शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/नवमः सर्गः(प्रदोषवर्णनम्)

विकिस्रोतः तः
← अष्टमः सर्गः(जलविहारवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
नवमः सर्गः(प्रदोषवर्णनम्)
माघः
दशमः सर्गः(सुरतवर्णनम्) →


नवमः सर्गः।

 अथ सूर्यास्तमयं वर्णयति-

 अभितापसंपदमथोष्णरुचिर्निजतेजसामसहमान इव ।
 पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥१॥

 अभितापेति ॥ अथ मिमङ्खानन्तरमुष्णरुचिः सूर्यो निजतेजसामभितापसं. पदं संतापातिरेकमसहमान इवापराम्बुनिधेः पश्चिमाब्धेः पयसि प्रपित्सुः पतितु- मिच्छुः । पततेः सन्नन्तादुप्रत्ययः 'सनिमीमा-' (७४।५४) इत्यादिना इसा- देशः 'अत्र लोपोऽभ्यासस्य' (७४।५८) इत्यभ्यासलोपः । अस्तगिरिमस्ताद्रिम् ।

पाठा०-१ मविरलाग”. 'अस्तस्तु चरमक्ष्माभृत्' इत्यमरः । अधिरोढुमभ्यपतदभ्यधावत् । अत्रासहमान इवेति कालप्राप्तस्य पयसि प्रपातस्य निजतेजोऽसहनहेतुकत्वमुत्प्रेक्ष्यते । अस्मिन्सर्गे प्रमिताक्षरावृत्तम् । 'प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥ १ ॥

 गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकताम् ।
 मुहुरन्तराल भुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥२॥

 गतयेति ॥ रतेन रत्यर्थे । 'प्रसितोत्सुकाभ्यां तृतीया च' (२।३।४४) इति सप्तम्यर्थे तृतीया। भृशमुत्सुकतां कालाक्षमत्वलक्षणमौत्सुक्यं दधती योषित् पुरोऽग्रे गवाक्षमुखं गवाक्षद्वारं प्रति गतयाऽपसृतया दृशा अस्तगिरेः सवितुश्चान्तरालभुवं मध्याकाशदेशं मुहुरमिमीत माति स्म । हस्तमात्रमवशिष्टमरत्निमात्रमवशिष्टमि- त्यादिमानकरणेनास्तमयं प्रतीक्षितवतीत्यर्थः। माङो लङि 'श्लौ' (६।१।१०) इति द्विर्भावः 'भृञमित्' (७।४।७६) इत्यभ्यासस्येत्वम् । एतच्चास्तमयप्रतीक्ष- णभ्रमादौत्सुक्यानुभवान्तरोपलक्षणम् । अत्रौत्सुक्यभाववचनात्प्रेयोऽलंकारः॥२॥

 विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।
 अभवद्गतः परिणतिं शिथिलः परिमन्दसूर्यनयनो दिवसः॥३॥

 विरलेति ॥ परिणतिं परिवृत्तिम् , अन्यत्र जरावस्थां च गतः अत एव विरला अल्पा आतपस्य छविर्यस्य सः, अन्यत्र क्षीणप्रभः । अनुष्णवपुः, अन्यत्र श्लेष्मो- दयादीषदुष्णदेहः । 'अलवणा यवागूः' इतिवदल्पार्थे नञ् प्रयोगः । परितो विपाण्डु एकत्र शुभ्राभ्रपटलच्छन्नत्वादपरत्र पलितैश्च पाण्डुरमभ्रमाकाशमेव शिरो दधदु- द्वहत्परिमन्दं प्रशान्तम् , अर्थग्रहणासमर्थं च सूर्य एव नयनं यस्य स दिवसः शिथिलः शिथिलवृत्तिः, शिथिलाङ्गश्चाभवत् । अत्राभ्रशिर इत्याद्यवयवरूपणाद्दिवस एव स्थविर इत्यवयविरूपकसिद्धेस्तदरूपणादेकदेशवृत्तिरूपकं श्लेषानुप्राणितम् ॥३॥

 अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
 निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिरः ॥४॥

 अपराह्णेति ॥ अपरोऽपरभागोऽह्णोऽपराह्णो दिनान्तः । 'पूर्वापराधरोत्तरमेक- देशिनैकाधिकरणे' (२।२।१) इत्येकदेशिसमासः 'राजाहःसखिभ्यष्टच्' (५।४। ९१) 'अह्नोऽह्न एतेभ्यः' (५।४।८८) इत्यह्णदेशः 'अह्णोऽदन्तात्' (८|४|७) इति णत्वम् । तस्मिन्नपराह्णे शीतलतरेणानिलेन शनैर्लोलिताश्चालिता लता एवाङ्गु- लयो यस्य तस्मै, अत एव निलयाय निवासायाह्वयते अङ्गुलिसंज्ञया आह्वानं कुर्वा- णायेव स्थितायेत्युत्प्रेक्षा । शाखिने वृक्षाय खगकुलानि पक्षिसङ्घा आकुलास्तुमुला गिर इदमागम्यत इति प्रत्युत्तराणि ददुरिवेत्यनुषङ्गादुत्प्रेक्षा ॥ ४ ॥

 उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
 करजालमस्तसमयेऽपि सतामुचितं खलूच्चतरमेव पदम् ॥५॥

 उपसंध्यमिति ॥ उपसंध्यं संध्यायाः समीपे । समीपार्थेऽव्ययीभावे नपुंसकत्त्वा स्वत्त्वम् । अशीतरुच उष्णांशोस्तनु करजालं तत्क्षणं तस्मिन्क्षणे । तत्कालेऽपीत्यर्थः । अत्यन्तसंयोगे द्वितीया । सानुमतोऽद्रेः शिखरेष्वास्तातिष्ठत् । आसेः कर्तरि लङ् । सतामस्तसमये नाशसमयेऽप्युच्चतरमेव पदमुन्नतस्थानमेवोचितं खलु । अर्थान्तरन्यासः ॥ ५ ॥

 प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
 अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ६ ॥

 प्रतिकूलतामिति ॥ विधौ दैवे प्रतिकूलतामुपगते सति बहुसाधनता अनेकसाधनवत्ता विफलत्वमेति । महत्यपि साधनसंपत्तिर्निष्फलैवेत्यर्थः । तथा हि ‌-- पतिष्यत आसन्नपातस्य दिनभर्तुः करा अंशवो हस्ताश्च । 'बलिहस्तांशवः कराः' इत्यमरः । तेषां सहस्रमपि अवलम्बनायावष्टम्भनाय नाभूत् । अतो दैवमेव प्रबलमिति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६॥

 नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।
 अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ॥ ७ ॥

 नवेति ॥ अतुषारकर उष्णांशुः नवकुङ्कुमवदरुणपयोधरया नवसंध्यारुणमेघया, अन्यत्र नवकुङ्कुमारुणकुचया स्वकरावसक्तरुचिराम्बरया स्वकिरणाकान्तरुचिराकाशया, अन्यत्र स्वहस्तलग्नचारुवस्त्रया वरुणस्य दिशा । पश्चिमदिशा सहेत्यर्थः । वरुणसंबन्धात्पराङ्गनात्वं च गम्यते । 'वृद्धो यूना-' (१।२।६५) इति सूत्रादौ सहाप्रयोगात्सहार्थानामप्रयोगेऽपि 'सहयुक्तेऽप्रधाने' (२।३।१९) इति सहार्थे तृतीया । अतिसक्तिमतिसंनिकर्षं, अत्यासक्तिं च एत्य प्राप्य भृशमन्वरज्यत्, लोहितो रक्तवांश्चाभवत् । रञ्जेर्दैवादिकात्कर्तरि लङ् । 'कुषिरजोः प्राचां श्यन् परस्मैपदं च' (३।१।९०) इति कर्मकर्तरि वा । अत्र वारुणीदिनकरादिविशेषणमहिम्नैव तयोर्जारभावप्रतीतेः समासोक्तिरलंकारः ॥ ७ ॥

 गतवत्यराजत जपाकुसुमस्तबकधुतौ दिनकरेऽवनतिम् ।
 बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम् ॥ ८॥

 गतवतीति ॥ जपाकुसुमस्तबकधुतौ लोहितवर्णे दिनकरेऽवनतिमस्ततां गतवति सति । लम्बमाने सतीत्यर्थः । दिग्वलयं दिङ्मण्डलं कंकणं च ध्वन्यते । बहलानुरागैः सान्द्ररागैः कुरुविन्ददलैः पद्मरागशकलैः प्रतिबद्धः प्रत्युप्तो मध्यो यस्य तदिवाराजतेत्युत्प्रेक्षा । 'कुरुविन्दस्तु मुस्तायां कुल्माषव्रीहिभेदयोः । इङ्गुदे पद्मरागे च मुकुलेऽपि समीरितः ॥' इति विश्वः ॥ ८ ॥

 द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।
 रुरुचे विरिञ्चिनखभिन्नबृहज्जगदण्डकैकतरखण्डमिव ॥ ९ ॥

 द्रुतेति ॥ द्रुतं तप्तं यच्छातकुम्भं तपनीयम् । 'तपनीयं शातकुम्भम्' इति सुवर्णपर्यायेष्वमरः । तेन सदृशं तन्निभमिति नित्यसमासः । पयसि समुद्रोदके अर्धं यथा तथा मग्नं वपुर्यस्य तस्यांशुमतोऽर्कस्य मण्डलं विरिञ्चेर्ब्रह्मणो नखेन विभिन्नस्य द्वेधाविदलितस्य बृहतो महतो जगदण्डकस्य जगदाश्रयकोशस्य ब्रह्माण्ढकड्स्यैकतरखण्डमन्यतरदलमिव रुरुचे रराज । अन्नोपमानस्य पुराणप्रसिद्धत्वा- दुपमालंकारः ॥९॥

 अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
 निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥१०॥

 अनुरागवन्तमिति ॥ अपरदिक् पश्चिमा सैव गणिका वेश्या अनुरागो लौहित्यमभिलाषश्च तद्वन्तमपि लोचनयोः सुखयतीति सुखं सुखकर शान्तत्वा- दाभिरूप्याच्च दर्शनीयं वपुर्दधतमपीति अतापकरमनौष्ण्यादशठत्वाच्चासंतापका- रिणं सुखस्पर्शं वा तथाप्यपेतवसुं नीरश्मिं निर्धनं च । 'देवभेदेऽनले रश्मौ वसू रत्ने धने वसु' इत्यमरः । रविः सूर्यो विटश्च गम्यते । तं वियदाकाशमेवालयो गृहं तस्मान्निरकासयन्निष्कासितवती । धनपरा हि वेश्या निर्गुणमपि धनिकमासर्व- स्वहरणादत्यनुरक्तवदनुवर्तन्ते, गुणवन्तमपि हृतसर्वस्वं निर्वासयन्ति सद्य एवेति भावः । अस्तं गतोऽर्क इति श्लोकार्थः । अत्र वियदालयादपरदिग्गणिकेत्येकदेश- रूपणाद्वेर्विटत्वरूपणावगमादेकदेशवर्ति रूपकं, श्लेषोऽपि तदुत्थापितत्वादनु- राग एवानुरागो वसव एव च वसूनीति रूपकपर्यवसित एवेत्यङ्गम् ॥ १० ॥

 अभितिग्मरश्मि चिरमाविरमादवधानखिन्नमनिमेषतया ।
 विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदव्जनयनं नलिनी॥११॥

 अभीति ॥ नलिनी अभितिग्मरश्मि सूर्याभिमुखं चिरमाविरमादस्तमयाद- निमेषतया अपक्ष्मपाततया । दलसंकोच एवात्र निमेपः । अवधानेनाभिमुखा- वस्थाननिर्बन्धेन खिन्नमलसम् । अत एव विगलन्निःसरन्मधुव्रतकुलमेवाश्रुजलं यस्य तदव्जमेव नयनं न्यमिमीलत् मीलयति स्म । 'भ्राजभास-' (७|४|३) इत्यादिना विकल्पादुपधाह्रस्वः । अत एव नाभ्यासदीर्घः । अनुरक्ता हि कान्ता कान्तमनिमेषं पश्यन्ती तदपाये सति निमीलिताक्षी स्यादिति भावः । अत्राप्य- व्जनयनमित्याद्यवयवरूपणादवयविनोनलिनीतिग्मरश्म्योर्नायिकानायकत्वरूपकत्व- सिद्धेरेकदेशविवर्ति रूपकम् ॥ ११ ॥

 अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।
 अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥ १२ ॥

 अविभाव्येति ॥ अविभाव्यतारकमलक्ष्यनक्षत्रम् । अदृष्टं हिमद्युतिरिन्दो- बिम्बं यस्मिंस्तत् । अद्याप्यनुदितचन्द्रतारकमित्यर्थः । अस्तमित्यदर्शनेऽव्ययम् । अस्तमितोऽस्तं गतो भानुर्यस्मिंस्तत् । एतावता निर्गुणत्वमुक्तम् । अथ निर्दोष- त्वमाह-अवसन्नतापमर्कास्तमयात्प्रशान्तसंतापम् । अतमिस्रमनुदितान्धकारं नभोऽन्तरिक्षमभानाति स्म । भातेर्लङ् । ननु निर्गुणस्य का शोभेति न वाच्यं, निर्दोषताया अपि गुणत्वादित्यर्थान्तरन्यासेनाह-विगुणस्य गुणहीनस्यापदोषता निर्दोषत्वमेव गुणः । अतो गुणवत्वाच्छोभा युक्तेति कारणेन कार्यसमर्थनरूयो- ऽर्थान्तरन्यासः ॥ १२॥

पाठा०-१०माविषया"

 रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः।
 ज्वलनं त्विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पतिः॥१३॥

 रुचीति ॥ रुचिधाम्नि तेजोनिधौ सूर्ये भर्तरि पत्यौ परलोकं देशान्तरमभ्यु- पगते, मृते च सति विमलाः शुद्धास्त्विषो ज्वलनं विविशुः । 'अग्निं वावादित्यः सायं प्रविशति' इति श्रुतेरिति भावः । अन्यत्र 'मृते या म्रियते पत्यौ सा स्त्री ज्ञेया पतिव्रता' इति स्मरणादिति भावः । अग्निप्रवेशफलमाह-इतरथा ज्वलन- प्रवेशे अन्यजन्मनि जन्मान्तरे स एव स सूर्य एव पतिः, अन्यत्र तु योऽस्मिञ्ज- न्मनि पतिः स एव कथं सुलभः । न कथंचिदित्यर्थः । 'उद्यन्तं वावादित्यमग्निरनु- समारोहति' इति श्रुतेः । तेनैव सह मोदत इति स्मरणादिति भावः । अतोऽग्नि- प्रवेशो युक्त इति समर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १३ ॥

 अथ संध्याप्रादुर्भावमाह-

 विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् ।
 चिरमुज्झितापितनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥१४॥

 विहितेति ॥ जनतया जनसमूहेन । 'ग्रामजन-' (४।२।४३) इत्यादिना समूहार्थे तल् प्रत्ययः । विहिताञ्जलिः । कृतप्रणामेत्यर्थः । विकसत्कुसुम्भकुसुमव- दरुणतां दधती राजसत्वादिति भावः । तदुक्तं 'सर्गाय रक्तं रजसोपबृंहितम्' इति । प्रसूत इति प्रसूर्माता । 'जनयित्री प्रसूर्माता' इत्यमरः । पितॄणां प्रसूः पितृप्रसूः असावियं संध्यारूपिणी आत्मभुवो ब्रह्मणस्तनुर्मूर्तिश्विरमुज्झिता त्यक्तापि प्रकृतिं स्वभावम् । जगद्वन्द्यत्वादिनिजधर्ममित्यर्थः । नौज्झत् न विससर्ज । 'उज्झ विसर्गे' लङ् 'आडजादीनाम्' (६।४।७२) इत्याडागमः ‘आटश्च' (६।१।९०) इति वृद्धिः । भूतपूर्वोऽपि महाजनपरिग्रहः फलतीति भावः। 'पितामहः पितृ- न्सृष्ट्वा मूर्ति तामुत्ससर्ज ह । सा प्रातः सायमागत्य संध्यारूपेण पूज्यते ॥' इत्यादि भविष्यपुराणमत्र प्रमाणम् । अत्र तनुत्यागरूपकारणसद्भावेऽपि प्रकृति- । त्यागरूपकार्यानुदयाद्विशेषोक्तिरलंकारः । 'तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते' इति लक्षणात् ॥ १४ ॥

 अथ सान्द्रसांध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
 पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥ १५॥

 अथेति ॥ अथ संध्योदयानन्तरं सान्द्रा ये सांध्याः संध्यायां भवाः । 'संधि- वेलाद्यतुनक्षत्रेभ्योऽण्' (४।३।१६) इत्यण्प्रत्ययः । तैः किरणैररुणितमरुणीकृत- मत एव विरहात् र्या. विरहवेदनया दलतो दीर्यमाणाद्धृदयात् स्रुतेन क्षरितेना- सृजा रुधिरेणानुलिप्तमिव स्थितमित्युत्प्रेक्षा । हरेर्विष्णोर्हेतिरायुधम् । चक्रमि- त्यर्थः । 'हेतिः शस्त्रे तु नृस्त्रियोः' इति केशवः । हरिहेतेर्हूतिरिव हूतिराह्वा यस्य तद्धरिहेतिहूति । चक्राह्वमित्यर्थः । पततोः पत्रिणोः । 'पतत्रिपत्रिपतगपतत्पत्ररथा- ण्डजाः' इत्यमरः । मिथुनम् । चक्रवाकद्वन्द्वमित्यर्थः । पृथक् भेदेनोत्पपात

उदडीयत ॥ १५॥

 निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।
 दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥१६॥

 निलय इति ॥ यदेव जले जन्म यस्य तज्जलजन्म जलजमेतदेव सततं श्रियो निलय आलय इति प्रथितं प्रसिद्धम् । 'निकाययनिलयालयाः' इत्यमरः । तदपि । नित्यवासभूतमपीत्यर्थः । तया श्रिया दिवसात्यये सायंकाले मुक्तम् । अहो देवाना- मपि कृतघ्नत्वं यदापदि महोपकारिणस्त्याग इत्याश्चर्यम् । अथवा चपला चापलवती स्त्री, कमला च । 'चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च' इति विश्वः । सैव जन- श्वपलाजनः । 'जातेश्च' (६।३।४१) इति 'संज्ञापूरण्योश्च' (६।३।३८) इति चोभयत्रापि पुंवद्भावप्रतिषेधः । तं प्रति । तस्मिन्नित्यर्थः । अद इदं कृतघ्नत्वं चोद्यं चोदनीयं कथमित्याक्षेप्यं न । चपलत्वान्नाश्चर्यमेतदिति भावः । श्लेषमूला- तिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः ॥ १६ ॥

 दिवसोऽनुमित्रमगमद्विलयं किमिहास्यते बत मयाबलया ।
 रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि ॥१७॥

 दिवस इति ॥ दिवसो वासरः । पुमानिति भावः । मित्रं सूर्यं, सुहृदं चानु । मित्रेण सहेत्यर्थः । 'तृतीयार्थे' (१|४|८५) इत्यनोः कर्मप्रवचनीयत्वा- द्वितीया । 'मित्रं सुहृदि मित्रोऽर्के' इति विश्वः । विलयं नाशमगमद्गतः । गमेर्लुङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । अबलया स्त्रिया मया रुचिभर्तुस्ते- जोनिधेः प्रेमास्पदपतेश्वास्य सूर्यस्य विरहाधिगमात् । ल्यब्लोपे पञ्चमी । विरह- ज्ञानं प्राप्येत्यर्थः । इहास्मिल्लोके किमास्यते किमर्थं स्थीयते । आसोर्भावे लिट् । बतेति खेदे । इतीत्थमालोच्येवेत्यर्थः । अत एव उत्प्रेक्षा । संध्ययापि सपदि व्यगमि । व्यपागामीत्यर्थः । गमेः स्वार्थण्यन्ताद्भावे लुङ् । मित्त्वाङ्र्स्वः । 'अण्य- न्तादुपधावृद्धिर्नायं स्याद्धेतुमण्णिचि । तस्मात् स्वार्थे णिजुत्पाद्यो मितां ह्रस्वो यतो भवेत् ॥' विगमशब्दात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लुङिति केचित् ॥ १७ ॥

 अथान्धकारं वर्णयति-

 पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।
 अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥ १८॥

 पतित इति ॥ पतङ्गोऽर्क एव मृगराट् सिंह इति रूपकसमासः । तस्मिन्नि- जेन प्रतिबिम्बेन रोषिते कोपित इवेत्युत्प्रेक्षा । स्वप्रतिबिम्बे प्रतिसिंहभ्रमादिति भावः । अत एवाम्बुनिधौ पतिते सति । तजिघांसयेति भावः । भावलक्षणसप्तमी। अथाप्सु पतनानन्तरं नागयूथानि करिकुलानीव मलिनानि श्यामानि । 'उपमानानि सामान्यवचनैः' (२|१|५५) इति समासः । तमांसि जगल्लोकं परितः परितस्त- रिरे आच्छादयामासुः । स्तृणातेः कर्तरि लिट् । 'ऋतश्च संयोगादेर्गुणः' (७।४।१०)। अत्र यद्यपि नागयूथमलिनानीत्युक्त्यानुशासनसिद्धोपमानुसारात्

पाठा०-१ 'व्यशमि'. पतङ्गमृगराजीत्यत्राप्युपमितसमासाश्रयणेनोपमैवोचिता, तथापि तदुत्प्रेक्षायाः पतङ्गेऽसंभवात् सिंहे संभवाच्च रूपकमेव युक्तम् । तथा च रूपकानुप्राणितोत्प्रेक्षे- यमुपमेति च संकरः । तत्रोत्प्रेक्षया भ्रान्तिमदुपमया रूपकं च व्यज्यत इत्यलंका- रेणालंकारध्वनिरिति संक्षेपः॥ १८॥

 व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्करुचि ।
 दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥१९॥

 व्यसरदिति ॥ बहलपङ्करुचि सान्द्रकर्दमच्छवि दिवसावसाने दिनान्ते पटुनः समर्थस्य तमसः पटलं भूधरगुहानामन्तरतोऽभ्यन्तरादेत्यागत्य बहिर्गवाक्षप्रदेशे व्यसरन्नु विस्तृतं वा, बहिर्बाह्यदेशादेत्य गुहा अधिकं भृशमभक्त च भजते स्म । किं प्रविष्टं वेत्यर्थः । भजतेर्लुङि तङ् 'झलो झलि' (८|२।२६) इति सकार- लोपः । अत्र व्यापकत्वसादृश्यात्तमसोऽन्तर्बहिरपादानकत्वसंदेहात्संदेहालंकारः १९

 किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः ।
 विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन निरधारि तमः॥२०॥
         (युग्मम्)

 किमिति ॥ प्रचुरीभवद्वहुलीभवत्तमः कर्तृ, किमम्बरविलग्नमाकाशस्थं सत् अधो भूतलं प्रति अलम्बतास्रंसत किमिव अवनीतलतो भूतलादूर्ध्वमुपरिष्टादवर्धत किम् । अथ दिग्भ्यस्तिर्यग्विससार विस्तृतमिति न निरधारि । अधोलम्बनादीना- मन्यतमं नावधारितमित्यर्थः। धारयतेः कर्मणि लुङ् । अत्रापि पूर्ववत्संदेहा- लंकारः ॥ २०॥

 स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति ।
 दधिरे रसाञ्जनमपूर्वमतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥ २१॥

 स्थगितेति ॥ स्थगिते तिरोहिते अम्बरक्षितितले येन तसिंस्तिमिरे परितो जनस्य दृशमन्धयति अन्धां कुर्वति सति सुदृशः स्त्रियोऽपूर्व नूतनं रसाञ्जनं रसं रागमेवाञ्जनं, सिद्धाञ्जनं च दधिरे दधुः । अतो हेतोः प्रियवेश्मवर्त्म ददृशुः । अत्र रसाञ्जनवाक्यार्थेन प्रियवेश्मदर्शनसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । तेन रसः सिद्धाञ्जनमिवेत्युपमाध्वननादलंकारेणालंकारध्वनिः ॥ २१ ॥

 अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसंतमसम् ।
 सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ २२ ॥

 अवधार्येति ॥ सान्द्रतमं यत्संतमसं व्यापकं तमः । 'विष्वक्संतमसम्-' इत्यमरः । 'अवसमन्धेभ्यस्तमसः' (५।४।७९) इति समासान्तोऽच् प्रत्ययः । तत्कर्तृ सुतनोः शुभाङ्गया दयितोपगमे प्रियाभिसरणे कार्यगुरुतां संभोगकार्यस्या- वश्यकत्वमवधार्य निश्चित्य भयाय नाभवत् । स्तनौ कुचौ च तनुः कृशो यो रोम- राजेः पन्थाः रोमराजिपथो मध्यभागस्तस्य वेपथवे कम्पाय। 'ट्वितोऽथुच्' (३।३।८९) इत्यथुच् प्रत्ययः । नाभवतामिति विपरिणामेनानुषङ्गः । कार्यासक्तस्य तत्रापि कामुकस्य कुतो भयं केशगणना चेति भावः । अत्र संतमसकुचयोः कामनिमित्ते भयकम्पानुदये कार्यगौरवावधारणहेतुकत्वोत्प्रेक्षेयमनेन व्यज्यते ॥ २२ ॥

 ददृशेऽपि भास्कररुचाह्नि न यः स तमीं तमोभिरभिगम्य तताम् ।
 द्युतिमग्र
द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥२३॥

 ददृश इति ॥ यो ग्रहगणोऽहनि सवितुस्त्विषा न ददृशे नेक्षितः स ग्रहग- णस्तमोभिस्ततां व्याप्तां ताम्यन्त्यस्यामिति तमीं रात्रिम् । 'रजनी यामिनी तमी' इत्यमरः । अभिगम्य प्राप्य द्युतिमग्रहीत् । ग्रहेर्लुङि 'ग्रहोऽलिटि-' (७।२।३७) इति इटो दीर्घत्वेऽपि स्थानिवत्त्वेनेट्त्वात्सिचो लोपे सवर्णदीर्घः । तथा हि- लघवोऽल्पाः । 'त्रिविष्टेऽल्पे लघुः' इत्यमरः । मलिनाश्रयतो निकृष्टाश्रयणात् प्रकटीभवन्ति । अर्थान्तरन्यासः ॥ २३ ॥

 अनुलेपनानि कुसुमान्यवलाः कृतमन्यवः पतिषु दीपशिखाः ।
 समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ॥ २४ ॥

 अनुलेपनानीति ॥ तेन समयेन प्रदोषकालेन कर्त्रा, अनुलेपनानि कुङ्कुम- चन्दनादीनि कुसुमानि माल्यादीनि । तथा पतिषु कृतमन्यवः कृतकोपा अबलाः स्त्रियः तथा दीपशिखाः दीपज्वालाश्चेत्येतानि सर्वाणि चिरं सुप्तस्य पूर्वं स्तब्धस्य मनोभवस्य कामस्य बोधनमुद्दीपनं यस्मिन्कर्मणि तद्यथा तथा । तत्पूर्वकमित्यर्थः । इतरथा अनुलेपनादिबोधकस्य वैफल्यासंभवाञ्चेति भावः । समं सहैवावबोधिषत बोधितानि । बुध्यतेर्ण्यन्तात्कर्मणि लुङ् । अत्र गन्धमाल्यसंपादनस्त्रीमनःप्रसाद- दीपशिखोत्पादनानामबोधिषतेत्येकेन श्लिष्टशब्देनाभिधानात् श्लेषमूलाभेदाध्यवसा- यरूपातिशयोक्तिरेका । तथा सुप्तमनोभवबोधनमिति क्रियाविशेषणसामर्थ्यात् सममिति यौगपद्याभिधानाच्च मनोभवबोधनया कार्यकारणभूतयोस्तद्विपर्ययरूपा- परा । तदुभयापेक्षया गन्धमाल्यादीनां प्रस्तुतानामवबोधनरूपैकधर्मसंबन्धा- तुल्ययोगिताभेदश्चेति संकरः ॥ २४ ॥

 अथ चन्द्रोदयवर्णनं प्रारभते-

 वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् ।
 स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माघवनीम् ॥२५॥

 वसुधेति ॥ अथ मनःप्रसादानन्तरं वसुधान्तेन भूप्रान्तेन निःसृतं बहिर्निर्ग- तमहिपतेः शेषस्य फणामणिसहस्राणां रुचां भासां पटलं स्तोम इवेत्युत्प्रेक्षा । शीतरुचश्चन्द्रस्य संबन्धि स्फुरदुल्लसदंशुजालं मघोन इमां माघवनी माहेन्द्रीम् । 'मघवा बहुलम्' (१।४।१२८) इति विकल्पान्न आदेशः । ककुभं दिशं समस्कु- रुताभूषयत । प्राच्यां दिशि चन्द्रकिरणजालमलक्ष्यतेत्यर्थः । 'संपर्युपेभ्यः करोतौ भूषणे' इति संपूर्वस्य सुडागमः 'अडभ्यासव्यवायेऽपि' (वा०) इति नियमात् ॥२५॥

पाठा०-१ 'दशाः'.

 विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः ।
 मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥२६॥

 विशदेति ॥ विशदप्रभापरिगतं शुभ्रकान्तिव्याप्तम् । उदय इति अचलः । 'उदयः पूर्वपर्वतः' इत्यमरः । तेन व्यवहितमिन्दुवपुरिन्दुमण्डलं यस्मिन् शक्र- दिशः प्राच्या मुखमग्रभागः वकं च प्रतीयते तदभेदेनोत्प्रेक्ष्यते । अप्रकाशदश- नमलक्ष्यदन्तं सविलासहासं सविलासस्मितमिव शनकैर्मन्दं विबभौ ॥ २६ ॥

 कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् ।
 क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति ॥ २७॥

 कलयेति ॥ पुरः प्राच्यामग्रभागे च तुषारकिरणस्येन्दोः कलया किरणेन अन्यत्रोपलक्षितं परिमन्दमल्पं भिन्ना विदलितास्तिमिरौघा एव जटा यस्य तत् गगनं न मृषा सत्यम् । गणाधिपतेः प्रमथपतेरीश्वरस्य । 'गणाः प्रमथसंख्यौघाः' इति वैजयन्ती । मूर्तिरिति जनैः क्षणमभ्यपद्यत । 'गगनमष्टानां शिवमूर्तीनाम- न्यतममिति यत्तत्सत्यम्, अभिपन्नमित्यर्थः । कलामात्रोदितश्चन्द्र इति फलितो- ऽर्थः । रूपकालंकारः ॥ २७ ॥

 नवचन्द्रिकाकुसुमकीर्णतमःकबरीभृतो मलयजामिव ।
 ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ॥ २८ ॥

 नवेति ॥ नवचन्द्रिकाभिरेव कुसुमैः कीर्णं तम एव कबरी केशपाशः । 'जानपद-' (४।१।४२) इत्यादिना ङीप् । तां बिभर्तीति तद्भृतः हरेः शक्रस्य हरितो दिशो मुखेऽग्रभाग एव मुखं वक्रमिति श्लिष्टरूपकम् । तस्यैव ललाटतटव- द्धारि मनोहरं हिमरश्मिदलमिन्दुखण्डं मलयजेन चन्दनेनार्द्रमिव ददृशे । धाव- ल्यादिति भावः । अत्र नवचन्द्रिकाकुसुमेत्याद्येकदेशविवर्तिरूपकमहिम्ना हरिवधू- त्वप्रतीतौ तत्सहकृतश्लेषावगतवक्त्राभेदाध्यवसितमुखसंबन्धप्रसादासादितललाटत- टोपमोज्जीवनेनेन्दुदलस्यानुपात्तनिजधावल्यगुणनिमित्तमलयजार्द्रत्वगुणस्वरूपोत्प्रेक्षे- ति संकरः ॥ २८॥

 प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः ।
 दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम् ॥२९॥

 प्रथममिति ॥ हिमदीधितिश्चन्द्रः प्रथमं कला कलामात्रमभवत् । 'कला तु षोडशो भागः' इत्यमरः । अथार्धमात्रमभवत् । अथो अनन्तरम् । 'अथो अथ' इत्यमरः । उदितः साकल्यादुत्थितः सन् अमहान्महान्संपद्यमानोऽभून्म- हदभूत् । अभूततद्भावे च्विः । हलन्तत्वान्न कार्यान्तरप्राप्तिः । तथा हि-द्युति- शालिनस्तेजिष्ठा अपि क्रमशः क्रमेणैवोपचयं वृद्धिं दधति, सहसा झटिति तु न दधति ध्रुवम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ २९॥

 उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।
 प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥ ३०॥

 उदमज्जीति ॥ अपनिद्रपाण्डुरसरोजरुचा विकसितसितपुण्डरीकश्रिया तुहि- नद्युतिना चन्द्रेण प्रथमं हरेः पूर्वमेव प्रबुद्धायाः । अन्यथा तन्मुखं न दृश्यतेति भावः । नदराजसुतायाः सिन्धुकन्यायाः श्रियो वदनेन्दुनेवेत्युत्प्रेक्षा । कैटभ- जितो हरेः शयनात् । समुद्रादित्यर्थः । उक्तोत्प्रेक्षासंभावनार्थमित्थं निर्देशः । उदमजि उन्मग्नम् । उत्थितमित्यर्थः ॥ ३०॥

 अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
 परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे ॥ ३१ ॥

 अथेति ॥ अथोदयानन्तरं लक्ष्मणा लाञ्छनेन, लक्ष्मणेन सौमित्रिणा चानु- गतमनुसृतं कान्तं वपुर्यस्य सः । लक्ष्मणानुगतकान्तवपुरिति शब्दश्लेषः । वस्तुतः शब्दभेदेनार्थद्वयाभावेऽपि जतुकाष्ठवदेकशब्दप्रतीतेः । परितः समन्ता- दृक्षगणैर्नक्षत्रगणैः, जाम्बवदादिभल्लूकसमूहैश्च इत्यर्थश्लेषः । एकनालावलम्बिफलद- यवदखण्डैकशब्दादर्थद्वयप्रतीतेः । 'नक्षत्रमृक्षं भं तारा' इति । 'ऋक्षाच्छभल्ल- भल्लूका' इति चामरः । परिवारितः शश्येव दाशरथिर्दशरथपुत्रो रामः । अत इञ् । जलधिं विलय तिमिरौघ एव राक्षसकुलं तत् बिभिदे विभेदयामास । भिदेः कर्तरि लिट् । श्लेषसंकीर्णसमस्तवस्तुवर्तिसावयवरूपकालंकारः ॥ ३१ ॥

 उपजीवति स सततं दधतः परिमुग्धतां वणिगिवोडुपतेः।
 घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥३२॥

 उपजीवतीति ॥ अम्भसां निधिः समुद्रो वणिगिव सततं परिमुग्धतां सौन्दर्यम् , अन्यत्र मौढ्यम् । व्यवहारानभिज्ञतामिति यावत् । 'मुग्धः सुन्दरमू- ढयोः' इति विश्वः । दधतो दधानस्य घनानां वीथिर्घनवीथिरन्तरिक्षं सा वीथिः पण्यवीथिरिवेत्युपमितसमासः । तामवतीर्णवतः प्रविष्टवत उडुपतेर्नक्षत्रनाथस्य कस्यचिद्धनिकवणिजश्व कलाः षोडशांशान्मूलधनवृद्धीश्च । 'कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके । षोडशांशेऽपि चन्द्रस्य' इति विश्वः । उपचयाय स्वाम्बु- वृद्धये समृद्धये चोपजीवति स्म सेवते स्म । अन्यत्र लभते स्मेत्यर्थः । यथा क्रियादिकुशलो ह्यकुशलान्महान्तं लाभमाप्नोति तद्वदिति भावः । श्लेषसंकीर्णे- यमुपमा । उपमासंकीर्णः श्लेष इत्यन्ये ॥ ३२ ॥

 रजनीमवाप्य रुचमाप शशी सपदि व्यभूपयदसावपि ताम् ।
 अविलम्बितक्रममहो महतामितरेतरोपकृतिमच्चरितम् ॥ ३३ ॥

 रजनीमिति ॥ शशी रजनीमवाप्य रुचं शोभामाप । असौ शश्यपि तां रजनी सपदि व्यभूषयत् । महतां सतां चरितमविलम्बितक्रमं यथा तथा इतरे- तरोपकृतिमत् अन्योन्योपकारवत् अहो इत्यविलम्बादाश्चर्यम् । अत्र रजनीशशि- नोर्मिथःशोभाकरत्वादन्योन्यालंकारः। 'तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत्'

इति लक्षणात् । तत्समर्थकश्वायमर्थान्तरन्यास इत्यङ्गाङ्गिभावेन संकरः ॥ ३३ ॥

 दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतालिरुतैः ।
 मुहुरामृशन् मृगधरोऽग्रकरैरुदशिश्वसत् कुमुदिनीवनिताम् ॥३४॥

 दिवसमिति ॥ मृगधरश्चन्द्रो दिवसम् । दिवस इत्यर्थः । कालाध्वनोरत्यन्त- संयोगे द्वितीया । भृशमुष्णरुचेरुष्णांशोः पादेन करेण, अङ्घ्रिणा च । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । हतां ताडिताम् । अत एवानवरतैरविच्छिन्नैरलिरुतै रुदतीं क्रन्दन्तीमिव स्थितां कुमुदिन्येव वनिता ताम् । अग्राणि च ते कराश्च इत्य- भेदेन समास इति वामनः । तैरग्रकरैरग्रांशुभिरग्रहस्तैः मुहुरामृशन् स्पृशन् उदशि- श्वसदुच्छ्वासयति स्म । परावमृष्टानां पतिभिराश्वासनीयत्वादिति भावः । श्वस- धातोः ‘णौ चड्युपधाया ह्रस्वः' (७|४।१)। अत्र पाद एव पादस्तेन हतामिति हननसाधितश्लिष्टरूपकोत्थापितेयमलिरुतैरिति व्यधिकरणपरिणामगर्भा रोदनोत्प्रे- क्षेति विजातीयसंकरः । तथा करैरेव करैः कुमुदिनीवनितेति श्लिष्टाश्लिष्टरूपणान्मृ- गधरे वल्लभत्वप्रतीतेरेकदेशवर्ति रूपकं तत्सापेक्षेयमुदशिश्वसदिति गम्योत्प्रेक्षेत्यपरो विजातीयसंकरः । रोदनोत्प्रेक्षासापेक्षेयमुच्छ्वासनोत्प्रेक्षेति सजातीयसंकरोऽपि ॥

 प्रतिकामिनीति ददृशुश्चकिताः सरजन्मघर्मपयसोपचिताम् ।
 सुदृशोऽभिभर्तृ शशिरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम् ॥३५॥

 प्रतीति ॥ सुदृशोऽङ्गनाः अभिभर्तृ भर्तारमभि । 'लक्षणेनाभिप्रती आभि- मुख्ये' (२।१।१४) इत्यव्ययीभावः । शशिरश्मिभिर्गलन्तः स्रवन्तो जलबिन्दवो यस्यास्ताम्, इन्दुमणिश्चन्द्रकान्तशिला सैव दारु तस्य वधूस्तन्मयी वधूः स्त्रीप्रतिमा तां स्मराज्जन्म यस्य तेन स्सरजन्मना घर्मपयसा स्वेदाम्बुनोपचितां व्याप्ताम् । स्विन्नगात्रामित्यर्थः । प्रतिकूला कामिनी प्रतिकामिनी । सपनीति भ्रान्त्येति शेषः । चकिता भीता ददृशुः । अत्र चन्द्रशिलापुत्रिकायां सादृश्यनिबन्धनया प्रतिकामिनीभ्रान्त्या भ्रान्तिमदलंकारः॥

 अमृतद्रवैर्विदधदब्जदृजशामपमार्गमोषधिपतिः स्म करैः ।
 परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ॥३६॥

 अमृतेति ॥ ओषधिपतिश्चन्द्र एवौषधिपतिर्वैद्य इति श्लिष्टरूपकम् । अमृ- तमेवामृतमौषधविशेषः । तेन द्रवैरार्द्रै: करैः किरणैरेव करैर्हस्तैरब्जदृशामपमा- र्गमङ्गपरिमार्जनं विदधत् कुर्वन् परितो विसर्पि सर्वव्यापि भृशं परितापि संता- पकारि मानः कोप एव विषं तत् वपुषः शरीरादवतारयति स्म अवारोपित- वान् । अत्र सावयवरूपकेणौषधलिप्तजाङ्गुलिकहस्तसंस्पर्शाद्विषमिव निशाकर- करस्पर्शादेवाङ्गनानां वपुषि रोषो न स्पृष्ट इत्युपमा व्यज्यते ॥

 अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
 विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ॥३७॥

 अमलेति ॥ अधिकमवभासिताः प्रकाशिता दिशो याभिस्तासामिन्दुरुचां निकरोऽमलात्मसु निर्मलमूर्तिषु तरुणीनां ये कपोलाः फलकानीव तेष्वभितो मुहुः प्रतिफलन् संक्रामन् सान्द्रतरं प्रचुरतरं विससार । दर्पणसंक्रमणादिवेति भावः । अत्रेन्दुरुचां कपोलासंक्रमेऽपि संक्रमोक्तेरसंबन्धे संबन्धोक्तिरूपातिशयोक्तिः ॥३७॥

 उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुभदधीशमपि ।
 रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ॥३८॥

 उपगूढेति ॥ रजनीकरश्चन्द्रः अलघुभिरूर्मिभिरेव भुजैरुपगूढा वेला येन तम् । सावष्टम्भमिति भावः । सरितामधीशं समुद्रमपि । स्वभावादक्षोभ्यम- पीति भावः । अचुक्षुभत् क्षोभयति स्म । क्षुभ्यतेर्ण्य॑न्ताल्लुङ् 'णौ चड्युपधाया हस्वः' (७|४|१) । अनङ्गेन लघु गतसारं यदव एव रागिणस्तेषां गणमचुक्षुभ- दित्यदः किमिव चित्रम् । न किंचिदित्यर्थः । अत्राक्षोभ्यमब्धिं क्षोभयतश्चन्द्रस्य दण्डापूपिकन्यायादन्यक्षोभकत्वोक्तेरापत्त्तिरलंकारः ॥ ३८॥

 भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः ।
 अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥३९॥

 भवनेति ॥ परिमन्दतया एकाकित्वादसमर्थतया भवनोदरेषु गृहाभ्यन्त- रेषु शयितः सुप्तोऽत एवालसो मदनो जालकमुखोपगतान् गवाक्षविवरप्रविष्टान् अत एव स्फटिकयष्टीनां रुगिव रुक् शोभा येषां तान् स्फटिकदण्डसंनिभानिन्दु- किरणानवलम्ब्यावष्टभ्योदतिष्ठदुत्थितः । अत्रोद्बोधोत्थानयोरभेदविवक्षया 'उदो. ऽनूर्ध्वकर्मणि' (१।३।२४) इति परस्मैपदसिद्धिः । एतत्पदे चाभेदाध्यवसाय- मूलातिशयोक्त्या स्फटिकयष्टिरुच इत्युपमया च अवलम्ब्येत्यत्रावलम्ब्येवेत्युत्था- नस्यावलम्बनहेतुकत्वोत्प्रेक्षा प्रत्याय्यत इत्येतासां संकरः ॥ ३९ ॥

 अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा ।
 उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ॥४०॥

 अविभावितेष्विति ॥ मदनोऽपि प्रथमं चन्द्रोदयात्प्राक् तमसा अविभा- वितोऽलक्षितः इषुविषयो बाणलक्ष्यं येन सोऽभवत् । नूनमित्युप्रेक्षा । यद्य- स्मादघर्मधाम्नि शीतकरे उदिते दिशः प्रकटयति सति अमुना मदनेन धनुरा- चकृषे आकृष्टम् । चन्द्र एव महानुद्दीपको मदनस्याभूदिति भावः ॥ ४० ॥

 युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत ।
 द्रुतमेत्य पुष्पधनुषो धनुष: कुमुदेऽङ्गनामनसि चावसरम् ॥४१॥

 युगपदिति ॥ पुष्पधनुः पुष्पधन्वा । 'वा संज्ञायाम्' (५।४।१३३) इति विकल्पान्नानङादेशः । तस्य धनुः पुष्पचापं, पुष्पान्तरं च तस्साच्चलितो निःसृतः शिली शल्यं मुखं येषां ते शिलीमुखा बाणाः, अलयश्च । 'अलिबाणौ शिलीमुखौ' इत्यमरः । तेषां गणः शशिन उदयाद्विकासमौत्सुक्यं, उन्मीलनं च युगपदेकदा गमिते प्रापिते अङ्गानानां सुदृशां मनसि हृदये कुमुदे चावसरमवकाशमाश्वासमलभत । उभयत्र प्रवेशं लब्धवानित्यर्थः । अत्र चन्द्रोदये कुमुदकामिनीहृदययो- र्द्वयोरपि प्रकृतयोः शिलीमुखप्रवेशलक्षणैकधर्मयोगादौपम्यात्तुल्ययोगिता एकधर्मत्वं चात्र शिलीमुखेति श्लिष्टपदोपात्तयोरलिबाणयोरेकत्वाध्यवसायमूलातिशयोक्ति- प्रसादादिति संकरः ॥ ४१ ॥

 ककुभां मुखानि सहसोज्वलयन् दधदाकुलत्वमधिकं रतये ।
 अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥४२॥

 ककुभामिति ॥ ककुभां दिशां मुखानि सहसा झटित्युज्वलयन्नुद्भासयन् रतये सुरताय अधिकमाकुलत्वमौत्सुक्यं दधत् । यूनामिति शेषः । अन्यत्र रतये काम- देव्यै आकुलत्वं भयविह्वलत्वं दधत् । अत्रेरत्रिमुनेर्नयनप्रभवः । 'अत्रिनेत्रसमु- द्भवः' इति पुराणात् । त्रिनयनप्रभवो न भवतीत्यत्रिनयनप्रभवः । अपरस्त्रिनयन- प्रभवादन्यो दहनोऽग्निरिन्दुः । कुसुमेधू काममदिदीपद्दीपयति स्म । दीप्यते? चङि 'भ्राज-' (७।४।३) इत्यादिना विकल्पानोपधाहस्वः । अत्र प्रकृते कुसुमे- षोर्दीपनं नाम प्रवर्धनं तस्य तत्र प्रतीयमानेन प्रज्वलनेनाभेदाध्यवसायात्तन्निमि- त्तमिन्दोर्दिङ्मुखोद्भासनादिधर्मसंबन्धादपरोऽयं दहन इत्यपरशब्दप्रयोगसामर्थ्या. द्दहनत्वोत्प्रेक्षा, न रूपकमिति रहस्यम् । चन्द्रोदयात्कामो ववृधे इति तात्पर्यम् ॥४२॥

 एवं चन्द्रोदयाख्यमुद्दीपनविभावनमुक्त्वा तत्फलमाह-

 इति निश्चितप्रियतमागतयः सितदीधितावुदयवत्यबलाः ।
 प्रतिकर्म कर्तुमुपचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥ ४३ ॥

 इतीति ॥ इत्येवं सितदीधितावुदयवति अबलाः स्त्रियो निश्चिता प्रियतमाना- मागतिरागमनं याभिस्ताः सत्यः प्रतिकर्म प्रसाधनं कर्तुमुपचक्रमिरे । 'प्रतिकर्म प्रसाधनम्' इत्यमरः । चन्द्रोदयात् प्रियागमनं निश्चित्य अलंकर्तुं प्रक्रान्ता इत्यर्थः । तथा हि-समये कार्यकाले कृतमनुष्ठितं सर्वं कर्म उपकार्युपकारकं भवति । अन्यथा विफलमेवेति भावः । अतो निश्चित्य प्रवृत्तिरासां युक्तेत्यर्थान्तरन्यासः ॥ ४३ ॥

 अथ प्रसाधनमेव प्रपञ्चयति-

 सममेकमेव दधतुः सुतनोरुरु हारभूषणमुरोजतटौ ।
 घटते हि संहततया जनितामिदमेव निर्विवरतां दधतोः ॥४४॥

 सममिति ॥ सुतनोः स्त्रिया उरोजतटौ उरु श्लाघ्यमेकमेव भूषण सममवैषम्येण दधतुः । संहततया संश्लिष्टतया, ऐकमत्येन च जनितां निर्विवरतां निरन्तरालतां, नीरन्ध्रत्वं च दधतोरिदं समभागित्वमेव घटते । अन्तर्भेदान्तराया हि विषयिणां विषयोपभोगाः कुचयोस्तदभावात्समशोभार्थं हारधारणं युक्तमिति भावः ॥ १४॥

 कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
 रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥४५॥

 कदलीति ॥ वधूः कदलीप्रकाण्डरुचिरे रम्भास्तम्भसुन्दरे । उरुरेव तरुर्बन्ध- नवृक्षो यस्मिन् । अत्र कदलीकाण्डस्य सौन्दर्यमानोपमानत्वान्न बन्धनयोग्यवृक्षवाचिना तरुशब्देन पुनरुक्तिः । महति जघनस्थल्येव परिसरः प्रदेशस्तस्मिन् रशनाकलापक एव गुणस्तेन मकरध्वजो मदनः स एव द्विरदस्तमाकलयदबध्नात् । रशनाबन्धेन जघनमतीव मदनोद्दीपकमासीदित्यर्थः । समस्तवस्तुवर्ति सावय- वरूपकम् ॥४५॥

 अधरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।
 नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ॥४६॥

 अधरेष्विति ॥ सुदृशामधरेष्वोष्ठेषु अलक्तकरसो लाक्षाद्रवः तथा कपोल- भुवि गण्डस्थले विशदं शुभं लोध्ररजः तथा नयनपङ्कजयोर्नवमञ्जनं च शङ्खनि- हितात् पयसः क्षीरान्न बिभिदे भिन्नं नाभूत् । कर्मकर्तरि लिट् । अधरादिनिहितं लाक्षारागादिकं शङ्खनिहितक्षीरवत् सावर्ण्यादाश्रयतोऽभेदेन दुर्ग्रहमभूदित्यर्थः । अत्र यदधरालक्तकरसादिकं तच्छङ्खनिहितं क्षीरमित्येकवाक्यतया वाक्यार्थे वाक्या- र्थसमारोपादसंभवद्वस्तुसंबन्धो वाक्यार्थनिष्ठो निदर्शनालंकारः । तेनाधरालक्तका- दीनां गुणत एकत्वरूपः सामान्यालंकारो गम्यते । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् ॥ ४६॥

 स्फुरदुज्ज्वलाधरदलैर्विलसद्दशनांशुकेशरभरैः परितः।
 धृतमुग्धगण्डफलकैर्विबभुर्विकसद्भिरास्यकमलैः प्रमदाः ॥४७॥

 स्फुरदिति ॥ प्रमदाः स्त्रियः स्फुरन्तश्चलन्तः उज्वलाश्चामला अधरा ओष्ठा एव दलानि पत्राणि येषां तैः परितो विलसन्तो दशनांशवो दन्तकान्तय एव केशरभराः किंजल्कपुञ्जा येषां तैः । धृतानि मुग्धानि गण्डा एव फलकानि कर्णिका येषां तैर्विकसद्भिरास्यकमलैर्विबभुः । अत्रास्यकमलैरिति रूपणात् प्रमदा एव सरस्य इति सिद्धेरेकदेशविवर्ति सावयवरूपकम् । 'आस्यकुमुदैः' इति पाठे कुमुदस्य मुखोपमानकत्वं कविसमयविरुद्धं ज्ञेयम् ॥ ४७ ॥

 भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः ।
 मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ॥४८॥

 भजत इति ॥ अधिकेन प्रबलेन जितो विदेशं देशान्तरं भजते, अथवा कुशलः कार्यचतुरः तदनुप्रवेशं भजते । तमेव शरणतया प्रविश्य जीवतीत्यर्थः । अतो हेतोरिन्दुरुज्वलौ कपोलौ यस्य तदिति मुखस्य बिम्बग्रहणयोग्यतोक्तेः पदार्थहेतुकं काव्यलिङ्गम् । सुदृशां मुखं प्रतिमाच्छलेन प्रतिबिम्बव्याजेनाविशत् प्रविष्टः । साक्षाच्चन्द्र एवायं न प्रतिमाचन्द्र इति छलशब्दात्प्रतीतेः छलशब्देनासत्यत्वप्रति- पादनरूपोऽपह्नवालंकारः । पूर्वोक्तकाव्यलिङ्गसापेक्ष इति संकरः । तेन कपोलयोर्लो- कोत्तरं लावण्यं दर्पणौपम्यं च व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ ४८ ॥

 ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटे महति ।
 इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुताम् ॥ ४९ ॥

 ध्रुवमिति ॥ मदनेषवः कामशराः महति कठिने कुचतटे प्रतिहतिं प्रतिघा- तमागताः प्राप्ता ध्रुवम् । यद्यस्माद्गरिम्णा निजभारेण ग्लपितं कार्शतमवलग्नं मध्यं येन तदिदं कुचतटमितराङ्गेन तुल्यमितराङ्गवत् । 'तेन तुल्यम्-' (५।१।११५) इति वतिप्रत्ययः । तनुतां कार्यं नागमन्नाभजत् । 'पुषादि' (३।१|५५)सूत्रेण च्लेरङा- देशः । तदा मदनेषुपातात् कुचातिरिक्तमङ्गनानामङ्गं कृशमासीदित्यर्थः ॥ ४९ ॥

 न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमेतदिति ।
 गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमन:सु मनः ॥५०॥

 न मनोरमास्विति ॥ प्रियतमे गृहमेष्यति आगमिष्यति सति विशेषवि- दामपि सुदृशां सम्यग्दर्शनीयानां स्त्रीणां मनः कर्तृ मनोरमास्वपि वसनाङ्गराग- सुमनःसु वस्त्रगन्धमाल्येषु इदमेतदिति इदं पुरोवर्ति वस्त्वेतदिति वसनमिति, अनुलेपनमिति, सुमनस इति, विशेषाकारेण तथा योग्यमस्माकं धारणाहमिति च न निरचेष्ट न निरधारयत् । प्रियागमनहर्षातिरेकादितिकर्तव्यतामूढमभूदि- त्यर्थः । चिनोतेर्लुङि तङि च्लेः सिच् 'सार्वधातुकार्धधातुकयोः' (७।३।८४) इति गुणः । हर्षोऽत्र संचारिभावः । निश्चयसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः सुमनःसु मन इति यमकविशेषश्चेति संसृष्टिः ॥ ५० ॥

 वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।
 क्षममय बाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ॥ ५१ ॥

 वपुरिति ॥ वधूः स्त्री परिरम्भसुखव्यवधानभीरुकतया आलिङ्गनसुखवि- च्छेदभीरुत्वेन । 'क्रुकन्नपि वक्तव्यः' (वा०) इति क्रुकन्प्रत्ययः । वपुर्नान्वलिप्त नानुलिप्तवती । अङ्गरागमात्रव्यवधानमपि न सहत इत्यर्थः । लिम्पतेः कर्तरि लुङि तङ् । तथा हि- अदो वपुः प्रियसंगमेषु अनवलेपमचन्दनमगर्वं चेति यत् । 'अवलेपस्तु गर्वे स्याल्लेपने भूषणेऽपि च' इति विश्वः । इदमनवलेपनत्वमेवास्य वपुषो बाढं भृशं क्षमं युक्तम् । श्लेषानुप्राणितोऽयमर्थान्तरन्यासः ॥ ५१ ॥

 निजपाणिपल्लवतलस्खलनादभिनासिकाविवरमुत्पतितैः ।
 अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥ ५२ ॥

 निजेति ॥ अपरा स्त्री निजपाणिपल्लवतलस्य स्खलनादभिघातादभिनासि- काविवरं नासारन्ध्र प्रति उत्पतितैरास्यकमलस्य श्वसनैर्मुखमारुतर्मुखवासं मुख- वासनां शनकैः परीक्ष्य मुमुदे । इयं वासकसज्जिका नायिका ॥ ५२ ॥

 विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।
 हिमधाग्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ॥५३॥

 विधृत इति ॥ दिवा आकाशेन सवयसा वयस्यया च पुरोऽग्रे विधृते विधा- रिते परिपूर्णमण्डलविकाशं बिम्बशोभां बिभर्तीति तद्भृत तस्मिन् हिमधानि चन्द्रे दर्पणतले च मृगदृशः स्त्रियः स्वमुखश्रियम् । पूर्वत्रोपमानभूतामुत्तरत्रोपमेयभूतां चेत्यर्थः । मुहुर्ददृशुः । औपम्यपरीक्षार्थमिति भावः । अत्रान्यश्रियोऽन्यत्रासंभवा- च्चन्द्रे तत्सदृशीमिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धा निदर्शना । तथा चन्द्र दर्पणयोर्द्युसवयसोश्च यथासंख्यमन्वयाद्यथासंख्यालंकारश्च । तदुभयापेक्षया चन्द्रदर्शनयोर्मुखश्रीदर्शनस्थानत्वेन प्रस्तुतयोरेवौपम्यस्य गम्यत्वात्तुल्ययोगितेति संकरः ॥ ५३॥

 अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् ।
 उदकण्ठि कण्ठपरिवर्तिकलस्वरशून्यगानपरयापरया ॥ ५४ ॥

 अधिजान्विति ॥ नमति कपोलार्पणाय प्रह्वीभवति करपल्लवे' अर्पितं निहितं कपोलतलं गण्डस्थलं यस्य तं बाहुमधिजानु जानुनि । विभक्त्यर्थेऽव्ययीभावः । उपधाय निधाय । कूपरेण जानुमवष्टभ्येत्यर्थः । कण्ठे परिवर्ततः इति कण्ठपरि- वर्ति । न तु मुखोच्चारितमित्यर्थः । कलमव्यक्तमधुर स्वरशून्यं तारध्वनिहीनम् , षड्जादिस्वराभिव्यक्तिहीनं वा यद्गानं तत्परया तदासक्तया । मन्दकण्ठेनैव गाय- न्त्येत्यर्थः । कालक्षेपार्थमिति भावः । अयं चोत्कण्ठानुभावः । अपरया स्त्रिया उदकण्ठि उत्कण्ठितम् । प्रियसंगमायोत्सुकया स्थितमित्यर्थः । भावे लुङि चिणो लुक् । अत्र कालक्षेपासहिष्णुत्वलक्षणमौत्सुक्यं संचारि तन्निबन्धनात्प्रेयोलंकारः । परयापरयेति यमकविशेषसंसृष्टिः । नायिका विरहोत्कण्ठिता । 'चिरं पत्युरनालोके विरहोत्कण्ठितोन्मनाः' इति लक्षणात् ॥ ५४ ॥

 प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।
 प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः॥५५॥

 प्रणयेति ॥ अथ प्रसाधनानन्तरं मुग्धतरोऽत्यन्तकाममोहितस्तरुणीजनः प्रणयप्रकाशनविदः । अनुरागव्यञ्जनचतुरा इत्यर्थः । मधुरा मधुरभाषिणीः, अन्यत्र रम्याकृतीः सुतरामभीष्टजनस्य चित्तहृतो मनोहारिणीः सखी: दृश इव कान्तमनु प्रेयोजनं प्रति प्रजिघाय प्रेषितवान् । हिनोतेर्लिट् । इवेन सह समा- सवचनाद्दृश इवेत्युपमासमासः । तया सखीनामासत्त्यन्तरङ्गत्वकार्यदर्शित्वादि- व्यञ्जनादलंकारेण वस्तुध्वनिः ॥ ५५ ॥

 तथा काचिन्नायिका दूतीं वाचिकमनुशास्ति-

 न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
 निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ॥५६॥

 न चेति ॥ स मे दयितो यथा मयि करुणां कुरुते यथा लघुतामल्पतां च नावगच्छति न मन्यते । एनं दयितमुपगम्य प्राप्य तथा तेन प्रकारेण निपुणं वदेः । विध्यर्थे प्रार्थने वा लिङ् । इतीत्थं काचिन्नायिका अभिदूति दूतीमभि । 'लक्षणेनाभिप्रती-' (२।१।१४) इत्यव्ययीभावे नपुंसकह्रस्वत्वम् । संदिदिशे संदिष्टवती । कर्तरि लिट् । स्वरितेत्त्वादात्मनेपदम् । नायिका तु कलहान्तरिता ।

कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता' इति लक्षणात् ॥ ५६ ॥

 दयिताय मानपरयाऽपरया त्वरितं ययावगदितापि सखी ।
 किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदां ५७

 दयितायेति ॥ मानपरया अभिमानवत्या अत एवापरया नायिकया अग- दिता दयितमानयेत्यनुक्ता सखी दयिताय दयितमानेतुम् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' (२।३।१४) इति चतुर्थी । त्वरितं शीघ्रं ययौ । अन्यथा मरणशङ्केति भावः । तथा हि-सुष्टु शोभनं हृदयं येषां ते सुहृदो मित्राणि । 'सुहृद्दुर्हृदौ मित्रामित्रयोः' (५।४।१५०) इति निपातः । चोदिताः प्रेरिताः सन्तः सुहृदां प्रियो हृद्यः हितः श्रेयस्करश्च योऽर्थस्तं कुर्वन्तीति प्रियहितार्थ- कृतः । कृतमेषामस्तीति कृतिनः कृतकृत्या भवन्ति किमु । किंतु चोदनां विनैवेति भावः । अर्थान्तरन्यासः । नायिका च पूर्ववत् ॥ ५७ ॥

 अथ काचित्कलहान्तरिता कान्तं प्रति त्रिभिर्दूतीं संदिशति-

 प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।
 क्रियतेऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम् ॥५८॥

 प्रतिभिद्येत्यादि ॥ अपराधकृतमागस्कारिणं कान्तं प्रतिभिद्य निराकृत्य पुन- मयैवास्यानुवृत्तिरनुसरणं क्रियते यदि तावदुचितैव । पतिव्रतानां प्राणेश्वरचित्ता- नुवृत्तेधर्मत्वादिति भावः । किंतु हे सखि, ततोऽनुवृत्तेर्माममानमनसमभिमान- हीनचित्तां कलयेन्मन्येत ॥ ५८ ॥

 तर्ह्यलाघवाय विगृह्यैव स्थीयतां तत्राह-

 अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।
 तव गोप्यते किमिव कर्तुमिदं न सहामि साहसमसाहसिकी ॥५९॥

 अवधीर्येति ॥ धैर्यकलिता कलितधैर्या सती । 'वाहिताग्न्यादिषु' ( २।२। ३७) इति निष्ठायाः परनिपातः । दयितमवधीर्य तिरस्कृत्य तेन सह विरोधं विदधे करोमीति चेत् । दधातेः कर्तरि लट् । हे सखि, तव किमिव गोप्यते निगृह्यते । न किंचिदित्यर्थः । किंतु कथ्यत एवेति कथयति । सहसा बलेन वर्तत इति साहसिकी । 'ओजःसहोऽम्भसा वर्तते' (४।४।२७) इति ठक् । सा न भवतीत्यसाहसिकी । अहमिति शेषः । इदं साहसं विरोधं विरोधाचरणरूपं साह- सकृत्यं कर्तुम् । 'शकधृष-' (३।४|६५) इत्यादिना तुमुन् । सहत इति सहा समर्था । पचाद्यच् । नास्मि । अत्रासाहसिकत्वस्य विशेषणगत्या साहसासहनहेतु- त्वोक्तेः पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ५९ ॥

 तर्हि किमत्र कार्यमत आह-

 तदुपेत्य मा म तमुपालभथाः किल दोषमस्य न हि विद्म वयम् ।
 इति संप्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीम् ॥६॥

 तदिति ॥ तत्तस्मात्तं वल्लभमुपेत्य मा सोपालभथाः नोपालभस्व । तद्दोषं न गणयेरित्यर्थः । 'स्मोत्तरे लङ् च' (३।३।१७६) इत्युपाङ्पूर्वाल्लभेर्लङ् 'न माङयोगे' (६।४।७४) इत्यट्प्रतिषेधः । ननु सापराधः कथं नोपालभ्यस्तत्राह- वयमस्य दोषमपराधं न विद्म किल । अजानाना इव तिष्ठाम इत्यर्थः । कार्यार्थिनः कुतो गर्व इति भावः । 'विदो लटो वा' (३।४|८३) इति णलादेशः । इति संप्रधार्य निश्चित्य वधूर्नायिका विहितागसे कृतापराधायापि रमणाय प्रेयसे । क्रियाग्रहणाच्चतुर्थी । सखीं विससर्ज प्रजिघाय । विरहासहिष्णुतयेति भावः । एषा कलहान्तरिता प्रौढा च ॥ ६० ॥

 ननु संदिशेति सुदृशोदितया त्रपया न किंचन किलाभिदधे ।
 निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशरीरशरैः ॥६१॥

 नन्विति ॥ ननु संदिश संदेशं ब्रूहि इत्युदितया दूत्या कथितया सुदृशया नायि- कया का त्रपया हेतुना किंचन नाभिदधे किल नाभिहितं खलु । किंतु निशि- तैरशरीरशरैरनङ्गबाणैरनिशं क्रशितं कृशीकृतम् । कृशशब्दात् 'तत्करोति' (ग०) इति ण्यन्तात्कर्मणि क्तः । णाविष्टवद्भावे 'र ऋतो हलादेर्लघोः' (६।४।१६१) इत्युकारस्य रेफादेशः । निजं शरीरं मन्दमैक्षि ईक्षितम् । एषापि कलहान्तरिता मध्यमा च । त्रपया निजहृदयानभिधानान्निजशरीरनिरीक्षणेन स्वावस्थानिवेद- नाच्च तुल्यलज्जास्मरत्वावगमादिति । इयं च पञ्चमी कार्याख्या कामावस्था । 'दृङ्मनःसङ्गसंकल्पाज्जागरः कृशताऽरतिः। ह्रीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दश ॥' इति ॥ ६१ ॥

 इत्थं नायिकाभिरुपदिष्टा दूत्यः किमकुर्वन्नित्यत आह-

 ब्रुवते स दूत्य उपसृत्य नरान्नरवत्प्रगल्भमतिगर्भगिरः।
 सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ॥ ६२ ॥

 ब्रुवत इति ॥ प्रगल्भा सृष्टाः मतिगर्भाः प्रतिभासाराश्च गिरो यासां ता दूत्यो नरान् पुरुषानुपसृत्य नरवत् नरैः पुंभिस्तुल्यम् । 'तेन तुल्यं क्रिया चेद्वतिः' (५।१|११५) इति वतिप्रत्ययः । ब्रुवते स्म । न चैतावता वैजात्यं दूषणमित्य- र्थान्तरन्यासेनाह-सुहृदर्थमिति । तथा हि-अजिह्मधियामकुटिलबुद्धीनां संबन्धि सुहृदे सुहृदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्' (वा०)। ईहितं चेष्टितं प्रकृतेविरुद्धमपि स्वभावविपरीतमपि विराजति शोभते । तस्मान्न धार्ष्ट्ये दोष इत्यर्थः ॥ ६२ ॥

 अथ काचिद्दूती कंचित्प्रियं प्रति सप्तभिः प्रार्थयते-

 मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रसक्तहृदयेयमिति ।
 त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः॥६३।।

 ममेत्यादि ॥ यो भुवि मम रूपकीर्तिं सौन्दर्यं प्रथममहरत् इयं त्वत्प्रिया तदनुप्रविष्टहृदया तस्मिन्नासक्तचित्तेति अतो हेतोस्त्वयि मत्सरादिव मदनो निर- स्तदयो निष्कृपः सन् तां त्वत्प्रियां सुतरां क्षिणोति क्षपयति खलु । एतेन कार्या- वस्थोक्ता । अत्र साक्षात्प्रतिपक्षभूतनायकपीडासमर्थस्य मदनस्य तदीयनायिका- पीडनोक्त्या प्रत्यनीकालंकारः । स च त्वयि मत्सरादिवेति हेतूप्रेक्षोत्थापित इति संकरः । 'बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यस्तदीयतिरस्कारः प्रत्यनीकं

तदुच्यते ॥' इति लक्षणात् ॥ ६३ ॥

 तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
 घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ ६४ ॥

 तवेति ॥ सा त्वत्प्रिया तव कथासु गुणकीर्तनेषु मुहुरङ्गुलिमुखेनाङ्गुल्यग्रेण श्रवणं श्रोत्रविवरं परिघट्टयति स्फालयतीति यत् । यदृच्छयेति शेषः । तेन परि- घट्टनेन भवद्गुणपूगपूरितं श्रवणं अतृप्ततया तावद्गुणग्रहणेनासंतुष्टतया घनतां नयति । बहुतण्डुलमानार्थं प्रस्थादिवद्भूयो गुणप्रवेशाय श्लेषयतीत्यर्थः । ध्रुवमि- त्युत्प्रेक्षायाम् । अत्र कण्डूविनोदनार्थं श्रोत्रघट्टने घनतानयनमुत्प्रेक्ष्यते ॥ ६४ ॥

 उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः ।
 द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥६५॥

 उपेति ॥ अलघुरन्तःसंतापोपाधिक उष्णिमा उष्णत्वं येषां तैः श्वसितैर्नि:- श्वासैरुपताप्यमानं सितेतरसरोजदृशो नीलोत्पलाक्ष्या अधरं नवनागवल्लिदलानां ताम्बूलदलानां रागरसो रञ्जनद्रवो द्रवतामार्द्रतां नेतुं न क्षमते न शक्नोति । एतेन ज्वरावस्थोक्ता । अत्र द्रवत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥६५॥

 दधति स्फुटं रतिपतेरिषवः शिततां यदुत्पलपलाशदृशः।
 हृदयं निरन्तरबृहत्कठिनस्तनमण्डलावरणमप्यभिदन् ॥ ६६ ॥

 दधतीति ॥ रतिपतेरिषवः शिततां नैशित्यं दधति । स्फुटमित्युत्प्रेक्षायाम् । यद्यस्मान्निरन्तरं नीरन्ध्रं बृहत्कठिनं च यत् स्तनमण्डलं तदेवावरणं वर्म यस्य तत्त- दपि उत्पलपलाशदृश उत्पलदलाक्ष्याः हृदयमभिदन् भिन्दन्ति स्म । भिदेलङि 'इरितो वा' (३।१|५७) इति च्लेरङादेशः । सावरणमपि भिन्नमिति विरोधो- त्थापितेयं सरशरनैशित्योत्प्रेक्षा । तया च रन्ध्रान्वेषिणा कामेन निपीड्यमानाया. स्तस्यास्त्वद्विरहो जीवितसंशयमापादयतीति वस्तु द्योत्यते ॥ ६६ ॥

 कुसुमादपि मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।
 अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपति यद्विशिखैः ॥ ६७ ॥

 कुसुमादिति ॥ सितदृशः स्मेराक्ष्या अङ्गं कुसुमादपि सुतरां सुकुमारं कोम- लमितीदमपरथा अन्यथा न । किंतु सत्यमेवेत्यर्थः । यद्यस्मात् कुसुमेषुरकरुणो निष्कृपः सन् निजैर्विशिखैर्बाणैः । 'पृषत्कबाणविशिखाः' इत्यमरः । कुसुमैरेवे- त्यर्थः । करुणं दीनं यथा तथा अनिशं नित्यमुत्तपति । तापयतीत्यर्थः । तपतिरयं भौवादिकः सकर्मकः । कुसुमाधिकसौकुमार्याभावे कुसुमैः पीड्यत इति कुसुमा- धिकसौकुमार्यगुणोत्प्रेक्षा नापरथेति व्यञ्जकप्रयोगाद्वाच्या ॥ ६७ ॥

 विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः।
 अमृतसूतोऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः॥६८॥

 विषतामिति ॥ अपक्रियया विपरीतप्रयोगेण निषेवितमुपयुक्तं सर्वम् । अमृतमपीति भावः । विषतां विषवदहितत्वं समुपैति इत्यद इदं विषत्वं सत्यं ध्रुवम् । यद्यस्मादमृतस्रुतोऽपि । स्रवतेः क्विपि तुक् । हिमरश्मिरुचश्चन्द्रपादाः भवतो विरहाद्धेतोस्त्वया विना सेवनादित्यर्थः । अमूं त्वत्प्रियां दहन्ति । याः पूर्वं त्वया सह सेवनादाह्लादयन्निति भावः । एतेन विषयद्वेषरूपाऽरत्यवस्थोक्ता । अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६८ ॥

 उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः।
 विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः॥६९॥
         (कुलकम् ।)

 उदितमिति ॥ प्रियां प्रति प्रियामुद्दिश्य हृदयस्येदं हार्दं प्रेम । 'प्रेमा ना प्रियता हार्दं प्रेम स्नेहः' इत्यमरः । 'तस्येदम्' (१|३।१२०) इत्यण्प्रत्ययः । 'हृदयस्य हृल्लेखयदण्लासेषु' (६।३।५०) इति हृदयस्य हृदादेशः । सहार्दं सस्नेहमित्युदितम् । क्देः कर्मणि क्तः 'वचिस्वपि-' (६।१|१५) इत्यादिना संप्र. सारणम् । वचो दूतीवाक्यं प्रियतमेन श्रदधीयत विश्वसितम् । दधातेः कर्मणि लङ् । श्रदन्तरोरुपसर्गवचनात् श्रच्छब्दस्य प्राक्प्रयोगः । हि यस्मात्पुरः पूर्वमेव विदितेङ्गिते विदितपराभिप्राये जने । इङ्गितं हृद्गतो भावः । सजने समुदीरिता गिरः सपदि लगन्ति सज्जन्ति खलु । स्वयं प्रियाहृदयवेदित्वात् स्वबुद्धे: संवादेन दूतीकथितं प्रियाविरहदुःखं विशश्वासेत्यर्थः । अर्थान्तरन्यासः । एषा कलहान्त- रिता । अत एव मानाख्यो विप्रलम्भः शृङ्गारः । १'पूर्वानुरागमानाख्यप्रवासकरुणा- त्मना । २विप्रेलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः ॥' इति चतुर्थोऽयमुक्तः ॥६९॥

 दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् ।
 उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ॥७॥

 दयितेति ॥ प्रथमं चन्द्रोदयात्प्राक् परिमूढतां निजमनोपहर्तृमार्गानभिज्ञतां गतैः ततः पश्चात् क्षणदाकरे चन्द्रे उदिते सति सपदि लब्धपदैर्दृष्टचोरपदचिह्नः दयिताभिर्हृतस्याकृष्टस्यापहृतस्य च मनसोऽनुपदिभिरन्वेष्टभिः । अन्विष्यद्भि- रिवेत्यर्थः । अत एव गम्योत्प्रेक्षा प्रागवलम्बितधैर्यत्यागनिमित्ता। 'अनुपद्यन्वेष्टा' (५।२।९०) इति निपातः । 'अन्वेष्टानुपदी प्रोक्ता' इति वैजयन्ती । युवभिः प्रयये प्रयातम् । यातेर्भावे लिट् । अत्रोक्तपदान्वेषणोत्प्रेक्षया यूनां चोरग्राहिरू पकं गम्यत इत्यलंकारेणालंकारध्वनिः॥ ७० ॥

 अथ यूनां गृहप्राप्त्यनन्तरं वृत्तान्तं वर्णयति-

 निपपात संभ्रमभृतः श्रवणादसितभ्रुवः प्रणदितालिकुलम् ।
 दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥ ७१॥

 निपपातेति ॥ संभ्रमभृतः प्रत्युत्थानसंभ्रमिण्याः असितभ्रुवोऽङ्गनायाः प्रणदितालिकुलं गुञ्जदलिपुञ्जम् । 'उपसर्गादसमासेऽपि णोपदेशस्य' (८|४|१४) इति णत्वम् । वारिरहं श्रवणोत्पलं दयितावलोकेन विकसतो विस्तारं गच्छतो नयनस्य प्रसरेण प्रसारेण प्रणुन्नमिव । पूर्ववण्णत्वम् । निपपात । तथा संभ्रान्त- मित्यर्थः । अत्र संभ्रमहेतुकस्य कर्णोत्पलपातस्य नयनप्रसारहेतुकत्वमुत्प्रेक्ष्यते । एषा च हृष्टा ॥ ७१ ॥

 उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् ।
 रभसोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरुधत् ॥७२॥

 उपनेतुमिति ॥ सहसोपगतो हठादागतः कश्चन युवा अत एव रभसेनो- त्थितामत एवोन्नतिमता कुचयोर्युगेन करणेन दिवमाकाशमुपनेतुमिवोर्ध्वमुत्क्षे- प्सुमिवेति फलोत्प्रेक्षा उत्थाननिमित्तौन्नत्यगुणनिमित्ता । तरसा बलेनाकलितां व्याक्षिप्तां वधू प्रियां परिरभ्याश्लिष्यारुधत् रुद्धवानुपवेशितवान् । ऊर्ध्वोत्क्षेपान्नि- वारितवानिति चार्थः । रुधेर्लङि 'इरितो वा' (३।१।५७) इति विकल्पात् च्लेरङादेशः । एषा हृष्टा रोमाञ्चिताद्यनुभाववती च ॥ ७२ ॥

 अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
 मुकुरेण वेपथुभृतोऽतिभरात् कथमप्यपाति न वधूकरतः ॥७३॥

 अनुदेहमिति ॥ अनुदेहं देहस्य पश्चात् । 'अव्ययं विभक्ति-' (२|१|६) इत्यादिना पश्चादर्थेऽव्ययीभावः । आगतवतः परिणायकस्य परिणेतुः । वोढुरि- त्यर्थः । नयतेण्वुल् प्रत्ययः । 'उपसर्गादसमासेऽपि-' (१|४।१४) इति णत्वम् । गुरुं पूज्यां, भारवतीं च प्रतिमां प्रतिबिम्बमुद्वहता पश्चात्स्थितस्यापि तदाभिमुख्या- दिति भावः । मुकुरेण दर्पणेन कर्त्रा । 'दर्पणे मुकुरादशौं' इत्यमरः । वेपथुभृतो नवोढतया भयशृङ्गाराभ्यां कम्पमानात् । अति अतिमात्रो भरो यस्य तस्मादति- भरात् । प्रतिबिम्बगुरुमुकुरधारणादिति भावः । वध्वा नवोढायाः करतः पाणित- लात् । पञ्चम्यास्तसिल् । कथमपि नापाति न पतितम् । महता प्रयत्नेन धारित इत्यर्थः । भावे लुङ् । एषा च मुग्धा । अत्र वधूकरस्य भारासंबन्धेऽपि संबन्धो- क्तेरतिशयोक्तिः । गुरुमिति श्लेषोत्थापितेति संकरः ॥ ७३ ॥

 अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।
 दयितेन तत्क्षणचलद्रशनाकलकिंकिणीरवमुदासि वधूः॥७४ ॥

 अवनम्येति ॥ अवनम्य गाढमुपगूढवता आश्लिष्टवता, अत एव वक्षसि निमग्नकुचद्वितयेन दयितेन तत्क्षणे चलन्नुद्गच्छन् रशनायाः कलकिंकिणीरवो यस्मिन्कर्मणि तद्यथा तथा वधूरङ्गना उदासि उत्क्षिप्ता । अस्यतेः कर्मणि लुङ् । एषा च हृष्टा रोमाञ्चाद्यनुभाववती च । स्वभावालंकारः ॥ ७४ ॥

 कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
 क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ॥ ७५ ॥

 कररुद्धेति ॥ दयितोपगतौ प्रियागमने सति अत एव त्वरया विरहितं

त्यक्तमासनं यया तया । उत्थितयेत्यर्थः । कयाचिदिति शेषः । अत एव गलितं स्त्रस्तं, अत एव कररुद्धनीवि करगृहीतबन्धं वसनं क्षणं दृष्टा हाटकशिलासदृशी हेमशिलाप्रतिमा स्फुरन्ती ऊरुभित्तिरूरुदेशो यस्मिन्कर्मणि 'हिरण्यं हेम हाटकम्' इत्यमरः । ववसे आच्छादितम् । वसेराच्छादनार्थात्कर्मणि लिट् । ऊरुभित्तिरिवेत्युपमितसमासः । अनोपमयोः संसृष्टिः ॥ ७५ ॥

 पिदधानमन्वगुपगम्य दृशौ युवते जनाय वद कोऽयमिति ।
 अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधूयंगदत् ॥७६॥

 पिदधानमिति ॥ नववधूर्नवोढा अन्वक्पश्चादुपगम्य दृशौ पिदधानं छाद- यन्तं प्रियं दृष्टिच्छादकः कः वद इति ब्रुवते पृच्छते जनाय गिरा वाचा अभिधातुं नाध्यवससौ नोत्सेहे । लज्जयेति भावः । अध्यवपूर्वात् स्यतेः कर्तरि लिट् । किंतु पुलकैय॑गदत् । अत्र प्रियज्ञानस्यार्थस्य लज्जया असंलक्षितस्य पुलकैः प्रकाशनात् सूक्ष्मालंकारः । 'असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते' इति लक्षणात् ॥७६॥

 उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभत विधुरं त्रपया ।
 वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि बाढमभूत् ॥ ७७ ॥

 उदितेति ॥ अभिभर्तृ भर्तृसमक्षम् । 'लक्षणेनाभिप्रती आभिमुख्ये' (२॥१॥ १४) इत्यव्ययीभावः । उदित उत्पन्न ऊरुसादः ऊर्वोर्निश्चेष्टता यस्य तत् अतिवे- पथुमदतिकम्पवत् । एतेन विशेषणद्वयेन प्रत्युत्थानालिङ्गनविरोधेन स्तम्भवेपथू सात्विकावुक्तौ । त्रपया विधुरं विलक्षम् । एतेन लज्जासंचारिणा प्रियवाक्कुण्ठत्व. मुक्तम् । एवं प्रतिपत्तिमूढमपि इतिकर्तव्यतामूढमपि सुदृशो वपुर्बाढं भृशमादरा- तिशयशंसि मुखरागादिलिङ्गैरादरविशेषव्यञ्जकमभूत् । सत्यादरे किमुपचारैरिति भावः ॥७७ ॥

 परिमन्थराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।
 स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ॥७८॥

 परीति ॥ प्रमदा अधिवेश्म निजवेश्मनि पत्युरुपचारविधौ प्रत्युत्थानादि- कर्मणि अलघोर्महत ऊरुभरात् परिमन्थराभिरलसाभिः अनुपदं पदे पदे स्खलि- ताभिरपि गतिभिः प्रणयातिभूमि प्रेमप्रकर्षमगमन् । परप्रेमास्पदीभूता इत्यर्थः । प्रत्युत्थानादपि स्खलितगमनमेव पत्युः प्रीतिकरमभूदिति भावः । स्त्रीणां स्खलनं पत्युः प्रीतिकरमिति विरोधाभासोऽलंकारः ॥ ७८ ॥

 मधुरोन्नतभ्रु १ललितं च दृशोः सकरप्रयोगचतुरं च वचः ।
 प्रकृतिस्थमेव निपुणागमितं स्फुटनृत्यलीलमभवत्सुतनोः ॥७९॥

 मधुरेति ॥ मधुरं मनोहरं यथा तथोन्नते उच्चलिते ध्रुवौ यस्मिंस्तन्मधुरोन्न- तभ्रु । 'गोस्त्रियोरुपसर्जनस्य' (१|२।४८) इति ह्रस्वत्वम् । १दृशोर्ललितं नयनचेष्टा च सकरप्रयोग हस्ताभिनयसहितं तच्चतुरं च तद्वचश्च सुतनोः स्त्रियाः प्रकृतिस्थ- मेव स्वभावसिद्धमेव सदपि निपुणेन निपुणाचार्येणागमितमभ्यासितम् । अत एव स्फुटं प्रथितं यन्नृत्यं तस्य लीलेव लीला यस्य तत्तथोक्तमभवदिति निदर्शनालं- कारः । तया नर्तक्युपमा गम्यते ॥ ७९ ॥

 अथ कस्याश्चित्सपत्नीनामग्रहणाहूतायाः कान्तोपालम्भं विशेषकेणाह-

 तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् ।
 प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताय मयि गोत्रभिदा॥८॥

 तदिति ॥ अङ्गेत्यामन्त्रणे । विश्वसृजा विधात्रा तव ईक्षणसहस्रतयं नेत्रसह- स्त्रसमूहः । 'संख्याया अवयवे तयप्' (५।२।४२) न कृतं न सृष्टमिति यत्तद- युक्तम् । कुतः । येन कारणेन मयि विषये स्फुटं प्रत्यक्षमेव गोत्रभिदा नामभे- दिनाद्रिभेदिना च । 'गोत्रं नाम्नि कुलेऽप्यद्रौ' इति यादवः । त्वयेति शेषः । अद्य इन्द्रता जगति प्रकटीकृता खलु । अत्र गोत्रभिदेति श्लेषानुप्राणितं सहस्रा- क्षत्वमुत्प्रेक्ष्यते ॥ ८॥

 न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।
 हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतमाम् ॥ ८१॥

 नेति ॥ अनिशमक्षिगतां चक्षुःसंनिकृष्टामपि, द्वेष्यामिति च गम्यते । 'द्वेष्ये त्वक्षिगतः' इत्यमरः । मामतिसमीपतया भवान्न विभावयति । 'शेषे प्रथमः' (१।४।१०८) इति प्रथमपुरुषः । इन्द्रियसंनिकृष्टमपि न लक्ष्यत इति विरोधा. भासनार्थोऽपिशब्दः । परमार्थस्तु द्वेष्यत्वादतिसामीप्याच्चाविभावनं न चित्रमिति भावः । अभीष्टतमा पुनर्हदयस्थितां हृदयादनपेताम्, अन्तर्हितामिति च गम्यते । अत एव विरोधाभासकोऽपिशब्दः । बहिः पुरतः कथं भवान् ईक्षते इदं तु चित्रम् । अतिसामीप्यव्यवधानस्यापि दर्शनप्रतिबन्धकत्वादिति भावः । प्रेमास्पदं वस्तु परोक्षमप्यपरोक्षमीक्षते इतरदपरोक्षमपि परोक्षमेवेति तात्पर्यार्थः । विरोधा- भासयोः संकरः ॥८१ ॥

 इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपात विकसद्वदनाम् ।
 वकरावलम्बनविमुक्तगलत्कलकाञ्चि कांचिदरुणतरुणः ॥ ८२ ।।

 इतीति ॥ इत्यभिधाय पुरो गन्तुमिच्छु क्षणं दृष्ट्योः पातेन विकसद्वदनाम् । परस्परदृष्टिपातमात्रगतकोपामित्यर्थः । कांचिन्नायिका तरुणो युवा स्वकरावल- म्बनं प्रियकरेण ग्रहणं तेन विमुक्ता मुक्तबन्धना अत एव गलन्ती भ्रंशमाना कला मधुरा काञ्ची यस्मिन्कर्मणि तद्यथा तथा अरुणत् रुद्धवान् । रुधेर्लङि रुधा- दिभ्यः श्नम्' (३।१|७८)। एषा च कलहान्तरिता ॥ ८२ ॥

 अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या ।
 कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ॥८३॥

 अपयातीति ॥ सरोषया मृगाक्ष्या निरस्त कामिनि भर्तर्यपयाति निर्याते

सति कृतकं कृत्रिमं यथा तथा चुक्षुवे । तन्निर्गमनप्रतिबन्धार्थं क्षुतं कृतमित्यर्थः । 'क्षु शब्दे' भावे लिट् । इतरोऽपि नायकोऽपि कलयन्नपि कृतकोपमिति जानन्नपि अशकुनेन स्खलितः किल निरुद्ध इव सव्यथः सनिर्वेद इवावतस्थे स्थितः । न गत इत्यर्थः । उभावपि समानानुरागाविति भावः । एषा च कलहान्तरिता ॥ ८३ ॥

 आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या।
 तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥८४॥

 आलोक्येति ॥ मानवत्या कोपवत्या स्त्रिया । 'स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये' । प्रियातममालोक्य । स्थित्यासमानकर्तृकत्वात्क्त्वानि- र्देशः । अंशुके विनीवौ प्रियावलोकनाद्विगलितबन्धे सति । भाषितपुंस्कत्वात्पुं- वद्भावः । 'स्त्रीकटीवस्त्रबन्धेऽपि नीविः परिपणेऽपि च' इत्यमरः । नमितमुखेन्दु यथा तथा तस्थे स्थितमिति यत्तत्तस्मान्नम्रमुखावस्थानाद्रुतं शीघ्रम् । प्रियाव- लोकनेक्षण एवेत्यर्थः । अपयानमास्थितस्य प्रयाणं गतस्य मानस्य कोपस्य पदं पदचिह्नमवलोकयांबभूवे । अन्वेषितमित्यर्थः लज्जानिमित्ताया मुखनतेः अन्वे- षणार्थत्वमुत्प्रेक्ष्यते नूनमिति । मानगन्धोऽप्यस्तमित इति भावः ॥ ८४ ॥

 सुदृशः सरसव्यलीकतप्तस्तरसाश्लिष्टवतः सयौवनोष्मा ।
 कथमप्यभवत्स्मरानलोष्णः स्तनभारो न नखंपचः प्रियस्य ॥८५॥

 सुदृश इति ॥ सरसमार्द्रं । नूतनमिति यावत् । तेन व्यलीकेन प्रियकृते- नापराधेन तप्तः तथा यौवनोष्मणा सह वर्तत इति सयौवनोष्मा । किंच स्मरा- नलोष्णः कामाग्निसंतप्तः एवं त्रिविधाग्नितप्तोऽपि सुदृशः वेगेन । अतिदाहदशायामेवेत्यर्थः । आश्लिष्टवत आलिङ्गितवतः प्रियस्य कथमपि कथं वा । कुतो हेतोरित्यर्थः । नखं पचति क्वाथयतीति नखंपचः । पचिरत्र ताप- वाची । 'मितनखे च' (३।२।३४) इति खशप्रत्ययः । 'अरुषिदजन्तस्य मुम्' (६।३।६७) इति मुमागमः । नाभवत् । तथोष्ण ईषदुष्णोऽपि नाभूदित्यर्थः । 'प्रियासङ्गप्रतीकाराः खलु कामिनां संतापा इति भावः । तादृगौष्ण्यसंबन्धेऽप्यसं. बन्धोक्तेरतिशयोक्तिः ॥ ८५ ॥

 दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् ।
 बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न८६

 द्धतीति ॥ उरु महदशीतलं स्मरयौवनोष्मभ्यामुष्णमुरोजद्वयं कुचद्वयं दधती भुवस्तलं गता स्वयं साक्षादुर्वशीव स्थितेत्युत्प्रेक्षा । काचन स्त्री अप्र- तिमेन मुखेन बभौ । तां प्रति मेनका मेनकाख्याप्सराश्च श्रिया सौन्दर्येणाधिका नेत्यतिशयोक्तिः । तयोर्यमकेन संसृष्टिः । वंशस्थं वृत्तम् ॥ ८६ ॥

  इत्थं नारीर्घटयितुमलं कामिभिः काममास-
   न्प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः।

  आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा
   ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम् ॥ ८७॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
प्रदोषवर्णनं नाम नवमः सर्गः ॥९॥

 इत्थमिति ॥ इत्थमनेन प्रकारेण । 'इदमस्थमुः' (५।३।२४) इति थमुप्रत्ययः। सपदि शान्तः शमितो मानः कोप एवान्तरायो याभिस्ताः । 'वा दान्त-' (७।२।२७) इत्यादिना शमेर्ण्य॑न्ताच्छान्तेति निपातः । प्रालेयांशोश्चन्द्रस्य रुचयो नारीः कामि- भिर्घटयितुम् । 'मितां ह्रस्वः' (६।१।९२) 'पर्याप्तिवचनेष्वलमर्थेषु' (३।४।६६) इति तुमुन्प्रत्ययः । कामं प्रकामं समर्था आसन् । दूत्य इवेति भावः । विलस- न्तो मन्मथश्रीविलासा भणितसीत्कारादिमदनातिरेकविकारा याभिस्ताः ह्रीरेव प्रत्यूहो विघ्नस्तस्य प्रशमे निवारणे कुशलाः शेरते आभिरिति शीधवो मदिराः । 'शीङो धुक्' (उ०४७८) इत्यौणादिको धुक्प्रत्ययः । आसां रतिषु आचार्यत्व- मुपदेशं चक्रुः । नर्मसख्य इवेति भावः । अत्र प्रथमार्धे प्रस्तुतचन्द्रभासां मान- शमनकामिघटनपाटवविशेषणसाम्यादप्रस्तुतदूतीत्वप्रतीतेः समासोक्तिः । द्विती- यार्धे तु शीधुष्वारोपितस्याचार्यत्वस्य प्रकृतोपयोगात्परिणामः । तयोः सापेक्षत्वा- त्संकरः । तेन च दूतीनर्मसख्युपमाध्वनिः । उत्तरसर्गे मधुपानरतोत्सववर्णनाया- श्चायमेव प्रस्तावः । मन्दाक्रान्ता वृत्तम् । 'मन्दाक्रान्ता जलधिषडगैम्भौं नतौ तो गुरू चेत्' इति लक्षणात् ॥ ८७ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये नवमः सर्गः ॥९॥