शतपथब्राह्मणम्/काण्डम् १/अध्यायः ७/सान्नाय्यसम्पादनम्

विकिस्रोतः तः

१.७.१ सान्नाय्यसंपादनम्
स वै पर्णशाखया वत्सानपाकरोति । तद्यत्पर्णशाखया वत्सानपाकरोति यत्र वै गायत्री सोममच्छापतत्तदस्या आहरन्त्या अपादस्ताभ्यायत्य पर्णं प्रचिच्छेद गायत्र्यै वा सोमस्य वा राज्ञस्तत्पतित्वा पर्णोऽभवत्तस्मात्पर्णो नाम तद्यदेवात्र सोमस्य न्यक्तं तदिहाप्यसदिति तस्मात्पर्णशाखया वत्सानपाकरोति - १.७.१.१

तमाच्छिनत्ति । इषे त्वोर्जे त्वेति वृष्ट्यै तदाह यदाहेषे त्वेत्यूर्जे त्वेति यो वृष्टादूर्ग्रसो जायते तस्मै तदाह - १.७.१.२

अथ मातृभिर्वत्सान्त्समवार्जन्ति । स वत्सं शाखयोपस्पृशति वायव स्थेत्ययं वै वायुर्योऽयं पवत एष वा इदं सर्वं प्रप्यायति यदिदं किं च वर्षत्येष वा एतासां प्रप्याययिता तस्मादाह वायव स्थेत्युपायव स्थेत्यु हैक आहुरुप हि द्वितीयोऽयतीति तदु तथा न ब्रूयात् - १.७.१.३

अथ मातॄणामेकां शाखयोपस्पृशति । वत्सेन व्याकृत्य देवो वः सविता प्रार्पयत्विति सविता वै देवानां प्रसविता सवितृप्रसूता यज्ञं सम्भरानिति तस्मादाह देवो वः सविता प्रार्पयत्विति - १.७.१.४

श्रेष्ठतमाय कर्मण इति । यज्ञो वै श्रेष्ठतमं कर्म यज्ञाय हि तस्मादाह श्रेष्ठतमाय कर्मण इति - १.७.१.५

आप्यायध्वमघ्न्या इन्द्राय भागमिति । तद्यथैवादो देवतायै हविर्गृह्णन्नादिशत्येवमेवैतद्देवताया आदिशति यदाहाप्यायध्वमघ्न्या इन्द्राय भागमिति - १.७.१.६

प्रजावतीरनमीवा अयक्ष्मा इति । नात्र तिरोहितमिवास्ति मा व स्तेन ईशत माघशंस इति मा वो नाष्ट्रा रक्षांसीशतेत्येवैतदाह ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरित्यनपक्रमिण्योऽस्मिन्यजमाने बह्व्यः स्यातेत्येवैतदाह - १.७.१.७

अथाहवनीयागारस्य वा पुरस्तात् । गार्हपत्यागारस्य वा शाखामुपगूहति यजमानस्य पशून्पाहीति तद्ब्रह्मणैवैतद्यजमानस्य पशून्परिददाति गुप्त्यै - १.७.१.८

तस्यां पवित्रं करोति । वसोः पवित्रमसीति यज्ञो वै वसुस्तस्मादाह वसोः पवित्रमसीति - १.७.१.९

अथ यवाग्वैतां रात्रिमग्निहोत्रं जुहोति । आदिष्टं वा एतद्देवतायै हविर्भवति यत्पयः स यत्पयसा जुहुयाद्यथान्यस्यै देवतायै हविर्गृहीतं तदन्यस्यै जुहुयादेवं तत्तस्माद्यवाग्वैतां रात्रिमग्निहोत्रं जुहोति जुह्वत्यग्निहोत्रमुपकॢप्तोखा भवत्यथाहोपसृष्टां प्रब्रूतादेति यदा प्राहोपसृष्टेति - १.७.१.१०

अथोखामादत्ते द्यौरसि पृथिव्यसीत्युपस्तौत्येवैनामेतन्महयत्येव यदाह द्यौरसि पृथिव्यसीति मातरिश्वनो घर्मोऽसीति यज्ञमेवैतत्करोति यथा घर्मम्प्रवृञ्ज्यादेवं प्रवृणक्ति विश्वधा असि परमेण धाम्ना दृंहस्व मा ह्वारिति दृंहत्येवैनामेतदशिथिलां करोति मा ते यज्ञपतिर्ह्वार्षीदिति यजमानो वै यज्ञपतिस्तद्यजमानायैवैतदह्वलामाशास्ते - १.७.१.११

अथ पवित्रं निदधति । तद्वै प्राङ्निदध्यात्प्राची हि देवानां दिगथो उदगुदीची हि मनुष्याणां दिगयं वै पवित्रं योऽयं पवते सोऽयमिमांल्लोकांस्तिर्यङ्ङनुपवते तस्मादुदङ्निदध्यात् - १.७.१.१२

तद्यथैवादः । सोमं राजानं पवित्रेण सम्पावयन्त्येवमेवैतत्सम्पावयत्युदीचीनदशं वै तत्पवित्रं भवति येन तत्सोमं राजानं सम्पावयन्ति तस्मादुदङ्निदध्यात् - १.७.१.१३

तन्निदधाति । वसोः पवित्रमसीति यज्ञो वै वसुस्तस्मादाह वसोः पवित्रमसीति शतधारं सहस्रधारमित्युपस्तौत्येवैनदेतन्महयत्येव यदाह शतधारं सहस्रधारमिति - १.७.१.१४

अथ वाचंयमो भवति आ तिसृणां दोग्धोर्वाग्वै यज्ञोऽविक्षुब्धो यज्ञं तनवा इति - १.७.१.१५

तदानीयमानमभिमन्त्रयते । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वेति तद्यथैवादः सोमं राजानं पवित्रेण सम्पावयन्त्येवमेवैतत्सम्पावयति - १.७.१.१६

अथाह कामधुक्ष इति अमूमिति सा विश्वायुरित्यथ द्वितीयां पृच्छति कामधुक्ष इत्यमूमिति सा विश्वकर्मेत्यथ तृतीयां पृच्छति कामधुक्ष इत्यमूमिति सा विश्वधाया इति तद्यत्पृच्छति वीर्याण्येवास्वेतद्दधाति तिस्रो दोग्धि त्रयो वा इमे लोका एभ्य एवैनदेतल्लोकेभ्यः सम्भरत्यथ कामं वदति - १.७.१.१७

अथोत्तमां दोहयित्वा । येन दोहयति पात्रेण तस्मिन्नुदस्तोकमानीय पल्यङ्य प्रत्यानयति यदत्र पयसोऽहायि तदिहाप्यसदिति रसस्यो चैव सर्वत्वायेदं हि यदा वर्षत्यथौषधयो जायन्त ओषधीर्जग्ध्वापः पीत्वा तत एष रसः सम्भवति तस्मादु रसस्यो चैव सर्वत्वाय तदुद्वास्यातनक्ति तीव्रीकरोत्येवैनदेतत्तस्मादुद्वास्यातनक्ति - १.७.१.१८

आतनक्ति । इन्द्रस्य त्वा भागं सोमेनातनच्मीति तद्यथैवादो देवतायै हविर्गृह्णन्नादिशत्येवमेवैतद्देवताया आदिशति यदाहेन्द्रस्य त्वा भागमिति सोमेनातनच्मीति स्वदयत्येवैनदेतद्देवेभ्यः - १.७.१.१९

अथोदकवतोत्तानेन पात्रेणापिदधाति । नेदेनदुपरिष्टान्नाष्ट्रा रक्षांस्यवमृशानिति वज्रो वा आपस्तद्वज्रेणैवैतन्नाष्ट्रा रक्षांस्यतोऽपहन्ति तस्मादुदकवतोत्तानेन पात्रेणापिदधाति - १.७.१.२०

सोऽपिदधाति । विष्णो हव्यं रक्षेति यज्ञो वै विष्णुस्तद्यज्ञायैवैतद्धविः परिददाति गुप्त्यै तस्मादाह विष्णो हव्यं रक्षेति - १.७.१.२१