शुक्लयजुर्वेदः/अध्यायः ०१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
शुक्लयजुर्वेदः
अध्यायः ०१
[[लेखकः :|]]
अध्यायः ०२ →
दर्शपूर्णमासः
दर्शपूर्णमासः
गौ-वत्सः

अध्याय 1
दर्शपूर्णमासेष्टिः

1.1
इषे त्वा ऊर्जे त्वा ।
वायव स्थ ।
देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणऽ आ प्यायध्वम् अघ्न्या ऽइन्द्राय भागं प्रजावतीर् अनमीवा ऽअयक्ष्मा मा व स्तेनऽ ईशत माघशꣳसो ध्रुवा ऽअस्मिन् गोपतौ स्यात बह्वीः ।
यजमानस्य पशून् पाहि ॥

1.2
वसोः पवित्रम् असि ।
द्यौर् असि पृथिव्यसि ।
मातरिश्वनो ऽघर्मो सि विश्वधा ऽअसि परमेण धाम्ना दृꣳहस्व मा ह्वार् मा ते यज्ञपतिर् ह्वार्षीत् ॥

1.3
वसोः पवित्रम् असि शतधारं वसोः पवित्रम् असि सहस्रधारम् ।
देवस् त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा ।
काम् अधुक्षः ॥

1.4
सा विश्वायुः ।
सा विश्वकर्मा ।
सा विश्वधायाः ।
इन्द्रस्य त्वा भागꣳ सोमेना तनच्मि ।
विष्णो हव्यꣳ रक्ष ॥

1.5
अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तन् मे राध्यताम् ।
इदम् अहम् अनृतात् सत्यम् उपैमि ॥

1.6
कस् त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्ति ।
कर्मणे वां वेषाय वाम् ॥

1.7
प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः ।
निष्टप्तꣳ रक्षो निष्टप्ता ऽ अरातयः ।
उर्व् अन्तरिक्षम् अन्व् एमि ॥

1.8
धूर् असि धूर्व धूर्वन्तं धूर्व तं योऽ स्मान् धूर्वति तं धूर्व यं वयं धूर्वामः ।
देवानाम् असि वह्नितमꣳ सम्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥

1.9
अह्रुतम् असि हविर्धानं दृꣳहस्व मा ह्वार् मा यज्ञपतिर् ह्वार्षीत् ।
विष्णुस् त्वा क्रमताम् ।
उरु वाताय ।
अपहतꣳ रक्षः ।
यच्छन्तां पञ्च ॥

1.10
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अग्नये जुष्टं गृह्णामि ।
अग्नीषोमाभ्यां जुष्टं गृह्णामि ॥

1.11
भूताय त्वा नारातये ।
स्वर् अभिवि ख्येषम् ।
दृꣳहन्तां दुर्याः पृथिव्याम् ।
उर्व् अन्तरिक्षम् अन्व् एमि ।
पृथिव्यास् त्वा नाभौ सादयाम्य् अदित्या ऽउपस्थेऽ ग्ने हव्यꣳ रक्ष ॥

1.12
पवित्रे स्थो वैष्णव्यौ ।
सवितुर् वः प्रसव उत् पुनाम्य् अच्छिद्रेन पवित्रेण सूर्यस्य रश्मिभिः ।
देवीर् आपो अग्रेगुवोऽ अग्रेपुवोऽग्र इमम् अद्य यज्ञं नयताग्रे यज्ञपतिꣳ सुधातुं यज्ञपतिं देवयुवम् ॥

1.13
युष्मा ऽ इन्द्रोऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये ।
प्रोक्षिता स्थ ।
अग्नये त्वा जुष्टं प्रोक्षामि ।
अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ।
दैव्याय कर्मणे शुन्धध्वं देवयज्यायै यद् वोऽशुद्धाः पराजघ्नुर् इदं वस् तच् छुन्धामि ॥

1.14
शर्मासि ।
अवधूतꣳ रक्षोऽवधूता ऽ अरातयः ।
ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु ।
अद्रिर् असि वानस्पत्यः ।
ग्रावासि पृथुबुध्नः प्रति त्वादित्यास् त्वग् वेत्तु ॥

1.15
अग्नेस् तनूर् असि वाचो विसर्जनं देववीतये त्वा गृह्णामि ।
बृहद्ग्रावासि वानस्पत्यः ।
सऽइदं देवेभ्यो हविः शमीष्व सुशमि शमीष्व ।
हविष्कृद् एहि हविष्कृद् एहि हविष्कृद् एहि ॥

1.16
कुक्कुटोऽसि मधुजिह्वऽइषमूर्जम् आ वद त्वया वयꣳ संघातꣳ-संघातं जेष्म ।
वर्षवृद्धम् असि ।
प्रति त्वा वर्षवृद्धं वेत्तु ।
परापूतꣳ रक्षः परापूता अरातयः ।
ऽअपहतꣳ रक्षः ।
वायुर् वो वि विनक्तु ।
देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना ॥

1.17
धृष्टिर् असि ।
अपाऽग्ने ऽ अग्निम् आमादं जहि निष् क्रव्यादꣳ सेध ।
आ देवयजं वह ।
ध्रुवम् असि पृथिवीं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ॥

1.18
अग्ने ब्रह्म गृभ्णीष्व ।
धरुणम् अस्य् अन्तरिक्षं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ।
धर्त्रम् असि दिवं दृꣳह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्य् उप दधामि भ्रातृव्यस्य वधाय ।
विश्वाभ्यस् त्वाशाभ्यऽ उप दधामि ।
चित स्थोर्ध्वचितः ।
भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् ॥

1.19
शर्मासि ।
अवधूतꣳ रक्षोऽवधूता ऽ अरातयः ।
ऽअदित्यास् त्वग् असि प्रति त्वादितिर् वेत्तु ।
धिषणासि पर्वती प्रति त्वादित्यास् त्वग् वेत्तु ।
दिव स्कम्भनीर् असि ।
धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्तु ॥

1.20
धान्यम् असि धिनुहि देवान् ।
प्राणाय त्वा ।
उदानाय त्वा ।
व्यानाय त्वा ।
दीर्घाम् अनु प्रसितिम् आयुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्व् अच्छिद्रेण पाणिना ।
चक्षुषे त्वा ।
महीनां पयोऽसि ॥

1.21
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सं वपामि ।
सम् आपऽóषधीभिः सम् ओषधयो रसेन ।
सꣳ रेवतीर् जगतीभिः पृच्यन्ताꣳ सं मधुमतीर् मधुमतीभिः पृच्यन्ताम् ॥

1.22
जनयत्यै त्वा सं यौमि ।
इदम् अग्नेः ।
इदम् अग्नीषोमयोः ।
इषे त्वा ।
घर्मोऽसि विश्वायुः ।
उरुप्रथाऽ उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् ।
अग्निष्टे त्वचं मा हिꣳसीत् ।
देवस् त्वा सविता श्रपयतु वर्षिष्ठेऽधि नाके ॥

1.23
मा भेर् मा संविक्थाः ।
ऽ अतमेरुर् यज्ञो ऽतमेरुर् यजमानस्य प्रजा भूयात् ।
त्रिताय त्वा ।
द्विताय त्वा ।
एकताय त्वा ॥

1.24
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे ऽध्वरकृतं देवेभ्यः ।
ऽइन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजा वायुर् असि तिग्मतेजा द्विषतो वधः ॥

1.25
पृथिवि देवयजन्य् ओषध्यास् ते मूलं मा हिꣳसिषम् ।
व्रजं गच्छ गोष्ठानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्यां पृथिव्याꣳ शतेन पाशैर् यो स्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥

1.26
अपाररुं पृथिव्यै देवयजनाद् वध्यासम् ।
व्रजं गच्छ गोष्ठानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्यां पृथिव्या शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ।
अररो दिवं मा पप्तः ।
द्रप्सस् ते द्यां मा स्कन् ।
व्रजं गच्छ गोष्ठानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्यां पृथिव्याꣳ शतेन पाशैर् योऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ॥

1.27
गायत्रेण त्वा छन्दसा परि गृह्णामि ।
त्रैष्टुभेन त्वा छन्दसा परि गृह्णामि ।
जागतेन त्वा छन्दसा परि गृह्णामि ।
सुक्ष्मा चासि शिवा चासि ।
स्योना चासि सुषदा चासि ।
ऊर्जस्वती चासि पयस्वती च ॥

1.28
पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीवदानुम् ।
याम् ऐरयꣳश् चन्द्रमसि स्वधाभिस् ताम् उ धीरासो ऽअनुदिश्य यजन्ते ।
प्रोक्षणीर् आ सादय ।
द्विषतो वधोऽ सि ॥

1.29
प्रत्युष्टꣳ रक्षः प्रत्युष्टा ऽअरातयः ।
निष्टप्तꣳ रक्षो निष्टप्ता ऽ अरातयः ।
अनिशितोऽ सि सपत्नक्षिद् वाजिनं त्वा वाजेध्यायै सं मार्ज्मि ।
प्रत्युष्टꣳ रक्षः प्रत्युष्टाऽ अरातयः ।
निष्टप्तꣳ रक्षो निष्टप्ताऽ अरातयः ।
अनिशिताऽसि सपत्नक्षिद् वाजिनीं त्वा वाजेध्यायै सं मार्ज्मि ॥

1.30
अदित्यै रास्नासि ।
विष्णोर् वेष्यो सि ।
ऊर्जे त्वा ।
ऽअदब्धेन त्वा चक्षुषाव पश्यामि ।
अग्नेर् जिह्वासि सुहूर् देवेभ्यो धाम्ने-धाम्ने मे भव यजुषे-यजुषे ॥

1.31
सवितुस् त्वा प्रसवऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
तेजो ऽसि शुक्रम् अस्य् अमृतम् असि ।
धाम नामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् असि ॥

भाष्यम्(उवट-महीधर)

श्रीमद्वाजसनेयिमाध्यन्दिन शुक्लयजुर्वेदसंहिता।

उवटभाष्य-महीधरभाष्यसंवलिता।

प्रथमोऽध्यायः।

उवटभाष्यम्।

ॐनमः श्रीवेदपुरुषाय ।

हृदयं दक्षिणं चाक्षि मण्डलं चाधिरुह्य यः।
चेष्टते तमहं नौमि ऋग्यजुःसामविग्रहम् ॥ १ ॥
आदित्याल्लब्धवान्यस्तु शाखाः पञ्चदशापराः ।
तं याज्ञवल्क्यं वन्देऽहं मन्त्रभाष्यप्रसिद्धये ॥ २ ॥
गुरुतस्तर्कतश्चैव तथा शातपथश्रुतेः ।
(१)ऋषीन्वक्ष्यामि मन्त्राणां देवताश्छन्दसं च यत् ॥३॥
ऋचो यजूंषि सामानि तथार्थः पदवाक्ययोः।
श्रुतयश्चात्र याः प्रोक्ता योऽर्थवादश्च कर्मणः ॥ ४ ॥

तत्रहि पूर्वस्मिन्कल्पे विशिष्टकर्मजनितस्मृतिसंस्कारसंतानानुच्छित्तिधर्माणः सुप्तप्रबुद्धन्यायेन हिरण्यगर्भप्रभृतयः कल्पादौ सह विद्ययाभिव्यज्यमानाः स्मर्तारो द्रष्टारश्च ऋषय उच्यन्ते । सोऽयं (२)हिरण्यगर्भपरम्परयाभिव्यक्तो नित्यो वेदः । तेच श्रुतौ व्यज्यमाना ज्ञायन्ते । तद्यथा। 'तत एतं परमेष्ठी प्राजापत्यो यज्ञमपश्यद्यद्दर्शपूर्णमासौ' इति । तत्र दर्शपूर्णमासद्रव्यदेवतामन्त्रादि परमेष्ठिना दृष्टमित्यर्थः। तथा 'दध्यङ्


१ ऋषीन्वच्मीह. २ हिरण्यगर्भपरम्परा ब्रह्मपङ्क्तिः


ह वा आथर्वण एतं शुक्रमेतं यज्ञं विदांचकार' इत्युपक्रम्य 'नतदुहाश्विनोरनु श्रुतमास' इत्येवमादिनेतिहासेन प्रवर्ग्यगतानां मन्त्राणां दध्यङ्ङाथर्वण ऋषिरिति गम्यते । ऋषिश्च ज्ञातव्य इति श्रुतिर्दर्शयति 'प्रजापतिः प्रथमां चितिमपश्यत्' इत्युपक्रम्य 'स यो हैतदेवं चितीनामार्षेयं वेद' इत्यादिना ग्रन्थेन फलं दर्शयति ।अथ देवता मन्त्रवाक्याभिधेयाः। यथा--अग्निर्मूर्धा दिवः ककुदित्यत्राग्निः । इषेत्वेति शाखा । ननु अग्निर्मूर्धेत्यत्राग्नेर्महाभाग्यत्वाद्देवतात्वमुपपद्यते शाखादीनां तु स्थावरत्वाद्देवतात्वं दुर्लभमिति यश्चोदयेत्तंप्रति ब्रूमः । यस्य हि यत्र हविर्भाक्त्वं स्तुतिभाक्त्वं वा विद्यते सा तत्र देवता नतु रूढ्या। एवं च सति शाखादीनां देवतात्वमुपपद्यत एव । (२)यदुक्तं स्थावरत्वादित्यादि । अत्र ब्रूमः। अधिष्ठात्र्योऽत्र देवता विद्यन्ते। प्रतिमाभूतास्तु शाखादयस्ताः फलं साधयन्तीत्यदोषः। मन्त्रस्य वाच्यं देवतेति श्रुतिर्दर्शयति 'आशुः शिशानो वृषभो न भीमः' इत्युपक्रम्य 'ऐन्द्र्योऽभिरूपाः' इतीन्द्रस्य देवतात्वं दर्शयति । छन्दोपि ज्ञेयमित्यनेनैव दर्शयति येनैवमाह । 'दक्षिणतोऽसुरान्रक्षाᳪं᳭सि त्वाष्ट्रान्यपहन्ति त्रिष्टुब्भिर्वज्रो वै त्रिष्टुप्' इत्युपक्रम्य 'ता द्वाविंशतिर्गायत्र्यः संपद्यन्ते(३) तदा


१ हविर्भुक्तिः . २ यत्तूक्तं. ३ पठ्यन्ते.


ग्नेय्यो भवन्तीति । नह्यच्छन्दोविद्देवतामाग्नेयीं सम्पदं वेदेति । ऋचो यजूंषि चात्र विद्यन्ते तानि च ज्ञेयानीत्यत्र श्रुतिर्भवति 'यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता सैवर्क् सा देवता तद्यजुरित्युपासनार्थं ऋग्यजुषोः पृथग्ग्रहणं करोत्यतो ज्ञेयमृग्य(१)जुषमिति । अथ पदार्थः । तत्र चत्वारि पदजातानि नामाख्यातोपसर्गनिपाता' इति नैरुक्ताः पठन्ति ।
तत्र नाम पञ्चप्रकारं पठन्ति-'धातुजं धातुजाज्जातं समर्थार्थजमेव च । वाक्यजं व्यतिकीर्णं च निर्वाच्यं पञ्चधा पदम् । तत्र धातुजं-वन्दारुः, पचमानः, यजमानः । धातुजाज्जातं तद्धितपदं--आग्नेयः, याजमानं, दैव्याय । समर्थार्थजः समासः । सच संक्षेपतश्चतुःप्रकारः । अव्ययीभावस्तत्पुरुषो द्वन्द्वो बहुव्रीहिरिति । अथोदाहरणानि--उपरिनाभि, बहिष्पिण्डम् । प्रजापतिः, पशुपतिः । अग्नीषोमौ, इन्द्राग्नी । कृष्णग्रीवः, शितिकण्ठः । यथासंख्यं द्वद्वे उदाहरणे । वाक्यजं 'क्रयस्य रूपं सोमस्य लाजाः' इत्यत्र सोमस्य क्रयस्य रूपं लाजा इत्येवं प्राप्ते रूपशब्देन व्यवधानं व्यत्ययश्च(२) । व्यतिकीर्णं अन्यत्र प्रसिद्धं यत्पदत्वेन तत्प्रतिरूपका ये वर्णास्तैः सहोच्चार्यते यत्तत् । पार्श्वतः श्रोणितः शितामत इत्यत्र शतामत इति । 'त्वमग्ने द्युभिस्त्वमाशुशुक्षणिः' इत्यत्राशुशुक्षणिरिति । तत्र नाम्नां सामान्यतोऽर्थवचनं । सत्वप्रधानानि नामानि । सतो भावः सत्वं अस्तिता। तद्यत्र प्रधानं तन्नाम, गुणभूता क्रिया, विभक्त्यर्थः कारकं च तानीमानि सत्वप्रधानानि नामानीति नाम्नोऽर्थः।।
अथ भावप्रधानमाख्यातम् । भावो नाम क्रियायाः फलं । तद्यथा । ओदनं पचति देवदत्त इत्यत्र देवदत्ताश्रया ओदनाख्यस्य भावस्य गुणभूता पाकक्रिया। अतो भावप्रधानमाख्यातमित्युच्यते। यद्वा भावप्रधानं भावना(३)प्रधानं। भावना


१ नियताक्षरपादावसाना ऋक् । अनियताक्षरपादावसानं यजुः । प्रगीतं मत्रवाक्यानाम्. २ व्यत्ययात्. ३ भावनामात्रप्रधानम्.


च पुरुष(१)परिस्पन्दः पुरुषप्रयत्नः आत्मनो व्यापारः । परिस्पन्दस्तु भूतानां सा यत्र प्रधानं गुणभूता क्रिया तदिदं भावप्रधानमाख्यातम् । अथवा भावो धात्वर्थः क्रिये(२)त्यनर्थान्तरम्। सा यत्र प्रधानं गुणभूतानि षट्कारकाणि तदिदं भावप्रधानमाख्यातमित्याख्यातार्थः । तानिच पचति पठतीत्यादीनि ।
अथ विंशतिरुपसर्गाः क्रियाविशेषकरा इति सामान्यतोऽर्थः। विशेषा(३)र्थस्त्वनन्ता इति । ते च प्र परा अप सम् अनु अव इत्यादयः । अथ निपातानामर्थः सामान्य(४)तोऽसत्ववचनता । सत्वं द्रव्यमसत्वमद्रव्यं तद्वचनाश्चादयो निपाता असत्ववचनाः । अत्र त्रैराश्यम् उपमार्थीयाः , कर्मोपसंग्रहार्थीयाः, पादपूरणा इति । तत्र उपमार्थीयाः सादृश्यवचना इव न इत्यादयः । तद्यथा-'देव इव सविता सत्यधर्मा । इन्द्रो न'। कर्मोपसंग्रहार्थीयास्त्वसत्ववचनाः वा च अह ह इत्यादयः । तद्यथा-'वातो वा, मनो वा, अग्निश्च पृथिवी च' इत्यादयः। पादपूरणाः पादमेव पूरयन्ति नत्वर्थान्तरं वदन्ति । अनर्थान्तरवचना इत्यर्थः । ई कं इत्यादयः । 'सद्योजज्ञानो विहि' 'इमा नु कं भुवना' । उक्तं च--'क्रियावाचकमाख्यातमुपसर्गो विशेषकृत् । सत्वाभिधायकं नाम निपाताः(५) पादपूरणाः॥'इति॥
अथ वाक्यार्थं व्याख्यास्यामः । नामाख्यातोपसर्गनिपातसमुदायो वाक्यम् । तस्यार्थो वाक्यार्थः । ननु यदि पदान्येव संहतानि वाक्यमुच्यते एवं तर्हि य एव पदार्थः स एव वाक्यार्थस्ततः पृथग्वाक्यार्थव्याख्या नोपपद्यत इति यश्चोदयेत्तं प्रत्याह। साकाङ्क्षः पदार्थो निराकाङ्क्षो वाक्यार्थः। तद्यथा--गौरित्युक्ते किमित्याकाङ्क्षा भवति । ततो गच्छतीत्युक्ते निराकाङ्क्षं भवति। अथ गच्छतीत्युक्ते किमित्या(६)काङ्क्षं भवति । ततो गौरित्युक्ते निराकाङ्क्षं भवति। अथेदानीं गौर्गच्छतीत्युक्ते यत्र(७) गौर्वाहदोहादिभ्यो व्यावृत्य गमनेऽवतिष्ठते । गमनं चान्यगन्तृभ्यो


१ पुरुषप्रयत्नपरिस्पन्दः. २ त्यर्थान्तरं. ३ विशेषास्त्वनन्ता इति. ४ सर्वसामान्योऽर्धः.५निपातः पादपूरणः.६का इति सा. ७यद् गौ.


व्यावृत्य गव्येवावतिष्ठते अयं वाक्यार्थः । स एव प्रकरणाविरोधी वाक्यार्थः पदार्थनियमे हेतुः । पदंतु पदार्थपरिज्ञानहेतुः। अयं पदार्थवाक्यार्थ(१)योर्विशेषः। नन्वस्य पदचतुष्टयस्य वाक्यगतस्य कथं गुणप्रधानभाव इति। उच्यते। पदार्थद्वारकः संबन्धो गुणप्रधानभावश्च पदानाम् । तत्र प्रधानमाख्यातं गुणभूतान्यन्यानि, आख्यातार्थस्य साध्यत्वादितरेषां पदार्थानां स्वभावसिद्धत्वात् । तत्र सिद्धार्थसाध्यार्थयोर्यदेकस्मिन्वाक्ये समुच्चारणं तत्साध्यार्थं भवितुमर्हति न सिद्धार्थम् । तथाच भूतं सिद्धं भव्यं साध्यम् । भूतभव्यसमुच्चारणे 'भूतं भव्यायोपदिश्यते न भव्यं भूताय' इति न्यायविदः पठन्ति । एते च वाक्यार्था इषेत्वादिमन्त्र(२)गणे प्रायशो दृश्यन्ते--'विध्यर्थवादयाञ्चाशीःस्तुतिप्रैषप्रवह्लिकाः । प्रश्नो व्याकरणं तर्कः पूर्ववृत्तानुकीर्तनम् । अवधारणं चोपनिषद्वाक्यार्थाः स्युस्त्रयोदश । मन्त्रेषु ये प्रदृश्यन्ते व्याख्या च श्रुतिचोदिता ॥'
अथैतेषामुदाहरणानि । तत्र विधिः परमेष्ठ्यभिहितः 'अश्वस्तूपरो गो मृगः' इत्यादिः । अर्थवादः--'देवा यज्ञमतन्वत'इत्यादिः । याञ्चा-'तनूपा अग्नेऽसि तन्वं मे पाहि' । आशी:-'आ वो देवास ईमहे' इत्यादिः। स्तुतिः-'अग्निर्मूर्धा दिवः ककुत्' । प्रैषः-'होता यक्षत्समिधाग्निम्' इत्यादिः । प्रवह्लिका-'इन्द्राग्नी अपादियम्' इत्यादिः । प्रश्नः--'कः स्विदेकाकी चरति' इत्यादिः। व्याकरणं--'सूर्य एकाकी चरति' इत्यादि । तर्क:-'मा गृधः कस्यस्विद्धनम्' इत्यादिः। पूर्ववृत्तानुकीर्तनं-ओषधयः समवदन्त' इत्यादि । अवधारणं-'तमेव विदित्वातिमृत्युमेति' । उपनिषत्-'ईशावास्यम्' इत्यादि।


१ योरर्थविशेषः. २ केषु मन्त्रगणेषु.


अथ व्याख्याधर्माः-'अतिरिक्तं पदं त्याज्यं हीनं वाक्ये निवेशयेत् । विप्रकृष्टं तु संदध्यादानुपूर्व्यं च कल्पयेत् ॥ लिङ्गं धातुं विभक्तिं च योज्यं(१) वाक्यानुलोमतः । यद्यत्स्याच्छान्दसं वाक्ये कुर्यात्तत्तत्तु लौकिकम् ॥' अथोदाहरणानि-अतिरिक्तं पदं त्याज्यमिति । यथा--'इमानुकं भुवना सीषधाम' इति । कमित्यनर्थको निपातः । हीनं वाक्ये निवेशयेदिति । 'अस्मादन्नादिति भागमवेक्षते' इत्यत्राधस्तनो मन्त्रशेष इहाप्यभिसंबन्धनीयः(२0 अस्मादन्नान्निर्भक्त इत्यादि । विप्रकृष्टं तु संदध्यादिति । 'सं रेवतीर्जगतीभिः पृच्यताम्' इत्यत्र संपृच्यतामिति व्यवहितसंबन्धः। आनुपूर्व्यं च कल्पयेदिति । 'मा नो मित्रो वरुणो अर्यमायुः' इत्यत्र 'यद्वाजिनो देवजातस्य' इति द्वितीयोऽर्धर्चः प्रथमं व्याख्येयः । यतो हि यद्वृत्तं वाक्ये प्रथमं भवति । लिङ्गं धातुं विभक्तिं च यथार्थं संनमयेत् । लिङ्गं तु वाक्यवशात्संनमयेत् । 'पवित्रे स्थो वैष्णव्यौ' । अत्र पवित्रे इति नपुंसकलिङ्गं, वैष्णव्याविति च पुंलिङ्गं, तत्र वैष्णव्यावित्यस्य सन्नतिराविष्टलिङ्गत्वात्पवित्रशब्दस्य। धातुं धात्वर्थं च सन्नमयेत् 'अग्रेगुवो अग्रेपुवः' इति । अत्र अग्रेपुव इति संदेहः किमत्र पिबते रूपं उत पवतेः । तत्र श्रुतितो निर्णयः 'ता यत्प्रथमाः सोमस्य राज्ञो - भक्षयन्ती' ति व्याख्यानात्पिबतेरेव रूपमिति । विभक्तिं संनमयेत् । 'कस्मै देवाय हविषा विधेम' इत्यत्र हविषेति तृतीयायाः द्वितीया(३)सन्नतिर्वाक्यसंयोगात् । अन्यदपि यत्किंचिच्छान्दसं तत्सर्वं लौकिक(४)विहितैः शब्दैर्व्याख्येयम् । इत्ययं सामान्यतो व्याख्याक्रम उक्तः ॥


१ योजयेच्चानुलोमतः, योजयेदानुलोमतः, लोम्यतः. २ संधानीयः, ३ प्रथमाया, ४ लोकविदितैः



महीधरभाष्यम् ।

प्रणम्य लक्ष्मीं नृहरिं गणेशं भाष्यं विलोक्यौवटमाधवीयम् ।
यजुर्मनूनां विलिखामि चार्थं परोपकाराय निजेक्षणाय ॥ १ ॥
दूरादसूयां निर्धूय कृपां कृत्वा ममोपरि ।
विलोक्यो वेददीपोऽयं बुद्धिमद्भिर्द्विजोत्तमैः ॥ २ ॥
तत्रादौ ब्रह्मपरम्परया प्राप्तं वेदं वेदव्यासो मन्दमतीन्मनुष्यान्विचिन्त्य तत्कृपया चतुर्धा व्यस्य ऋग्यजुःसामाथर्वाख्यांश्चतुरो वेदान् पैलवैशम्पायनजैमिनिसुमन्तुभ्यः क्रमादुपदिदेश ते च स्वशिष्येभ्यः । एवं परम्परया सहस्रशाखो वेदो जातः । तत्र व्यासशिष्यो वैशम्पायनो याज्ञवल्क्यादिभ्यः स्वशिष्येभ्यो यजुर्वेदमध्यापयत् । तत्र दैवात्केनापि हेतुना क्रुद्धो वैशम्पायनो याज्ञवल्क्यं प्रत्युवाच मदधीतं त्यजेति । स योगसामर्थ्यान्मूर्तां विद्यां विधायोद्ववाम । वान्तानि यजूंषि गृह्णीतेति गुरूक्ता अन्ये वैशम्पायनशिष्यास्तित्तिरयो भूला यजूंष्यभक्षयन् । तानि यजूंषि बुद्धिमालिन्यात्कृष्णानि जातानि । ततो दुःखितो याज्ञवल्क्यः सूर्यमाराध्य अन्यानि शुक्लानि यजूंषि प्राप्तवान् । तानि च जाबालबौधेयकाण्वमाध्यन्दिनादिभ्यः पञ्चदशशिष्येभ्यः पाठितवान् । तथाच श्रुतिः 'आदित्यानीमानि शुक्लानि यजूᳪं᳭षि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते' (बृह० ५।५।३३) इति । अस्यार्थः । आदित्यादधीतान्यादित्यानि । शुक्लानि शुद्धानि । वाजस्यान्नस्य सनिर्दानं यस्य स वाजसनिस्तदपत्यं वाजसनेयस्तेन याज्ञवल्क्येन शिष्येभ्य आख्यायन्ते कथ्यन्त इत्यर्थः । तत्र मध्यन्दिनेन महर्षिणा लब्धो यजुर्वेदशाखाविशेषो माध्यन्दिनः । यद्यपि याज्ञवल्क्येन बहुभ्यः शिष्येभ्य उपदिष्टः, तथापि ईश्वरकृपया मध्यन्दिनसंबन्धितया लोके प्रख्यायते । तं माध्यन्दिनं वेदं येऽधीयन्ते विदन्ति वा शिष्यपरम्परया वर्तमानास्तेऽपि माध्यन्दिना उच्यन्ते ॥
अतएव 'स्वाध्यायोऽध्येतव्यः' (शत० ब्रा० ११।५। ६ । ७) इति स्वशाखाध्ययनं विहितम् । तच्चाध्ययनं प्रतिमन्त्रमृषिछन्दोदेवताविनियोगार्थज्ञानपूर्वकं विधेयम् । अन्यथा दोषश्रवणात् । ‘एतान्यविदित्वा योऽधीतेऽनुब्रूते जपति जुहोति यजते याजयते तस्य ब्रह्म निर्वीर्यं यातयामं भवत्यथान्तराश्वगर्तं वापद्यते स्थाणुं वर्च्छति प्रवामीयते पापीयान्भवति (अनुक्रम १।१) इति कात्यायनोक्तेः । ऋष्यादिज्ञाने फलश्रवणाच्च । 'अथ विज्ञायैतानि योऽधीते तस्य वीर्यवदथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जपित्वा हुत्वेष्ट्वा तत्फलेन युज्यते' ( अनु० १।१) इत्युक्तेश्च । तस्माद्वेदमन्त्राणामृष्यादिज्ञानमर्थज्ञानं चावश्यकम् । अन्यथा फलवैकल्यात् । तत्र यजुर्वेदमन्त्रेषु कानिचित् यजूंषि काश्चन ऋचः । तत्र ऋचां नियताक्षरपादावसानानामावश्यकं छन्दः कात्यायनेनोक्तम् । यजुषां षडुत्तरशताक्षरावसानानामेकाक्षरादीनां पिङ्गलेन 'दैव्येकम्' इत्यादिनोक्तं छन्दो बोद्धव्यम् । तदधिकानां तु 'होता यक्षद्वनस्पतिमभिहि' (अध्या० २१ । ४६) इत्यादीनां नास्ति छन्दःकल्पना ॥--तत्राद्याध्याये द्वितीयाध्यायाष्टाविंशतिकण्डिकाश्चेति दर्शपूर्णमासमन्त्राः । तेषां परमेष्ठी प्रजापतिर्ऋषिर्देवता प्राजापत्या वा । द्वितीयाध्यायान्तिमकण्डिकाषट्कं पितृयज्ञमन्त्रास्तेषां प्रजापतिर्ऋषिः । आद्येऽध्याये सर्वाणि यजूंषि । एका 'पुरा क्रूरस्य' (१ । २८) इति ऋक् । यजुषां पिङ्गलोक्तं छन्दो बोद्धव्यं विस्तरभयान्नोच्यते ।
ऋचांतु छन्दांसि वक्तव्यानि । तत्राद्यायां कण्डिकायां पञ्च मन्त्राः । द्वौ त्र्यक्षरौ । तृतीयश्चतुरक्षरः । चतुर्थो द्विषष्ट्यक्षरः । पञ्चमो नवाक्षरः । तत्र प्रकृतिवादादौ दर्शपूर्णमासमन्त्राः । यत्र कृत्स्नाङ्गानामुपदेशः क्रियते सा प्रकृतिः । यत्र विशेषाङ्गमात्रमुपदिश्यतेऽङ्गान्तराणि तु प्रकृतेरतिदिश्यन्ते सा विकृतिः । तत्र प्रकृतिस्त्रिविधा--अग्निहोत्रम्, इष्टिः, सोमश्चेति । तत्र यद्यपि कृताधानस्यैव दर्शपूर्णमासयोरधिकारादादौ अग्न्याधानमन्त्रा वक्तुमुचितास्तथाप्याधाने पवमानेष्टयो विधेयास्ता अन्तराधानस्यैवासिद्धेः । पवमानेष्टीनां च दर्शपूर्णमासविकृतित्वात्सोमेऽपि दीक्षणीयप्रायणीयादिषु दर्शपूर्णमाससापेक्षत्वादादौ दर्शपूर्णमासमन्त्रा गदितुं युक्ताः । ते चेषेत्वादयः।-तत्रेषेत्वेति द्विपदस्यक्षरो मन्त्रः । तस्य दैव्यनुष्टुप्छन्दः । शाखा देवता । पलाशशाखाच्छेदने विनियोगः । शाखादीनामचेतनत्वेऽपि तदभिमानिनीनां देवतानां सत्त्वाद्देवतात्वम् । 'अभिमानिव्यपदेशस्तु' इति व्याससूत्रोक्तेः । 'मृदब्रवीदापोऽब्रुवन्' इति श्रुतेश्च । तस्माच्छाखोखापयःस्रुक्यूपादीनामपि देवतात्वम् । तत्र प्रतिपदि दर्शयागं चिकीर्षुरमावास्यायां प्रातरग्निहोत्रं हुत्वा दर्शयागार्थं 'ममाग्नेवर्चः' (कात्या. २। १ । ३) इति मन्त्रेणाग्निषु समिदाधानरूपमन्वाधानं कृत्वा वत्सापाकरणं कुर्यात् । दर्शयागे त्रीणि हवींषि सन्ति । आग्नेयोऽष्टाकपाल ऐन्द्रं दध्यैन्द्रं पय इति । तत्र प्रतिपदि दधि होतुं दध्नो निष्पत्त्यै रात्रावमावास्यायां गावो दोग्धव्याः । तद्दोहनार्थं प्रातर्लौकिकदोहादूर्ध्वं स्वमातृभिः सह चरन्तो वत्साः स्वमातृभ्यः पलाशशाखयाऽपाकरणीयाः। तदर्थं पलाशशाखाच्छेदनम् । गायत्र्या पक्षिरूपं विधाय यदा दिवः सोमवल्ल्याहृता तदा तत्पत्रं भूमावुप्तं ततः पलाशोऽभवदिति श्रुत्या ( श० ब्रा० १। ७ । १ - ८ । २ । १०) पलाशस्य प्राशस्त्यं ब्रह्मत्वं चोक्तं तस्मात्पलाशशाखाच्छेदनम् ॥
.


तत्र प्रथमा।
हरिः ॐ । इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ दे॒वो व॑: सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आप्या॑यध्वमघ्न्या॒ इन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑स्ते॒न ई॑शत॒ माघश॑ᳪं᳭सो ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ।। १।।
उ० अतःपरं वैशेषिकमनुक्रमिष्यामः। अत्र इषे त्वा द्वावध्यायौ दर्शपूर्णमासमन्त्राः। परमेष्ठिनः प्राजापत्यस्यार्षं देवानां वा प्राजापत्यानां तत एतं परमेष्ठी प्राजापत्यो यज्ञमपश्यद्यद्दर्शपूर्णमासौ' इति श्रुतेः परमेष्ठिन आर्षम् । तथा 'ते देवा अकामयन्त' इत्युपक्रम्य 'तत एतᳪं᳭हविर्यज्ञं ददृशुर्यद्दर्शपूर्णमासौ' इति देवानामार्षं कथ्यते । तत्रास्मिन्नध्याये सर्वाण्येव यजूंषि । पुरा क्रूरस्येतीयं त्रिष्टुप् । तत्र यजुषां केचिद्वैशेषिकं छन्द इच्छन्ति पिङ्गलपरिपठितं दैव्येकमित्यादिनेति । तत्र च सर्वसंख्यया व्यवहारः पाद इत्युपरिष्टादधिकारात् । तत्र इषे त्वा द्विपदो मन्त्रः त्र्यक्षरत्वाद्देव्यनुष्टुप् श्रुत्या शाखाच्छेदे विनियुक्तः । नचाख्यातमुपलभ्यतेऽत्र । नचाख्यातं विना वाक्यं किंचिद्विधत्ते इत्यध्याहारेणानुषङ्गेण वा वाक्यपरिपूर्तिः कर्तव्या । नन्वध्याहारानुषङ्गयोः को विशेषः । लौकिकोऽध्याहारः यथा--'भूताय त्वा नारातये परिशेषयामि' । पिनष्टि प्राणायत्वेति प्रतिमन्त्रं 'प्राणाय त्वा पिनष्मि' । अनुषङ्गस्तु मन्त्रावयव एव यथा--'अस्मादन्नान्निर्भक्तो योऽस्मान्द्वेष्टि यं च वयं द्विष्मः' । 'अस्यै प्रतिष्ठायां निर्भक्त' इत्यादि विष्णुक्रममन्त्रेषु परिपठितमिहाभिसंबध्यते । अपरिपूर्णत्वाद्वाक्यस्य । अयं विशेषोऽध्याहारानुषङ्गयोः । इह त्वन्यशाखापरिपठितेनाख्यातेन सूत्रकारेण वाक्यपरिपूर्तिः कृता 'छिनद्मीति चोभयोः साकाङ्क्षत्वात्सन्नमयामीति वोत्तर' इति । अथ कोऽर्थः । शाखा उच्यते । इषे अन्नाय त्वा त्वां छिनद्मीति । 'इषु इच्छायां' तस्य क्विपि इट् इति रूपं भवति तस्य तादर्येे चतुर्थी । इषे श्रुत्युक्तमभिधेयं वृष्ट्यै तदाह 'यदाहेषेत्वेति वृष्टिः सर्वेणैवेष्यते' । अतोऽभिधानगतस्य धातोरभिधेयक्रिया विद्यत इति । इषे इत्यभिधानम् । अभिधेया वृष्टिः । न्याय्योऽभिधानाभिधेयलक्षणः संबन्धः । त्वा इति युष्मदो द्वितीयैकवचनस्य स्थाने आदेशः । नन्वेवं तत्र यदि एषणक्रियायोगादिह वृष्टिरभिधीयते नतु रूढ्या तदानीं यद्यद्धिरण्यादि किंचिदिप्यते तत्तत्सर्वमिडित्युच्यते । तथासति संव्यहारोच्छेद इत्येवमादीन्दोषान् केचिद्विदधति, तदसत् । सिद्धे हि शब्दार्थसंबन्धे पश्चादभिधानाभिधेयभावं क्रियाद्वारकं प्रकाशयितुं व्युत्पत्तिः क्रियते । साच क्रियमाणा तस्मिन्नेवाभिधेयेऽवतिष्ठते मगधाधिपतिवत् । यथा मगधाधिपतेर्मागधेषु जनपदेष्वाधिपत्यमस्ति न कान्यकुब्जेष्वेवमिहापि जात्यादिपरिच्छिन्नेष्वभिधेयेषु क्रियाप्रवृत्तिरस्ति न सर्वत्रेत्यदोषः । व्युत्पत्तिद्वारेण च शब्दानां परिज्ञानमभ्युदयहेतुरिति श्रुतिर्दर्शयति । 'तत्प्रणीतानां प्रणीतात्वं प्रति ह तिष्ठति य एवमेतत्प्रणीतानां प्रणीतात्वं वेदेति प्रणीताशब्दस्य निर्वचनपरिज्ञानद्वारेण फलं दर्शयति । तथा पुरुषशब्दव्युत्पत्तिं प्रकृत्याह । 'स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान् पाप्मन ओषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद'। एवं तत्र तत्र । एतच्च स्थालीपुलाकन्यायेन सर्वेष्वभिधेयेषु द्रष्टव्यम् । आहच-'क्रियाद्वारकसंबन्धमभिधानाभिधेययोः । ज्ञात्वा फलमवाप्नोति श्रुतिर्वक्ति पुनः पुनः॥' ऊर्जे त्वा। द्विपदस्त्र्यक्षरो मन्त्रः। दैव्यनुष्टुप् यदि यजुषां छन्दोस्ति । एवं सर्वेषु यजुःषु ऋक्षु च वक्तव्यम् । ग्रन्थगौरवभयादत्र नोच्यते। उक्तंच-'स्वरो वर्णोऽक्षरं मात्रा तत्प्रयोगोऽर्थ एव च । मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥' शाखासंनमने विनियुक्तः । संनमयामीति वाक्यशेषः । 'यो वृष्टादूर्ग्रसो जायते तस्मै तदाह' इति श्रुतिः। 'ऊर्ज बलप्राणनयोः' क्विप् । ऊर्जे । तादर्थ्ये चतुर्थी । व्रीह्यादेर्धान्यस्य क्षीरादेश्च सेचनस्य उत्पत्त्यर्थं त्वां संनमयामि । रसपरिणामो हि वृष्टिरन्नादिकं च तदभिप्रायौ मन्त्रौ। श्रुतिश्चास्मिन्नर्थे भवति-'अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिः' इति । तथा 'इतः प्रदानाद्वृष्टिरितो ह्यग्निर्वृष्टिं वनुते स एतैः स्तोकैरेतांस्तोकांस्तनुते त एते स्तोका वर्षन्ती'ति ॥वायव स्थ । वत्सं शाखयोपस्पृशति । यथा वायुर्वृष्टिद्वारेण गवामाप्यायकः एवं यूयमपि प्रस्तुतिद्वारेणाप्यायका भवथेत्यर्थः । एकस्यापि वत्सस्योपस्पर्शने सर्वेषां संस्कारो बहुवचनोपदेशात् । पूजार्थं वा बहुवचनम् ॥ देवो वः सविता। अथ मातॄणामेकां शाखयोपस्पृशति । देवो दानादिगुणयुक्तः 'देवो दानाद्दयोतनाद्दीपनाद्वा' इति यास्कः। वः। 'बहुवचनस्य वस्नसौ' इति युष्मदो द्वितीयाबहुवचनस्थाने वसादेशः । युष्मान् । सविता सर्वस्य प्रसविता। प्रार्पयतु समर्पयतु संगमयतु । श्रेष्ठतमाय कर्मणे । 'यज्ञो वै श्रेष्ठतमं कर्म' इति श्रुतिः । प्रशस्यतमाय कर्मणे। तादर्थ्ये चतुर्थी। यज्ञार्थमित्यर्थः । यूयमपि यज्ञार्थं सवित्रा सङ्गमिताः सत्यः आप्यायध्वम् । 'ओप्यायी वृद्धौ' णिचो लोपः । आप्याययत । हे अघ्न्याः अनुपहिंस्याः गावः । कं इन्द्राय भागं । तादर्थ्ये चतुर्थी । इन्द्रार्थे यो भागस्तमिति संबन्धः । इन्द्रोऽत्र हविर्भाक् । कथंभूताः सत्यः । प्रजावतीः । 'वा छन्दसि' इति दीर्घत्वम् । प्रजावत्यः जीवद्वत्साः । अनमीवाः । 'अम रोगे' । अमीवा व्याधिविशेषः । न विद्यते अमीवा यासां तास्तथोक्ताः । अयक्ष्माः । यक्ष्मा व्याधीनां राजा स यासां न विद्यते ता अयक्ष्माः । आदरार्थं पुनर्वचनम् । अथवा अयनं अयः गमनं । क्ष्मा पृथ्वी । अयः क्ष्मायां यासां विद्यते घास


१ दैव्येत्यानुष्टुवित्यादिनेति. २ अर्थाय, अन्नार्थं. ३ इट् इति विभक्तिस्तादर्थ्ये चतुर्थी. ४ श्रुत्यर्थ. ५ तत्र यदि. १ पुलाकभक्तावसथन्यायेन. २ ष्वभिधानेषु. ३ भयात्तु. ४ संनमनं तु शाखालग्नधूल्याद्यपनयनम्


भक्षणार्थं ता अयक्ष्माः । अनिवारितगोप्रचारा इत्यर्थः । किंच मा वः युष्माकं स्तेनः चौर ईशत । माङि लुङ् । मा युष्माकं चौरः ईशनं कार्षीदित्यर्थः । मा अघशंसः अघं पापं यः शंसति भक्षणार्थं वृको वा चाण्डालो वा स च मा ईशत । किंच ध्रुवाः शाश्वतिकाः । अस्मिन् गोपतौ यजमाने । स्यात भवत । बहीर्बह्वयः ॥ शाखामुपगूहति । यजमानस्य पशून्पाहि । यजमानस्य संबन्धिनः पशून् प्रकृतं गोवत्समभिप्रेतं दोहाङ्गभूतं पाहि गोपाय ॥ १ ॥


१ शाखामुपस्थापयति, २ दोहाङ्गभावात्.



म० अथ मन्त्रार्थः क्रियापदाध्याहारेण । हे शाखे, इषे वृष्ट्यै त्वा त्वां छिनद्मि । इष्यते काङ्क्ष्यते सर्वैर्व्रीह्यादिधान्यनिष्पत्तये सा इट् । श्रुत्या वृष्टिर्व्याख्याता। कर्मणि क्विप् । 'वृष्ट्यै तदाह यदाहेषे त्वा' (१।७।१।२) इति श्रुतेः । 'पर्णशाखां छिनत्ति शामीलीं वेषे त्वेत्यूर्जे त्वेति वा छिनद्मि इति वोभयोः साकाङ्क्षत्वात्सन्नमयामीति वोत्तर' (कात्या० ४ । २ । १-३) इति कात्यायनोक्तेः छिनद्मीति क्रियापदमध्याहर्तव्यम् । कात्यायनसूत्रस्यायमर्थः-पलाशशाखा शमीशाखा वात्र विकल्पिता । तच्छेदने इषे त्वोर्जे त्वेति द्वौ मन्त्रौ विकल्पितौ । तयोः क्रियापदाकाङ्क्षत्वादर्थावबोधाय छिनद्मि इति पदमध्याहर्तव्यमित्येकः पक्षः । इषे त्वेति छेदनार्थो मन्त्रः । ऊर्जे त्वेति संनमनार्थः । संनमनं ऋजूकरणं शाखालग्नधूल्याद्यपनयनम् । इदं पक्षान्तरमित्यर्थः । ऊर्जे वा । शाखैव देवता । हे शाखे, त्वा त्वां संनमयामि ऋजूकरोमि । किमर्थम् । ऊर्जे 'ऊर्ज बलप्राणनयोः' । ऊर्जति सर्वान्मनुष्यपश्वादीन्बलयति पानादिना दृढशरीरान्करोति । यद्वा । प्राणयति प्रकर्षेण चेष्टयतीति व्युत्पत्तिद्वयेन वृष्टिगतो जलात्मको रस ऊर्जशब्देनोच्यते । तस्मै रसाय त्वामनुमार्ज्मि । 'यो वृष्टादूर्ग्रसो जायते तस्मै तदाह' (१। ७ । १ । २) इति श्रुतेः । एतन्मन्त्रद्वयपाठेनाध्वर्युरिष्यमाणमन्नं बलकरमाज्यक्षीरादिरसं च यजमाने संपादयत्येव । 'इषे त्वोर्जे त्वेत्याहेषमेवोर्जं यजमाने दधाति' इति तित्तिरिवचनात् । कात्यायनः 'मातृभिर्वत्सान्संसृज्य वत्सं शाखयोपस्पृशति वायवः स्थ' (४ । २ । ७) इति वायुर्देवता । ‘वा गतिगन्धनयोः' । वान्ति गच्छन्तीति वायवो गन्तारः । हे वत्साः, यूयं वायवः स्थ मातृभ्यः सकाशादन्यत्र गन्तारो भवत । मातृभिः सह गमने सति सायं दोहो न लभ्यत इत्यभिप्रायः । यद्वा । वायुसादृश्याद्वत्सानां वायुत्वम् । यथा वायुः पादप्रक्षालननिष्टीवनादिभिरुपहतां भूमिं शोषयित्वा पुनाति, एवं वत्सा अप्यनुलेपनहेतुभूतगोमयादिदानेन भूमिं पुनन्ति तस्माद्वायुसादृश्यम् । अथवा नृणां यथा स्वनिवासाय गृहनिर्माणसामर्थ्यमस्ति एवं पशूनां तदभावान्निरावरणेऽन्तरिक्षे संचरणादन्तरिक्षमेव पशूनां देवता । तस्यान्तरिक्षस्य वायुरधिपतिः । स च वायुः स्वावयवानिव पशून्यालयतीति पशूनां वायुरूपत्वम् । तथा पालनाय पशून्वायवे समर्पयितुं वायुरूपत्वमापाद्य वायवः स्थेति मन्त्रः प्रवर्तते । तदुक्तं तित्तिरिणा 'वायवः स्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षोऽन्तरिक्षदेवत्याः खलु पशवो वायव एवैतान्परिददाति' इति । यद्वा तृणभक्षणायाहनि तत्र तत्रारण्ये चरित्वा सायंकाले वायुवेगेन यजमानगृहे समागमनाय पशून्प्रवर्तयितुं वायुरूपत्वमुच्यते । कात्यायनः 'देवो व इति मातॄणामेकां व्याकृत्येन्द्रं भवति माहेन्द्रं वा' (४ । २ । ९ । १०) इति । अस्यार्थः । पूर्वसूत्राच्छाखयोपस्पृशतीति पदद्वयमनुवर्तते । वत्सानां मातरो या गावः सन्ति तासां मध्ये एकां गां व्याकृत्य पृथक्कृत्य देवो व इति मन्त्रेण शाखयोपस्पृशेत् । तथा सति गोसंबन्धि दधिरूपं हविरैन्द्रं माहेन्द्रं वा भवतीति देवो व इति मन्त्रस्येन्द्रो देवता । 'षू प्रेरणे' । सुवति स्वस्वव्यापारे प्रेरयतीति सविता । देवः द्योतमानः परमेश्वरः । हे गावः, वो युष्मान् प्रार्पयतु प्रभूततृणोपेतं वनं गमयतु । किमर्थम् । श्रेष्ठतमाय कर्मणे । चतुर्विधं कर्म । अप्रशस्तम् , प्रशस्तं, श्रेष्ठम् , श्रेष्ठतमं चेति । लोकविरुद्धं वधबन्धचोर्यादिकमप्रशस्तम् । लोकैः श्लाघनीयं बन्धुवर्गपोषणादिकं | प्रशस्तम् । स्मृत्युक्तं वापीकूपतडागादिकं श्रेष्ठम् । वेदोक्तं यज्ञरूपं श्रेष्ठतममिति तल्लक्षणम् । 'यज्ञो वै श्रेष्ठतमं कर्म' (१।७। १। ५) इति श्रुतेः । हे अघ्न्याः गावः, गोवधस्योपपातकरूपत्वाद्धन्तुमयोग्या अघ्न्या उच्यन्ते । तथाविधा यूयमिन्द्राय भागं इन्द्रमुद्दिश्य संपादयिष्यमाणदधिरूपहेतु क्षीरम् । आप्यायध्वं समन्ताद्वर्धयध्वम् । सर्वास्वपि गोषु प्रभूतक्षीरं कुरुत । । ओप्यायी वृद्धौ' । वो युष्मानपहर्तुं स्तेनश्चौरो मा ईशत ईश्वरः समर्थो मा भूत् । अघशंसः अघेन तीव्रपापेन भक्षणादिना शंसो घातको व्याघ्रादिरपि मा ईशत वो हिंसको मा भूत् । कीदृशीर्युष्मान् । प्रजावतीः बह्वपत्याः । अनमीवाः अमीवा व्याधिः स नास्ति यासां ताः अनमीवाः कृमिदष्टत्वादिस्वल्परोगरहिताः । | अयक्ष्माः यक्ष्मा रोगराजः । प्रबलरोगरहिताः। किंच यूयं गोपतौ गवां युष्माकं पत्यावस्मिन् यजमाने ध्रुवाः शाश्वतिकीः बह्वीर्बहुविधाः स्यात भवत । 'यजमानस्य पशूनित्यग्न्यगारस्यान्यतरस्य पुरस्ताच्छाखामुपगूहति' ( का० ४ । २ । ११) इति । | हे पलाशशाखे, त्वमुन्नतप्रदेशे स्थित्वा प्रतीक्षमाणा सती यजमानस्य पशून् अरण्ये संचरतश्चोरव्याघ्रादिभयात् पाहि रक्ष । शाखया रक्षिता गावो निरुपद्रवाः सत्यः सायं पुनरागच्छन्तीत्याशयः । यद्यप्यचेतना शाखा तथापि तदभिमानिनीदेवतामुद्दिश्यैवमुक्तम् । यथा शास्त्रज्ञा अचेतनेऽपि शालग्रामे शास्त्रदृष्ट्या विष्णुसंनिधिमभिप्रेत्य विष्णुं संबोध्य षोडशोपचारान्विदधत इत्युक्तं प्राक् ॥
अथ व्याकरणप्रक्रिया । इषे । इषेरिच्छार्थस्य कर्मणि क्विप् । कित्त्वादुपधाया गुणाभावः । तस्माच्चतुर्थ्येकवचनम् । इषशब्दगत इकारो धातुस्वरेण प्रातिपदिकस्वरेण चोदात्तः । स्वरविधौ व्यञ्जनस्याविद्यमानत्वात् । चतुर्थ्येकवचनस्य <poem>प्रत्ययत्वादाद्युदात्तत्वे प्राप्ते 'अनुदात्तौ सुप्पितौ' (पा० ३ । १। ४) इति तदपवादेनानुदात्तत्वे प्राप्तेऽपि 'सावेकाचस्तृतीयादिर्विभक्तिः' (पा० ६ । १ । १६८) इत्युदात्तत्वम् । तस्मिन् सति ‘अनुदात्तं पदमेकवर्जम्' (पा० ६।१।१५८) इतीकारोऽनुदात्तः । यद्यप्येकशब्देन द्वयोरुदात्तयोरन्यतरो यः कोऽपि वक्तुं शक्यते तथापि 'सति शिष्टस्वरो बलीयान्' (पा० ६।१।१५८) इति न्यायेन विभक्तिगत उदात्त एव प्रबलः ॥ तथा सत्यनुदात्तादिकमुदात्तान्तमिदं पदं संपन्नम् । त्वा । युषेर्भजनार्थस्य 'युष्यसिभ्यां मदिक्' (उ० १ । १४४ ) इति मदिक्प्रत्ययान्तस्य युष्मच्छब्दस्य द्वितीयायां त्वेति रूपम् । तस्य प्रातिपदिकस्वरेण यद्यपि उदात्तः प्राप्तस्तथापि 'अनुदात्तं सर्वमपादादौ' (पा० ८।१।१८) इत्यस्य सूत्रस्य अनुवृत्तौ सत्यां 'त्वामौ द्वितीयायाः' (पा० ८।१।२३) इति त्वादेशविधानादयं शब्दोऽनुदात्तः ॥ ऊर्जे । 'ऊर्ज बलप्राणनयोः' अस्मात्क्विप् । ऊर्जति बलवन्तं प्राणवन्तं वा करोतीत्यूर्क् अन्नम् । 'ऊर्गित्यन्ननामोर्जयति सतः' (निरु० ९।२७) इति यास्कः । स्वर इषेवत् । संहितायां तु 'उदात्तस्य स्वरितः' (पा० ८ । ४ । ६६) इति त्वाशब्दस्य स्वरितत्वम् । मन्त्रद्वयस्य संहितायां ऊर्ज इति ऊकारस्य 'स्वरितात्संहितायामनुदात्तानाम्' (पा० १।२।३९) इति प्रचयाभिधायामेकश्रुतौ प्राप्तायां तदपवादकत्वेन 'उदात्तस्वरितपरस्य सन्नतरः' (पा० १।२ । ४०) इत्यत्यन्तनीचोऽनुदात्तो भवति। अग्रिमस्य त्वाशब्दस्य स्वरितत्वम् । एवमुत्तरपदेषु संहितायां स्वरा ऊहनीयाः । वायवः वातेर्गत्यर्थात् 'कृवापाजिमिस्वदिसाध्यशूभ्य उण्' (उ० १।१) इत्युण् । सति शिष्टप्रत्ययस्वरेणान्तोदात्तो वायुशब्दः । जसः सुप्त्वादनुदात्तत्वम् । 'जसि च' (पा० ७।३। १०६) इति गुणेऽवादेशे च 'स्थानेऽन्तरतमः' (पा० १।१। ५०) इति परिभाषया उदात्त एव जाते वायव इति मध्योदात्तं पदम् । जसः स्वरितत्वं पूर्ववत् ॥ स्थ । अस्तेर्लिटि शपो लुकि 'श्नसोरल्लोपः' (पा० ६।४।१११) इति अकारलोपः। 'तिङ्ङतिङः' (पा० ८ । १ । २८) इति निघातः ॥ देवः । पचादित्वादच् । 'चितः' (पा० ६।१ । १६३ )इत्यन्तोदात्तः ॥ वः 'बहुवचनस्य वस्नसौ' (पा० ८।१।२१) इत्यनुदात्तो वसादेशः। सविता 'षू प्रेरणे' । 'ण्वुल्तृचौ' (पा० ३।१।१३३) इति तृच् । इडागमः चित्त्वादन्तोदात्तः ॥ प्र ‘उपसर्गाश्चाभिवर्जम्' (फि० ४ । १२) इत्याद्युदात्तः । अर्पयतु 'ऋ गतौ' 'हेतुमति च' (पा० ३ । १ । २६) । इति णिच् 'अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ' (पा०७।३।३६) इति पुक् । 'पुगन्त' (पा० ७। ३ । ८६ ) इति गुणः निघातश्च । श्रेष्ठतमाय । प्रशस्यशब्दात् 'अतिशायने तमबिष्ठनौ' (पा० ५। ३ । ५५) इतीष्ठन् 'प्रशस्यस्य श्रः' (पा० ५।३।६०) इति प्रादेशः । 'ञ्नित्यादिर्नित्यम्' (पा० ६।१।१९७) इत्याद्युदात्तत्वम् । ततः पुनः तमप् । तस्य पित्त्वादनुदात्तत्वम् । स्वरितप्रचयाः पूर्ववत् ॥ कर्मणे । करोतेर्मनिन् मित्त्वादाद्युदात्तः । आ उदात्तः । प्यायध्वम् 'ओप्यायी वृद्धौ' । 'हेतुमति च' (पा० ३।१।२६) इति णिच् । तस्य 'छन्दस्युभयथा' (पा० ३।४।११७) इत्यार्धधातुकत्वात् ‘णेरनिटि' (पा० ६।४।५१) इति णिलोपः । निघातः ॥ अघ्न्याः 'अघ्न्या अहन्तव्या भवन्त्यघ्नीति वा' (निरु० ११ । ४३ ) इति यास्कः । अघे नञि वोपपदे हन्तेः 'अघ्न्यादयश्च' (उ० ४ । ११३ ) इति यगन्तो निपातः । संबुद्धित्वात् 'आमन्त्रितस्य च' (पा० ६ । १ । १९८) इत्याष्टमिको निघातः ॥ इन्द्राय 'इदि परमैश्वर्ये' 'इन्धी दीप्तौं' वा । इन्दति इध्यते वा तेजोभिरिति इन्द्रः । 'ऋज्रेन्द्र' (उ० २ । २९) इत्यादिना रन्प्रत्ययान्तो निपातः । नित्त्वादाद्युदात्तः । स्वरितप्रचयौ च ॥ | भागं 'भज भागसेनवयोः' । 'अकर्तरि च कारके संज्ञायाम्' | (पा० ३।३।१९) इति घञ् । ञित्त्वादाद्युदात्ते प्राप्ते 'कर्षात्वतो घञोऽन्त उदात्तः' (पा० ६।१।१५९) इत्यन्तोदात्तत्वम् ॥ तस्य 'अमि पूर्वः' (पा० ६।१।१०७) इत्यमा सहैकादेश 'एकादेश उदात्तेनोदात्तः' (पा० ८।२।५) इत्युदात्त एव । प्रजावतीः 'उपसर्गे च संज्ञायाम्' (पा० ३ । २।९९) इति जनेर्डप्रत्ययः | ततष्टाप् । तेन सहैकादेशेऽप्युदात्तान्तः प्रजाशब्दः । तस्मात् 'तदस्यास्त्यस्मिन्निति मतुप्' (पा० ५।२।९४ )। 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' (पा० ८ । २।९) इति मस्य वः । 'उगितश्च' (पा० ४।१।६) इति डीप् । मतुप्ङीपोरनुदात्तत्वात्प्रजाशब्दस्वर एव । 'वा छन्दसि' (पा० ६।१।१०६) इति पूर्वसवर्णदीर्घत्वम् ॥ अनमीवाः 'अम रोगे' । 'अमेरीवः' इति ईवप्रत्ययः । यद्वा 'शेवयह्वजिह्वाग्रीवाप्वामीवाः' (उ० १ । १५३) इत्यमेर्वन्प्रत्ययान्तो निपातः । तस्य 'नञो बहुव्रीहौ' (पा० २।२। ६) 'समासस्य च' (पा० ६।१।२२३ । २-१६२ ) इत्यन्तोदात्ते प्राप्ते तदपवादेन 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' (पा० ६।२। १) इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते तदपवादेन 'नञ्सुभ्याम्' (पा० ६।२।१७२) इत्यन्तोदात्तत्वम् ॥ अयक्ष्माः तद्वत् स्वरः ॥ मा। निपातत्वादाद्युदात्तः ॥ स्तेनः ‘स्तेन चौर्ये' । स्तेनयति चोरयतीति स्तेनः । पचाद्यच् । चित्त्वादन्तोदात्तः ॥ ईशत 'ईश ऐश्वर्ये' । 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति लङ् । 'व्यत्ययो बहुलम्' (पा० ३।१।८५) इति बहुवचनम् । 'न माङ्योगे' ( पा० ६।४।७४ ) इत्यडभावः । निघातश्च ॥ अघशंसः 'अघ पापकरणे' । पचाद्यजन्तोऽघशब्दोऽन्तोदात्तः । अघं शंसति इच्छतीत्यघशंसः । 'शसि इच्छायाम्' अच् । 'तत्पुरुषे तुल्यार्थ-' (पा० ६।२।२) इत्यादिना पूर्वपदप्रकृतिस्वरत्वम् ॥ ध्रुवाः 'ध्रुव स्थैर्ये' । 'इगुपधज्ञाप्रीकिरः कः' (पा० ३।१।१३५) इति कः । प्रत्ययस्वरेणान्तोदात्तो ध्रुवशब्दः ॥ अस्मिन् 'इणो दमुक्' इति इतेर्दमुक् । अन्तोदात्त इदंशब्दः तस्मात् ङेः स्मिन् । तस्य 'ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः' (पा० ६।१।१७१) इत्युदात्तत्वम् ॥ गोपतौ 'गमेर्डोः' ( पा० २।६।६ ) इति गोशब्दः प्रत्ययस्वरेणोदात्तः । गवां पतिरिति तत्पुरुषे ‘पत्यावैश्वर्ये' (पा० ६।२।१८ ) इति पूर्वपदप्रकृतिस्वरत्वम् ॥ स्यात । अस्तेः प्रार्थनायां लिङ् । 'तस्थस्थमिपां' (पा० ३।४।१०१) यासुट् सलोपोऽलोपश्च । “तिङ्ङतिङः' (पा० ८1१।२८)। बह्वीः । बहुशब्दात् 'वोतो गुणवचनात्' (पा० ४।१।४४) इति ङीष् । 'वा छन्दसि' (पा० ६।१।१०६) इति जसः पूर्वसवर्णत्वम् । प्रत्ययस्वरेणान्तोदात्तः । यजमानस्य 'पूज्यजोः शानन्' (पा० ३। २। १२८) इति यजतेः शानन् । नित्त्वादाद्युदात्तः । 'पशून्' पश्यन्ति गन्धेनेति पशवः । 'अर्जिदृशिकमि' ( उ० १।२७) इत्यादिना दृशेः कुप्रत्ययः पशादेशश्च । प्रत्ययस्वरेणान्तोदात्तः ॥ पाहि पा रक्षणे' लोट् । 'तिङ्तिङः' (पा० ८।१।२८) एवमग्रे पदस्वरप्रक्रियोहनीया विस्तरभयान्नोच्यते ॥१॥
 
द्वितीया ।
वसो॑: प॒वित्र॑मसि॒ द्यौ॑रसि पृथि॒व्य॒सि मात॒रिश्व॑नो घ॒र्मो॒ऽसि वि॒श्वधा॑ असि |
पर॒मेण॒ धाम्ना॒ दृᳪं᳭ह॑स्व॒ मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिर्ह्वार्षीत् ।। २ ।।
उ०. तस्यां पवित्रं करोति । वसोः पवित्रमसि वसोर्वासयितुर्यज्ञस्य यज्ञसाधनभूते पयसि । अत्र यज्ञशब्दः पयसः पवित्रं परिपावनं भवसीत्यर्थः[१]उखामादत्ते द्यौरसि पृथिव्यसि 'उपस्तौत्येवैनामेतत्' इति श्रुतिः[२]।सा यद्दिवोवयवभूतेनोदकेन क्रियते तेन द्यौरित्युच्यते । यत्पृथिव्यवयवभूतया मृदा क्रियते तेन पृथिव्युच्यते । मातरिश्वन इत्यधिश्रयति । उखोच्यते[३] । मातरिश्वनो घर्मोऽसि । मातरिश्वा वायुः। मातर्यन्तरिक्षे श्वसितीति वायोः संबन्धी त्वं घर्मोऽसि । त्रयो घर्मा अग्निवायुसूर्यदैवत्याः । तत्र मध्यमो घर्मः साधवेत्वेति 'अयं वै साधुर्योयं पवते' इति वायुदेवत्यः स त्वमसीत्यर्थः । यतश्च त्वं वायुः अतः । विश्वधा असि सर्वस्य धारयिता भवसि । किंच परमेण धाम्ना दृᳪं᳭हस्व धामानि त्रीणि भवन्ति स्थानानि नामानि जन्मानीति च । उत्कृष्टेन नाम्नाभिहिता सती घर्मोसीत्यादिना आत्मानं दृᳪं᳭हस्व दृढीकुरुष्वेत्यर्थः । मा ह्वाः । 'ह्वृ कौटिल्ये' । मा ह्वार्षीःमा कुटिली भूः । दृढीभूतायामपि लुटितायां पयःस्कन्दनं भवति । तन्माभूदित्येवमुच्यते । माच ते तव यज्ञपतिरधिष्ठानात्प्रच्यवतु ॥२॥

म० 'वसोः पवित्रमिति पवित्रमस्यां बध्नाति कुशौ त्रिवृद्वा' (का. ४।२।१५।१६ ) इति । वासयति वृष्ट्यादिद्वारा स्थापयति विश्वमिति वसुः यज्ञः । 'यज्ञो वै वसुर्यज्ञस्य पवित्रमसि' (१। ७।१।९) इति श्रुतेः । यज्ञशब्देन तदीयहविर्द्रव्यरूपं क्षीरं लक्ष्यते । हे दर्भमय पवित्र, वसोः इन्द्रदेवताया निवासहेतोः पयसः शोधकं पवित्रं त्वं असि । अनेन मन्त्रेण पवित्रं कृत्वा पर्णशाखायां बध्नीयात् । द्वौ कुशौ कुशत्रयं वा पवित्रमुच्यते ॥ 'द्यौरसीति स्थाल्यादानम्' (का० ४ । २ । १९) इति । यस्यां स्थाल्यां क्षीरं प्रक्षेप्तव्यं तद्ग्रहणार्थोऽयं मन्त्रः । हे स्थालि, मृज्जलाभ्यां निष्पना त्वं द्यौरसि जलहेतुवृष्टिप्रदद्युलोकरूपासि । द्युसंबन्धात्तद्रूपत्वमस्यामुपचर्यते । तथा पृथिव्यसि पृथिव्याः सकाशादुद्धृतया मृदा निष्पन्नत्वात्पृथिवीरूपत्वम् ॥ 'मातरिश्वन इत्यधिश्रयति' ( का० ४ । २ । २० ) इति । गार्हपत्यादुदीचोऽङ्गारान्निरुह्य तेषूखामधिश्रयति । हे उखे, त्वं मातरिश्वनः वायोः घर्मः दीपकोऽन्तरिक्षलोकोऽसि । मातर्यन्तरिक्षे श्वसिति निश्वासवच्चेष्टां करोतीति मातरिश्वा वायुः । घर्मः । 'घृ क्षरणदीप्त्योः' । घर्मः दीपकः संचारस्थानप्रदानेन वायोर्दीपकोऽभिव्यञ्जकोऽन्तरिक्षलोकः । हे स्थालि, तवोदरेऽप्यन्तरिक्षरूपस्यावकाशस्य वायुसंचारस्य सद्भावात्त्वमपि वायोर्घर्मरूपासि ॥ द्यौरसि पृथिव्यसीति पूर्वमन्त्रे लोकद्वयरूपत्वमुखाया उक्तम् । | अत्र मातरिश्वनो घर्मोऽसीत्यन्तरिक्षलोकरूपत्वमुच्यते । तस्मादेषां त्रयाणां लोकानां धारणात् त्वं विश्वधा असि विश्वं दधातीति विश्वधाः विश्वधारणसमर्थासि लोकत्रयरूपत्वात् । किंच परमेण धाम्ना उत्तमेन बहुक्षीरधारणसामर्थ्यरूपेण तेजसा हे उखे, त्वं दृंहस्व दृढा भव । त्वनिष्ठस्य क्षीरस्य गलनं वारयितुम् । अन्यथा भग्नायास्तव छिद्रेण क्षीरं गलेत् । 'दृहि वृहि वृद्धौ' इति धातुर्यद्यपि वृद्ध्यर्थस्तथापि दार्ढ्ये सति भङ्गाभावेन चिरमवस्थानाद्दार्ढ्यं नाम कालवृद्धिरेव भवति । किंच । हे उखे, मा ह्वाः कुटिला मा भव ।'ह्वृ कौटिल्ये' । यद्युखा कुटिला भवेत्तदानीमवाङ्मुखायां सत्यां तत्स्थं क्षीरं गलेत् । अतः क्षीरधारणाय दार्ढ्यमकौटिल्यं चार्थ्यते । किंच ते यज्ञपतिः त्वत्संबन्धी यजमानः मा ह्वार्षीत् कुटिलो मा भूत् । त्वनिष्ठक्षीरस्कन्दनेनानुष्ठानविघ्न एव यजमानस्य कौटिल्यम् । तच्च त्वदीयेन दार्ढ्येन कौटिल्याभावेन च न भविष्यतीति प्रार्थ्यते ॥२॥


तृतीया।
वसो॑: प॒वित्र॑मसि श॒तधा॑रं॒ वसो॑: प॒वित्र॑मसि स॒हस्र॑धारम् ।
दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ वसो॑: प॒वित्रे॑ण श॒तधा॑रेण सु॒प्वा काम॑धुक्षः ।। ३ ।।
उ० तस्यां पवित्रं निदधाति । वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारं । शतसहस्रशब्दौ संख्योत्तरवचनौ। अभ्यासे (१)भूयांसमर्थं मन्यन्ते । अनन्तधारमित्यर्थः । आसिच्यमाने जपति । देवस्त्वा सविता । पय उच्यते । देवस्त्वा सविता पुनातु दोषात्पृथक्करोतु निर्दोषं करोतु । वसोरग्निष्टोमयज्ञस्य संबन्धिना आविकेन अनेकधारेण अच्छिद्रेण पवित्रेण । सुप्वा शोभनं पुनातीति सुपूः तेन सुप्वा । साधुपवनेन पवित्रेण । अथाह कामधुक्ष इति प्रश्नोयं । गवां मध्ये त्वं कां गां अधुक्षः । 'दुह प्रपूरणे' दुग्धवानसि ॥३॥
१ तूभयं समर्थ.
म० 'वसोः पवित्रमिति पवित्रमस्यां करोत्युदग्वा' इति । अस्यामुखायां स्थापनीयस्य पवित्रस्य प्रागग्रत्वं सामान्यतः प्राप्तमिति सिद्धवत्कृत्वोदगग्रत्वं विकल्प्यते । हे शाखापवित्र, वसोः इन्द्रदेवतानिवासहेतोः पयसः शोधकं पवित्रं त्वम् असि । पवित्रेण व्यवधाने सति क्षीरेण सह स्थाल्यां पततां तृणपर्णादीनां प्रतिबध्यमानत्वात्पवित्रस्य क्षीरशोधकत्वम् । किंभूतं पवित्रम् । शतधारं शतसंख्या धारा यस्मिन् । तथा सहस्रधारं सूक्ष्मैः पवित्रच्छिद्रैः स्थाल्यां पतन्तीनां क्षीरधाराणां शतसहस्रसंख्याकानां सद्भावाच्छोधकत्वमाहर्तुम् । वसोः पवित्रमिति द्विरुक्तिः । अभ्यासे भूयांसमर्थं मन्यन्ते ( निरु. १०। ४२ ) इति । 'देवस्यत्वेत्यासिच्यमाने जपति' ( का० ४ । २ । २३ ) इति । पयो देवता । दोहनादूर्ध्वं स्थाल्यां सिच्यमान हे क्षीर, सविता प्रेरको देवः पूर्वोक्तरीत्या । शतधारेण वसोः पवित्रेण । त्वा त्वाम् । पुनातु शोधयतु । सुप्वेति पवित्रविशेषणम् । सुष्ठु पुनातीति सुपूः तेन सुप्वा । नुडागमाभाव आर्षः ॥ कामधुक्ष इति प्रश्नः ( ४ । २ । २४ ) इति एकस्यां गवि दुग्धायां दोग्धारं प्रत्यध्वर्युः पृच्छेत् । हे दोग्धः, विद्यमानानां गवां मध्ये त्वं कां गाम् अधुक्षः दुग्धवानसि ॥ ३ ॥

चतुर्थी।
सा वि॒श्वायु॒: सा वि॒श्वक॑र्मा॒ सा वि॒श्वधा॑याः ।
इन्द्र॑स्य त्वा भा॒गᳪं᳭ सोमे॒नात॑नच्मि॒ विष्णो॑ ह॒व्यᳪं᳭ र॑क्ष ।। ४ ।।
उ० अमूमित्युक्ते दोग्ध्रा सा विश्वायुरित्यध्वर्युराह । सा गौर्विश्वस्य जगतः आयुषो दात्री। द्वितीयामाह । सा गौर्विश्वस्य जगतः कर्मा (१)कर्त्री। तृतीयामाह। सा गौर्विश्वस्य जगतः (२)धायाः धयतेर्णिजन्त(३)स्यासुनि रूपम्। पाययित्री(४)। यज्ञादेव सर्वाः प्रजा उत्पद्यन्ते आयुर्भोजनसहिताः स गवामुपचर्यते । आतनक्ति। इन्द्रस्य त्वा भागं सोमेन दध्ना आतनच्मि । तञ्चतिः कठिनीकरणार्थः । दधिभावमापादयामीत्यर्थः ॥ अपिदधाति विष्णो हव्यं रक्ष । 'यज्ञो वै विष्णुः' इति श्रुतिः । हविर्गोपाय ॥४॥
१ कर्मकर्त्री. २ धायाः जगतः. ३ स्थात्रासुनि. ४ जगतः धाययित्री.
म० प्रोक्ते ‘सा विश्वायुरित्याह' (का० ४ । २ । २५) इति पूर्वोक्तप्रश्नस्योत्तरे अमूं गामिति दोग्ध्रा प्रोक्ते सति सा विश्वायुरिति मन्त्रेण दोग्धारं प्रत्यध्वयुर्ब्रूयात् । या गौस्त्वया दुग्धा मया च पृष्टा सा विश्वायुःशब्देनाभिधेया । विश्वमायुर्यस्याः सा विश्वायुः । यजमानस्य संपूर्णं आयुः प्रयच्छतीत्यर्थः । 'एवमितरे उत्तराभ्याम्' (का० ४ । २ । २६) इति । यथा प्रथमा गौः पृष्टा एवमितरे द्वितीयतृतीये गावौ तद्दोहनादूर्ध्वं कामधुक्ष इति मन्त्रेण प्रष्टव्ये । दोग्धा तूत्तरेऽमूमिति प्रोक्ते सा विश्वकर्मा सा विश्वधाया इति मन्त्राभ्यां क्रमेण तयोराशिषं ब्रूयात् । या द्वितीया गौस्त्वया पृष्टा सा विश्वकर्मा, या तृतीया गौस्त्वया पृष्टा सा विश्वधायाः । 'डुधाञ् धारणपोषणयोः' । विश्वान्सर्वान्देवान्दधाति क्षीरदध्यादिहविर्दानेन पुष्णातीति विश्वधायाः। असुन्प्रत्ययो णिच्च । णित्त्वात् 'आतो युक् चिण्कृतोः' (पा० ७। ३ । ३३) इति युक् । यद्वा । 'धेट् पाने' । विश्वानिन्द्रादिदेवान् क्षीरादिहव्यं धापयति पाययतीति विश्वधायाः । 'उद्वास्यातनक्ति प्राग्घुतशेषेणेन्द्रस्य त्वा' (का. ४ । २ । ३२) इति । क्वथितं क्षीरमग्नेरुद्वास्य मन्दोष्णे तत्र प्रातःकालीनहोमावशिष्टेन दध्ना दधिनिष्पत्तये आतञ्चनं कुर्यात् । हे क्षीर, इन्द्रस्य भागं त्वां सोमेन सोमवल्लीरसेन आतनच्मि दध्यर्थं कठिनीकरोमि । तञ्चतिः कठिनीकरणार्थः । यद्यप्यत्रातञ्चनहेतुर्दधिशेषस्तथापि भावनया तस्यैव सोमत्वं संपाद्यते । यथा कश्चित्पुमान्बन्धुत्वेन भावितो बन्धुर्भवति प्रातिकूल्येन भावितः शत्रुश्च । तदुक्तं वसिष्ठेन 'बन्धुत्वे भावितो बन्धुः परत्वे भावितः परः । विषामृतदशैवेह स्थितिर्भावनिबन्धिनी॥' इति । भोज्यं वा विषत्वेन भावितं वान्तिं करोति । अमृतत्वेन भावितं जीर्णं सद्बलहेतुर्भवति । तथात्र दधिशेषस्य भावनया सोमत्वम् ॥ 'सोदकेनापि दधात्यमृण्मयेन विष्णो हव्यमिति' (का० ४ । २।३४) इति । हे विष्णो, इदं हव्यं क्षीरं रक्ष । सर्वत्र सृष्टौ पालने संहारे च ब्रह्मविष्णुमहेश्वरा अभिमानिन्यो देवताः । अतो विष्णुं संबोध्य हविषो रक्षा प्रार्थ्यते ॥ ४ ॥

पञ्चमी ।
अग्ने॑ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम् । इ॒दम॒हमनृ॑तात्स॒त्यमुपै॑मि ।। ५ ।।
उ० व्रतमुपैति । अग्ने व्रतपते। हे भगवन् अग्ने, व्रतस्य पतेः। व्रतं सत्यादिकं चरिष्यामि । तद्व्रतं तव प्रसादात् शकेयं शक्नुयाम् । शक्तं च सत् तत् मे मम राध्यतां सिध्यताम् । यज्ञफलसमृद्धिराशास्यते । अनेन वाग्निरुच्यते । इदमहं त्वत्साक्षिकमनृतादसत्यात्सत्यमुपगच्छामि ॥ ५ ॥
म० 'अपरेणाहवनीयं प्राङ्निष्ठन्नग्निमीक्षमाणोऽप उपस्पृश्य व्रतमुपेत्यग्ने व्रतपत इदमहमिति वा' (२।१।११) इति । हे व्रतपते, व्रतस्यानुष्ठेयस्य कर्मणः पते पालक हे अग्ने, त्वदनुज्ञया व्रतं चरिष्यामि कर्मानुष्ठास्यामि । तच्छकेयं तत्कर्मानुष्ठातुं शक्तो भूयासं त्वत्प्रसादात् । तन्मे राध्यतां मदीयं तत्कर्म निर्विघ्नं सत् फलपर्यन्तं सिध्यतु । शकेराशीर्लिड्यामुट् । लिड्याशिष्यङ्' (पा० ३।१।८६) 'अतो येयः' (पा० ७॥२॥ ८०)। गुणः । शकेयम् । 'अग्निर्वै देवानां व्रतपतिः' (१।१। १२) इति श्रुतिः । इदमहम् । अहं यजमानोऽस्मादनृतान्मनुष्यजन्मन उद्गत्य सत्यं देवताशरीरम् उपैमि प्राप्नोमि । सत्यमनुष्ठीयमानकर्मरूपेण प्रत्यक्षमिति मन्वान इदमिति विशिनष्टि । अनृतं मनुष्यजन्म शीघ्रविनाशित्वात् । यथा स्वप्न गजादयो बोधमात्रेण शीघ्रं निवर्तमाना अनृता उच्यन्ते। सत्यं देवजन्म बहुकालस्थायित्वात् । यथा जागरणगजादयः। श्रुतिरपि 'इदमहमनृतात्सत्यमुपैमि' (१।१।१।४) इति । तन्मनुष्येभ्यो देवानुपावर्तत इति । यद्वा लोकप्रसिद्धे एव सत्यानृते ग्राह्ये । नानृतं वदेदिति कर्मण्यनृतनिषेधात् । अनृतवदनादुद्गत्याहमिदं सत्यवदनमुपैमि । अत इदं सत्यवदनं कर्माङ्गत्वात्कर्मकाले पालनीयम् ॥ ५॥

षष्ठी।
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्ति॒ कस्मै॑ त्वा युनक्ति॒ तस्मै॑ त्वा युनक्ति । कर्म॑णे वां॒ वेषा॑य वाम् ।। ६ ।।
उ० अपः प्रणयति । कस्त्वा युनक्ति । यज्ञस्यारम्भकर्मणि आत्मनः कर्तृत्वमपनीयाध्वर्युः प्रजापतेर्यज्ञस्य कर्तृत्वमाह । अत्र चत्वारि सर्वनामानि । तत्र प्रथमतृतीये प्रश्नभूते । द्वितीयचतुर्थे प्रतिप्रश्नभूते। कस्त्वा युनक्ति। हे यज्ञ, (१)प्रजापतिः न मनुष्यः स तु यज्ञः प्रजापतिः त्वां युनक्ति । कस्मै प्रयोजनाय युनक्तीत्यध्वर्युराशङ्क्योत्तरं ददाति । तस्मै प्रयोजनाय युनक्ति। यज्ञादुत्पत्तिः स्थितिश्च जगतः । अतोऽनेन सर्वनाम्ना तदेव निर्दिश्यते ॥ शूर्पं चाग्निहोत्रहवणीं चादत्ते । कर्मणे यज्ञकर्मणे वां युवां अहं आददे इति वाक्यशेषः । वेषाय । 'विष्लृ व्याप्तौ' । यज्ञव्याप्त्यर्थं वां युवां अहमादद इति च ॥ ६ ॥
१ प्रजापते.
म० एवं व्रतमुपेत्य ब्रह्माणं वृत्वापां प्रणयनं कुर्यात् । 'ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेत्याहानुज्ञात उत्तरेणाहवनीयं संप्रति निदधाति कस्त्वा युनक्ति' (का० २।३।२-३) इति । अत्र मन्त्रं प्रयुञ्जानोऽध्वर्युर्यज्ञारम्भकर्मण्यात्मनः कर्तृत्वमपनीय प्रजापतेर्यज्ञकर्तृत्वं प्रश्नोत्तररूपाभ्यां मन्त्रवाक्याभ्यां प्रतिपादयति । प्रणीतानामपां धारक हे पात्र, त्वां कः पुरुषो युनक्ति आहवनीयस्योत्तरभागे स्थापयतीति प्रश्नः । तच्छब्दः प्रसिद्धार्थवाची। सर्वेषु वेदेषु जगन्निर्वाहकत्वेन प्रसिद्धो यः प्रजापतिरस्ति सः एव परमेश्वरः हे पात्र, त्वां युनक्ति इत्युत्तरम् । पुनरपि कस्मै प्रयोजनाय त्वां युनक्ति इति प्रश्नः । तस्मै प्रजापतये तत्प्रीत्यर्थं त्वा युनक्ति इत्युत्तरम् । सर्वकर्माणि परमेश्वरप्रीत्यर्थमनुष्ठेयानीति भगवद्गीतास्वर्जुनं प्रति भगवतोक्तम् 'सर्वकर्माण्यपि सदा' (१८५६) ब्रह्मार्पणं' (४।२४) इति च परिस्तीर्य द्वन्द्वशः पात्राण्यासाद्य शूर्पं चाग्निहोत्रहवणीं चादत्ते। 'कर्मणे वामिति शूर्पाग्निहोत्रहवण्यादाय' (का०२।३।१०) इति। कर्मणे हे अग्निहोत्रहवणि, हे शूर्प, वां युवां कर्मार्थमहमादद इति शेषः । वेषाय च । 'विष्लृ व्याप्तौ' । घञ् । वेषो व्याप्तिः । सूचितकर्मसु व्याप्त्यर्थं च वां युवामहमाददे । शकटेऽवस्थितानां व्रीहीणां हविरर्थं पृथक्करणं प्रोक्षणार्थोदकधारणमित्यादयोऽग्निहोत्रहवणीव्यापाराः । व्रीहिनिर्वापधारणमुलूखले व्रीहिप्रक्षेपः पुनरुद्धरणं चेत्यादयः शूर्पव्यापाराः ॥ ६ ॥

सप्तमी।
प्रत्यु॑ष्ट॒ᳪं᳭ रक्ष॒: प्रत्यु॑ष्टा॒ अरा॑तयो॒ निष्ट॑प्त॒ᳪं᳭ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः । उ॒र्वन्तरि॑क्ष॒मन्वे॑मि ।। ७ ।।
उ० प्रतपति । प्रत्युष्टं 'उष दाहे' । प्रतिज्ञाय दग्धं रक्षः प्रतिज्ञाय च दग्धा अरातयः । न विद्यते रातिर्दानं येषां ते अरातयः । अनेन वा। निष्टप्तं । 'तप संतापे । (१)निरित्येतस्य स्थाने नितरां तप्तं रक्षः नतु यज्ञसाधनमित्यभिप्रायः । उक्तमन्यत् । गच्छति उर्वन्तरिक्षं । यद्यपि रक्षोभिराकुलमन्तरिक्षं तथाप्यनेन यजुषा उरु विस्तीर्णं कृत्वा अन्वेमि प्रतिगच्छामि ॥ ७ ॥
१ निरेतस्य स्थाने.
म० 'प्रतपनं प्रत्युष्टं निष्टप्तमिति वा' (का० २।३।११) इति । रक्षः राक्षसजातिः। प्रत्युष्टं प्रत्येकं दग्धम् । 'उष दाहे' । अनेनाग्निहोत्रहवणीशूर्पयोः प्रतपनेनात्र स्थिता राक्षसा दग्धा इत्यर्थः । अरातयोऽपि प्रत्युष्टाः प्रत्येकं दग्धाः । 'रा दाने । हविषो दक्षिणाया वा दानं रातिः । रातेः प्रतिबन्धका अरातयस्तेऽपि दग्धाः । अन्यथा न यज्ञसाधनमित्यर्थः । शूर्पादौ निगूढं रक्षो निष्टप्तं निःशेषेण तप्तं संतप्तम् । 'तप संतापे'।
अरातयश्च निष्टप्ताः । अनयोर्मन्त्रयोर्विकल्पः ॥ 'गच्छत्युर्वन्तरिक्षम्' (का० २।३।१२) इति । उरु विस्तीर्णम् । अन्तरिक्षम् अवकाशम् । अन्वेमि अनुसृत्य गच्छामि । गच्छतः पुरुषस्य पार्श्वयोरेव स्थितं रक्षोऽनेन मन्त्रेण निराक्रियत इत्याशयः ॥७॥

अष्टमी।
धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो॒ऽस्मान्धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वा॑मः ।
दे॒वाना॑मसि॒ वह्नि॑तम॒ᳪं᳭ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं देव॒हूत॑मम् ।। ८ ।।
उ० धुरमभिमृशति। धूरसि । अनसोऽवयवं धुरं स्तौति । तत्र श्रुतिः 'अग्निर्वा एष धुर्यस्तमेतदत्येष्यन्ब्रवीतीति । हविर्ग्रहीष्यन् धुर्यमग्निं ब्रवीति । धूरसि । धूर्वतेर्वधकर्मणः । धूर्वणक्रियानिमित्तं हि ते नाम । अतो ब्रवीमि । धूर्व धूर्वन्तं । हिन्धि हिंसन्तं । धूर्व तं हिन्धि तं । योस्मान्धूर्वति योस्मान् हिनस्ति तं धूर्व यं वयं धूर्वामः। तं पुरुषं हिंधि यं वयं हिंस्मः। अनस उपस्तम्भनमभिमृशति । देवानामसि । अन उच्यते । देवानामग्न्यादीनां त्वं भवसि।वह्नितमं वह्निर्वोढा। वह प्रापणे इत्यस्य रूपम् । वोढृतमं । सर्वे तमपः अतिशयार्थाः । सस्नितमं । ष्णै वेष्टने-' आदृगमहन-' इत्यादिना किन्प्रत्ययः। चर्मणा स्नायुना च परिवृततमम् । अथवा पार्श्वतः (३)काशैर्गोणि
२ मभिस्पृशति. ३ काष्ठैर्गोंणिपटैः.
पटैश्च परिवृततमं । पप्रितमं । 'प्रा पूरणे' । पूर्ववत् किन्प्रत्ययः । हविषा पूर्णतमम् । जुष्टतमं । 'जुषी प्रीतिसेवनयोः । अत्र जुषिः प्रीतौ वर्तते । अभिप्रेततमं सेविततमं वा । देवहूतमं देवानाह्वयतीति देवहूः देवानामाह्वातृतमम् ॥ ८॥
म०. 'श्रपणस्य पश्चादनस्तिष्ठति समङ्गि धूरसीति धुरभिमर्शनम्' (२।२।१३।१३) इति । अस्यायमर्थः । श्रपणस्य पुरोडाशपाकहेतोर्गार्हपत्यस्य पश्चादनः शकटं व्रीहियुक्तं तिष्ठति । तच्च समङ्गि सम्यगङ्गानि यस्य तत्सर्वाङ्गोपेतं तस्य धुरं बलीवर्दवहनयोग्यं युगप्रदेशं धूरसीति मन्त्रेण स्पृशेदिति ॥ अथ मन्त्रार्थः-व्रीहिरूपहविर्धारकशकटसंबन्धिनो युगस्य बलीवर्दवहनप्रदेशे कश्चिद्धिंसकोऽग्निः शास्त्रदृष्टोऽस्ति तं प्रार्थयते । 'अग्निर्वा एष धुर्यस्तमेतदत्येष्यन्भवति' (१।१२।१०) इति श्रुतेः। हे वह्ने, त्वं धूरसि हिंसकोऽसि । 'तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्थाः ' धुर्वतेः क्विप् । यतो धूरसि अतः धूर्वन्तं हिंसन्तं पाप्मानं धूर्व विनाशय । किंच यः राक्षसादिर्यागविघ्नेन अस्मान् धूर्वति हिंसितुमुद्युक्तस्तमपि धूर्व विनाशय । यं च वयं धूर्वामः तमपि धूर्व । यमालस्यादिरूपं वैरिणं वयमनुष्ठातारो धूर्वामो हिंसितुमुद्यतास्तमपि धूर्व विनाशय । शकटस्थिताग्न्यतिक्रमणनिमित्तमपराधमपह्नोतुमग्न्याधारभूता शकटस्य धूरनेन मन्त्रेण स्पृश्यते 'देवानामित्युपस्तम्भनस्य पश्चादीषाम्' (का० २।३।१४) इति । शकटस्य दीर्घं काष्ठमीषा तद्ग्रस्य भूमिस्पर्शो मा भूदिति । तदाधारत्वेन स्थापितं काष्ठमुपस्तम्भनं तस्य पश्चाद्भागे तामीषां स्पृशेत् । देवानामसि । हे शकट, त्वं देवानां संबन्धि असि भवसि । किंभूतं वह्नितमम् 'वह प्रापणे'। वहतीति वह्नि अतिशयेन वह्नि वह्नितमम् । व्रीहिरूपस्य हविषोऽतिशयेन प्रापकम् । तथा सस्नितमं 'ष्णा शौचे' अतिशयेन शुद्धम् । 'आदृगमहन-' (पा० ३।२।१७१) इत्यादिना किप्रत्ययः । यद्वा 'स्रै वेष्टने' । दार्ढ्याय चर्मादिभिरतिशयेन वेष्टितम् । पप्रितमम् । 'प्रा पूरणे' व्रीहिभिरतिशयेन पूरितम् । जुष्टतमं 'जुषी प्रीतिसेवनयोः' । देवानामतिशयेन प्रियम् ।' देवहूतमम् । 'ह्वेञ् स्पर्धायां शब्दे च' देवानामतिशयेनाह्वातृ । व्रीहिपूर्णं शकटं दृष्ट्वा देवा आहूता इव शीघ्रमागच्छन्ति ॥८॥

नवमी।
अह्रु॑तमसि हवि॒र्धानं॒ दृᳪं᳭ह॑स्व॒ मा ह्वा॒र्मा ते य॒ज्ञप॑तिर्ह्वार्षीत् ।
विष्णु॑स्त्वा क्रमता¬मु॒रु वाता॒याप॑हत॒ᳪं᳭ रक्षो॒ यच्छ॑न्तां॒ पञ्च॑ ।। ९ ।।
उ०. अह्रुतमसि 'ह्रुह्वरेश्छन्दसि' इति ह्वरतेलुठर्नार्थस्य निष्ठायां ह्वुरादेशः। अलुठितं पूर्णमसि। हविर्धानं हविषां निधानम् । अतः आत्मानं दृᳪं᳭हस्व दृढीकुरु । ममारुरुक्षते अवहितं भव । मा ह्वार्मा ते यज्ञपतिर्वा अर्षीदिति उक्तार्थः । आरोहति । (१)[४]विष्णुर्यज्ञस्त्वां शकट आक्रमतां आरोहतु । अहं स्वसमर्थ इत्यभिप्रायः । प्रेक्षते हविष्यात् । उरुवाताय उरु महत् वाताय प्राणाय त्वां करोमीति प्रेक्षते । अपद्रव्यं निरस्यति । अपहतं 'हन हिंसागत्योः' । अत्र गतौ वर्तते । अपगतं अस्माद्धविषो रक्षः । आलभते । यच्छन्तां पञ्च 'यम उपरमे' निबध्नन्तु त्वां हविष्यं पञ्च अङ्गुलयः ॥९॥

म० अह्रुतमसि । 'ह्वृ कौटिल्ये' । क्तप्रत्ययः । 'ह्रुह्वरेश्छन्दसि' (पा० ७।२।३१ ) इति निष्ठायां ह्रुआदेशः । अह्रुतम् अकुटिलम् असि । आरोहणेऽपि भङ्गभीतिर्नास्तीत्यर्थः । हविर्धानम् । 'डुधाञ् धारणपोषणयोः' । हविषो व्रीहिरूपस्य धारकं पोषकं भवसि । अतः दृंहस्व ।मा ह्वार्मा ते यज्ञपतिर्ह्वार्षीदिति पूर्ववद्व्याख्येयम् । 'विष्णुस्त्वेत्यारोहणम्' (का० १।३। १५) इति । हे शकट, विष्णुः व्यापको यज्ञः त्वा त्वां । क्रमतां पादेनाक्रम्यारोहतु नाहं समर्थ इति भावः । 'प्रेक्षत उरु वातायेति हविष्यात्' (का० १।३।१६) इति । हे शकट, वाताय उरु भवेति शेषः । तदन्तर्वर्तिव्रीहिषु वायुसंचाराय विस्तीर्णं भव । शकटस्य व्रीहीणां तृणाद्याच्छादितत्वात्संकोचे वायुप्रवेशाभावादाच्छादनमपनीय यथा वायुः प्रविशति तथा संकोचं परित्यजेत्यर्थः । वायुरूपप्राणवेशाद्धविः सप्राणं क्रियते मन्त्रेण । किंच वायुप्रवेशरहितं सर्वं वस्तु वरुणदेवत्यं भवति । वरुणश्च बन्धकारित्वाद्यज्ञनिरोधकस्तन्निवृत्त्यर्थमयं मन्त्रः । यद्वै किंच वातो नाभिभवति तत्सर्वं वरुणदेवत्यमुरुवातायेत्याह वारुणमेवैतत्करोति इति तित्तिरिवचनात् 'अपहतमिति निरस्यत्यन्यदविद्यमानेऽभिमृशेत्' (का० २।३।१७-१८) इति । व्रीहिभ्योऽन्यत्तृणादिकं यदि तत्र भवेत्तदनेन निरस्येत् । तृणाद्यभावे व्रीहीनभिमृशेदिति सूत्रार्थः । अथ मन्त्रार्थः -- रक्षः यज्ञविघातकम् । अपहतं निराकृतं तृणादिकमेव रक्ष उच्यते । 'यच्छन्तामित्यालभते' (का० २।३।१९) इति । पञ्च पञ्चसंख्याका अङ्गुलयो व्रीहिरूपं हविः यच्छन्तां नियच्छन्तु । अनेन पञ्चाङ्गुलियुक्तेन मुष्टिना व्रीहीन्गृह्णीयादित्यर्थ उक्तो भवति ॥ ९॥

दशमी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
अ॒ग्नये॒ जुष्टं॑ गृह्णाम्य॒ग्नीषोमा॑भ्यां॒ जुष्टं॑ गृह्णामि ।। १० ।।
उ० गृह्णाति । देवस्य त्वा। त्वाशब्देन हविरुच्यते। देवस्य सवितुः प्रसवे अभ्यनुज्ञायां वर्तमानः । देवेन सवित्रा प्रसूतः । अश्विनोर्बाहुभ्यां न स्वाभ्यां । अश्विनौ हि देवानामध्वर्यू । पूष्णो हस्ताभ्यां न स्वाभ्याम् । पूषा हि देवानां भागधुक् भागपूरकः । अग्नये जुष्टम् । 'जुषी प्रीतिसेवनयोः'। अत्र जुषिः प्रीतौ वर्तते । तथाहि 'रुच्यर्थानां प्रीयमाण:' इत्यभिशब्दस्य चतुर्थी संजाता । अग्नये जुष्टं रुचितमभिप्रेतं गृह्णामि । एतदुक्तं भवति । योऽग्निः (१)सर्वेश्वरः[५] सर्वात्मा तस्व तथाभूतमेतदन्नं भवितुमर्हति । नच तथाभूतं मनुष्येण तद्ग्रहीतुं शक्यते । अतोऽहं सावित्रं प्रसवमास्थायाश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वां हविष्याग्नयेऽभिरुचितं गृह्णामि । तथा अग्नीषोमाभ्यां त्वां हविष्याभिरुचितं गृह्णामि ॥१०॥

म० 'देवस्य त्वेति गृह्णात्याग्नेयं चतुरो मुष्टीनेवमग्नीषोमीयं यथादैवतमन्यत्' (का० २ । ३ । २०-२२) इति । हे हविः, सवितुर्देवस्य प्रसवे प्रेरणे सति तेन प्रेरितोऽहम् अग्नये जुष्टं प्रियं त्वा गृह्णामि । अग्नीषोमाभ्यां व्यासक्तदेवताभ्यां च जुष्टं त्वा गृह्णामि । काभ्याम् । अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां च । अंसमणिबन्धयोर्मध्यभागो दीर्घदण्डाकारो बाहुः । पञ्चाङ्गुलियुक्ताग्रभागो हस्तः । अश्विनौ हि देवानामध्वर्यू । पूषा हि देवानां भागधुक् । अतो ग्रहणसाधनयोः स्वबाह्वोरश्विबाहुभावना कार्या । हस्तयोस्तु पूषहस्तभावनेति भावः । सर्वात्मकस्याग्नेर्हविस्तादृशं मनुष्येण कथं ग्रहीतुं शक्यमिति सवित्रानुज्ञातोऽश्विबाहुभ्यां पूष्णो हस्ताभ्यां गृह्णामीत्यर्थः । किंच। 'सत्यं देवा अनृतं मनुष्याः ' (१।१।२।१७) इति श्रुतेः देवानां सत्यरूपत्वात्तदनुस्मृतिपूर्वकं हविर्ग्रहणं फलपर्यवसायित्वात्सत्यं भवति । देवतास्मृत्यभावे तु मनुष्याणामनृतरूपत्वात्तत्कृतमनुष्ठानं निष्फलत्वादनृतं भवतीति देवतास्मरणमित्यभिप्रायः । हविर्गृह्णन्तमध्वर्युं देवताः सेवन्ते मम नाम ग्रहीष्यतीति । अनामग्रहं हविषि गृहीते तासां मिथः कलहो भवेदिदं मदर्थमेव गृहीतमिति तत्कलहनिवृत्यर्थमग्नये जुष्टमग्नीषोमाभ्यां जुष्टमिति देवतानिर्देशपूर्वकं हविर्ग्रहणमित्यभिप्रायः १०

एकादशी।
भू॒ताय॑ त्वा॒ नारा॑तये स्व॒रभि॒विख्ये॑षं॒ दृᳪं᳭ह॑न्तां॒ दुर्या॑: पृथि॒व्यामु॒र्वन्तरि॑क्ष॒मन्वे॑मि पृथि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्या उ॒पस्थेऽग्ने॑ ह॒व्यᳪं᳭ र॑क्ष ।। ११ ।।
उ० भूताय त्वेति शेषाभिमर्शनम् । भूताय भवनाय ।। त्वा त्वां परिशेषयामीति शेषः। नारातये न अदानाय । उप्तं रोपितं सत् व्रीह्यादि पुनरेव बहु भविष्यतीति परिशेषयामि न कृपणतायै । स्वरिति प्राङीक्षते । स्वरभिविख्येषं पश्येयम् । विपूर्वः ख्यातिदर्शनार्थः । स्वशब्देन यज्ञोऽभिधीयते । स हि शोभनं प्राङीरितो भवति । यज्ञार्हदेवाः सूर्यः यज्ञोपि स्वःशब्देनोच्यते । 'यज्ञो वै स्वरहर्देवाः सूर्यः' इति श्रुतेः। दृᳪं᳭हन्तामित्यवरोहति । 'दृहि वृहि वृद्धौ' इति यद्यपि वृद्ध्यर्थो धातुस्तथापि मन्त्रेषु दृढीकरणार्थः प्रयुज्यते। दृह्यन्तामिति प्राप्ते दृᳪं᳭हन्तामिति विकरणव्यत्ययः । दिवादित्वाच्छ्यन्प्रत्ययः । दुर्याः दुरः द्वाराणि अर्हन्तीति दुर्या गृहा उच्यन्ते । दुर्याः हढा भवन्तु । पृथिव्यां भूम्यां गच्छति । उर्वन्तरिक्षमिति व्याख्यातम् । पृथिव्यास्त्वेति सादयति । हविरुच्यते । पृथिव्याः त्वा त्वां नाभौ मध्ये अवसादयामि । अदित्या देवमातुः । उपस्थे उत्सङ्गे । अग्ने हव्यं रक्ष (रक्ष - त्रायस्व ) । श्रपणं गार्हपत्यमग्निमाह ॥ ११ ॥
म० 'भूताय त्वेति शेषाभिमर्शनम्' (का० २ । ३ । २३) इति । हे व्रीहिशेष शकटावस्थित, भूताय भवनाय यागान्तराणां ब्राह्मणभोजनस्य च पुनरपि सद्भावाय त्वा त्वां संपरिशेषयामीति शेषः । न अरातये अदानाय शेषयामि । 'स्वरिति प्राङीक्षते' (का० २ । ३ । २४ ) इति । अहं स्वः अभिविख्येषं यज्ञं पश्येयं । 'यज्ञो वै स्वरहर्देवाः सूर्यः' (१।१।२ । २१) इति श्रुतेः । यज्ञदिवसदेवसूर्याः स्वःशब्देनोच्यन्ते । स्वर्गहेतुत्वादपि स्वःशब्देन यज्ञः । 'ख्या प्रकथने' । अभिविख्येषम् अभितो विशेषेण ख्यापयेयं पश्येयमित्यर्थः । अनेन मन्त्रेण प्राङ्मुखो यज्ञभूमिं वीक्षते ॥ दृᳪं᳭हन्तामित्यवरोहति' (का० २।३।२५) इति । पृथिव्यां वर्तमानाः । दुर्याः ग्रहाः । दृᳪं᳭हन्तां दृढा भवन्तु । अनेन मन्त्रेण शकटादवरोहयेत् । दुरो द्वाराण्यर्हन्तीति दुर्या गृहाः । हविर्गृहीत्वोत्तरतोऽध्वर्योर्भारेण गृहक्षोभः संभाव्यते सोऽनेन मन्त्रेण वार्यते । 'गच्छत्युर्वन्तरिक्षम्' (का० २। ३ । २६) इति । व्याख्यातम् । 'श्रपणस्य पश्चात्सादयति पृथिव्यास्त्वा' (का० २ । ३ । २५) इति । हे हविः, पृथिव्या नाभौ मध्ये त्वां सादयामि स्थापयामि । तस्यैव व्याख्यानं अदित्या उपस्थ इति । उपस्थेऽङ्के । यथा सुप्तं बालं पुत्रं माता स्वाङ्के स्थापयति एवमिदं हविः अदित्या उपस्थे भूम्या अङ्के सादयामि । हे अग्ने, तव समीपे स्थापितमिदं हव्यं त्वं रक्ष । सुप्तं पुत्रमिव बाधकेभ्यः पालय ॥ ११ ॥

द्वादशी।
प॒वित्रे॑ स्थो वैष्ण॒व्यौ॒ सवि॒तुर्व॑: प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
देवी॑रापो अग्रेगुवो अग्रेपु॒वोऽग्र॑ इ॒मम॒द्य य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिᳪं᳭ सु॒धातुं॑ य॒ज्ञप॑तिं देव॒युव॑म् ।। १२ ।।
उ० पवित्रे छिनत्ति । पवित्रे स्थ इति । पवित्रे पवनक्रियाशीले युवां भवथः । वैष्णव्ये इति प्राप्ते वैष्णव्याविति लिङ्गव्यत्ययः। 'यज्ञो वै विष्णुर्यज्ञियेस्थ' इति श्रुतिः। अप उत्पुनाति। सवितुर्वः । आप उच्यन्ते । सवितुः प्रसवे वर्तमानः अहं वः युष्मान् उत्पुनामि उर्ध्वं नीत्वा शोधयामि। केन । अच्छिद्रेण पवित्रेण । 'यो वा अयं पवत एषोऽच्छिद्रं पवित्रं' इति श्रुतिः। वायोः सर्वगतत्वादच्छिद्रत्वम् । सूर्यस्य च रश्मिभिः उदिङ्गयति । देवीराप इति। आप उच्यन्ते । हे देव्यः आपः, अग्रेगुवः अग्रेपुवः । अग्रेशब्दः पूर्वपदं द्वयोः । पूर्वस्य गमिरुत्तरपदम् । उत्तरस्य तु पिबतिः । उभयोरपि डूप्रत्ययः। अग्रे याः समुद्र गच्छन्तीत्यग्रेगुवः । अग्रे प्रथमं सोमस्य राज्ञो भक्षयन्तीत्यग्रेपुवः । अग्रे उत्कृष्टे स्वर्गे । इमं दर्शपूर्णमासाख्यम् । अद्य अस्मिन् द्यवि । यज्ञं नयत प्रापयत । अग्रे यज्ञपतिं नयत। सुधातुं शोभनदक्षिणं यज्ञपतिं । देवयुवं देवान्कामयत इति देवयुः । 'इदंयुरिदंकामयमानः' इति यास्कः । एतदुक्तं भवति । यज्ञं यजमानं पुष्कलदक्षिणं देवकामं च अग्रे नयत ॥ १२ ॥
म० कुशौ समावप्रशीर्णाग्रावनन्तर्गर्भौ कुशैश्छिनत्ति 'पवित्रे स्थ इति त्रीन्वा' (का०२।३।३२) इति । वैष्णवे इति प्राप्ते 'व्यत्ययो बहुलम्' (पा० ३।१।८५) इति स्त्रीत्वम् । हे पवित्रे शोधके कुशद्वयरूपे, युवां वैष्णव्यौ यज्ञसंबन्धिनी स्थः भवथः । 'यज्ञो वै विष्णुर्यज्ञिये स्थः' (१।१।३।१) इति श्रुतेः । हविर्ग्रहण्यामपः कृत्वा ताभ्यामुत्पुनाति 'सवितुर्व इति' ( का० २। ३ । ३३) इति । सवितुः प्रेरकस्य प्रसवे प्रेरणे सति हे आपः, वः युष्मान् उत्पुनामि उत्कर्षेण शोधयामि । केन । अच्छिद्रेण छिद्रहीनेन पवित्रेण शोधकेन वायुरूपेण । 'यो वा अयं पवत एषोऽच्छिद्रं पवित्रम्' (१।१।३ । ६ ) इति श्रुतेः । सूर्यस्य रश्मिभिः शुद्धिहेतुभिरुत्पुनामीति संबन्धः । वायोः सूर्यरश्मीनां च पादप्रक्षालनाद्युपहतभूमिशुद्धिहेतुत्वं प्रसिद्धम् । 'सव्ये कृत्वा दक्षिणेनोदिङ्गयति देवीरापः' (का० २ । ३ । ३५) इति । उत्पूताभिरद्भिः पूरितामग्निहोत्रहवणीं सव्यहस्ते स्थापयित्वा मन्त्रमुच्चारयन् दक्षिणहस्तेनोर्ध्वं चालयेदिति सूत्रार्थः । मन्त्रार्थस्तु-हे देवीः आपः द्योतनात्मिका आपः, यूयम् अद्य अस्मिन्दिने इमम् इदानीं प्रवर्तमानं यज्ञम् अग्रे नयत पुरतः प्रवर्तयत निर्विघ्नं समापयत । किंभूता आपः । अग्रेगुवः अग्रे गच्छन्ति इत्यग्रेगुवः पुरतो निम्नदेशं प्रति गमनशीलाः। तथा अग्रेपुवः अग्रे पुनन्तीत्यग्रेपुवः । अग्रे यस्मिन्पूर्वभागे गच्छन्ति तस्मिन्नपहतिनिवारणेन शोधनशीलाः । यद्वा । अग्रे पिबन्तीत्यग्रेपुवः । प्रथमं सोमरसस्य पानकर्त्र्यः । गमेः क्विप्प्रत्यये 'गमः क्वौ' (पा० ६।४।४०)इत्यनुनासिकलोपे पुनातेः पिबतेर्वा क्वौ 'ऊङ् च गमादीनाम्' (क० ६।४।४० वा० २) इत्यूकारः । किंच यज्ञपतिं यजमानमग्रे नयतेत्यनुवर्तते । फलभोगाय प्रेरयत । कथंभूतम् । सुधातुम् सुष्ठु दक्षिणादिना दधाति यज्ञं पुष्णातीति सुधातुस्तं यज्ञस्य पतिं पालयितारम् । एको यज्ञपतिशब्दो योगेन व्याख्येय एको रूढ्या । तथा देवयुवम् । 'यु मिश्रणे' । देवान् यौति यज्ञादिना मिश्रीकरोति देवयुस्तम् । क्विप् । 'अनित्यमागमशासनम्' इति तुगभावः । यद्वा देवान्कामयते इति देवयुस्तम् । 'इदंयुरिदंकामयमानः' (निरु० ६ । ३१) इति यास्कोक्तेः । 'सुप आत्मनः क्यच्' (पा० ३।१।८) इति क्यच् 'क्यचि च' (७ । ४ । ३३) इतीत्वे प्राप्ते 'न छन्दस्यपुत्रस्य' (पा० ७।४।३५) इतीत्वाभावः । 'अश्वाघस्यात्' (पा० ७।४।३७) इति अश्वाघयोरेवात्वविधानात् 'अकृत्सार्वधातुकयोः' (पा० ७। ४ । २५) इति प्राप्तो दीर्घो न भवति । ततः ‘क्याच्छन्दसि' (पा० ३ । २ । १७० ) इति उप्रत्ययः । देवयुशब्दस्यामि परे 'अमि पूर्वः' (पा० ६।१।१०७) इति प्राप्तस्य पूर्वरूपस्य 'वा छन्दसि' (पा० ६ । १ । १०६) इति विकल्पेन 'तन्वादीनां वा इयङ्चङौ' (पा० क० ६।४।६८ वा० १) इत्युवङ् ॥ १२ ॥

त्रयोदशी।
यु॒ष्मा इन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्ये॒ प्रोक्षि॑ता स्थ ।
अ॒ग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑म्य॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ।
दैव्या॑य॒ कर्म॑णे शुन्धध्वं देवय॒ज्यायै॒ यद्वोऽशु॑द्धाः पराज॒घ्नुरि॒दं व॒स्तच्छु॑न्धामि ।। १३ ।।
उ० युष्मा इन्द्रोऽवृणीत वृत्रतूर्ये । युष्मान् इन्द्रः साहाय्यार्थमवृणीत । किं पुरस्कृत्य । वृत्रतूर्ये । तूर्यतिर्वधकर्मा । वृत्रवधाय । यूयं च इन्द्रमवृणीध्वं वृतवत्यः । वृत्रतूर्ये तस्मिन्नेवावसरे अतिमनुष्यतया । प्रोक्षिताः स्थेति तासां प्रोक्षणम् । 'उक्ष सेचने'। प्रोक्षिता यूयं तावद्भवथ । न ह्यसंस्कृता अन्यसंस्कारक्षमा इति निह्नवः । हविः प्रोक्षति । अग्नये त्वा त्वां जुष्टं अभिरुचितं प्रोक्षामि । अग्निशब्दस्य 'रुच्यर्थानां प्रीयमाणः' इति चतुर्थी । अग्नीषोमाभ्यामित्युक्तम् । पात्राणि प्रोक्षति । दैव्याय कर्मणे देवसंबन्धिकर्मणे । तादर्थ्ये चतुर्थी । शुन्धध्वम् । शुध्यध्वमिति कर्मणि यकि प्राप्ते विकरणव्यत्ययः । देवयज्यायै देवयागाय । एताभिरद्भिः शुन्धध्वमिति संबन्धः। किंच यद्वोऽशुद्धाः पराजघ्नुः। यद्वः युष्माकं अशुद्धाः (१)रक्षःप्रभृतयः[६] पराजघ्नुः पराहतवन्तः । इदमिति प्रत्यक्षनिर्देशः । वः युष्माकं तत् शुन्धामि शोधयामि अपनयामि ॥ १३॥

म० हे आपः, इन्द्रः देवः वृत्रतूर्ये । तूर्यतिर्वधकर्मा । वृत्रवधे निमित्तभूते सति युष्माः युष्मान् अवृणीत । आकारश्छान्दसः । सहकारित्वेन प्रार्थितवान् । यूयम् अपि वृत्रतूर्ये निमित्ते तम् इन्द्रं अवृणीध्वं वृतवत्यः सहकारित्वेन । 'प्रोक्षिताः स्थेति तासां प्रोक्षणम्' (का० २।३।३६) इति । हे आपः, यूयं प्रोक्षिताः भवथ । असंस्कृता अन्यसंस्कारक्षमा न भवन्तीति 'हविश्चाग्नये त्वाग्नीषोमाभ्यां त्वेति यथादैवतमन्यत्' (का० २।३ । ३७ । ३८) इति । अन्यदपि हविस्तद्देवतोच्चारेण प्रोक्षणीयम् । अग्नये त्वां जुष्टं प्रोक्षामि अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ( का० २ । ३ । ३९) पात्राणि दैव्यायेति । कृष्णाजिनोलूखलादीनि पात्राणि प्रोक्षयेत् । हे यज्ञपात्राणि, यूयं शुन्धध्वम् शुद्धानि भवत । किमर्थम् । दैव्याय कर्मणे अग्न्यादिदेवतासंबन्धिने कर्मणे । तदेव कर्म विशिष्यते । देवयज्यायै देवसंबन्धिन्यै यागक्रियायै दर्शादिकायै । किंच । अशुद्धाः नीचजातयस्तक्षादयः वः युष्माकं संबन्धि यदङ्गं पराजघ्नुः पराहतं कृतवन्तः । छेदनतक्षणादिकाले स्वकीयहस्तस्पर्शरूपमशुचित्वं चक्रुः । तदिदं वः युष्माकमङ्गं शुन्धामि प्रोक्षणेन शुद्धं करोमि ॥ १३ ॥

चतुर्दशी।
शर्मा॒स्यव॑धूत॒ᳪं᳭ रक्षोऽव॑धूता॒ अरा॑त॒यो ऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्तु ।अद्रि॑रसि वानस्प॒त्यो ग्रावा॑ऽसि पृ॒थुबु॑ध्न॒: प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॑त्तु ।। १४ ।।
उ० कृष्णाजिनमादत्ते । शर्मासि । चर्मासीति प्राप्ते चकारस्य शकारः। 'शर्मदेवता' इति श्रुतिः। अवधुनोति । अवधूतं रक्षः । 'धूञ् कम्पने' अवकम्पितं रक्षः । अवकम्पिताश्च अरातयः अदानशीलाः पुरुषाः । नत्वेतद्यज्ञसाधनमित्यपह्नवः । कृष्णाजिनमास्तृणाति । अदित्यास्त्वगसि अदित्याः पृथिव्यास्त्वं त्वग्भवसि । अतः प्रतिवेत्तु । 'विद ज्ञाने' । प्रतिजानातु त्वाम् । अदितिः पृथिवी । 'प्रति हि स्वः संजानीते' इति श्रुतिः । तस्मिन्निदधात्युलूखलम् । अद्रिरसि । आदृणाति विदारयति आदृणात्यनेन वा व्रीह्यादिकमित्यद्रिः । त्वं भवसि । वानस्पत्यश्च । वनस्पतेर्विकारो वानस्पत्यः । अनेन वा निदधाति । ग्रावासि । हन्ति व्रीह्यादिकमनेनेति ग्रावा त्वमसि । पृथुबुध्नः बृहन्मूलः । अतः प्रति त्वादित्यास्त्वग्वेत्तु प्रतिवेत्तु त्वामुलूखल अदित्यास्त्वक् कृष्णाजिनम् । कथम् । अहं पृथिव्यास्त्वक् अयं चोलूखलः पृथिव्यास्त्वगिति। त्वगेवात्मनात्मानं हिनस्ति ॥ १४ ॥
म० 'शर्मासीति कृष्णाजिनादानम्' ( का० २।४।१) इति । हे कृष्णाजिन, त्वमुलूखलस्य धारणार्थं शर्म सुखहेतुरसि। अजिनस्य चर्मेति मानुषं नाम शर्मेति दैवं नाम । 'अपेत्य दात्रेभ्योऽवधूनोत्यवधूतमिति' (का० २।४ । २) इति । रक्षः कृष्णाजिने गूढम् अवधूतम् । कृष्णाजिनकम्पनेन भूमौ पातितम् एवमरातयोऽपि पातिताः । 'प्रत्यग्ग्रीवमास्तृणात्यदित्यास्त्वगिति' ( का० २ । ४ । ३) इति । हे कृष्णाजिन, त्वम् आदित्याः भूमिदेवतायास्त्वग्रूपम् असि । ततोऽदितिर्भूमिस्त्वा त्वां प्रतिवेत्तु प्रतिगृह्य मदीयेयं त्वगिति वेत्तु जानातु । पुरा यज्ञो देवेषु रुष्टः कृष्णमृगो भूत्वागमत्तदा देवा ज्ञात्वा तदीयां त्वचमुत्कृत्य जगृहुस्तस्माच्चर्मास्तरणमित्यभिप्रायः श्रुतावाम्नातः (१।१।४।१)। 'सव्याशून्ये निदधात्युलूखलमद्रिरसि ग्रावासीति वा प्रति त्वेत्युभयोः' (का० २।४ ।. ४-५) इति । विकल्पितयोर्मन्त्रयोः प्रति त्वेति शेषो योजनीयः । हे उलूखल, त्वं यद्यपि वानस्पत्यः दारुमयस्तथापि दृढत्वात् अद्रिरसि पाषाणोऽसि । किंभूतः । पृथुबुध्नः स्थूलमूलः । - मुसलघातोपद्रवेण चाञ्चल्यराहित्याय मूलस्थूलत्वम् । हे उलूखल, तथाविधस्त्वं ग्रावासि दार्ढ्येन पाषाणसदृशोऽसि । अदित्यास्त्वक् अधस्तादास्तीर्णा कृष्णाजिनरूपा भूमेर्या त्वगस्ति सा त्वां प्रति वेत्तु स्वकीयत्वेन जानातु ॥ १४ ॥

पञ्चदशी।
अ॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नं दे॒ववी॑तये त्वा गृह्णामि बृ॒हद्ग्रा॑वाऽसि वानस्प॒त्यः स इ॒दं दे॒वेभ्यो॑ ह॒विः श॑मीष्व सु॒शमि॑ शमीष्व । हवि॑ष्कृ॒देहि॒ हवि॑ष्कृ॒देहि॑।। १५ ।।
उ० हविरावपति । अग्नेस्तनूरसि । आहवनीयोऽत्राग्निरुच्यते । तत्र हि हविः प्रक्षिप्तमग्निर्भवति । अत एवमुच्यते | अग्नेस्तनुः शरीरमसीति । अथवा अग्निशब्देन यस्यै देवतायै हविर्गृह्यते सा लक्ष्यते । तस्या अपि हविस्तनूर्भवतीति । वाचो विसर्जनम् । वाक् यस्मिन्हविषि प्रक्षिप्ते विसृज्यतेऽध्वर्युणा तदिदं वाचो विसर्जनम् । देववीतये देवतर्पणाय । त्वा गृह्णामि । आवपामीत्यर्थः । मुसलमादत्ते । बृहद्ग्रावासि । दीर्घत्वापेक्षं बृहत्त्वम् । हन्त्यपेक्षं ग्रावत्वम् । दीर्घग्रावा त्वमसि । वानस्पत्यः वनस्पतेर्विकारश्च वानस्पत्यः। स इदमित्यवदधाति। स त्वमिदं । देवेभ्योऽर्थाय । हविः शमीष्व । शम्यतिः संस्कारार्थः। सुशमि क्रियाविशेषणमेतत् । साधु यथा संस्कृतं भवति तथा शमीष्वेति । हविष्कृदेहीति त्रिराह्वयति । हविः करोतीति हविष्कृत् । एहि आगच्छ । अधिदैवं वागुच्यते । अधियज्ञं पत्नी ॥ १५॥
म० 'हविरावपत्यग्नेस्तनूरसीति' ( का० २।४।६) इति । हे हविः, त्वं अग्नेः आहवनीयस्य तनूः शरीरमसि । यतस्तत्र क्षिप्तं हविरग्नीभवति अतो हविः अग्नेस्तनूः । किंभूतं हविः । वाचो विसर्जनम् । अपां प्रणयनकाले नियमिताया यजमानवाचो हविरावपनकाले विसर्गो भवति । तस्मादिदं हविर्वाचो विसर्जनम् । अतः देववीतये देवानां तर्पणाय । त्वा त्वां । गृह्णामि आवपामीत्यर्थः । 'बृहद्ग्रावेति मुसलमादत्ते' - (का० २। ४ । ११) इति । हे मुसल, त्वं यद्यपि वानस्पत्यः । दारुमयस्तथापि ग्रावासि दार्ढ्येन पाषाणसदृशोऽसि । तथा दीर्घत्वेन बृहन्महानसि । ‘स इदमित्यवदधाति' (का० २।४। १२) इति । हे मुसल, त्वं देवेभ्यः अग्न्यादिदेवोपकारार्थम् । | इदं हविर्व्रीहिरूपं शमीष्व शमय । भक्षणविरोधितुषापनयनेन शान्तं कुरु । तस्यैव पदस्य व्याख्यानम् । सुशमि शमीष्व सुष्ठु शान्तं यथा भवति तथा शमीष्व शमय । 'शमु उपशमे' व्यत्ययेन शपो लुक् । 'तुरुस्तुशम्यमः सार्वधातुके' (पा० ७।३।९५) इति ईडागमः । शान्तिर्द्विविधा । बाह्यतुषापनयनादाद्या । सा प्रथमावघातेन स्यात् । अन्तःस्थितमालिन्यस्यापनयनादन्या । सा फलीकरणेन भवति । तं द्विविधं तण्डुलसंस्कारं कुर्वित्यर्थः। 'हविष्कृदेहीति त्रिराह्वयति' ( का० २।४ । १३) इति यजमानः पत्नी वान्यो वा यो व्रीहीनवहन्ति स संबोध्याहूयते । हे हविष्कृत् हविः करोतीति हविष्कृत् । एहि अत्रागच्छ । त्रिवारमुक्तमर्थं देवा मन्यन्त इति त्रिराह्वानम् ॥ १५ ॥

षोडशी।
कु॒क्कु॒टो॒ऽसि॒ मधु॑जिह्व॒ इष॒मूर्ज॒माव॑द॒ त्वया॑ व॒यᳪं᳭ सं॑घा॒तᳪं᳭ सं॑घातं जेष्म व॒र्षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्षवृ॑द्धं वेत्तु॒ परा॑पूत॒ᳪं᳭ रक्ष॒: परा॑पूता॒ अरा॑त॒यो ऽप॑हत॒ᳪं᳭ रक्षो॑ वा॒युर्वो॒ विवि॑नक्तु दे॒वो व॑: सवि॒ता हिर॑ण्यपाणि॒: प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॑ ।। १६ ।।
उ० आहन्ति अन्यो दृषदुपले। कुक्कुटोऽसि । अत्र 'मनोर्ह चा ऋषभ आस' इत्यादीतिहास उत्प्रेक्षितव्यः । कुत्सितं शब्दमसुरघ्नमसुराणां तनोतीति कुक्कुटः । अथवा असुरघ्नीं वाचमुपादाय क्व क्व असुरा एवं योऽटति असौ कुक्कुटः । अस्मिन्पक्षे क्वशब्दस्य संप्रसारणम् । अटतेश्चाकारस्य 'संप्रसारणाच्च' इति पूर्वरूपत्वम् । कुक्कुटस्त्वमस्यसुराणां । देवानां मधुजिह्वः । अतः । इषं वृष्टिं ऊर्जं अन्नं च । आवद आभिमुख्येन वद । त्वया च सहायभूतेन । वयं संघातं । संपूर्वस्य हन्तेः संघातेन संग्रामः समुदायो वाभिधेयः । वीप्सार्थं द्विर्वचनम्। संग्रामं जेष्म । शूर्पमादत्ते । वर्षवृद्धं वृष्ट्या वृद्धं त्वमसि । हविरुद्वपति । प्रति त्वा वर्षवृद्धं वेत्तु प्रतिवेत्तु प्रतिजानातु । त्वां वृष्ट्या वृद्धं हे हविः । समानजन्मत्वाद्धविःशूर्पयोर्भ्रातृत्वार्थं वचनम् । निष्पुनाति । परापूतं रक्षः पराक्षिप्तं रक्षः । परापूताः पराक्षिप्ताश्च अरातयः अदानशीलाः पुरुषाः। तुषान्निरस्यति । अपहतं । हन्तिर्गत्यर्थः । अपगतं रक्षः। विविनक्ति। वायुर्वः । तण्डुला उच्यन्ते । वायुः वः युष्मान् विविनक्तु पृथक्करोतु । व्रीहिभ्यः सकाशात् । पात्र्यामोप्याभिमन्त्रयते । देवो वः सविता । वः युष्मान् हे तण्डुलाः। हिरण्यपाणिः। 'तत्सवित्रे प्राशित्रं प्रजह्रुः। तस्य पाणी परिचिच्छेद । तस्मै हिरण्मयौ प्रतिदधुः तस्माद्धिरण्यपाणिरित्युच्यते' इति बह्वृचानां(१) श्रुतिः । प्रतिगृह्णातु प्रतिग्रहं करोतु । अच्छिद्रेण अशिथिलेन हस्तेन ॥ १६॥ १ इत्याथर्वणश्रुतिरित्यन्यत्र पाठः.
म० 'आहन्त्यन्यो दृषदुपले कुक्कुटोऽसीति त्रिः शम्यया द्विर्दृषदं सकृदुपलम्' (का० २ । ४ । १५) इति । हे शम्यारूप यज्ञायुधविशेष, त्वं कुक्कुटोऽसि असुराणां । मधुजिह्वः चासि देवानाम् । असुराः क्व क्वेति तान्हन्तुमिच्छन्योऽटति सर्वत्र संचरति स कुक्कुटः । यद्वा कुकं कुत्सितशब्दं कुटति तनोतीति कुक्कुटः । यद्वा कुक्कुटाख्यपक्षिवद्ध्वनिविशेषमसुरभीत्यर्थं तनोतीति कुक्कुट इत्युपचर्यते । मधुजिह्वकनामा कश्चिद्देवानां भृत्यः। मधुर्मधुरभाषिणी जिह्वा यस्य तद्रूप हे यज्ञायुध, त्वमसुरान्पराभवन्यजमानस्य इषमूर्जं चावद । अन्नं रसं च यथा समागच्छति तथा शब्दं कुरु । तव शब्देनासुरेषु पराभूतेषु तदीयमन्नं रसं च यजमानः प्राप्नोति । ततः त्वया कृत्वा वयं सङ्घातं सङ्घातं जेष्म असुरैः सह क्रियमाणं तं तं संग्रामं जेष्म जयेम । कदाचिदपि पराजयोऽस्माकं मास्त्वित्यर्थः । सम्यक् हन्यन्ते असुरा यत्रेति सङ्घातो युद्धम् । मनो राज्ञ एको वृषभ आसीत्तस्मिन्नसुरघ्नी वाक् स्थिता तस्मिन् शब्दं कुर्वति तं श्रुत्वैवासुरा म्रियन्ते । ततः किलाताकुलीनामानावसुरयाजकौ मनुं गत्वा तेनैव ऋषभेणायाजयतामृषभे हते सा वाङ्मनोर्जायां प्रविष्टा । तौ पुनस्तयापि मनुमयाजयताम् । ततः सा वाग्यज्ञपात्राणि प्रविष्टेत्यसुरपराभवाय तद्वाक्प्रकटनार्थं शम्यया दृषदुपलहननमिति श्रुत्योक्तोऽभिप्रायः (१ । १।४।१४)। 'वर्षवृद्धमसीति शूर्पमादत्ते' (का० २ । ४ । १६ ) इति । हे शूर्प, त्वं वर्षवृद्धमसि वर्षेण वृष्ट्या तद्भूतजलेन वृद्धं वर्षवृद्धम् । वर्षवृद्धवेणुशलाकानिर्मितत्वात् शूर्पस्य वर्षवृद्धत्तम् । 'प्रति त्वेति हविरुद्वपति' ( का० २ । ४ । १७) इति । हे हविः, वर्षवृद्धं शूर्पं त्वा त्वां प्रतिवेत्तु स्वकीयत्वेन जानातु । व्रीहिशूर्पयोर्वर्षवृद्धत्वाद्भातृत्वम् । 'परापूतमिति निष्पुनाति' (का० २ । ४ । १८) इति । रक्षः परापूतं निराकृतम् । शूर्पेण तुषेषु परापूतेषु तद्गतं रक्षोऽपि तैः सह भूमौ पातितम् । अरातयः हविःप्रतिकूलाः आलस्यादिशत्रवश्च परापूता निराकृताः । 'अपहतमिति तुषान्निरस्यति' ( का० २। ४ । १९) इति । रक्षः अपहतं दूरेऽपनीय मारितम् । भूमौ पतितान्दूरे निःसारयेत् 'वायुर्व इति विविनक्ति' (का० २।४।२०) इति । हे तण्डुलाः, वायुः शूर्पचालनोत्थः वः युष्मान् विविनक्तु सूक्ष्मकणेभ्यः पृथक्करोतु । 'देवो व इति पात्र्यामोप्याभिमन्त्रयते' ( का० २ । ४ । २१) इति । हे तण्डुलाः, सविता देवः वः युष्मान् अच्छिद्रेण पाणिना अङ्गुलिविश्लेषहीनेन स्वहस्तेन प्रतिगृभ्णातु स्वीकरोतु । 'हृग्रहोर्भश्छन्दसि' (पा० ८ । २ । ३२) इति हस्य भः।पात्रीप्रक्षेपसमये भूमौ पतनं मा भूदिति सवितुर्ग्रहणं प्रार्थ्यते । किंभूतः सविता । हिरण्यपाणिः हिरण्ययुक्तावङ्गुलीयाद्याभरणयुक्तौ पाणी यस्य स हिरण्यपाणिः । यद्वा दैत्यैः प्राशित्रप्रहारेण छिन्नौ सवितुः पाणी देवैर्हिरण्मयौ कृताविति सवितुर्हिरण्यपाणित्वमिति बह्वृश्रुतौ कथा ॥ १६ ॥

सप्तदशी।
धृष्टि॑र॒स्यपा॑ऽग्ने अ॒ग्निमा॒मादं॑ जहि॒ निष्क्र॒व्याद॑ᳪं᳭ से॒धा दे॑व॒यजं॑ वह ।
ध्रु॒वम॑सि पृथि॒वीं दृ॑ᳪं᳭ह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भातृ॑व्यस्य व॒धाय॑ ।। १७ ।।
उ० उपवेषमादत्ते । धृष्टिरसि । 'ञिधृषा प्रागल्भ्ये। अनेनाग्निर्धृष्टमुपचरतीति धृष्टिः । उपवेष उच्यते । धृष्टिस्त्वमसि उपवेष । अङ्गारान् प्राञ्चः करोति । अपाग्ने अग्निमामादं जहि अपजहि(१) । हे भगवन्नग्ने, अग्निमामादं आममत्तीत्यामात् तं । येनेदं मनुष्याः अपक्वमन्नमश्नन्ति स उच्यते। जहातिस्त्यागार्थः । निष्क्रव्यादं सेध निःसेध क्रव्यादमग्निं । येन पुरुषं दहन्ति स क्रव्यात् । सेधतिः(२) परित्यागार्थः । अङ्गारमाहरति । आ देवयजं वह आवह आनय । देवयजमग्निम् । देवा यस्मिन्निज्यन्ते स देवयट् तं देवयजमग्निम् । कपालेनावच्छादयति ध्रुवमसि पृथिवीं दृᳪं᳭ह । त्रिभिः कपालैः त्रीँल्लोकान् यजमानो जयति । चतुर्थेन दिशो यश्चैषु संस्क्रियते(३) पुरोडाशः सोऽप्याधारवशात्त्रिलोकविग्रह एव भूत्वा देवताः प्रीणातीति प्रकरणार्थः । 'यदु वा आत्मसंमितमन्नं तदवति तन्न हिनस्ति' इति श्रुतिः। ध्रुवमसि ध्रुवं स्थिरं त्वमसि । अतः पृथिवीं दृᳪं᳭ह दृढीकुरु । नहि स्वयमप्रतिष्ठितोऽन्यस्य प्रतिष्ठां कर्तुं समर्थः । किंच इत्थंभूतं त्वामहमुपदधामि । ब्रह्मवनि त्वा ब्रह्म एव यद्वनोति संभजते तत्कपालं ब्रह्मवनि । एवं क्षत्रवनि । सजातवनि समानंजाताः सजाताः भ्रातृप्रभृतय उच्चन्ते । भ्रातृव्यस्य । 'व्यन्सपत्ने' इति आद्युदात्तत्वाद्भ्रातृव्यशब्दस्य शत्रुरभिधेयः । शत्रोश्च वधाय त्वामुपदधामीत्यनुषङ्गः ॥ १७ ॥
१ अपजहि परित्यज. २ सेधतिरपि त्यागार्थः ३ संस्कृतेषु.
म० 'मूलतः शाखां परिवास्योपवेषं करोतीति । धृष्टिरसीत्युपवेषमादायेति च' (का०२।४।२५)। पलाशशाखाया मूलदेशे छिन्नः काष्ठभाग उपवेषस्तमादत्ते । हे उपवेश, त्वम् धृष्टिरसि प्रगल्भोऽसि । “ञिधृषा प्रागल्भ्ये'। तीव्राङ्गाराणामितस्ततश्चालने प्रभुत्वादस्य प्रागल्भ्यम् । 'अपाग्न इत्यङ्गारान्प्राचः करोति' (का० २।४।२६) । इति तत्र त्रयोऽअग्नयः सन्ति । एक: आमात् आममपक्वमत्तीत्यामाल्लौकिकोऽग्निः । द्वितीयः क्रव्यात् शवदाहे क्रव्यं मांसमत्तीति क्रव्यात् चिताग्नि-। तृतीयो यागयोग्यः । तथाविधांस्त्रीनह्गारान्गार्हपत्यात्प्राग्भागे पृथक्कृत्य तेषां मध्ये यागयोग्यताहीनौ द्वावग्नी आमात्क्रव्यात्संज्ञौ तौ वारयितुं गार्हपत्यं प्रत्युच्यते । हे अग्ने हे गार्हपत्य, आमादमग्निम् अपजहि परित्यज । 'व्यवहिताश्च' (१।४।८२) इति क्रियापदोपसर्गयोर्व्यवधानम् । तथा क्रव्यादम् अग्निं निःषेध निःशेषं दूरे गमय । परित्यजेत्यर्थः। 'आ देवयजमित्यङ्गारमाहृत्य' (का० २।४।२७) इति । हे गार्हपत्य, देवयजं देवानां यागयोग्यं तृतीयमङ्गारम् आवह समीपमानय । देवा इज्यन्ते यस्मिन्नसौ देवयाट् तं देवयजम् । 'कपालेनावच्छादयति ध्रुवमसि' (का० ४।२।२७) इति । देवयजमङ्गारं कपालेनाच्छादयेत् । हे कपाल, त्वं ध्रुवमसि स्थिरं भवसि । अङ्गारोपरि वर्तमानमपि इतस्ततो न पतसि । पृथिवीं भूमिं दृंह दृढीकुरु । पुरोडाशपाकसमये त्वत्कृतव्यवधानेन भूमेर्दाहकृतं शैथिल्यं न भविष्यतीत्यर्थः । किंच त्वाम् उपदधामि अङ्गारे स्थापयामि। किमर्थं । भ्रातृव्यस्य शत्रोरसुरस्य पाप्मनो वा वधाय हिंसार्थम् । 'व्यन्त्सपत्ने' (पा० ४।१।१४५) इत्याद्युदात्तत्वाद्भ्रातृव्यशब्दः शत्रुवाची । किंभूतं त्वां । ब्रह्मवनि । 'वन षण संभक्तौ' ब्रह्मणा ब्राह्मणेन वन्यते पुरोडाशनिष्पत्त्यर्थं स्वीक्रियते इति ब्रह्मवनि। तथा क्षत्रवनि सजातवनीति पदद्वयं योज्यम् । सजाताः समानकुले जाताः यजमानस्य ज्ञातयस्तैर्वन्यते इति ॥ १७ ॥

अष्टादशी।
अग्ने॒ ब्रह्म॑ गृभ्णीष्व ध॒रुण॑मस्य॒न्तरि॑क्षं दृᳪं᳭ह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य ब॒धाय॑ ।
ध॒र्त्रम॑सि॒ दिवं॑ दृᳪं᳭ह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑ ।
विश्वा॑भ्य॒स्त्वाशा॑भ्य॒ उप॑दधामि॒ चितः॑ स्थोर्ध्व॒चितो॒ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्वम् ।। १८ ।।
उ० सव्याङ्गुल्या शून्येऽङ्गारं निदधाति । अग्ने ब्रह्म । । हे भगवन्नग्ने, ब्रह्म ब्राहाणं अङ्गुलिप्रदानेन व्यावृत्तमनुगृह्णीष्व । अनुग्रहं कुर्वित्यर्थः । द्वितीयं निदधाति । धरुणमिति साधारणं धारकमसि । अन्तरिक्षं दृᳪं᳭ह । शेषं पूर्ववत् । | तृतीयं निदधाति । धर्त्रमसि धारयितृ असि । दिवं दृᳪं᳭ह । चतुर्थं निदधाति । विश्वाभ्यस्त्वा सर्वाभ्यस्त्वां आशाभ्यो दिग्भ्य उपदधामि । इतराणि कपालान्युपदधाति । चितःस्थ । चिञ् चयने । क्विबन्तस्य रूपमिदम् । बहुवचनं च पूर्वोपहितकपालविषयम् । चितानि यूयं तावद्भवथ । ऊर्ध्वचितः ऊर्ध्वं पश्चादुपहितेषु कपालेषु चीयत इति ऊर्ध्वचित् तस्य ऊर्ध्वचितः । उपचीयमानस्येति शेषः। अङ्गारैरभ्यूहति । भृगूणामङ्गिरसां । भृगोः अपत्यानि बहूनि भृगवः । तथाङ्गिरसः । तद्राजस्य बहुषु लुक् । भृगूणां अङ्गिरसां च तपसा यूयं कपालानि तप्यध्वम् ॥१८॥
म०. 'सव्याङ्गुल्या शून्येऽङ्गारं निदधात्यग्ने ब्रह्मेति' (का. २॥४॥३०) इति । हे अग्ने, निधीयमानाङ्गाररूपं ब्रह्म प्रौढं कर्मास्माभिः क्रियमाणं गृभ्णीष्व गृह्णीष्व । नाशकरक्षोवधेनानुगृह्णीष्व । यद्वा ब्रह्म ब्राह्मणं मामनुगृह्णीष्व । अङ्गुलिदानासक्तं मा दृंहेत्यर्थः । 'धरुणमिति पश्चात्' (का. २॥४॥३१) इति पूर्वस्थापितकपालस्य पश्चाद्भागे द्वितीयं निदधाति । हे द्वितीय कपाल, त्वं धरुणं पुरोडाशस्य धारकम् असि । अतोऽन्तरिक्षं दंह दृढीकुरु । पुरोडाशपाकोत्पन्नज्वालयान्तरिक्षलोकोपद्रवो यथा न स्यात्तथा कुरु । यद्यप्येतत् कपालं ज्वालान्तरिक्षयोर्मध्ये व्यवधायकं नास्ति तथाप्यन्तरिक्षदार्ढ्याय कपालदेवता प्रार्थ्यते । ब्रह्मवनीत्यादि पूर्ववत् । 'पुरस्ताद्धर्त्रमिति' (का० २।४।३२) इति । प्रथमस्य पूर्वभागे तृतीयं स्थापयेत् । हे कपाल, त्वं धर्त्रं धारकम् असि । दिवं दृंह । ज्वालाग्रेण दाहाभावो द्युलोकस्य दार्ढ्यम् । अन्यत् पूर्ववत् । (का० २।४।३३) विश्वाभ्यः इति । दक्षिणत इति । हे चतुर्थकपाल, विश्वाभ्यः आशाभ्य सर्वदिग्भ्यः सर्वदिग्दार्ढ्याय वा उपदधामि । एवं कपालत्रयोपधानेन यजमानो लोकत्रयं जयति । चतुर्थेन दिशो जयति । तद्गतः पुरोडाशो लोकत्रयरूपो भूत्वा देवताः प्रीणातीत्याशयः । 'समं विभज्य द्वे दक्षिणत एवमुत्तरतश्चितःस्थेति' (का० २।४।३४) इति । आग्नेयपुरोडाशस्याष्टकपालत्वाच्चतुर्णां स्थापितत्वादवशिष्टानां चतुर्णां मध्ये द्वे द्वे दक्षिणोत्तरयोर्निदध्यात् । 'चिञ् चयने' क्विबन्तस्य चित इति बहुवचनम् । हे कपालविशेषाः, यूयं चितः स्थ प्रथमकपालोपचयकारिणः स्थ भवथ । तथा ऊर्ध्वचितः स्थ ऊर्ध्वमुपहितानां द्वितीयादिकपालानामुपकारिणो भवथ । 'भृगूणामित्यङ्गारैरभ्यूहति' (का० २।४। ३८) इति । अङ्गारैः कपालानि छादयेत् । हे कपालानि, यूयं भृगूणामङ्गिरसां भृगुनामकानामङ्गिरोनामकानां देवर्षीणां तपसा तपोरूपेणाग्निनानेन तप्यध्वं तप्तानि भवत । अस्याग्नेस्तदीयरूपत्वं भावयेदित्यर्थः ॥ १८ ॥

एकोनविंशी।
शर्मा॒स्यव॑धूत॒ᳪं᳭ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वाऽदि॑तिर्वेत्तु ।
धि॒षणा॑ऽसि पर्व॒ती प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॑त्तु दि॒वः स्क॑म्भ॒नीर॑सि धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒॒ती वे॑त्तु ।। १९ ।।
उ० शर्मासीत्यादीनि त्रीणि यजूंषि व्याख्यातानि । कृष्णाजिने दृषदं निदधाति । धिषणासि । धीः कर्म बुद्धिर्वा तदुभयं सीदति सनोति(१) वा कर्माङ्गत्वाद्दृषत् धिषणोच्यते । धिषणा त्वमसि । पर्वती पर्ववती। अतः प्रतिवेत्तु प्रतिजानातु। त्वामदित्यास्त्वक् पृथिव्यास्त्वक् । कृष्णाजिने शम्यामुपदधाति । दिवस्कम्भनीरसि । दृषदुपलयोः पृथिवीद्युभ्यामुपलक्षितत्वात् शम्याया अन्तरिक्षभक्तित्वं उपपद्यते । दिवः द्यावापृथिव्योः स्कम्भनीः । स्कभ्नोतिः स्तम्भनकर्मा । त्वं स्तम्भनीर्भवसि । 'अन्तरिक्षस्यैव रूपेणान्तरिक्षेण हीमे द्यावापृथिवी विधृते' इति श्रुतिः। दृषद्युपलामुपदधाति । धिषणासीति व्याख्यातम् । पार्वतेयी पार्वत्या अपत्यम् । 'कनीयसी ह्येषा दुहितेव भवति' इति श्रुतिः । वेत्तु प्रतिजानातु त्वां पर्वती माता 'प्रतिहिस्व संजानीत' इति श्रुतिः ॥ १९॥ .
१ सनोति व्याप्नोति ददाति वा.
म० 'कृष्णाजिनमादत्ते पूर्ववत्' (का० २।५।२) इति यथावघातार्थं कृष्णाजिनप्रयोगस्तद्वदत्रापि । शर्मासि । अवधूतम् । अदित्याः । इति मन्त्रत्रयं व्याख्यातम् । 'तस्मिन्दृषदं धिषणासीति' (का० २।५।३।) तस्मिंश्चर्मणि शिलां स्थापयेत् । हे शिले पेषणाधारभूते, त्वं पर्वती पर्वतात्मिका तदुत्पन्ना त्वं धिषणासि धियं बुद्धिं कर्म वा सिनोति व्याप्नोति ददाति वा धिषणा । ह्रस्वत्वमार्षम् । पर्वतवद्धारयन्त्यसि । अदित्याः भूमेः त्वक् कृष्णाजिनरूपा तादृशीं त्वा त्वां प्रति वेत्तु त्वदवस्थानमनुजानातु । 'पश्चाच्छम्यामुपोहत्युदीचीं दिवः' (का० २।५। ४) इति । दृषदः पश्चाद्भागेऽधस्ताच्छम्यां स्थापयेत् । तां प्रत्युच्यते। हे शम्ये, दिवः द्युलोकस्य स्कम्भनीः स्तम्भनकारिणी त्वम् असि । व्यत्ययेन द्वितीयाबहुवचनम् । पतनवारणायान्तरिक्षरूपेण स्तम्भनकारित्वम् । 'अन्तरिक्षेण होमे द्यावापृथिवी विष्टब्धे' (१।२।१।१६) इति श्रुतेः । 'दृषद्युपलां धिषणासीति' (का० २।५।५) । हे उपले, उपरितनशिले, त्वं धिषणासि पेषणव्यापारधारिकासि । किंभूता । पार्वतेयी पर्वत्या अधस्तनदृषदः पुत्री पार्वतेयी बालस्वरूपा । 'कनीयसी ह्येषा दुहितेव भवति' ( १।२।१७) इति श्रुतेः । अतः पर्वती मातृसमा त्वां प्रतिवेत्तु पुत्रीं जानातु ॥ १९ ॥

विंशी।
धा॒न्य॒मसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वोदा॒नाय॑ त्वा व्या॒नाय॑ त्वा । दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धां दे॒वो व॑: सवि॒ता हिर॑ण्यपाणि॒: प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॒ चक्षु॑षे त्वा म॒हीनां॒ पयो॑ऽसि ।। २० ।।
उ०. दृषदि तण्डुलानावपति। धान्यमसि । धिनोतेः प्रीणनार्थस्य धान्यमिति भवति तदभिप्रायेणैवमाह। यतस्त्वं(१) प्रीणनस्वभावमसि अतः प्रीणीहि देवान् । पिनष्टि। प्राणाय त्वा। अत्र श्रुतिः । 'जीवं वै देवानां हविरमृतममृतानामित्युपक्रम्य दृषदुपलाभ्यां हविर्यज्ञं घ्नन्तीति प्रतिपाद्य स यदाह प्राणाय त्वोदानायत्वेति तत्प्राणापानौ दधातीत्येवमादिना ग्रन्थेन यथा हविषः पुनर्जीवनं क्रियते तथा श्रुतिः प्रतिपादयति । एतदनुसारेण व्याख्यानं करिष्यामः । प्राणाय त्वा प्राणदानाय त्वां पिनष्मि नतु हिंसायै । एवमुत्तरावपि मन्त्रौ व्याख्येयौ। कृष्णाजिने प्रक्षिपति । दीर्घामनु प्रसितिं । 'षह मर्षणे' । प्रसितिः प्रसहनात्तन्तुर्वा जालं वा । इहतु प्रसितिशब्देन कृष्णाजिनमभिधीयते । तदपि हि पिष्टानि गृह्णाति । दीर्घां कृष्णाजिनाख्यां प्रसितिमनु । आयुषे आयुर्दानाय। धां दधामि। देवो व इति व्याख्यातं । ईक्षते । चक्षुषे त्वा चक्षुर्दानाय त्वामहमीक्षे ।
एतानि वै जीवतो भवन्त्येवमु हैतज्जीवितमेव देवानां हविर्भवति' इति श्रुतिः । आज्यं निर्वपति । महीनां पयोसीति । महीति गोनाम । महीनां गवां पयो भवसि । पयःशब्देन लक्षणया घृतमभिधीयते ॥ २० ॥
१ स्त्वमेवंस्वभाव.
म० 'धान्यमसीति तण्डुलानोप्येति' (का० २।५।५)। हे हविः, त्वं धान्यमसि । धिनोति प्रीणातीति धान्यम् । अतो देवान् अग्न्यादीन् धिनुहि प्रीणय । 'पिनष्टि प्राणाय त्वेति प्रतिमन्त्रमिति' ( का० २ । ५। ६)। प्रकर्षेण अनिति सर्वदा मुखे चेष्टत इति प्राणः श्वासवायुः । उद् अनिति ऊर्ध्वं चेष्टत इत्युदानः उत्क्रान्तिवायुः । व्यनिति व्याप्य चेष्टते इति व्यानो व्यापको बलहेतुर्वायुः । हे तण्डुल, त्वा त्वां प्राणाय प्राणदानार्थं पिनष्मीति शेषः । एवमुत्तरमन्त्रयोर्योज्यम् । देवानां सजीवं हविर्भवतीत्येभिर्मन्त्रैर्हविषां प्राणादिदानेन सजीवत्वं क्रियत इत्यभिप्रायः । 'दीर्घामिति कृष्णाजिने प्रोहति' ( का. २।५। ७) इति । प्रसयनं प्रसितिः। 'षिञ् बन्धने' । प्रबन्धः कर्मसंततिः । दीर्घामविच्छिन्नां प्रसितिमनु कर्मसंततिमनुलक्ष्य । आयुषे यजमानस्यायुरभिवृद्ध्यर्थं हे हविः, त्वां धां कृष्णाजिने दधामि । दधातेर्लुङि 'बहुलं छन्दस्यमाङयोगेऽपि' (६।४ । ७५) इति अडागमाभावः । यजमानस्यायुर्वृद्धौ सत्यां कर्मसन्ततिः प्रवर्तत इति भावः । यद्वायमर्थः । पूर्वमन्त्रैर्हषिषः प्राणादिदानेन सजीवत्वं कृतम् , अनेन पुनरायुर्दीयते हविषः । हे हविः, दीर्घां प्रसितिं कृष्णाजिनाख्यामनु त्वां धां धारयामि । कृष्णाजिने प्रक्षिपामीत्यर्थः । किमर्थम् । आयुषे त्वदीयायुर्वृद्ध्यर्थम् । 'प्रसितिः प्रसयनात् तन्तुर्वा जालं वा' ( निरु० ६ । १२) इति यास्कोक्तेरिह पिष्टग्राहकत्वात्प्रसितिशब्देन कृष्णाजिनमुच्यते । देवो व इत्यादिमन्त्रशेषो व्याख्यातः । 'चक्षुषे त्वेतीक्षत इति' (२।५।८)। हे हविः, चक्षुषे यजमानस्य चक्षुरिन्द्रियपाटवाय त्वा त्वां पश्यामीति शेषः। यद्वा चक्षुषे तव चक्षुरादिबाह्येन्द्रियदानाय त्वामीक्षे । हविषः सजीवत्वे कृते चक्षुराद्यपेक्षा भवतीत्यनेन तत्क्रियते इति भावः । 'पिष्यमाणेषु निर्वपत्यन्यो महीनामित्याज्यम्' (का. २।५।९) इति । हे आज्य, त्वं महीनां गवां पयोऽसि क्षीरमसि क्षीरोत्पन्नत्वाद्धृतं पयःशब्देनोच्यते । महीति गोनाम ॥ २० ॥

एकविंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
संव॑पामि॒ समाप॒ ओष॑धीभि॒: समोष॑धयो॒ रसे॑न ।
सᳪं᳭ रे॒वती॒र्जग॑तीभिः पृच्यन्ता॒ᳪं᳭ सं मधु॑मती॒र्मधु॑मतीभिः पृच्यन्ताम् ।। २१ ।।
उ० पात्र्यां पिष्टान्यावपति । देवस्य त्वेति व्याख्यातम् । ननु ग्रहणे देवस्यत्वेति यदुक्तं तेनैव दर्शनेना ब्राह्मणतर्पणान्तं कर्म करिष्यति किमनेन पुनर्देवस्य त्वेति । सत्यम् । संस्कारोज्ज्वलनार्थं हितं च पथ्यं च पुनः पुनरुपदिश्यमानं न दोषाय भवतीति । संवपामि । समित्येकीभावमाचष्टे । एकत्र क्षिपामि । अपउपसर्जनीः प्रतिगृह्णाति । समाप ओषधीभिः संपृच्यन्ताम् । 'पृची संपर्के'। संगच्छन्ताम् आप ओषधीभिः पिष्टाभिः । समोषधयो रसेन । संगच्छन्तां च ओषधयः पिष्टाख्यरसेन उपसर्जनीभिः । आपो हि ओषधीनां रसः । सᳪं᳭रेवतीर्जगतीभिः पृच्यन्ताम् । रेवत्य आपो जगत्य ओषधयः' इति श्रुतिः । संपृच्यन्तां रेवत्य आपो जगतीभिः ओषधीभिः पिष्टाभिः । संमधुमतीर्मधुमतीभिः पृच्यन्ताम् । मधुशब्दो रसवचनः । संपृच्यन्ताम् मधुस्वादोपेता आपः मधुमतीभिः । संपृच्यन्तां वा मधुवत्स्वादोपेताभिः ओषधीभिः पिष्टाभिः ॥ २१ ॥
म० पात्र्यां सपवित्रायां पिष्टान्यावपति देवस्य त्वेति' (का० २।५।१०)इति । हस्ताभ्यामित्यन्तं व्याख्यातम् । एतानि पिष्टानि संवपामि पात्र्यां सम्यक् क्षिपामि । 'उपसर्जनीरानयत्यन्यः पवित्राभ्यां प्रतिगृह्णाति समाप इति' (का० २।५।१२-१३)इति । पिष्टसंवपनीया आप उपसर्जन्यः । ता अग्नीदानयेदध्वर्युः पवित्राभ्यां प्रतिगृह्णीयात् । आपः उपसर्जनीरूपाः औषधीभिः पिष्टरूपाभिः संपृच्यन्ताम् । 'पृची संपर्के' संगच्छन्तां सम्यगेकीभवन्तु । तथा ओषधयः पिष्टाख्याः रसेन उपसर्जनीरूपेणोदकेन संपृच्यन्ताम् । आपो हि ओषधीनां रसः । तथा रेवतीः रेवत्यः आपः जगतीभिः पिष्ठाख्याभिः संपृच्यन्ताम् । 'रेवत्य आपो जगत्य ओषधयः' (१।२।२।२) इति श्रुतेः । मधुमतीः माधुर्योपेता आपः मधुमतीभिः माधुर्योपेताभिः पिष्टरूपौषधीभिः संपृच्यन्ताम् । अपामोषधीनां परस्परं च परस्परं प्रीतिहेतुत्वात्संपर्को भवत्वित्यर्थः ॥ २१ ॥

द्वाविंशी।
जन॑यत्यै त्वा॒ संयौ॑मी॒दम॒ग्नेरि॒दम॒ग्नीषोम॑योरि॒षे त्वा॑ घ॒र्मो॒ऽसि वि॒श्वायु उ॒रुप्र॑था उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथताम् ।
अ॒ग्निष्टे॒ त्वचं॒ मा हिँ॑ᳪं᳭सीत् । दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॒ष्ठेऽधि॒ नाके॑ ।। २२ ।।।
उ० संयोति। जनयत्यै त्वा। द्व्यर्थोयं मन्त्रः। श्रुतिं व्याचष्टे। जनेर्ण्यन्तस्य क्तिन् जनयतिः। यजमानस्य जनयत्यै श्रीप्रजापशुभिर्यजमानं जनयितुं संमिश्रयितुं त्वां संयौमि । अथवा पुरोडाश उच्यते । जनयत्यै उत्पादनाय त्वां संयौमि संमिश्रयामि । यथा त्वं संमिश्रितः पुरोडाशभावमासाद्याधिश्रितः सन् दैवायोनेरग्नेरधिजायस इति । नह्यमर्त्यं त्वां मर्त्यो जनयितुमर्हति । असंहरिष्यन्नालभते । इदमग्नेरिदमग्नीषोमयोः अर्धशब्दः समविभागवचनो नपुंसकलिङ्गः । तदभिप्रायमिदमिति नपुंसकलिङ्गता । आज्यमधिश्रयति । इषे त्वा व्याख्यातं । पुरोडाशमधिश्रयति । घर्मोऽसि प्रवर्ग्यस्त्वमसि । विश्वायुः विश्वं सर्वं आयुरस्येति विश्वायुः । 'विश्वायुरिति तदायुर्दधाति' इति श्रुतिः । पुरोडाशं प्रथयति । उरु प्रथस्व उरुप्रथाः उरु विस्तीर्णं प्रथसे स्वभावतस्तं त्वां ब्रवीमि । उरुप्रथस्व । किंच उरु ते तव यज्ञपतिर्यजमानः पुत्रान्नपश्वादिभिः प्रथतां विस्तारमाप्नोतु । अद्भिरभिमृशति । अग्निष्टे। हे पुरोडाश, अग्निः ते तव त्वचं मा हिंसीदिति । श्रपयति । देवस्त्वा । देवः सविता त्वां श्रपयतु । वर्षिष्ठे उत्कृष्टे नाके स्वर्गे अधि उपरि स्थितम् । सविता वा नाके स्थितः । सविता नः संस्तरएव । स ह्याधियज्ञिको यज्ञमधिकृत्य वर्तते । देवलोकः पुरोडाशशरीरस्य च यज्ञस्यैतज्जन्म यच्छ्रपणं । स यदि देवलोके जायते अतस्तत्समानयोगक्षेमो यजमानोऽपि तत्रैव जनिष्यत इति तत्र जन्माशास्यते ॥ २२ ॥
म०. 'संयौति जनयत्यै त्वेति' (का० २।५ । १४ ) इति । अपां पिष्टानां च मिश्रीकरणे संयवनम् । हे जलपिष्टरूपपदार्थद्वय, त्वां संयौमि सम्यङ्मिश्रीकरोमि । 'यु मिश्रणामिश्रणयोः'। किमर्थम् । जनयत्यै यजमानस्य प्रजोत्पादनार्थम् । जलपिष्टयोर्यथा मिश्रणं तथा शुक्रशोणितमिश्रणेन यजमानस्य प्रजोत्पत्तिर्भवति तदर्थं त्वां संयौमि । यद्वा जनयत्यै पुरोडाशोत्पत्त्यै त्वां संयौमि । 'संविभज्यासंहरिष्यन्नालभते इदमग्नेरिदमग्नीषोमयोरिति' (का० २।५।१५) इति । मिश्रीकृतस्य पिष्टस्यावदानाङ्कितं पिण्डद्वयं कृत्वा पुनरमेलयिष्यन् इदमग्नेः अग्निसंबन्धि भवत्विति प्रथमं पिण्डं स्पृशेत् । इदमग्नीषोमयोर्भवत्विति द्वितीयं स्पृशेत् । 'इषे त्वेत्याज्यमधिश्रयति' (का० २।५।१६) इति । हे आज्य, इषे इष्यमाणवृष्ट्यर्थं त्वामधिश्रयामीति शेषः । आज्यप्रविलापनार्थं तत्पात्रस्याग्नौ स्थापनमधिश्रयणम् । 'घर्मोऽसीति पुरोडाशमिति' (का० २।५।१७)। हे पुरोडाश, त्वं घर्मोऽसि । 'घृ क्षरणदीप्त्योः ' । घर्मशब्देन दीप्यमानः प्रवर्ग्य उच्यते । श्रप्यमाणतया दीप्यमानत्वात्प्रवर्ग्योऽसि । तथा विश्वायुः विश्वं कृत्स्नमायुर्यस्मात्स विश्वायुः ।। यस्माद्यजमानः सर्वमायुराप्नोतीति भावः । 'उरुप्रथा इति प्रथयति यावत्कपालमिति' (का० २।५।२०)। सर्वकपालेषु संश्लेषयितुं तं प्रसारयेत् । हे पुरोडाश, त्वं स्वभावतः उरुप्रथाः उरु विस्तीर्णं यथा तथा प्रथते प्रसरतीत्युरुप्रथाः । अत इदानीमपि उरु प्रथस्व प्रख्यातो भव । किंच ते यज्ञपतिः तव यजमानः उरु विस्तीर्णं पुत्रपश्वादिभिः प्रथतां प्रख्यातो भवतु । 'अग्निष्ट इत्यद्भिरभिमृशतीति' ( का० २।५।२१)। हे पुरोडाश, अग्निः श्रपणाय प्रवृत्तः ते तव त्वचं त्वक्सदृशमुपरितनभागं मा हिंसीन्मा विनाशयतु । अतिदाहेन मषीभावो विनाशः सोऽत्र मास्वित्यर्थः । अवघातपेषणोत्थः श्रपणाज्जायमानश्च हविष उपद्रवो जलस्पर्शेन शाम्यतीति भावः । 'देवस्वेति श्रपणमिति' (का० २।५।२३)। हे पुरोडाश, सविता देवः वर्षिष्ठे अत्यन्तवृद्धे नाके द्युलोकवर्तिनि नाकनाम्नि अग्नौ त्वा त्वाम् अधि अधिश्रित्य श्रपयतु पक्वं करोतु । मनुष्यस्य श्रपणे कर्तृत्वं मा भूदित्यभिप्रेत्य देवस्त्वेत्युच्यते । 'दिवि नाको नामाग्नी रक्षोहा' इति तित्तिरिवचनान्नाको नाम स्वर्गस्थोऽग्निः ॥ २२ ॥

त्रयोविंशी[७]
मा भे॒र्मा संवि॑क्था॒ अत॑मेरुर्य॒ज्ञोऽत॑मेरु॒र्यज॑मानस्य प्र॒जा भू॑यात् । त्रि॒ताय॑ त्वा द्वि॒ताय॑ त्वैक॒ताय॑ त्वा।। २३ ।।
उ० पुरोडाशमभिमृशति । मा भेर्मा संविक्थाः। मा त्वं भैषीः । मा च त्वं संविक्थाः । 'ओविजी भयचलनयोः । तत्र भयं प्रतिषिद्धम् । चलनं त्वत्र निषिध्यते । न भेतव्यं न चलितव्यमित्यर्थः । पुरोडाशमभिवासयति । अतमेरुर्यज्ञः। 'तमु अभिकाङ्क्षायाम्' । यद्यप्ययं धातुरभिकाङ्क्षामात्रे पठ्यते तथापि श्वासाभिकाङ्क्षायां भविष्यति । तमनशीलस्तमेरुः। न तमेरुः अतमेरुः यज्ञः। अतमेरुर्यजमानस्य प्रजा भूयात् भवेत्। पात्र्यङ्गुलिप्रक्षालनमाप्तेभ्यो निनयति । त्रिताय त्वा द्विताय त्वा एकताय त्वा । निनयामीति द्रव्यपरो निर्देशः (?)। निनयामीति शेषः । एवं द्विताय । एवमेकताय । तत आप्त्याः संबभूवुः त्रितो द्वित एकत इत्येवमादिरितिहासोऽयमवगन्तव्यः ॥ २३ ॥
म० 'मा भेरित्यालभत इति' (का० २ । ५। २४ )। हे पुरोडाश, त्वं मा भेः भयं मा कार्षीः । मा संविक्थाः चलनं मा कार्षीः । 'ञिभी भये' 'ओविजी भयचलनयोः' इत्यनयोः प्रयोगौ । 'अतमेरुरिति शृतावभिवासयति भस्मना वेदेनोपवेषेण वेति' (का० २।५।२५)। यज्ञः यागहेतुः पुरोडाशः अतमेरुः भूयात् । 'तमु ग्लानौ' ताम्यतीति तमेरुः । : औणादिक एरुप्रत्ययः । न तमेरुरतमेरुः । भस्माच्छादनेन ग्लानिरहितो भवतु । यजमानस्य प्रजा पुत्रपौत्रप्रपौत्रादिः अतमेरुः ग्लानिरहिता भूयात् । यजमानस्य प्रजायाः कदाचिद्दुःखं मास्त्वित्यर्थः । 'पात्र्यङ्गुलिप्रक्षालनमाप्त्येभ्यो निनयत्यभितप्य प्रत्यगसᳪं᳭स्यन्दमानं त्रिताय त्वेति प्रतिमन्त्रमिति' (का० २।५।२६) । हे पात्र्यङ्गुलिप्रक्षालनोदक, त्रिताय त्रितनाम्ने देवाय त्वां निनयामीति शेषः । तथा द्विताय त्वा निनयामि । तथा एकताय त्वा निनयामि । पूर्वं कुतश्चिद्धेतोः भीतोऽग्निरपः प्राविशत्ततो देवास्तं ज्ञात्वा जगृहुस्तदाग्निना वीर्यमप्सु मुक्तं तत आप्त्या उत्पन्नास्त्रितद्वितैकतसंज्ञास्ते देवैः सह चरन्तो यज्ञे पात्रीप्रक्षालनजललक्षणं भागं लेभिरे (१।२ । ३ । १) इति श्रुतिकथानुसंधातव्या ॥२३ ॥

चतुर्विंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑देऽध्वर॒कृतं॑ दे॒वेभ्य॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जा द्विष॒तो व॒धः ।। २४ ।।
उ० स्फ्यमादत्ते। देवस्यत्वेति व्याख्यातं । आददे गृह्णामि । अध्वरकृतं अध्वरं करोतीति अध्वरकृत् तमध्वरकृतं । देवेभ्योर्थाय । आलभ्य जपति । इन्द्रस्य बाहुरसि । इन्द्रस्य बाहुर्दक्षिणस्त्वमसि । एष वै वीर्यवत्तमो य इन्द्रस्य बाहुर्दक्षिणः । सहस्रभृष्टिः बहुभारः । शततेजाः बहूनि तेजांसि यस्य स शततेजाः । वायुरसि तिग्मतेजाः । तिग्मं तेजः । तेजतेरुत्साहकर्मणः । उत्साह एव तेजो यस्य स तथोक्तः । द्विषतः शत्रोर्वधः वधकः ॥ २४ ॥
म० 'देवस्य त्वेति स्फ्यमादायेति' (का० २ । ६ । १२) देवस्य त्वेति व्याख्यातम् । देवेभ्यो देवोपकारार्थं अध्वरकृतं अध्वरं करोति वेदिखननादिद्वारेणेत्यध्वरकृतं स्फ्यमहमाददे गृह्णामि । 'सतृणᳪं᳭ सव्ये कृत्वा दक्षिणेनालभ्य जपतीन्द्रस्य बाहुरितीति' (का० २ । ६ । १३)। हे स्फ्य, त्वमिन्द्रस्य दक्षिणो बाहुरसि । तेन बाहुना धृतत्वात्तत्समानवीर्योपेतत्वाद्वा स्फ्यस्य बाहुरूपत्वोपचारः । किंभूतः स्फ्यः । सहस्रभृष्टिः भृष्टिर्भर्जनं पाकः । मारणमिति यावत् । सहस्रसंख्याकानां शत्रूणां भृष्टिर्यस्य स सहस्रभृष्टिः । तथा शततेजाः शतं तेजांसि यस्य सः बहुधा दीप्यमानः । किंच वायुरसि न केवलमिन्द्रबाहुसदृशः किंतु वायुसदृशोऽप्यसि । अतएव तिग्मतेजाः तीक्ष्णतेजाः । यथा वायुर्वह्निं प्रदीप्य तीव्रां ज्वालामुत्पादयंस्तीव्रतेजा भवति एवं स्फ्योऽपि स्तम्बच्छेदरूपं कर्म कुर्वंस्तीव्रतेजा उच्यते । तथा द्विषतो वधः । हन्तीति वधः कर्मद्वेषिणामसुरादीनां हन्तेत्यर्थः ॥ २४ ॥

पञ्चविंशी।
पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूलं॒ मा हि॑ᳪं᳭सिषं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याᳪं᳭ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ।। २५।।
उ० प्रहरति । पृथिवि देवयजनि । वेदिः संबोध्यते । हे पृथिवि देवयजनि । देवा यस्यामिज्यन्ते सा तथोक्ता । ओषध्याः ते तव संबन्धिन्याः मूलं मा हिᳪं᳭सिषम् । 'तृह हिसि हिंसायाम्' । माङि लुङ् । मा विनाशिषम् । वज्रेण हरन् पुरीषमादत्ते । व्रजं गच्छ । व्रजन्त्यस्माद्गाव इति व्रजो घोषः गोवाटो वा उच्यते । गोव्रजो वा परिवृतं वा गवां स्थानं गच्छ । वेदिं प्रेक्षते। वर्षतु ते द्यौः वर्षतु तव द्युलोकः । शान्त्यर्थं वचनम् । उत्करे करोति । बधान । 'बध बन्धने बन्धनं कुरु। हे देव सवितः परमस्यां पृथिव्यां यत्र अन्धतामिस्रो नरकः तत्र । 'अन्धे तमसि बधानेति यदाह परमस्याम्' इति श्रुतिः । शतेन पाशैर्बहुमिः पाशैर्योऽस्मान्द्वेष्टि शत्रुः यं च वयं द्विष्मः शत्रुं तं अतः अस्मान् अन्धतमसः मामौक् । 'मुच्लृ मोक्षणे' । मा मुञ्च ॥ २५॥
म० 'पृथिवि देवयजनीति तृणेऽन्तर्हिते प्रहरतीति' (का० २।६।१५-१६)। हे पृथिवि हे देवयजनि, देवा इज्यन्ते यस्यां सा देवयजनी तस्याः संबोधने हे देवयजनि, ते तव ओषध्यास्तृणरूपाया मूलमहं मा हिᳪं᳭सिषं मा विनाशयामि। 'व्रजं गच्छेति पुरीषमादत्ते' (का० २ । ६ । १७) इति । स्फ्यप्रहारोत्पन्ना मृत् पुरीषमुच्यते । हे पुरीष, त्वं व्रजं गच्छ । व्रजन्ति गच्छन्ति स्थातुं गावो यत्र स देशो व्रजस्तं । किंभूतम् । गोष्ठानं गवां स्थानमिदानीमवस्थितिर्यत्र तं गोयुक्तं तदीयं स्थानं गच्छेत्यर्थः ॥ 'वर्षतु त इति वेदिं प्रेक्षत इति' (का. २। ६ । १८)। हे वेदे, ते तुभ्यं त्वदर्थं द्यौर्द्युलोकाभिमानी देवो वर्षतु जलसेकं करोतु । 'वृष सेचने' वर्षणेन खननजनितदुःखशान्तिरस्त्वित्यर्थः ॥ 'बधानेत्युत्करे करोतीति' (का. २।६। १९)। स्फ्योत्खातां मृदमुत्करे त्यजेत् । हे देव सवितः, योऽस्मान्द्वेष्टि द्वेषं करोति वयं च यं शत्रुं द्विष्मस्तमुभयविधं शत्रु परमस्यां पृथिव्यां बधान । परमा अन्तिमा पृथिवी । छान्दसः स्याडागमः । उत्करे क्षिप्तायां धूल्यां निगूढस्य शत्रोस्तत्र बन्धनं कुरु यत्र भूमेरन्तिमप्रदेशेऽन्धतामिस्रो नरकोऽस्ति । तथाच श्रुतिः 'अन्धे तमसि बधानेति यदाह परमस्यां पृथिव्याम्' (१।४ । १६) इति । कैर्बन्धनं कर्तव्यं तदाह । शतेन पाशैः शतसंख्याकाभिर्बन्धनरज्जुभिः । किंच अस्मादन्धतामिस्रान्नरकात्तं मा मौक् कदाचिदपि मा मुञ्च ॥२५॥

षड्विंशी ।
अपा॒ररुं॑ पृथि॒व्यै दे॑व॒यज॑नाद्वध्यासं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याᳪं᳭ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ।
अर॑रो॒ दिवं॒ मा प॑प्तो द्र॒प्सस्ते॒ द्यां मा स्क॑न् व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याᳪं᳭ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ।। २६ ।।
उ०. द्वितीयं प्रहरति । अपाररुम् । अररुः असुरः तमपनीय । पृथिव्यै पृथिव्याः देवयजनाच्च अपाररुं वध्यासम् । व्रजं गच्छेति समानम् । अभिन्यस्यत्यग्नीदुत्करमररो दिवमिति । हे अररो, त्वं दिवं द्युलोकं । मा पप्तः मा गमः। तृतीयं प्रहरति द्रप्सस्ते द्याम् । योऽस्याः पृथिव्या उपजीवनीयो रसः स द्रप्सः ते तव द्यां द्युलोकम् । मा स्कन् मास्कान्सीद मास्कन्तु । व्रजं गच्छति समानम् ॥ २६ ॥
म० 'अपाररुमिति द्वितीयं प्रहरतीति' (का० २।६।२१)। पृथिव्यै देवयजनात्पृथिव्याः संबन्धिनो देवयजनाख्याद्वेदिस्थानात् अररुम् अररुनामानमसुरमप बध्यासम् अपनीय यथा हतो भवति तथा करवाणि । अनेन मन्त्रेण द्वितीयवारं पूर्ववत्प्रहरेत् । व्रजं वर्षतु बधानेति मन्त्रत्रयस्य प्रयोगो व्याख्या च पूर्ववत् ॥ 'अभिन्यस्यत्यग्नीदुत्करमररो दिवमितीति' (का० २। ६ । २२)। हे अररो असुर, दिवं द्युलोकं यागफलरूपं त्वं मा पप्तः मा गमः । स्वर्गे त्वया न गन्तव्यम् । 'पत्लृ गतौ' 'पतः पुम्' (पा० ७.१.१९) इति लुङि पुमागमे रूपम् ॥ 'द्रप्सस्त इति तृतीयमिति' (का० २ । ६ । २३ )। हे वेदिदेवते, ते तव पृथिवीरूपाया यो द्रप्स उपजीव्यो रसः द्यां द्युलोकं मा स्कन् मा स्कन्दतु मा गच्छतु । 'स्कन्दिर्गतिशोषणयोः' । व्रजं गच्छेत्यादिमन्त्रत्रयप्रयोगो व्याख्या च पूर्ववत् ॥ २६ ॥

सप्तविंशी।
गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ त्रै॑ष्टुभेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ जाग॑तेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि ।
सु॒क्ष्मा चासि॑ शि॒वा चा॑सि स्यो॒ना चासि॑ सु॒षदा॑ चा॒स्यूर्ज॑स्वती॒ चासि॒ पय॑स्वती च ।। २७ ।।
उ० पूर्वं परिगृह्णाति । गायत्रेण त्वा । त्वाशब्देन विष्णुरुच्यते । 'ते प्राञ्चं विष्णुं निपाद्य' इति श्रुतिः । गायत्रेण त्वा छन्दसा परिगृह्णामि । एवमुत्तरयोः त्रैष्टुभेन जागतेनेति विशेषः । उत्तरं परिग्रहं परिगृह्णाति । पूर्वेण परिग्रहेण विष्णुं यज्ञं परिगृह्य तेन इमां पृथिवीं लब्ध्वा चोत्तरेण परिग्रहेण वक्ष्यमाणैर्गुणैरयोजयन्देवाः । सुक्ष्मा चासि शिवा चासीति दक्षिणतः । सुक्ष्मा इति पृथिवीनाम । शोभना पृथिवी त्वमसि । शिवा शान्ता च त्वमसि। पश्चिमतः। स्योना चासि सुषदा चासि । स्योनमिति सुखनाम । सुखनामरूपा चं त्वमसि । शोभनं यस्यां सीदन्ति सा सुषदा । उत्तरतः ऊर्जस्वती चासि पयस्वती च । अन्नवती चासि पयोविकारै रसैस्तद्वती च ॥२७॥
म० 'पूर्वं परिग्रहं परिगृह्णाति दक्षिणतः पश्चादुत्तरतश्च स्येतीन गायत्रेणेति प्रतिमन्त्रमिति' ( का० २। ६ । २५)। यस्मात्प्रदेशादररुर्निष्काशितस्तत्र वेदेरियत्तां निश्चेतुं दक्षिणादिदिक्त्रये स्फ्येन रेखात्रयकरणं पूर्वः परिग्रहः । विष्णुदेवता मन्त्रत्रयस्य । 'ते प्राञ्चं विष्णुं निपाद्य छन्दोभिरभितः पर्यगृह्णन्' (१।२ । ५-६ ) इति श्रुतेः । हे विष्णो, त्वा त्वां गायत्रेण छन्दसा गायत्र्यादिच्छन्दत्रयरूपतया भावितेन स्फ्येन दिक्त्रये परिगृह्णामि । एवं त्रैष्टुभेन जागतेनेत्युत्तरमन्त्रयोः । ततः छन्दोदेवताः दिक्त्रयेऽसुरेभ्यस्त्वां पालयिष्यन्ति । पूर्वस्यामाहवनीय एव पालकोऽस्तीति भावः । प्रजापतिपुत्रा देवा असुराश्च पूर्वं स्पर्धां चक्रुस्तदा देवान्पराजयं प्राप्तान्मत्वा भूमिमसुरा विभेजुस्तदा देवा वामनरूपं विष्णुमग्रे कृत्वाऽसुरानागत्यास्मभ्यमपि भूम्यंशो दातव्य इति तानयाचिषुः । ततोऽसुरा असूयन्तोऽयं विष्णुर्यावति भूभागे शेते तावान्भवदीयोऽस्त्वित्यूचुस्ततो देवा बह्वेतदस्माकमित्युक्त्वा ते प्राञ्चं विष्णुं निपात्य गायत्रेणेत्यादिमन्त्रैर्यज्ञभूमिं जगृहुः । यज्ञो विष्णुः स यत्र तिष्ठति सैव यज्ञभूमिरिति तैर्विदितत्वाद्वेदिरिति तद्भूमेर्नाम । (१।२५।१-७) इति श्रुतिकथामनुसंधाय वेदिग्रहणं विधेयम् ॥ । 'उत्तरं परिग्रहं परिगृह्णाति सुक्ष्मा स्योनोर्जस्वतीति' ( का० २ ।६।३१)। वेदिखननात्पूर्वं क्रियमाणः पूर्वः परिग्रहः ।पश्चात्रिरहयमाण उत्तरपरिग्रहः । तत्रापि पूर्ववद्दिक्त्रये स्फ्येन रेखात्रयं कार्यम् । हे वेदे, त्वं सुक्ष्मासि शिवा शान्ता चासि । क्ष्मा शोभना भूमिः सुक्ष्मा। खननेनाश्मादिदोषनिवर्तनं भूमेः शोभनत्वम् । उग्रस्यासुरस्य निष्कासनेन शान्तत्वम् । गुणद्वयस्यान्योन्यसमुच्चयार्थौ चकारौ । एकोऽयं मन्त्रः । स्योना सुखरूपासि । स्योनमिति सुखनाम । सुषदा सुष्टु सीदन्ति देवा यस्यां सा सुषदा । सम्यगुपवेशनयोग्या चासि । चकारौ पूर्ववत् । द्वितीयोऽयं मन्त्रः । ऊर्जस्वती पयस्वती चासि । ऊर्जःशब्दोऽन्नवाची । पयःशब्दस्तद्विकारदध्यादिवाची तदुभयवती । चौ पूर्ववत् । तृतीयो मन्त्रः ॥ २७ ॥

अष्टाविंशी।
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒वदा॑नुम् ।
यामैरयँश्च॒न्द्रम॑सि स्व॒धाभि॒स्तामु॒ धीरा॑सो अनु॒दिश्य॑ यजन्ते ।
प्रोक्ष॑णी॒रासा॑दय द्वि॑ष॒तो व॒धो॒ऽसि ।। २८ ।।
उ० वेदिमनुमार्ष्टि। पुरा क्रूरस्येति । निदानवतां मन्त्राणां पूर्वं निदानं वक्तव्यं पश्चान्मन्त्रार्थः तथा क्षिप्रमवगमो भव तीति देवा असुरैः सह संग्रामं करिष्यन्त इदमूचुः -- यदस्याः पृथिव्या अनुपहतं देवयजनं तच्चन्द्रमसि स्थापयामः । तत्र यदि कथंचिदस्मानसुरा जयेयुस्ततस्तेनैव देवयजनेन पुनः प्रतिक्रियां करिष्यामः । तदेतच्चन्द्रमसि कृष्णमुपलभ्यत एतदियमृक्त्रिष्टुप् उक्तवती। पुराक्रूरस्य । क्रूरशब्दः संग्रामवचनः । पञ्चम्यर्थे षष्ठी। प्राक्संग्रामात् । विसृपः 'सृपितृदोः कसुन्' इति कसुन्प्रत्ययान्तं तुमर्थेऽव्ययं पञ्चम्यर्थे । विविधं सर्पन्ति योद्धारोऽस्मिन्निति विसृपाः । विरप्शिन् इति आमन्त्रितं महन्नाम । स च विष्णुर्यज्ञवेदित्वमापन्नः स हि त्रिभिर्वेदैर्निर्वर्त्यमानो विविधं रप्शति शब्दं करोति । हे विरप्शिन् विष्णो, शृणु । उदादाय उत्क्षिप्य प्रकृतत्वाद्देवाः । पृथिवीं जीवदानुम् जीवितस्य दात्रीम् । सारभूतामित्यर्थः । यामैरयंचन्द्रमसि स्वधाभिः यो ऐरयन् । 'ईर गतौ' । अनेकार्थत्वाद्धातूनामिह स्थापनार्थः। चन्द्रमसि स्थापितवन्तः। स्वधाभिः। स्वधाशब्दोऽन्नवचनः । इह त्वन्नहेतुभूतास्तिस्रो विद्या गृह्यन्ते। 'यां चन्द्रमसि ब्राह्मणा दधुः' इति श्रुतेः । त्रयीलक्षणे ब्राह्मणाः संहितां यां पृथिवीं चन्द्रमसि न्यदधुः । तामु धीरासो अनुदिश्य यजन्ते । तां पृथिवीं धीरासो मेधाविनः अनुदिश्य दर्शनेन सम्यक्संपाद्य अद्यापि यजन्ते इति दर्शनप्रशंसा । प्रैषः । प्रोक्षणीरासादय । प्रोक्ष्यते आभिरिति प्रोक्षण्यः ता आसादय स्थापय । स्फ्यं प्रहरति । द्विषतो वधोसि । द्वेष्टुर्वधो विनाशस्त्वमसि ॥२८॥
म० 'पुरा क्रूरस्येत्यनुमार्ष्टीति' (का० २।६।३२)। अत्रेयमाख्यायिका मन्त्रेऽभिप्रेता--कदाचिद्देवानामसुरैः सह संग्राम उपस्थितस्तदा देवैर्मिथो मन्त्रितं यदस्या भूमेरुत्कृष्टं देवयजनस्थलं तच्चन्द्रे संस्थाप्य युद्धं कुर्मस्तत्र यद्यप्यस्माकं पराजयः स्यात्तदा देवयजने यागं विधाय पुनर्दैत्यपराजयं करिष्याम इति संमन्त्र्य भूमेः सारभागं देवयजनं चन्द्रे स्थापयामासुस्तत् कृष्णवर्णमिदानीमपि दृश्यत इत्याख्यानमयं मन्त्रो ब्रूते (१ । २ । ५। १८)। पुरा क्रूरस्येति त्रिष्टुप् चन्द्रदेवत्या । विरप्शीति महन्नाम । विविधं रपति वेदत्रयरूपेण शब्दं करोतीति विरप्शी । यज्ञो वेदित्वं प्राप्तो विष्णुः संबोध्यते । हे विरप्शिन् विष्णो परमेश्वर, त्वं शृणु । अनुगृहाणेति शेषः । क्रूरशब्दोऽत्र संग्रामवाची । 'संग्रामो वै क्रूरम्' (१।२।५।१९) इति श्रुतेः । विविधं सर्पन्ति योधा यस्मिन्निति विसृप् तस्येति क्रूरविशेषणम् । पञ्चम्यर्थौ षष्ठ्यौ । विसृपो नानायोधयुतात्क्रूराद्युद्धात्पुरार्थाद्देवाः जीवदानुं जीवं ददातीति जीवदानुस्तां जीवस्य धात्रीं सारभूतां यां पृथिवीमुदादाय ऊर्ध्वं गृहीत्वा स्वधाभिः वेदैः सह चन्द्रमसि इन्दौ ऐरयन्प्राक्षिपन्स्थापयामासुः । धीरासः धीरा मेधाविनः । तामु । उ एवार्थे । तामेव चन्द्रस्थां पृथिवीमनुदिश्य दर्शनेन संपाद्य सैव भूमिरस्यां वेद्यां विद्यत इति भावयित्वा यजन्ते यागं कुर्वन्ति । स्वधाशब्दो यद्यप्यन्नवाची तथाप्यत्रान्नहेतुभूता वेदत्रयी कथ्यते । 'यां चन्द्रमसि ब्राह्मणा दधुः' (१।२।५। १९) इति श्रुतेः। ब्रह्मणा वेदेन सहेत्यर्थः । अनेन मन्त्रेण खातायां वेद्यां लोष्टकृतवैषम्यनिवृत्तये समीकरणरूपं मार्जनं कुर्यात् । प्रोक्षणीरासादयेति अग्नीध्रंप्रति प्रैषः । प्रोक्ष्यन्त आभिरिति प्रोक्षण्य आपस्ता आसादय वेद्यां स्थापय । 'द्विषतो वध इति स्फ्यमुदञ्चं प्रहरतीति' (का० २।६।४२)। हे स्फ्य, त्वं द्विषतः शत्रोर्वधोऽसि हिंसकोऽसि ॥ २८ ॥

एकोनत्रिंशी।
प्रत्यु॑ष्ट॒ᳪं᳭ रक्ष॒: प्रत्यु॑ष्टा॒ अरा॑तयो निष्ट॑प्त॒ᳪं᳭ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः ।
अनि॑शितोऽसि सपत्न॒क्षिद्वा॒जिनं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ।
प्रत्यु॑ष्ट॒ᳪं᳭ रक्ष॒: प्रत्यु॑ष्टा॒ अरा॑तयो॒ निष्ट॑प्त॒ᳪं᳭ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः ।
अनि॑शिताऽसि सपत्न॒क्षिद्वा॒जिनीं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ।। २९ ।।
उ० अथ स्रुवमादत्ते। तं प्रतपति प्रत्युष्टमिति व्याख्यातम् । स्रुवं संमार्ष्टि। अनिशितोसि शो तनूकरणे'। निशितस्तीक्ष्णीकृतः न निशितः अनिशितः अतीक्ष्णीकृतस्त्वमसि । तथापि सपत्नक्षित् सपत्नान्क्षिणोतीति सपत्नक्षित् । 'क्षिण क्षिणि हिंसायाम्'। क्षिण हिंसार्थः । यतश्च त्वं यजमानस्य सपत्नक्षित् अतो वाजिनं त्वा । वाजशब्दोऽन्नवचनः । इह तु यज्ञवचनः। यतोऽसि देवानामन्नम् । 'यज्ञो देवानामन्नम्' इति श्रुतिः। तं वाजमन्नं यज्ञाख्यं योऽर्हति स वाजी । अर्हार्थे इति णिन् । वाजिनं यज्ञियं त्वाम् । वाजेध्यायै 'ञिइन्धी दीप्तौ' । यज्ञोज्वलनार्थम् । संमार्ज्मि संशोधयामि 'मृजूष् शुद्धौ' । स्रुवं च प्रतपति प्रत्युष्टमिति । व्याख्याते यजुषी । संमार्ष्र्टि स्रुचम्। अनिशितासि व्याख्यातम् ।अनिशितेति स्त्रीत्वविवक्षायां टाप् प्रत्ययः। वाजिनीमिति ङीप् प्रत्ययः। एतावानेव विशेषः॥२९॥
म० 'स्रुवं प्रतप्य पूर्ववदिति' (का० २।६।४५)। यथा | शूर्पाग्निहोत्रहवण्योः प्रत्युष्टमिति प्रतपनं कृतं तथा स्रुवस्यापि कार्यमित्यर्थः । मन्त्रो व्याख्यातः ॥ 'वेदाग्रैरन्तरतः प्राक्संमार्ष्ट्यनिशित इतीति' ( का० २।६। ४६)। हे स्रुव, त्वमनिशितोऽसि । 'शो तनूकरणे' । नितरां शितस्तीक्ष्णीकृतो निशितस्तथा न भवतीत्यनिशितः । अस्मद्विषये तीक्ष्ण उपद्रवकारी न भवसीत्यर्थः । यतः सपत्नक्षित् । 'क्षिणु हिंसायाम् । सपत्नानस्मच्छत्रून्क्षिणोति हिनस्तीति सपत्नक्षित् । अतएव त्वां संमार्ज्मि सम्यक् शोधयामि । 'मृजू शुद्धौ' । किंभूतं त्वाम्। वाजिनं वाजोऽन्नमस्यास्तीति वाजिनं यज्ञद्वारा अन्नहेतुत्वादन्नवन्तम् । यद्वा वाजो यज्ञस्तद्वन्तम् । 'यज्ञो हि देवानामन्नम् (५।१।१-२) इति श्रुतेः । वाजं यज्ञाख्यमन्नमर्हतीति वाजिनम् । अर्हार्थे इन्प्रत्ययः । किमर्थं संमार्ज्मि । वाजेध्यायै 'ञिइन्धी दीप्तौ' इन्धनं इध्या दीप्तिः । वाजस्येध्या वाजेध्या तस्यै वाजेध्यायै यज्ञस्य दीप्त्यै प्रकाशनार्थम् । शोधितेन स्रुवेणाज्ये गृहीते हुते च सति अग्निर्दीप्यते । तद्दीप्त्याहुतिफलभूतमन्नं प्रकाशितं भवतीत्यर्थः ॥ 'प्रतप्य प्रतप्य प्रयच्छत्यनिशितेति स्रुचा' (का० २ । ६ । ४७-४८) इति । अनिशितेति मन्त्रेण स्रुचस्तिस्रो जुहूपभृद्ध्रुवाः संमृज्य प्रत्येकं प्रत्युष्टमिति मन्त्रेण प्रतप्य प्रतप्य वेद्यां स्थापनार्थमध्वर्यवे प्रयच्छतीति सूत्रार्थः । प्रत्युष्टमिति व्याख्यातम् । अनिशितेत्यपि व्याख्यातम् । स्रुवस्य पुंस्त्वादादौ स्रुवसंमार्जनम् । स्रुचां स्त्रीत्वात्पश्चात् । 'योषा वै स्रुग्वृषा स्रुवः' (१।३। १।९) इत्यादिश्रुतेः । जुह्वादीनां स्रुचां स्त्रीलिङ्गत्वात्तद्विशेषणयोरनिशितावाजिनीमित्यनयोः स्त्रीत्वं विशेषः ॥ २९ ॥

त्रिंशी।
अदि॑त्यै॒ रास्ना॑सि विष्णो॑र्वे॒ष्यो॒ऽस्यू॒र्जे त्वा ऽद॑ब्धेन त्वा॒ चक्षु॒षाव॑पश्यामि ।
अ॒ग्नेर्जि॒ह्वासि॑ सु॒हूर्दे॒वेभ्यो॒ धाम्ने॑ धाम्ने मे भव॒ यजु॑षे यजुषे ।। ३० ।।
उ० योक्त्रेण पत्नीᳪं᳭ संनह्यति । अदित्यै रास्नासि । | अदित्याः संबन्धिनी या रास्ना सा त्वमसि । रास्ना रशना । उर्ध्वमुद्गूहति विष्णोर्वेष्योसि । विष्णोर्यज्ञस्य वेष्यः। विष्लृ व्याप्तौ' 'वेष्ट वेष्टने'। अनयोर्धात्वोरन्यतरस्य रूपम् । यज्ञस्य व्यापनं वेष्टनं वा त्वमसि । वेष्य आवर्त उच्यते इत्यपरम् । आज्यमुद्वासयति । उर्जेत्वेति व्याख्यातम् । पत्न्याज्यमवेक्षते । अदब्धेनेति आज्यमुच्यते । अदब्धेन । दभ्नातिर्हिंसार्थः । अनुपहिंसितेन त्वां चक्षुषा अर्वाचीनं पश्यामि । किंच अग्नेर्जिह्वासि । यदा वा एतदग्नौ जुह्वति । अथाग्नेः जिह्वा इवोत्तिष्ठन्ति ज्वालोत्पत्तिनिमित्तमित्यर्थः । सुहूर्देवेभ्यः। साधु हूयतेनेनेति सुहूः । अथवा शोभनमाह्वानं यस्य देवेभ्योऽर्थाय तदाज्यं सुहूः । उपकृत्य प्रत्युपकारं प्रार्थयते । धाम्ने धाम्ने मे भव यजुषे यजुषे । धामानि त्रीणि भवन्ति स्थानानि नामानि जन्मानीति च । धाम्ने धाम्ने यजुषे यजुषे इति द्विर्वचनं वीप्सार्थम् । मम यज्ञस्य यावन्ति स्थानानि यावन्ति यजूंषि तावन्ति व्याप्नुहीत्यर्थः ॥ ३०॥
म० 'पत्नीᳪं᳭ संनह्यति प्रत्यग्दक्षिणत उपविष्टां गार्हपत्यस्य मुञ्जयोक्त्रेण त्रिवृता परिहरत्यधोवासोऽदित्यै रास्नासीति' (का. २।७।१) इति । हे योक्त्र, अदित्यै अदित्या भूम्यास्त्वं रास्नासि रशना भवसि ॥ 'दक्षिणं पाशमुत्तरे प्रतिमुच्योर्ध्वमुद्गूहति विष्णोर्वेष्य इति न ग्रन्थिं करोतीति' (का० २।७।२-३) हे दक्षिणपाश, त्वं विष्णोः यज्ञस्य वेष्योऽसि व्यापकोऽसि । 'विष्लृ व्याप्तौ' ॥ 'ऊर्जेत्वेत्याज्यमुद्वास्येति' (का० २ । ७ । ४) हे आज्य, त्वामुद्वासयामीति शेषः । किमर्थम् । ऊर्जे उत्तमरसलाभाय । विलापितं घृतं सुस्वादु भवति । ‘पत्नीमवेक्षयत्यदब्धेनेतीति' ( का० २।७।४) । दभ्नोतिर्हिंसार्थः । हे आज्य, अदब्धेन अनुपहिंसितेन चक्षुषा त्वामवपश्यामि । अवाचीनं यथा तथाधोमुखी सती पश्यामि । किंच हे आज्य, त्वमग्नेर्जिह्वासि । यदाज्यमग्नौ हूयते तदा जिह्वेव ज्वालोत्पद्यतेऽतस्त्वमग्नेर्जिह्वा । किंभूतम् । देवेभ्योऽर्थाय सुहूः सुष्ठु हूयन्ते इति सुहूः । पुंस्त्वं छान्दसम् । यद्वा जिह्वाविशेषणम् । सुष्ठु हूयन्ते देवा आहूयन्तेऽनया सा सुहूर्जिह्वा । ज्वालां दृष्ट्वा आयान्तीत्यर्थः । अतो मे मम धाम्ने धाम्ने भव । तथा यजुषे यजुषे च भव । धाम स्थानम् । फलेन युज्यत इति यजुःशब्दो यागवाची । धाम्ने धाम्ने तत्तद्यागफलोपभोगस्थानसिद्ध्यर्थं भव । यजुषे यजुषे तत्तद्यागसिद्धये योग्यं भवेत्यर्थः ॥ ३० ॥

एकत्रिंशी।
स॒वि॒तुस्त्वा॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
स॒वि॒तुर्व॑: प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॑: ।
तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि धाम॒ नामा॑सि प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नमसि ।। ३१ ।।
इति माध्यंदिनीयवाजसनेयिसंहितायां प्रथमोऽध्यायः ॥१॥
उ०. आज्यमुत्पुनाति । सवितुस्त्वा सवितुः प्रसवे वर्तमानस्त्वामुत्पुनामि । व्याख्यातमन्यत् । प्रोक्षणीरुत्पुनाति । सवितुर्व इति व्याख्यातम् । आज्यमवेक्षते । तेजोसि शुक्रमसि अमृतमसि । यो ह्येतद्भक्षयति ददाति जुहोति वा तस्य तेजःप्रभृतीनि भवन्तीति वाक्यार्थः । यद्वा यत एवैतद्गुणयुक्तमाज्यम् । आज्यं गृह्णाति । धामनामासि । धाम स्थानम् , अन्नम् आयतनम् । धीयतेऽस्मिन्निति धाम इति धाम असि । नामयति सर्वाणि भूतानि आत्मानं प्रति अतो नाम । प्रियं देवानाम् इष्टमभिप्रेतं देवानाम् । अनाधृष्टम् अनाधर्षितम् अप्रतिहतं रक्षोभिः । देवयजनमसि । देवा अनेन इज्यन्ते इति देवयजनम् ॥ ३१॥
इति मन्त्रभाष्ये उवटकृतौ प्रथमोऽध्यायः ॥ १॥
म० 'सवितुस्त्वेत्याज्यमुत्पुनातीति' (का०२।७।७)। सवितुर्देवस्य प्रसवे आज्ञायां वर्तमानः संस्त्वामुत्पुनामि शोधयामि । व्याख्यातमन्यत् । 'प्रोक्षणीश्च पूर्ववदिति' ( का० २।७।८)। सुवितुर्वः । वो युष्मानुत्पुनामीति व्याख्यातम् । 'आज्यमवेक्षते तेजोऽसीति' (का० २ । ७ । ७)। हे आज्य, त्वं तेजोऽसि । शरीरकान्तिहेतुत्वात्तेजस्त्वम् । शुक्रमसि दीप्तिमदसि । स्निग्धरूपत्वाद्दीप्तिमत्त्वम् । अमृतमसि विनाशरहितमसि । बहुदिवसावस्थानेऽप्योदनादिवत्पर्युषितत्वादिदोषाभावादविनाशित्वम् ॥ 'स्रुवेणाज्यग्रहणं चतुर्जुह्वां धाम नामेति सकृन्मन्त्रं' ( का० २ । ७ । ११-१२) इति । हे आज्य, त्वं धाम स्थानमसि । धीयते स्थाप्यते चित्तवृत्तिर्देवैरत्रेति धाम । तथा नाम नामयति आत्मानं प्रति सर्वाणि भूतानीति नाम । आज्यं दृष्ट्वा सर्वेऽप्यत्तुं नमन्ति । तथा देवानां प्रियमिष्टमनभिभूतम् । गतसारत्वदोषेणातिरस्कृतम् । चरुपुरोडाशादीनि चिरस्थित्या गतसाराणि स्युरिदं न तथा । देवयजनं देवा इज्यन्तेऽनेनेति यागसाधनम् ईदृशं त्वमस्यतस्त्वां गृह्णामीति वाक्यशेषः ॥३१॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । शाखाद्याज्यग्रहान्तोऽयमध्यायः प्रथमोऽगमत् ॥ १॥


[सम्पाद्यताम्]

  1. भवतीत्यर्थः
  2. श्रुतेः
  3. इत्युच्यते
  4. विष्णुस्त्वाक्रमतां आरोहतु
  5. सर्वेशः
  6. तक्षप्रभृतयः
  7. सोऽभिवासयति । अतमेरुर्यज्ञोऽतमेरुर्यजमानस्य प्रजा भूयादिति नेदेतदनुयज्ञो वा यजमानो वा ताम्याद्यदिदमभिवासयामीति - माश १.२.२.१७