय ॥ १६ ॥
म० 'जुह्वा परिधीननक्ति यथापूर्वं वसुभ्य इति प्रतिमन्त्रम्' (का० ३।५।२४) इति । हे मध्यमपरिधे, वसुभ्यः वसुदेवताप्रीत्यर्थं त्वा त्वामनज्मीति शेषः । एवं दक्षिणोत्तरपरिधिमन्त्रौ व्याख्येयौ। परिधित्रयाञ्जनेन सवनत्रयदेवताः प्रीयन्त इति भावः । 'संजानाथामिति प्रस्तरादानम्' (का० ३।६। ३) इति । हे द्यावापृथिवी द्युलोकभूलोकदेव्यौ, युवां संजानाथां गृह्यमाणं प्रस्तरं सम्यगवगच्छतम् । किंच हे प्रस्तर, मित्रावरुणौ प्राणापानवायू वृष्ट्या जलवर्षणेन त्वा त्वामवतां रक्षताम् । 'वायुर्वै वर्षस्येष्टे' (१।८ । ३-१२) इत्युक्तत्वाद्वर्षाधीशो वायुः । स चाध्यात्मगतः प्राणोदानरूपो मित्रावरुणशब्दाभ्यामुच्यते । स च प्रस्तररूपं यजमानं वृष्ट्यावतु । 'यजमानो वै प्रस्तरः' (१।८।१।४४) इति श्रुतेः । 'अनक्त्येनं व्यन्तु वय इत्यग्रं जुह्वामुपभृति मध्यं मूलमितरस्याम्' (का० ३ । ६।४-७) इति । इतरस्यां ध्रुवायाम् । वयः पक्षिणः व्यन्तु । 'वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु' । पक्षिरूपापन्नानि गायत्र्यादीनि छन्दांसि गच्छन्तु । प्रस्तरमादायेति शेषः । किंभूताः वयः । अक्तं रिहाणाः । अक्तं घृतलिप्तं प्रस्तरं लिहिनाः आस्वादयन्तः । रलयोरैक्यम् ॥ 'मरुतामिति नीचैर्हृत्वा तृणमादायानुप्रहरति' (का० ३।६। ८) इति । एकं तृणं प्रस्तरात्पृथक्कृत्य प्रस्तरं नीचैर्हृत्वाग्नौ प्रक्षिपेदिति सूत्रार्थः । मरुतामिति प्रस्तरदेवत्या बृहती कपिदृष्टा । चतुर्थः पाद आग्नेयः । हे प्रस्तर, त्वं मरुतां पृषतीर्गच्छ । मरुन्नामकानां देवानां संबन्धिनीः पृषतीर्वाहनरूपा अश्वाश्चित्रवर्णा गच्छ प्राप्नुहि । वायुवाहनवद्वेगेन गच्छेत्यर्थः । अन्तरिक्षं वशापृश्निर्भूत्वा । वशा स्वाधीना पृश्निरल्पतनुर्गौर्भूत्वा दिवं गच्छ । कामधेनुवत्तृप्तिकरी भूत्वा स्वर्गं गच्छेत्यर्थः । ततः स्वर्गप्राप्तेरनन्तरं नोऽस्मदर्थं वृष्टिमावह भूलोके वृष्टिमानय । यद्वा । 'इयं वै वशापृश्निर्यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्ठितं तेनेयं वशापृश्निः' (१।८।३ । १५) इति श्रुतेर्वशापृश्निशब्देन भूमिरुच्यते । वशापृश्निर्भूत्वा पृथिवी भूत्वा दिवं गच्छ । पृथिवीसंबन्धिभागानादाय द्युलोकं तर्पयेत्यर्थः । हे प्रस्तर, त्वमन्तरिक्षं गत्वा तत्रस्थान्मरुतः सवाहनान्संतर्प्य स्वर्गं गत्वा देवांश्च संतर्प्य पृथिव्यां वृष्टिं कुर्वित्याहुतिपरिणामः सूचित इति भावः । 'चक्षुष्पा इत्यात्मानमालभते' (का० ३।६।१५) इति । हे अग्ने, त्वं यतश्चक्षुष्पा असि । चक्षुः पातीति चक्षुष्पाः । ज्वालयान्धकारं निवर्त्य चक्षुःपालकोऽसि । अतो मे मम चक्षुः पाहि पालय । प्रस्तरप्रहरणप्रसक्तं चक्षुष उपद्रवं परिहरेत्यर्थः ॥ १६ ॥

सप्तदशी।
यं प॑रि॒धिं प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्गु॒ह्यमा॑नः ।
तं त॑ ए॒तमनु॒ जोषं॑ भराम्ये॒ष नेत्त्वद॑पचे॒तया॑ता अ॒ग्नेः प्रि॒यं पाथोऽपी॑तम् ।। १७।।
उ० परिधीनुपहरति । यं परिधिम् । त्रिष्टुप्विराड्रूपा यजुरन्ता । अग्नेः प्रियमिति यजुः । आहवनीयोऽग्निरभिधीयते । हे आहवनीय, यं परिधिं पर्यधत्थाः परिहितवानसि । अग्ने देव, पणिभिरसुरैः प्रतिपक्षभूतैः गुह्यमानः । 'गुहू संवरणे' । संध्रियमाणः अवरुह्यमानः । तं त एतम् । तमेतं परिधिं ते तव अनुजोषं भरामि । अनुरुपसर्गः भिन्नक्रमः भरामीत्येतेन संबध्यते । 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः । अनुहरामि जोषमभिप्रेतम् । तथाच श्रुतिः 'वायुरेवाग्निः तस्माद्यदेवाध्वर्युरुत्तमं कर्म करोति अथैतमेवाप्येतीति' । एतत्सङ्गमात्प्रीतो भवति । एष नेत्त्वदपचेतयातै । एष परिधिः । न इत् नेत् । निपातसमाहारः परिभवार्थः । त्वत् त्वत्तः सकाशात् । अपचेतयातै । आशङ्कायां पञ्चमो लकारः । 'चिती संज्ञाने' । अपचेतयतु । एतदुक्तं भवति । एष परिधिर्मा कथंचित्त्वत्तो वियुक्तः सन् मास्मान्विगतचेतस्कान्कुर्यात् मास्मान्विमनस्कान्करोतु । इतरावनुसमस्यति । अग्नेः प्रियम् । अग्नेः संबन्धि प्रियं पाथः। पाथ इत्यन्ननाम । अभिप्रेतमन्नम् । अपीतम् अपिगच्छतम् ॥ १७ ॥
म० परिधीननुप्रहरति यं परिधिमिति प्रथमम्' (का० ३।६ । १७) इति । एकादशिनस्त्रयोऽष्टकश्च विराड्रूपः प्रथमोऽष्टकः । यं परिधिम् । त्रिष्टुब्विराड्रूपा आग्नेयी यजुरन्ता । अग्नेः प्रियमिति यजुः देवलदृष्टा । हे अग्ने देव आहवनीय, पणिभिरसुरैः गुह्यमानः । 'गुहू संवरणे' संव्रियमाणः संरुध्यमानः सन् त्वं यं परिधिं पश्चिमदिशि पर्यधत्थाः । असुरोपद्रवनिवारणाय परिहितवानसि स्थापितवानसि । ते तव जोषं प्रियं तमेतं परिधिमनु भरामि वह्नौ प्रक्षिपामि । अनुर्भिन्नक्रमः । हरतेर्हस्य भः । एष परिधिः त्वत् त्वत्तः सकाशात् न इत् । इत् एवार्थे । नैव अपचेतयातै मा अपचेतयतु । त्वत्तोऽपगन्तुं मा जानात्वित्यर्थः । त्वय्येव तिष्ठतु । 'चिती संज्ञाने' णिजन्ताल्लेट् तस्यात्मनेपदे प्रथमैकवचनं तान्तम् । 'टित आत्मनेपदानाम्' (पा० ३ । ४ । ७९) इति तस्यैकारः । 'वैतोऽन्यत्र' (पा० ३ । ४ । ९६) इति लेडेकारस्य पाक्षिक ऐ 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्याडागमः । गुणायादेशौ अपपूर्वः । अपचेतयातै अपचेतयतु । एष परिधिस्त्वत्तोऽपगतचित्तो मास्त्वित्यर्थः ।। 'इतरौ च युगपदग्नेः प्रियमिति' (का. ३।६।१७) इति दक्षिणोत्तरौ परिधी युगपत्प्रक्षिपेत् । हे परिधी, अग्नेः प्रियं पाथः युवामपीतमपिगच्छतम् । पाथ इत्यन्ननाम । (नि० नै० ९।७) आहवनीयस्याभिप्रेतमन्नमपिगच्छतम् । अग्नेरन्नत्वं भवद्भ्यां प्राप्यतामित्यर्थः ॥ १७ ॥

अष्टादशी।
स॒ᳪं᳭स्र॒वभा॑गा स्थे॒षा बृ॒हन्त॑: प्रस्तरे॒ष्ठाः प॑रि॒धेया॑श्च दे॒वाः ।
इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन् बर्हिषि॑ मादयध्व॒ᳪं᳭ स्वाहा॒ वाट् ।। १८।।
उ० जुहूपभृद्भ्यां संस्रवान् जुहोति । सᳪं᳭स्रवभागाः । वैश्वदेवी त्रिष्टुप् यजुरन्ता । स्वाहावाडिति यजुः । संस्रवः भागो येषां ते संस्रवभागा विश्वेदेवाः । यद्यपि यूयं संस्रवभागाः स्थ भवथ । तथापि इषा अन्नेन संस्रवलक्षणेन बृहन्तो महान्तः । किंच ये च प्रस्तरेष्ठाः प्रस्तरस्थायिनः ये च परिधेयाः परिधिभवा देवास्तानुप शब्दं प्रत्यक्षीकृत्य ब्रवीमि। इमां मदीयां वाचम् । अभिगृणन्तः अभिष्टुवन्तः । विश्वे सर्वे । आसद्य स्थित्वा । अस्मिन्बर्हिषि । मादयध्वम् तृप्यध्वम् मोदयध्वं वा । स्वाहा व्याख्यातम् । वाट् वषट्कारः परोक्षम् ॥ १८ ॥
म० सᳪं᳭स्रवभागा इति सᳪं᳭स्रवान् जुहोति' (का० ३।६। १८) इति वैश्वदेवी त्रिष्टुब्यजुरन्ता । स्वाहा वाडिति यजुः । | सोमशुष्म ऋषिः । हे विश्वेदेवाः, यूयं संस्रवभागाः स्थ । विलीनमाज्यं संस्रवः स एव भागो येषां ते संस्रवभागाः। तथाविधा भवथ । तथा इषा संस्रवलक्षणेनान्नेन बृहन्तो महान्तः स्थ । किंच ये प्रस्तरेष्ठाः प्रस्तरे तिष्ठन्तीति प्रस्तरेष्ठाः प्रस्तरस्थायिनः । ये च परिधेयाः परिधिभवाः सन्ति ते विश्वेदेवा इमां मदीयां वाचमभिगृणन्तः सर्वत्र वर्णयन्तः । अयं यजमानः सम्यक् यजतीत्येवं सर्वेषां देवानां मध्ये कथयन्तो यूयमस्मिन् बर्हिषि यज्ञ आसद्योपविश्य मादयध्वं तृप्यध्वं मोदध्वं वा । स्वाहेति वाडिति च शब्दौ हविर्दानार्थौ । सर्वथा दत्तमित्यादरं दर्शयितुं शब्दद्वयप्रयोगः । यद्यपि 'स्वाहाकारेण वा वषट्कारेण वा' इति श्रुतेर्वषट्कारो दानार्थः तथापि देवानां परोक्षप्रियत्वात्प्रत्यक्षत्वपरिहाराय वाडितिशब्दः प्रयुक्तः ॥ १८ ॥

एकोनविंशी।
घृ॒ताची॑ स्थो॒ धुर्यौ॑ पातᳪं᳭ सु॒म्ने स्थ॑: सु॒म्ने मा॑ धत्तम् ।
यज्ञ॒ नम॑श्च त॒ उप॑ च य॒ज्ञस्य॑ शि॒वे संति॑ष्ठस्व॒ स्विष्टे मे॒ संति॑ष्ठस्व ।। १९ ।।
उ० घृताची इति धुरि स्रुचौ निदधाति । घृतमञ्चति ययोस्ते घृताच्याविति प्राप्ते घृताची इति पूर्वसवर्णदीर्घादेशः । ये युवां घृताञ्चने स्थः । ते ब्रवीमि । धुयौँ धुरि भवौ धुर्यावनवाहौ तौ पातं गोपायतम् । किंच सुम्नेस्थः । सुम्नमिति सुखनाम । यस्मात्सुखरूपे भवथः तस्मात्सुम्ने सुखे । मा माम् । धत्तं धापयतम् । यज्ञ नमश्च ते इति वेदिमालभते यजमानः । सूर्यं पवमान ऋषिरुद्वालवान् धनान्नवानित्येते ऋषयोऽस्य यजुषो यज्ञो देवता । हे यज्ञ, नमश्च ते नमोस्तु ते नमस्कारश्चास्तु । ते तुभ्यम् । स यदतिरेचयति तन्नमस्कारेण शमयति । उपच उपचयश्च तेऽस्तु । 'अथ यदूनं करोत्युपचेति तेन तदन्यूनं भवति' इति श्रुतिः । यज्ञस्य शिवे संतिष्ठस्व । यद्वै यज्ञस्यान्यूनातिरिक्तं तच्छिवं तेन तदुभयं शमयति । स्विष्टे मे संतिष्ठस्व । साधु इष्टं स्विष्टं तस्मिन् मे मम संतिष्ठस्व समाप्तिं याहि ॥१९॥
म०. 'घृताची इति धुरि निदधाति' (का० ३ । ६ । १९) इति । जुहूपभृतौ शकटधुरि निदध्यात् । हे जुहूपभृतौ, युवां घृताची स्थः । घृतमञ्चतः प्राप्नुत इति घृताच्यौ । पूर्वसवर्णदीर्घः । तथाविधे युवां धुर्यावनड्वाहौ पातं रक्षतम् । धुरं वहतस्तौ धुर्यो । किंच युवां सुम्ने सुखरूपे स्थः भवथः तस्मात्सुम्ने सुखे मा मां धत्तं स्थापयतम् ॥ 'यज्ञ नमश्च त इति वेदिमालभते' (का० ३ । ६ । २१) इति । अस्य मन्त्रस्य शूर्पं यवान्कृषिरुद्वालवान् धानान्नर्वानिति पञ्च ऋषयः यज्ञो देवता । हे यज्ञ, ते तुभ्यं नमः अस्तु । उप उपचयो वृद्धिश्च तेऽस्तु । चकारावन्योन्यसमुच्चयार्थौ । नमउपशब्दाभ्यां यज्ञस्य यदतिरिक्तं यच्च न्यूनं जातं तत् पूर्णं जायते । तथाच श्रुतिः 'स यदतिरेचयति तन्नमस्कारेण शमयति अथ यदूनं करोत्युपचेति तेन तदन्यूनं भवति' इति । किंच । यज्ञस्य शिवे संतिष्ठस्व अन्यूनातिरिक्तं यज्ञं कुर्वित्यर्थः । 'यद्वै यज्ञस्यान्यूनातिरिक्तं तच्छिवं तेन तदुभयं शमयति' इति श्रुतेः । मे मम स्विष्टे संतिष्ठस्व । साधु इष्टं स्विष्टम् । शोभने योगे तिष्ठसि । प्राप्तिं कुर्वित्यर्थः ॥ १९॥

विंशी।
अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्या अ॑वि॒षं न॑: पि॒तुं कृ॑णु
सु॒षदा॒ योनौ॒ स्वाहा॒ वाड॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑ ।। २० ।।
उ० स्रुक्स्रुवं प्रतिगृह्णाति । अग्नेऽदब्धायो । गार्हपत्योग्निरुच्यते । हे भगवन्नग्ने, अदब्धायो । दभ्नोतिर्हिंसाकर्मा । आयुरिति मनुष्यनाम । अदब्धः अनवखण्डित आयुर्मनुष्यो यजमानो यस्य स तथोक्तः । तस्य संबोधनम् अदब्धायो। यद्वा अग्निरेव अनवखण्डितायुः । अस्मिन्पक्षे छान्दसी पुंलिङ्गता । अशीतम 'अश भोजने । 'अशू व्याप्तौ'। एतौ धातू संदिह्यते। अशीतम अतिशयेन भोक्तः । अतिशयेन व्यापक । अशीतमेति दीर्घत्वं छान्दसम् । एवं स्तुत्वा याचते । पाहि मा दिद्योः । दिद्युदिति वज्रनाम । गोपाय मां दिद्युतः। पाहि प्रसित्यै । 'प्रसितिः प्रसयनात्तन्तुर्वा जालं वा' । पाहि मां बन्धनात् । पाहि दुरिष्ट्यै दुर्यागात् पाहि । पाहि दुरद्मन्यै। अद्मेत्यन्ननाम । पाहि दुर्भोजनात् । 'भीत्रार्थानां भयहेतुः' इति सर्वाश्चतुर्थ्यः पञ्चम्यर्थे । अविषं नः पितुं कृणु । पितुरित्यन्ननाम । विषरहितमन्नमस्माकं कुरु । सुषदा योनौ । योनिरिति गृहनाम । साधु सदने गृहे स्थितानामस्माकमेतद्भवतु । स्वाहावाडिति व्याख्यातम् । दक्षिणाग्नौ जुहोति । अग्नये संवेशपतये । स्त्रीपुंसयोरभिलाषपूर्वकमेकत्र शयनं संवेशः । तस्य पतिः संवेशपतिः तस्मै । सरस्वत्यै यशोभगिन्यै । जीवतः प्रशंसा यशः । भगिनीति संबन्धिशब्दः स्वसेत्युच्यते ॥२०॥
म० 'स्रुक्स्रुवं प्रगृह्णात्यग्नेऽदब्धायो' (का० ३।७।१७) इति । दभ्नोतिर्हिंसाकर्मा (निघं० २। १९ । १)। आयुरिति मनुष्यनाम ( निघं० २ । ३ । १७) । अदब्धोऽनुपहिंसित आयुर्मनुष्यो यजमानो यस्य सोऽदब्धायुः । 'अश भोजने' । अश्नाति भुङ्क्ते इत्यशी । यद्वा 'अशू व्याप्तौ' अश्नुते व्याप्नोतीत्यशी । अतिशयेनाशी अशीतमः । दीर्घश्छान्दसः । हे अदब्धायो अहिंसित यजमान, हे अशीतम भोक्तृतम, यद्वा व्यापकतम, हे अग्ने गार्हपत्य, मा मां दिद्योः वज्रात्पाहि । शत्रुप्रयुक्ताद्वज्रसमादायुधान्मां पाहि । दिद्युरिति वज्रनाम ( निघं० २।२०।१) प्रसित्यै प्रसितेर्बन्धनहेतुभूताज्जालान्मां पाहि । 'प्रसितिः प्रसयनात्तन्तुर्वा जालं वा' (निरु० ६ । १२) इति यास्कः । दुष्टा इष्टिर्दुरिष्टिः अशास्त्रीयो यागस्तस्मान्मां पाहि । | दुरद्मनी । अदनमद्मनी दुष्टा अद्मनी दुरद्मनी दुर्भोजनं ततो मां पाहि । चतुर्थ्यः पञ्चम्यर्थे । 'भीत्रार्थानाम्-' (पा० १। | ४।२५) इति पञ्चमी । किंच नोऽस्माकं पितुमन्नमविषं कृणु हविर्विषरहितं कुरु । योनिरिति गृहनाम (निघं० ३ । | ४) । सुष्ठु सद्यते स्थीयते यस्यां सा सुषदा तस्यां सुषदा। विभक्तेराकारः । सम्यगवस्थानयोग्ये गृहे मां स्थापयेति शेषः । यद्वा गृहे स्थितानां नोऽस्माकं पितुमविषं कुरु । स्वाहा वाडिति पदे व्याख्याते । 'दक्षिणाग्नौ जुहोत्यग्नय इति सरस्वत्या इति च' (का० ४।७।१८) इति । स्त्रीपुंसयोरभिलाषपूर्वकमेकत्र शयनं संवेशः । तस्य पतिर्योऽग्निस्तस्मै स्वाहा हविर्दत्तम् । जीवतः पुरुषस्य प्रशंसा यशः तस्य यशसो भगिनी वाग्रूपा सरस्वती तस्यै हविर्दत्तम् ॥ २० ॥

एकविंशी।
वे॒दो॒ऽसि॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑व॒स्तेन॒ मह्यं॑ वे॒दो भू॑याः ।
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त ।
मन॑सस्पत इ॒मं दे॑व य॒ज्ञᳪं᳭ स्वाहा॒ वाते॑ धाः ।। २१ ।।
उ० पत्नी वेदं प्रमुञ्चति । वेदोऽसीति । 'विद ज्ञाने'। वेदिता त्वमसि । यो ह्युपग्रहः स संनिकर्षाद्यज्ञं जानाति । यतस्त्वं वेदोऽसि अतस्त्वां ब्रवीमि । येन कारणेन त्वं वेद देवेभ्यो । देवानामिति विभक्तिव्यत्ययः । वेदः अभवः भूतः तेनैव कारणेन मह्यं मम वेदो भूयाः भवेः । समिष्टयजुर्जुहोति । देवा गातुविद इति । विराडियं त्रिंशदक्षरा । अस्याः पूर्वेणार्धेन देवतां व्यवसृजति । हे देवाः गातुविदः । गातुरिति यज्ञनाम । यज्ञविदः । युष्मत्प्रसादात्तथा भवतु । यथा आगामिनं गातुं यज्ञं वित्त्वा विदित्वा । गातुमित । ततोर्वाक्कालं यज्ञमित आगच्छत । यज्ञपरम्परानुच्छिन्नागमना यूयं भवतेत्यर्थः । एवं देवान् यथायथं विसृज्य अथेदानीं मनसस्पतिमाह । हे मनसस्पते मनसोऽधिपतिश्चन्द्रमाः । हे चन्द्रमः। इमं यज्ञं देव । वाते धाः धारय । वाते हि यज्ञोऽवतिष्ठते । तथाच श्रुतिः । 'वायुरेवाग्निस्तस्माद्यदैवाध्वर्युरुत्तमं कर्म करोत्यथैतमेवाप्येति' इति ॥ २१ ॥
म० 'पत्नी वेदं प्रमुञ्चति वेदोऽसि' (क० ३।८।१) इति । हे कुशमुष्टिनिर्मित पदार्थ, त्वं वेदोऽसि । ऋगाद्यात्मकोऽसि यद्वा वेत्तीति वेदः ज्ञातासि । हे देव द्योतनात्मक वेद, हे वेद, येन कारणेन त्वं देवेभ्यः । षष्ठ्यर्थे चतुर्थी । देवानां वेदोऽभवः ज्ञापकोऽभूः तेन कारणेन मह्यं मम वेदो भूयाः ज्ञापको भव ॥ 'समिष्टयजुर्जुहोति देवा गातुविद इति' (का० ३ । ८ । ४) इति । इयं विराट्छन्दस्का वातदेवत्या मनसस्पतिदृष्टा ऋक् । अस्याः पूर्वार्धेन देवता विसृजति । 'गै शब्दे' । गीयते नानाविधैर्वैदिकशब्दैः प्रतिपाद्यते इति गातुर्यज्ञः तं विदन्ति जानन्तीति गातुविदः । हे गातुविदः यज्ञवेत्तारो देवाः, गातुं वित्त्वा विदित्त्वा । 'विद ज्ञाने' । अस्मदीयो यज्ञः प्रवृत्त इति ज्ञात्वा । गातुमित यज्ञं प्रत्यागच्छत । यद्वा गातुर्गन्तव्यो मार्गः तं गच्छत । अस्मदीययज्ञेन तुष्टाः सन्तः स्वमार्गं गच्छत । एवं देवान्विसृज्य चन्द्रं प्रत्याह । हे मनसस्पते, मनोऽधिपश्चन्द्रः । यद्वा देवान् यष्टुं मनसः प्रवर्तकः परमेश्वरः तं प्रत्युच्यते । हे मनसस्पते परमेश्वर, हे देव, इममनुष्ठितं यज्ञं स्वाहा त्वद्धस्ते ददामि । त्वं च तं यज्ञं वाते वायुरूपे देवे धाः स्थापय । वाते हि यज्ञोऽवतिष्ठते । तदुक्तं श्रुत्या 'वायुरेवाग्निस्तस्माद्यदैवाध्वर्युरुत्तमं कर्म करोत्यथैतमेवाप्येति' इति ॥ २१॥

द्वाविंशी।
संब॒र्हिर॑ङ्क्ताᳪं᳭ ह॒विषा॑ घृ॒तेन॒ समा॑दि॒त्यैर्वसु॑भि॒: सम्म॒रुद्भि॑: ।
समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑ ।। २२ ।।
उ० बर्हिर्जुहोति । संबर्हिरङ्क्ताम् । बर्हिर्देवत्या विराड्रूपा त्रिष्टुप् । संबर्हिरङ्क्ताम् । 'अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु' । बर्हिरिति द्वितीया । समङ्क्तां बर्हिः । क इन्द्र इत्युपरिष्टात् श्रूयते स इहाभिसंबध्यते । इन्द्रः समङ्क्तां बर्हिः । केन । हविषा घृतेन । कैः सहितः समङ्क्तात् । आदित्यैर्वसुभिर्मरुद्भिः विश्वैर्देवैः सहित इन्द्रो बर्हिः समङ्क्ताम् । तच्चाक्तं सत् दिव्यं नभो गच्छतु । यद्दिव्यं दिवि भवं नभः । नभ इत्यादित्यनाम । आदित्यलक्षणं ज्योतिस्तद्गच्छतु ॥ २२ ॥
म० 'बर्हिः संबर्हिरिति' (का० ३ । ८ । ५ ) इति बर्हिर्जुहोति । इयमृक् त्रिष्टुप् विराड्रूपा बर्हिर्देवत्या । इन्द्रो हविषा | हविःसंस्कारयुक्तेन घृतेन बर्हिः दर्भं समङ्क्ताम् सम्यगञ्जनोपेतं करोतु । स चन्द्रः केवलो न किंतु आदित्यैर्वसुभिर्मरुद्भिः विश्वदेवेभिर्विश्वनामकैश्च गणदेवैः सहितः समङ्क्ताम् । समित्यस्योपसर्गस्यावृत्त्या अङ्क्तामित्यस्य क्रियापदस्याप्यावृत्तिर्बोद्धव्या । वस्वादिसहितेनेन्द्रण समङ्क्तां तद् बर्हिर्यद्दिव्यं नभो आदित्यलक्षणं ज्योतिः तद्गच्छतु आदित्यं प्राप्नोतु । स्वाहा इदं बर्हिर्देवोद्देशेन दत्तम् । नभः इत्यादित्यनामसु (निघ० १।४) पठितम् । दिवि भवं दिव्यम् ॥ २२ ॥

त्रयोविंशी।
कस्त्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै॑ त्वा॒ विमु॑ञ्चति ।
पोषा॑य॒ रक्ष॑सां भा॒गो॒ऽसि ।। २३ ।।
उ० वेद्यां प्रणीतां निनयति । कस्त्वा विमुञ्चति । व्याख्यातम् । अयं तु विशेषः । तत्र यज्ञं युनक्ति इह तु विमुञ्चति । पोषाय यजमानस्य पोषाय निनयामीति शेषः । कणानपास्यति । 'रक्षसां भागोऽसि' इति निगदव्याख्यातम् ॥ २३ ॥
म० 'वेद्यां प्रणीतां निनयति परीत्य कस्त्वेति' (का. ३ । ८ । ६) इति । व्याख्यातो मन्त्रः प्रजापतिदैवतः । | तत्र यज्ञयोगे नियुक्तः । अत्र तु यज्ञविमोके । पोषाय यजमानं पुत्रादिभिः पोषयितुं त्वां निनयामीति शेषः । यज्ञं प्रयुज्याविमोके यजमानस्याप्रतिष्ठापत्तेर्विमोकः कार्यः । 'यो वै यज्ञं प्रयुज्य न विमुञ्चत्यप्रतिष्ठानो वै स भवति' (का० ३ । ८। ७) इति श्रुत्यन्तरवचनात् । पुरोडाशकपालेन कणानपास्यत्यधः कृष्णाजिनᳪं᳭ रक्षसामितीति । हे कणसमूह, त्वं रक्षसां भागोऽसि तेषां नीचजातित्वान्निकृष्टकणरूपो भागो युक्तः ॥ २३ ॥

चतुर्विंशी।
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪं᳭ शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् ।। २४ ।।
उ० इत उत्तरं यजमानं पूर्णपात्रं प्रतिगृह्णाति । संवर्चसेति त्वाष्ट्री त्रिष्टुप् । समित्युपसर्गः अगन्महीत्याख्यातेन संबध्यते । समगन्महि । ब्रह्मवर्चसा ब्रह्मवर्चसेन । पयसा गोभिः तनूभिः भार्यापुत्रादिभिः । मनसा च शिवेन शान्तेन । यज्ञमुपगच्छतः पुरुषस्य सर्वमेवैतदपैति वर्चआदि अतोऽनेन पुनराप्याययति । किंच त्वष्टा सुदत्रः कल्याणदानः। रायो धनानि विदधातु । किंच अनुमार्ष्टु शोधयतु । तन्वः शरीरस्य यद्विलिष्टं विश्लिष्टम् ॥ २४ ॥
म० त्वष्टृदेवत्या त्रिष्टुप् । इतः परं याजमानम् । 'पूर्णपात्रं निनयति परीत्य सन्नतं यजमानोऽञ्जलिना प्रतिगृह्णाति सं वर्चसेति सुखं विमृष्टः' ( का० ३ । ८।८-१०) इति । समित्युपसर्गोऽगन्महीत्यनेन संबद्धः प्रत्येकम् । वर्चसा ब्रह्मवर्चसेन वयं समगन्महि सङ्गता भवामः । पयसा क्षीरादिरसेन समगन्महि । तनूभिरनुष्ठानक्षमैः शरीरावयवैः । यद्वा तनूभिर्भार्यापुत्रादिभिः समगन्महि । शिवेन शान्तेन कर्मश्रद्धायुक्तेन मनसा समगन्महि । यज्ञमुपगच्छतो नरस्य वर्चसाद्यपैति तदनेन पुनराप्याययति । किंच सुदत्रः शोभनदानः त्वष्टा रायो धनानि विदधातु करोतु । तन्वः शरीरस्य मदीयस्य यत् विलिष्टं विशेषेण न्यूनमङ्गं तदनुमार्ष्टु न्यूनत्वपरिहारेणानुकूलं कृत्वा शोधयतु । धनस्य शरीरस्य पुष्टिं करोत्वित्यर्थः । सुष्ठु ददातीति सुदत्रः सुपूर्वाद्ददातेः ष्ट्रन् । 'सर्वधातुभ्यः' (उ० ४ । १६० ) इति ष्ट्रन् । बाहुलकत्वाद्ध्रस्वः ॥ २४ ॥

पञ्चविंशी।
दि॒वि विष्णु॒र्व्य॒क्रᳪं᳭स्त॒ जाग॑तेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽन्तरि॑क्षे॒ विष्णु॒र्व्य॒क्रᳪं᳭स्त॒ त्रैष्टु॑भेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः पृ॑थि॒व्यां विष्णु॒र्व्य॒क्रᳪं᳭स्त गाय॒त्रेण॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽस्मादन्ना॑द॒स्यै प्र॑ति॒ष्ठाया॒ अग॑न्म॒ स्वः सं ज्योति॑षाभूम ।। २५ ।।
उ०. विष्णुक्रमान्क्रमते । दिवि विष्णुः द्युलोके विष्णुर्यज्ञो मदीयः व्यक्रंस्त विक्रान्तवान् । जागतेन छन्दसा ततो निर्भक्तः । ततो द्युलोकात् निर्भक्तो निर्गतभागः कृतः । योऽस्मान्द्वेष्टि हिनस्ति । यं च वयं द्विष्मः हिंस्मः । अनेनोत्तरावपि मन्त्रौ व्याख्यातौ । भागमवेक्षते । अस्मादन्नात् अस्मात् यज्ञभागात् । निर्भक्त इत्यनुषङ्गः । भूमिमवेक्षते । अस्यै प्रतिष्ठायै । अस्या भूमेः प्रतिष्ठायाः निर्भक्त इत्यनुषङ्गः। प्राङीक्षते । अगन्म स्वः । अनेन कर्मणा अगन्म गताः । कम् । स्वर्गं यज्ञं सूर्यं देवान् । स्वरव्ययमनेकार्थम् । आहवनीयमीक्षते । संज्योतिषाभूम । समित्येकीभावमाचष्टे । आहवनीयलक्षणेन ज्योतिषा एकीभूताः ॥ २५ ॥
म० 'विष्णुक्रमान्क्रमते दिवि विष्णुरिति प्रतिमन्त्रम्' (का० ३ । ८ । ११) इति । विष्णुपादबुद्ध्या स्वपादस्य भूमौ प्रक्षेपा विष्णुक्रमाः। विष्णुर्यज्ञपुरुषः जागतेन छन्दसा जगतीच्छन्दोरूपेण स्वकीयपादेन दिवि द्युलोके व्यक्रंस्त विशेषेण क्रमणं कृतवान् । तथा सति ततो द्युलोकात् निर्भक्तो भागरहितः कृत्वा निःसारितः । कः । योऽस्मान्द्वेष्टि यं च वयं द्विष्मः । योऽस्मान् दृष्ट्वा न प्रीयते यं च दृष्ट्वा वयं न प्रीयामहे स द्विविधोऽपि शत्रुर्दिवो निःसारितः । एवमुत्तरावपि विष्णुक्रममन्त्रौ व्याख्येयौ । 'अस्मादन्नादिति भागमवेक्षते' (का. ३ । ८ । १३) इति । योऽयं भागोऽवेक्ष्यते अस्मादनाद्यजमानभागान्निर्भक्त इति वाक्यशेषोऽनुवर्तनीयः। 'अस्यै प्रतिष्ठाया इति भूमिं' (का० ३।८।१४) इति । अवेक्षत इति चतुर्षु मन्त्रविनियोगेष्वनुवर्तते । अस्यै अस्याः पुरतो दृश्यमानायाः प्रतिष्ठाहेतोर्यज्ञियभूमेः निर्भक्त इत्यादि पूर्ववत् । 'अगन्म स्वरिति प्राक्' ( का० ३।८।१५) इति पूर्वस्यां दिशि स्थितं स्वः स्वर्गं सूर्यं वा वयमगन्म प्राप्ताः । यज्ञानुष्ठानेन । । 'संज्योतिषेत्याहवनीयम्' (का० ३ । ८ । १६) इति । ज्योतिषाहवनीयलक्षणेन वयं समभूम सङ्गता अभूम ॥ २५ ॥

षड्विंशी।
स्व॒यं॒भूर॑सि॒ श्रेष्ठो॑ र॒श्मिर्व॑र्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ।। २६ ।।
उ० सूर्यमुदीक्षते । स्वयंभूरसि । अकृतकस्त्वं भवसि । श्रेष्ठः प्रशस्ततमः रश्मिः । सप्त रश्मय आदित्यस्य । तत्र चतसृषु दिक्षु चत्वारो रश्मयः। एकोधस्तादेक उपरिष्टात् । मण्डलशरीराहंमानी हिरण्यगर्भाख्यः पुरुषः सप्तमः श्रेष्ठो रश्मिरिति। तथाच श्रुतिः 'अथ यत्परं भाः प्रजापतिर्वा स स्वर्गो वा लोकः' इति । यस्त्वं स्वयंभूरसि श्रेष्ठश्च रश्मिस्तं त्वां ब्रवीमि । वर्चोदा असि । ब्रह्मवर्चसस्य स्वरसेनैव स्वभावेनैव दातासि, अतो वर्चो मे मह्यं देहि । आवर्तते सूर्यस्यावृतम् । आवर्तनमावृत् । सूर्यस्यावर्तनमनु अहम् आवर्ते । तदेतां गतिमेतां प्रतिष्ठां गत्वैतस्यैवावृतमन्वावर्ते' इति श्रुतिः ॥ २६ ॥
म०. 'स्वयंभूरिति सूर्यम्' (का० ३ । ८ । १७) इति । हे सूर्य, त्वं स्वयंभूरकृतकः स्वयंसिद्धोऽसि । श्रेष्ठः प्रशस्यतमो रश्मिः मण्डलशरीराभिमानी हिरण्यगर्भाख्योऽसि । सूर्यस्य सप्त रश्मयः सन्ति । चतुर्दिक्षु चत्वारः । एक उपर्येकोऽधस्तात्सप्तमो मण्डलाभिमानी हिरण्यगर्भः पुरुषः स श्रेष्ठः स त्वमसि । यतस्त्वं वर्चीदा असि तेजसो दातासि अतो मे वर्चः ब्रह्मवर्चसं देहि ॥ 'सूर्यस्येत्यावर्तते प्रदक्षिणम्' (का० ३ । ८ । १९) इति । आवर्तनमावृत् । सूर्यस्य संबन्धि नीमावृतमावर्तनमनुसृत्याहमपि आवर्ते प्रादक्षिण्येनावर्तनं करोमि ॥ २६ ॥

सप्तविंशी।
अग्ने॑ गृहपते सुगृहप॒तिस्त्वया॑ग्ने॒ऽहं गृ॒हप॑तिना भूयासᳪं᳭ सुगृहप॒तिस्त्वं मया॑ऽग्ने गृ॒हप॑तिना भूयाः ।
अ॒स्थू॒रि णौ॒ गार्ह॑पत्यानि सन्तु श॒तᳪं᳭ हिमा॒: सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ।। २७ ।।
उ० गार्हपत्यमुपतिष्ठते । अग्ने गृहपते हे भगवन्नग्ने, गृहपते सुगृहपतिः शोभनो गृहपतिः । अहं त्वया गृहपतिना गृहाणां पालयित्रा भूयासं भवेयम् । किंच सुगृहपतिस्त्वं मया अग्ने, सहायेन गृहपतिना भूयाः भवेः । एवमनेन प्रकारेण । अस्थूरिणौ गार्हपत्यानि सन्तु । अन्यतरतो युक्तं शकटं स्थूरीत्युच्यते । तत्वतः प्रतिषिध्यते अस्थूरीति । लुप्तोपमं चैतत् । यथा उभयतोयुक्तं शकटम् । एवं नौ आवयोः गार्हपत्यानि गृहपतिसंयुक्तानि कर्माणि सन्तु । शतं हिमाः शतं वर्षाणि । अथावर्तते । सूर्यस्यावृतमन्वावर्ते इति व्याख्यातम् ॥ २७ ॥
म०. 'गार्हपत्यमुपतिष्ठतेऽग्ने गृहपते' (का० ३ । ८ । २१) इति । हे गृहपते अस्मदीयगृहस्य पालक हे अग्ने, त्वया गृहपतिना गृहपालकेन कृत्वा । त्वत्प्रसादेनेत्यर्थः । अहं सुगृहपतिः शोभनो गृहपतिः भूयासं भवेयम् । तथा हे अग्ने, त्वमपि मया गृहपतिना मदीयसेवयेत्यर्थः । सुगृहपतिः शोभनो गृहपालको भूयाः भव । अग्नेपदस्यावृत्तिरादरार्था । एवं सति नौ आवयोर्गार्हपत्यानि गृहपतिभ्यां स्त्रीपुरुषाभ्यां निष्पाद्यानि कर्माणि शतं हिमाः वर्षाणि शतवर्षपर्यन्तमस्थूरीव सन्तु । निरन्तरमवहितानि प्रवर्तन्ताम् । एकपार्श्वे बलीवर्दयुक्तं शकटं स्थूरि न स्थूरि अस्थूरि । लुप्तोपमानम् । बलीवर्दयुक्तं शकटं यथा निरन्तरम् अव्यवहितं प्रसरति तथास्माकं गार्हपत्यानि सन्तु । 'गृहपतिना संयुक्ते ञ्यः' (पा० ४ । ४ । ९० ) इति ञ्यप्रत्ययः ‘सूर्यस्येत्यावर्तते प्रदक्षिणम्' (का० ३ । ८ । २३) इति व्याख्यातम् ॥ २७॥

अष्टाविंशी।
अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधी॒दम॒हं यऽए॒वाऽस्मि सो॒ऽस्मि ॥ २८ ॥
उ० व्रतं विसृजते । अग्ने व्रतपते हे अग्ने व्रतपते, व्रतमहम् अचारिषं चरितवानस्मि । तदशकं शक्तवानस्मि । तन्मे मम आराधि राद्ध्वं फलम् अभिसमृध्वमित्यर्थः । द्वितीयो व्रतविसर्गमन्त्रः । इदमहम् हे अग्ने, त्वत्साक्षिकं व्रतं गृहीत्वा इदं कर्म समाप्य य एव कर्मणः पुरा अहमस्मि मनुष्यः स एवास्मि ॥ २८ ॥
म० 'व्रतं विसृजते येनोपेयात्' (का. ३ । ८ । २९ ) इति । व्रतग्रहणे मन्त्रद्वयमुक्तं तयोर्मध्ये येन व्रतादानं कृतं प्रथमेन द्वितीयेन वा । अत्रापि तदनुसारेण व्रतं विसृजेत् । हे अग्ने हे व्रतपते कर्मपालक, व्रतमचारिषं कर्मानुष्ठितवानस्मि तदशकं शकितवान् । त्वत्प्रसादात्तत्कर्मशक्तोऽभवम् । त्वया च तन्मे मदीयं कर्म अराधि साधितम् । द्वितीयो मन्त्रः । हे अग्ने, इदं कर्म समाप्य योऽहं कर्मणः पुरा अस्मि स एव मनुष्योऽस्मि ॥ २८ ॥
इति दर्शपूर्णमासेष्टिमन्त्राः समाप्ताः ॥

एकोनत्रिंशी।
अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑ । अप॑हता॒ असु॑रा॒ रक्षाँ॑ᳪं᳭सि वेदि॒षद॑: ।। २९ ।।
उ० अतः परं पिण्डपितृयज्ञिया मन्त्राः। प्रजापतेरार्षम् । अग्नौ जुहोति । अग्नये कव्यवाहनायस्वाहा । कवयः क्रान्तदर्शनाः पितरस्तेषां संबन्धि हविः कव्यम् । तद्वोढव्यं यस्यायमधिकारः स कव्यवाहनः । सोमायपितृमतेस्वाहा । पितृमान् पितृसंयुक्तः । वषट्कारेण वा स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयत इति लिङ्गाद्दैवावेतौ मन्त्रौ । उल्लिखति । अपहताः। | अपहताः अस्मात् स्थानात् असुराः रक्षांसि च वेदिषदः वेद्यां सीदन्तीति वेदिषदः ॥ २९ ॥
अतः परं पिण्डपितृयज्ञमन्त्रास्तेषां प्रजापतिर्ऋषिः ॥
म० 'सारतण्डुलमपूर्णᳪं᳭ श्रपयित्वाभिघार्योद्वास्य मेक्षणेन | जुहोत्यग्नय इति सोमायेति च' (का० ४ । १ । ७ )। कवयः | क्रान्तदर्शिनः पितरस्तेषां संबन्धि कव्यं हविः । तद्वोढुमधिकारो यस्यास्ति स कव्यवाहनः । तस्मै अग्नये स्वाहा हविर्दत्तम् । पितृमान् पितृसंयुक्तः तस्मै सोमनामकाय देवाय स्वाहा हविर्दत्तम् । स्वाहाकारेण वषट्कारेण वा देवेभ्योऽन्नदानश्रुतेर्दैवाविमौ मन्त्रौ । 'दक्षिणेनोल्लिखत्यपहता इति' ( का० ४ । १। ८) इति वेद्यां सीदन्ति वेदिषदः तादृशा असुराः अपहता वेदिसकाशादपगताः । तथा रक्षांसि वेद्या अपहतानि । | असुरत्वं रक्षस्त्वं चेति जातिविशेषौ देवविरोधिनौ ॥ २९ ॥

त्रिंशी।
ये रू॒पाणि॑ प्रतिमु॒ञ्चमा॑ना॒ असु॑राः॒ सन्त॑: स्व॒धया॒ चर॑न्ति ।
प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टाँल्लो॒कात्प्रणु॑दात्य॒स्मात् ।। ३० ।।
उ० उल्मुकं परस्तात्करोति । ये रूपाणीति त्रिष्टुबाग्नेयी। | ये रूपाणि प्रतिमुञ्चमानाः । ये पितृरूपाणि आत्मनि प्रतिमुञ्चमानाः । प्रतिपूर्वो मुञ्चतिर्बन्धने वर्तते। आत्मनि बध्नन्तः असुराः सन्तो भवन्तः स्वधया पित्र्येणान्नेन हेतुभूतेन अस्माभिरेतत्स्वादितव्यमिति चरन्ति संचरन्ति । किंच परापुरः पराक्रान्ताः पुरः परापुरः शरीराणि महान्तीति । निपुरः निकृष्टाः पुरो निपुरः सूक्ष्माणि शरीराणि ये भरन्ति बिभ्रति धारयन्ति अग्निस्तानसुरान् लोकात् स्थानात् प्रणुदाति प्रणुदतु प्रेरयतु । अस्मात्पितृलोकात् ॥ ३०॥
म० 'उल्मुकं परस्तात्करोति ये रूपाणीति' ( का० ४ ।। १।९) इयं त्रिष्टुप् कव्यवाहनाग्निदेवत्या । स्वधया पैतृकान्नेन निमित्तेन पितॄणामन्नमस्माभिर्भक्षणीयमिति हेतोः स्वीयरूपाणि प्रतिमुञ्चमानाः पितृसमानरूपाणि स्वीकुर्वन्तः सन्तो ये असुरा देवविरोधिनश्चरन्ति पितृयज्ञस्थाने प्रसरन्ति । तथा ये असुराः परापुरः निपुरश्च भरन्ति । पराक्रान्ताः पुरः परापुरः स्थूलदेहान् । निकृष्टाः पुरः निपुरः सूक्ष्मदेहान् ये धारयन्ति । स्वमसुरत्वं प्रच्छादयितुं ये स्थूलसूक्ष्मशरीराणि बिभ्रति । अग्निरुल्मुकरूपः अस्माल्लोकात् पितृयज्ञस्थानात्तानसुरान् प्रणुदाति प्रणुदतु प्रेरयतु । प्रकर्षेणापसारयत्वित्यर्थः ॥ ३० ॥

एकत्रिंशी।
अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम् । अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ।। ३१।।
उ० उदङास्ते अत्र पितरः । बृहती। अत्र अस्मिन्बर्हिषि हे पितरः, मादयध्वं मोदध्वम् । किंच यथाभागं यो यस्य भागः तं यथाभागम् । आवृषायध्वम् । आङ्पूर्वाद्वृषशब्दात् 'कर्तुः क्यङ् सलोपश्च' इति क्यङ् । वृष इव स्वेच्छया महद्भिर्ग्रासैरेतान्पिण्डानश्नीत । आवृत्यामीमदन्तेति जपति । अमीमदन्त हर्षं प्राप्तवन्तः पितरो यथाविभागं च आवृषायिषत अशितवन्तः । 'यथाभागमाशिषुरित्येवैतदाह' इति श्रुतिः ॥ ३१ ॥
म० 'अत्र पितर इत्युक्त्वोदङ्ङास्त आ तमनादावृत्यामीमदन्तेति जपतीति' ( का० ४ । १।१३-१४ )। आ तमनात् श्वासनिरोधेन ग्लानिपर्यन्तमुदङ्मुख आस्त इति सूत्रार्थः । हे पितरः, यूयमत्रास्मिन् बर्हिषि मादयध्वं हृष्टा भवत । ततो हविषि यथाभागं स्वं स्वं भागमनतिक्रम्य आवृषायध्वं समन्ताद्वृषवदाचरत । यथा वृषः स्वाभीष्टं घासं प्राप्य तृप्तिपर्यन्तं स्वीकरोति तद्वत्स्वीकुरुत । आङ्पूर्वाद्वृषशब्दात् 'कर्तुः क्यङ् सलोपश्च' (पा० ३।१।११) इति क्यङ् ततो लोट् । पितरः अमीमदन्त । यान् पितॄन् प्रति मादयध्वमित्युक्तं ते पितरोऽमीमदन्त हृष्टाः यथाभागमावृषायिषत स्वं भागमनतिक्रम्य वृषवत् स्वीचक्रुः । लुङि रूपम् । 'यथाभागमाशिषुरित्येवैतदाह' ( २ । ४ । २ । २२) इति श्रुतिः। स्वं भागं जक्षुरित्यर्थः ॥ ३१॥

द्वात्रिंशी।
नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितर॒: शोषा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः स्व॒धायै॒ नमो॑ वः पितरो घो॒राय॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितर॒: पित॑रो॒ नमो॑ वो गृ॒हान्न॑: पितरो दत्त स॒तो व॑: पितरो देष्मै॒तद्व॑: पितरो॒ वास॒ आध॑त्त ।। ३२।।
उ० नमो व इत्यञ्जलिं करोति । षट्कृत्वा नमस्करोति । 'षड्वा ऋतवः पितरः' इति श्रुतिः । व्याख्यातम् । 'नमो वः पितरो रसाय' हे पितरः, वः युष्माकं संबन्धिने रसाय रसभूताय वसन्ताय नमः । वसन्ते हि मध्वादयो रसाः संभवन्तीत्यत एवं नमस्क्रियते । एवं वक्ष्यमाणा अपि मन्त्रा व्याख्येयाः । शोषाय शोषप्रभावाय ग्रीष्माय नमः । शुष्यन्ति हि ग्रीष्मे ओषधयः । जीवाय जीवनहेतुभूताय वर्षाभ्यो नमः । स्वधायै स्वाहा वै शरत् स्वधा वै पितॄणामन्नम्' इति श्रुतिः । शरदि हि प्रायशोऽन्नानि भवन्ति । घोराय विषमाय । विषमो हि हेमन्तः प्राणिनां शीतप्रचुरत्वात् । मन्यवे । मन्युः क्रोधः । क्रोध इव हि शिशिर ओषधीर्दहति । नमो वः पितरः पितरो नमो वः । अभ्यासे भूयांसमर्थं मन्यन्ते । गृहान्नः पितरो दत्त । भार्यापुत्रपौत्रादयो गृहा उच्यन्ते । गृहान्नः अस्मभ्यं हे पितरः, दत्त । किंच तथा युष्मत्प्रमोदादस्माकं भवतु । यथा नः गृहे सतो विद्यमानान् द्रव्यान् वो युष्मभ्यं दद्मः । सूत्राणि ददाति । हे पितरः, एतद्वा युष्माकं वासः परिधानम् ॥ ३२ ॥
म० 'नमो व इत्यञ्जलिं करोतीति' ( का० ४।१।१५)। षट्कृत्वो नमस्करोति । 'षड्वा ऋतवः पितरः' इति श्रुतेः । रसादिशब्देन वसन्तादिषडृतव उच्यन्ते । ते च पितॄणां स्वरूपभूताः अतस्तेभ्यो नमस्करोति । हे पितरः, वो युष्माकं संबन्धिने रसाय रसभूताय वसन्ताय नमः । यतो मध्वादयो रसा वृक्षेषु जायन्तेऽतो रसशब्देन वसन्तः । युष्मद्रूपाय वसन्ताय नम इत्यर्थः । एवमग्रेतना मन्त्रा व्याख्येयाः । शोषाय । शुष्यन्त्योषधयो यत्रेति शोषो ग्रीष्मः । जीवाय जीवनहेतुभूताय जलाय वर्षर्तवे । स्वधायै शरदे । 'स्वधा वै शरत् स्वधा वै पितृणामन्नं' इति श्रुतेः । शरदि हि प्रायशोऽन्नानि भवन्ति । घोराय विषमाय हेमन्ताय । हेमन्तः शीतप्रचुरत्वेन दुःखदत्वात् घोरः । मन्यवे मन्युः क्रोधस्तद्रूपाय शिशिराय । शिशिरस्तु सर्वोषधीर्दहति । हे पितरः, एवंविधऋतुरूपेभ्यो वो युष्मभ्यं नमः। हे पितरः, वो नम इत्यभ्यास आदरातिशयार्थः । हे पितरः, नोऽस्मभ्यं गृहान् दत्त । भार्यापुत्रपौत्रादयो गृहाः। हे पितरः, वो युष्मभ्यं सतः विद्यमानात् देष्म ददामः । सतो धनादि युष्मभ्यमस्माभिर्दातव्यम् । ददतामस्माकं कदाचिद्द्रव्यक्षयो मास्त्वित्यर्थः ॥ 'एतद्व इत्युपास्यति सूत्राणि प्रतिपिण्डमूर्णा दशा वा वयस्युत्तरे यजमानलोमानि वेति' (का० ४ । ७ । १६-१८)। हे पितरः, वो युष्मभ्यमेतद्वासःसूत्रमेव परिधानमस्तु ॥ ३२ ॥

त्रयस्त्रिंशी।
आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम् । यथे॒ह पुरु॒षोऽस॑त् ।। ३३।।
उ० मध्यमंपिण्डं प्राश्नाति पुत्रकामा।आधत्त। गायत्री। पितरः, आधत्त गर्भम् । कुमारं पुष्करस्रजम् । स्रक्शब्देन मुण्डमालोच्यते। पुष्करशब्देन पद्मानि।अश्विनौ पुष्करस्रजौ अश्विभ्यां पुत्रोपमानं क्रियते । किंच यथा येन प्रकारेण इह अस्मिन्नेव ऋतौ पुरुषः पूरयिता देवपितृमनुष्याणाम् । असत् भूयात् तथा आधत्तेति संबन्धः ॥ ३३ ॥
म० 'आधत्तेति मध्यमं पिण्डं पत्नी प्राश्नाति पुत्रकामेति' (का० ४ । १।२२)। गायत्री पितृदेवत्या । हे पितरः, यथा इहास्मिन्नेव ऋतौ पुरुषः असत् पुरुषः देवपितृमनुष्याणामपेक्षितार्थस्य पूरयिता भूयात् । तथा कुमारं गर्भं पुत्ररूपं गर्भं यूयमाधत्त संपादयत । किंभूतं कुमारम् । येन प्रकारेणेह पुष्करस्रजं पुष्कराणां पद्यानां स्रक् माला ययोस्तौ पुष्करस्रजौ । अश्विनौ अश्विनीकुमारौ । पुष्करस्रजौ पद्ममालिनौ देवानां भिषजौ तत्तुल्यः कुमारः पुष्करस्रक् तम् । अश्विसाम्यकथनेन रोगहीनं सुन्दरं च पुत्रमाधत्तेति सूचितम् ॥ ३३ ॥

चतुस्त्रिंशी।
ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृ॒तं पय॑: की॒लालं॑ परि॒स्रुत॑म् । स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ।। ३४।।
उ० अपो निनयति । ऊर्जं वहन्ती अब्दैवत्या विराट् । हे आपः, यूयम् उर्जमन्नं वहत्यौ नानाविधं अमृतं घृतं पयः कीलालम् अन्नरसम् । कीले अलं पर्याप्तः समर्थोऽन्नमिष्टं कर्तुं रस इति कीलालः । कीलं बन्धनम् । अलमत्यन्तमन्नस्येति वा कीलालम् । 'तस्माद्यावन्मात्र इवान्नस्य रसः सर्वमन्नमवति' इत्यादि श्रुतिः। परिस्रुतं सुराम् । स्वधास्थ । 'स्वधा वै पितॄणामन्नम्' इति श्रुतिः । 'डुधाञ् धारणपोषणयोः' । स्वमात्मीयं पितॄणां धानं पोषणं स्वधास्थ तर्पयत मे पितॄन् स्वधा भवथ । ततस्तर्पयत मे पितॄन् ॥ ३४ ॥
 इति उवटकृतौ मन्त्रभाष्ये द्वितीयोऽध्यायः॥२॥
म०. 'ऊर्जमित्यपो निषिञ्चतीति' ( का० ४ । १।१९)। अब्देवत्या विराट् । हे आपः, यूयं स्वधास्थ पित्र्यहविःस्वरूपा भवथ । अतो मे पितॄंस्तर्पयत । कथंभूता आपः । परिस्रुतं वहन्तीः । पुष्पेभ्यो निःसृतं सारं वहन्त्यः । तच्च सारं त्रिविधम् ऊर्जशब्देन घृतशब्देन पयःशब्देन चाभिधेयम् । तत्रोर्जशब्दोऽन्नगतं स्वादुत्वमभिधत्ते । घृतपयसी प्रसिद्धे । तच्च त्रिविधमपि कीदृशम् । अमृतं सर्वरोगविनाशकं मृत्युनाशकं च । नास्ति मृतं यस्मात्तत् । पुनः कीदृशम् । कीलालम् ‘कील बन्धने' । कीलनं कीलो बन्धः तमलति वारयतीति कीलालम् । 'अलं वारणपर्याप्त्योः' इति धातुः । सर्वबन्धनिवर्तकम् । ईदृशस्य त्रिविधस्य सारस्य वहनादपां पितृतर्पकत्वमुपपन्नम् ॥ ३४ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । इध्मप्रोक्षादिपित्र्यान्तो द्वितीयोऽध्याय ईरितः ॥ २ ॥




[सम्पाद्यताम्]

टिप्पणी