शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/अष्टमः सर्गः(जलविहारवर्णनम्)

विकिस्रोतः तः
← सप्तमः सर्गः(वनविहारवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
अष्टमः सर्गः(जलविहारवर्णनम्)
माघः
नवमः सर्गः(प्रदोषवर्णनम्) →


अष्टमः सर्गः ।

 "अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुः” (७।७५) इत्युक्तं तदेव वर्णयितुमारभते-

  आयासादलघुतरस्तनैः स्वनद्भिः
   श्रान्तानामविकचलोचनारविन्दैः।
  अभ्यम्भः कथमपि योषितां समूहै-
   स्तैरुर्वीनिहितचलत्पदं प्रचेले ॥ १ ॥

 आयासादिति ॥ अलघुतरस्तनैः पृथुतरकुचैरिति मान्द्यहेतूक्तिः । स्वनद्भिर्भूषाभिः श्रमश्वासैर्वा शब्दायमानैः । 'स्वन शब्दे' इति धातोर्लटः शत्रादेशः । अविकचलोचनारविन्दैः श्रमनिमीलिताक्षिपद्मैः, आयासाद्वनविहारखेदात् , श्रान्तानां क्लान्तानां योषितां तैः समूहैः कर्तृभिः उर्व्यां निहितानि निक्षिप्तानि । 'डुधाञ् धारणे' इति धातोः कर्मणि क्तः । तथैव चलन्ति पदानि यस्मिन् कर्मणि यद्यथा तथा । उत्क्षेपणाशक्त्या भुवि बलादाकृष्यमाणचरणमित्यर्थः । अभ्यम्भोऽम्भःप्रति कथमपि प्रचेले प्रचलितम् । भावे लिट् । स्वभावोक्तिरलंकारः । स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति लक्षणात् । अस्मिन् सर्गे प्रहर्षिणी वृत्तम् । 'म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्' इति लक्षणात् ॥ १ ॥

  यान्तीनां सममसितभ्रुवां नतत्वा-
   दंसानां महति नितान्तमन्तरेऽपि ।
  संसक्तैर्विपुलतया मिथो नितम्बैः
   संबाधं बृहदपि तद्धभूव वर्त्म ॥२॥

 यान्तीनामिति ॥ समं पङ्क्तिशो यान्तीनाम् । 'आच्छीनद्योर्नुम्' (७।१।८०) इति वैकल्पिको नुमागमः । असितभ्रुवां स्त्रीणामंसानां नतत्वाद्धेतोर्नितान्तं महत्यन्तरे अवकाशे सत्यपि विपुलतया हेतुना मिथःसंसक्तैरन्योन्यश्लिष्टैः नितम्बैर्बृहद्विस्तृतमपि तद्वर्त्म संबाध्यत इति संबाधः संकटम् । 'संकटं ना तु संबाधः' इत्यमरः । घञन्तस्यापि विशेष्यलिङ्गत्वं संबाधमनुवर्तत इति भाष्यकारादिप्रयोगादिष्यते । बभूव । नतांसत्वनितम्बवैपुल्योक्त्या सौन्दर्यातिशय उक्तः । असंबाधेऽपि संबाधाभिधानादतिशयोक्तिः ॥ २ ॥

  नीरन्ध्रद्रुमशिशिरां भुवं व्रजन्तीः
   साशङ्कं मुहुरिव कौतुकात्करैस्ताः।
  पस्पर्श क्षणमनिलाकुलीकृतानां
   शाखानामतुहिनरश्मिरन्तरालैः ॥३॥

पाठा०-१'स्तनद्भिः.'  नीरन्ध्रेति ॥ नीरन्ध्रैः सान्द्रैः द्रुमैः शिशिरां भुवं व्रजन्तीर्गच्छन्तीः ताः स्त्रीः अतुहिनरश्मिरुष्णांशुः क्षणमनिलेनाकुलीकृतानां चालितानां शाखानामन्तरालैर्नीरन्ध्रत्वेऽपि मुहुरनिलचालनजनितैरवकाशैर्मुहुः कौतुकादौत्सुक्यादिव साशङ्कम् । परदारत्वात्सभयमित्यर्थः । करैः पस्पर्श स्पृष्टवान् । अत्र चलच्छाखाहेतुकस्य तपनकरस्पर्शस्यौत्सुक्यहेतुकत्वोत्प्रेक्षणाद्गुणहेतूत्प्रेक्षा ॥ ३ ॥

 अथ कस्याश्चिद्वृत्तं श्वेतातपत्रं चन्द्रत्वेनोत्प्रेक्षते-

  एकस्यास्तपनकरैः करालिताया
   बिभ्राणः सपदि सितोष्णवारणत्वम् ।
  सेवायै वदनसरोजनिर्जितश्री-
   रागत्य प्रियमिव चन्द्रमाश्चकार ॥४॥

 एकस्या इति ॥ वदनसरोजेन स्त्रीमुखपङ्कजेन निर्जितश्रीश्चन्द्रमाः। एतेन वदनसरोजस्य चन्द्रविजयात् सरोजान्तरवैलक्षण्यं चन्द्रस्य निकृष्टत्वं चोक्तम् । अत एव सेवायै तत्सेवनार्थमागत्य तपनकरैः करालिताया भीषितायाः। पीडिताया इत्यर्थः । 'करालो भीषणेऽन्यवत्' इति विश्वः । एतेन सेवावकाशो दर्शितः । एकस्याः कस्याश्चिदङ्गनायाः सपदि आतपक्षण एव सितोष्णवारणत्वं स्वयमेव श्वेतातपत्रत्वं बिभ्राणः सन् प्रियं चकारेव । इति क्रियास्वरूपोत्प्रेक्षा। पराजितः कयाचित्सेवनया जेतुश्चित्तसंतोषमुपार्जयतीति भावः ॥ ४ ॥

  स्वं रागादुपरि वितन्वतोत्तरीयं
   कान्तेन प्रतिपदवारितातपायाः।
  सच्छत्रादपरविलासिनीसमूहा-
   च्छायासीदधिकतरा तदापरस्याः ॥५॥

 स्वमिति ॥ रागाद्धेतोरुपरि प्रियाया मूर्धनि स्वं स्वकीयमुत्तरीयं वितन्वता विस्तारयता कान्तेन प्रियेण प्रतिपदं पदे पदे वारित आतपो यस्यास्तस्या अपरस्याः कस्याश्चिदङ्गनायाः सच्छत्रात् छत्रयुक्तादपरविलासिनीसमूहात् सकाशात् । 'पञ्चमी विभक्ते' (२।३।४२) इति पञ्चमी । अधिकतरा छाया अनातपः कान्तिश्च तदा आसीत् । छत्रच्छायातोऽपि कान्तस्वहस्तधृतोत्तरीयच्छायैवानन्यसाधारणी ज्यायसी । मुखकान्तिरपि तस्या एव भूयसीति भावः । 'छाया त्वनातपे कान्तौ' इत्यमरः । एतेन सच्छत्रादच्छत्रस्याधिकच्छायेति विरोधोऽपि निरस्त इति विरोधाभासोऽलंकारः ॥ ५॥

  संस्पर्शप्रभवसुखोपचीयमाने
   सर्वाङ्गे करतललग्नवल्लभायाः ।
  कौशेयं व्रजदपि गाढतामजस्रं
   सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥६॥

 संस्पर्शेति ॥ करतले लग्नो वल्लभो यस्यास्तस्याः । स्वहस्तेन तद्धस्तं गृहीत्वा गच्छन्त्या इत्यर्थः । अत एव नीरजाक्ष्याः सर्वाङ्गे संस्पर्शप्रभवेन प्रियाङ्गसंगप्रभवेन सुखेनोपचीयमाने पोषं गमिते सति । अत एव गाढतां दृढत्वं व्रजदपि विगलितनीवि सुखपारवश्याद्विश्लिष्टग्रन्थि कौशेयं दुकूलमजस्रं सस्रंसे स्वस्तम् । एषा हृष्टा हर्षितरोमा च ॥ ६॥

  गच्छन्तीरलसमवेक्ष्य विस्मयिन्य-
   स्तास्तन्वीर्न विदधिरे गतानि हंस्यः ।
  बुद्धा वा जितमपरेण काममावि-
   ष्कुर्वीत स्वगुणमपत्रपः क एव ॥ ७ ॥

 गच्छन्तीरिति ॥ हंस्यो हंसाङ्गना अलसं मन्दं गच्छन्तीस्तास्तन्वीः स्त्रीरवेक्ष्य विसयिन्यो गतिसौष्ठवाद्विस्मयवत्यः सत्यो गतानि स्वयं लीलागमनानि न विदधिरे न चक्रुः । लज्जयेति भावः । तथा हि परेण जितं स्वगुणं बुद्ध्वा वा । बुद्ध्वापीत्यर्थः । क एव को वा अपत्रपः सन् काममाविष्कुर्वीत प्रकाशयेत् । न कश्चिदपीत्यर्थः । 'इदुदुपधस्य चाप्रत्ययस्य' (८।३।४१) इति विसर्जनीयस्य षत्वम् । अत्र तिरश्चां विवेकित्वातिशयोक्त्या गतिकरणनिषेधसमर्थनार्थोऽयमर्थान्तरन्यासः॥७॥

  श्रीमद्भिर्जितपुलिनानि माधवीना-
   मारोहनिबिडबृहन्नितम्बबिम्बैः ।
  पाषाणस्खलनविलोलमाशु नूनं
   वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥ ८॥

 श्रीमद्भिरिति ॥ श्रीमद्भिः शोभावद्भिः निबिडा बृहन्तश्च नितम्बबिम्बाः कटिपश्चाद्भागा येषां तैः माधवस्येमा माधव्यस्तासां हरिवधूनां आरुह्यन्त इत्यारोहैः कटिपुरोभागैर्जघनैः जितपुलिनानि जितसैकतानि सिन्धोरवरोधनानि समुद्रमहिष्यः । नद्य इत्यर्थः । वैलक्ष्यात्पराजयकृतमनःसंकोचाद्धेतोः पाषाणेषु स्खलनेनाभिघातेन विलोलं यथा तथा आशु ययुः अगुः नूनम् । नदीनां स्वाभाविक्याः पाषाणस्खलिताशुगतेर्वैलक्ष्यहेतुकत्वोत्प्रेक्षणाद्गुणहेतूत्प्रेक्षा ॥ ८ ॥

  मुक्ताभिः सलिलरयास्तशुक्तिपेशी-
   मुक्ताभिः कृतरुचि सैकतं नदीनाम् ।
  स्त्रीलोकः परिकलयांचकार तुल्यं
   पल्यङ्कैर्विगलितहारचारुभिः स्वैः ॥९॥

 मुक्ताभिरिति ॥ स्त्रीलोकः स्त्रीजनः कर्ता । सलिलरयेणास्ता नुन्नाः शुक्तयो मुक्तास्फोटास्त एव पेश्यः कोशाः । पुटा इति यावत् । 'मुक्तास्फोटः स्त्रियां शुक्तिः-' इति, 'पेशी कोशो द्विहीने' इति चामरः । ताभिर्मुक्ताभिर्विमुक्ताभिर्मौक्तिकैः । 'अथ मौक्तिकं मुक्ता' इत्यमरः । कृतरुचि कृतशोभं नदीनां सिकतामयं सैकतं पुलिनम् । 'तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः । 'सिकताशर्कराभ्यां च' (५।२।१०४) इत्यण् प्रत्ययः । विगलितैर्विशीर्णैर्हारैश्चारुभिः स्वैः पल्यङ्कैः शयनैः । 'शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः' इत्यमरः । तुल्यं सदृशं परिवलयांचकार मेने । पूर्णोपमेयम् ॥ ९॥

  आघ्राय श्रमजमनिन्द्यगन्धबन्धुं
   निश्वासश्वसनमसक्तमङ्गनानाम् ।
  आरण्याः सुमनस ईषिरे न भृङ्गै-
   रौचित्यं गणयति को विशेषकामः ॥१०॥

 आघ्रायेति ॥ भृङ्गैः कर्तृभिः श्रमजमध्वश्रमोत्थम् । अनिन्द्यगन्धस्य श्लाघ्यगन्धस्य बन्धुं सहचरम् । तद्वन्तमित्यर्थः । अङ्गनानां निश्वासश्वसनं निश्वासमारुतम् । असक्तमप्रतिषिद्धमाघ्राय अरण्ये भवा आरण्याः सुमनसः पुष्पाणि नेषिरे नेष्टाः । 'इषु इच्छायाम्' कर्मणि लिट् । अनुचितोऽयमकाण्डे परिचितपरित्याग इत्याह । विशेषं कामयते इति विशेषकामः । 'शीलिकामिभक्ष्याचरिभ्यो णः' (वा०) इति णप्रत्ययः । क औचित्यं गणयति । न कोऽपीत्यर्थः । अर्थान्तरन्यासः ॥१०॥

  आयान्त्यां निजयुवतौ वनात्सशङ्कं
   बर्हाणामपरशिखण्डिनीं भरेण ।
  आलोक्य व्यवदधतं पुरो मयूरं
   कामिन्यः श्रदधुरनार्जवं नरेषु ॥११॥

 आयान्त्यामिति ॥ निजयुवतौ वनादायान्त्यामागच्छन्त्यां सत्यां सशङ्कं सभयमपरशिखण्डिनीं जारिणीं बर्हाणां भरेण व्यवदधतं छादयन्तं मयूरं पुर आलोक्य कामिन्यः प्रियेष्वनार्जवं कौटिल्यं श्रदधुर्विश्वस्तवत्यः । कुटिलाः पुरुषा इति निश्चिक्युरित्यर्थः । दधातेर्लुङि 'गातिस्था-' (२।४।७७) इत्यादिना सिचो लुक् । 'आतः' (३।४।११०) इति झेर्जुसादेशः । 'श्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या' (वा०) इति श्रच्छब्दस्य धातोः प्राक् प्रयोगः ॥ ११ ॥

  आलापैस्तुलितरवाणि माधैवीनां
   माधुर्यादमलपतत्रिणां कुलानि ।
  अन्तर्धामुपययुरुत्पलावलीषु
   प्रादुःष्यात्क इव जितः पुरः परेण ॥१२॥

 आलापैरिति ॥ माधवीनां हरिवधूनामालापैः कर्तृभिः माधुर्याद्धेतोस्तुलितरवाणि तिरस्कृतरुतानि अमलपतत्रिणां हंसानां कुलानि उत्पलावलीष्वन्तर्धानम् । पाठा०-१ 'आयत्याम्'. २ 'मयूरमाराद्भामिन्यः'. ३ ‘०र्विजित'. ४ 'वाणिनीनां'. 'अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गत्वं वाच्यम्' (वा०) इति अन्तःशब्दस्योपसर्गत्वात् 'आतश्चोपसर्गे (३।३।१०६) इत्यङ् प्रत्ययः । उपययुः । युक्तं चैतदित्याह-तथाहि । परेण जितः कः । इवशब्दो वाक्यालंकारे । पुरो जेतुरग्रे प्रादुःष्यात् प्रादुर्भवेत् । 'उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' (८।३।८७) इति षत्वम् । अर्थान्तरन्यासः ॥ १२॥

  मुग्धायाः सरललितेषु चक्रवाक्या
   निःशङ्कं दयिततमेन चुम्बितायाः।
  प्राणेशानभि विदधुर्विधूतहस्ताः
   सीत्कारं समुचितमुत्तरं तरुण्यः॥१३॥

 मुग्धाया इति ॥ दयिततमेन निःशङ्कं निर्विचारं चुम्बिताया दुष्टायाः स्मरललितेषु चुम्बनाद्यनन्तरकृत्येषु सीत्कारादिकामचेष्टितेषु मुग्धाया मूढायाः चक्रवाक्याः समुचितं योग्यं सीत्कारं सीत्काररूपमुत्तरं कृत्यं तरुण्यः स्वयं प्राणेशानभि विधूतहस्ताः सत्यो विदधुः । तादात्म्यभावनया स्वयं दष्टा इव सीञ्चक्रुरिति सीत्कारासंबन्धे तत्संबन्धातिशयोक्त्या तत्रासामुद्दीपकमासीदित्युक्तम् ॥ १३ ॥

  उत्क्षिप्तस्फुटितसरोरुहार्यमुच्चैः
   सस्नेहं विहगरुतैरिवालपन्ती ।
  नारीणामथ सरसी सफेनहासा
   प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥ १४ ॥

 उत्क्षिप्तेति ॥ अथानन्तरमुत्क्षिप्तं स्फुटितसरोरुहं विकचारविन्दमेवार्घ्यमर्घ्यद्रव्यं यस्मिंस्तत्तथा सस्नेहं विहगरुतैरालपन्ती स्वागतादिवचनं व्याहरन्तीव स्थिता इत्युत्प्रेक्षा । फेन इव हासस्तेन सहिता सफेनहासा । स्मितपूर्वाभिभाषिणीत्यर्थः सरसी पुष्करिणी नारीणामूर्मिभिरेव हस्तैः पाद्यं पादोदकम् । 'पादार्घाभ्यां च' (५।४।२५) इति यत्प्रत्ययः । प्रीत्येवेत्युत्प्रेक्षा । व्यतनुत । रूपकानुप्राणितोत्प्रेक्षाद्वयस्य सापेक्षत्वात्संसृष्टिः ॥ १४ ॥

  नित्याया निजवसतेर्निरासिरे य-
   द्रागेण श्रियमरविन्दतः कराग्रैः ।
  व्यक्तत्वं नियतमनेन निन्युरस्याः
   सापत्न्यं क्षितिसुतविद्विषो महिष्यः॥१५॥

 नित्याया इति ॥ क्षितिसुतविद्विषो नरकद्विषो हरेर्महिष्यः कराग्रैः पाणिपल्लवैः करणै रागेण रक्तवर्णेन, इच्छया च श्रियं शोभाम् , रमां च नित्यायाः संदातन्याः निजवसतेः स्ववासादरविन्दतोऽरविन्दान्निरासिरे निष्कासयांचक्रुः । निश्चक्रुश्चेति यावत् । 'उपसर्गादस्यत्यूह्योर्वावचनम्' (वा०) इति विकल्पादात्मनेपदम् । अनेन निरासेनास्याः श्रियः सापत्यं सपत्नीत्वम् । ब्राह्मणादित्वात्ष्यञ् प्रत्ययः । व्यक्तत्वं निन्युः । व्यक्तीचक्रुरित्यर्थः । अत्र श्रीशब्देन रमाशोभयोरभेदाध्यवसायेन श्रीनिवासस्य सापत्न्यव्यक्तीकरणार्थत्वोत्प्रेक्षणात् श्लेषप्रतिभोत्थापितातिशयोक्त्यनुप्राणितेयं फलोत्प्रेक्षेति संकरः ॥ १५ ॥

  आस्कन्दन् कथमपि योषितो न याव-
   द्भीमत्यः प्रियकरधार्यमाणहस्ताः ।
  औत्सुक्याचरितममूस्तदम्बु ताव-
   त्संक्रान्तप्रतिमतया दधाविवान्तः ॥१६॥

 आस्कन्दन्निति ॥ भीमत्यः प्रवेशभीरवो योषितः प्रियकरैर्धार्यमाणहस्ताः प्रियकरावलम्बाः सत्यः यावत्कथमपि नास्कन्दन् न प्राविशन् तावत्संक्रान्तप्रतिमतया संक्रान्तप्रतिबिम्बतया तदम्बु कर्तृ औत्सुक्यादुत्कण्ठतया त्वरितममूरन्तर्दधाविव । अन्तः प्रावेशयदिवेत्यर्थः । प्रतिबिम्बसंक्रमणादन्तर्धानोत्प्रेक्षणात् क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा ॥ १६ ॥

  ताः पूर्वं सचकितमागमय्य गाधं
   कृत्वाथो मृदु पदमन्तराविशन्त्यः ।
  कामिन्यो मन इव कामिनः सरागै-
   रङ्गैस्तज्जलमनुरञ्जयांबभूवुः ॥ १७ ॥

 ता इति ॥ ताः कामिन्यः कामिनः कामुकस्य मन इव तज्जलं पूर्वं प्रथमं सचकितं सभयं यथा तथा गाधमुत्तानमागमय्य गमनेन ज्ञात्वा । पुरःप्रविष्टपुरुषमुखेन गाधं तदिति परामृश्येत्यर्थः । अन्यत्र दूतमुखेन ज्ञात्वेत्यर्थः । अथोऽनन्तरं मृदु मन्दं पदं कृत्वा पदं न्यस्य । अन्यत्र तु स्वयं संभाषणादिकं कृत्वेत्यर्थः । अन्तरमभ्यन्तरमाविशन्त्यः प्रविष्टाः सत्यः । अन्यत्र रहस्यकर्मणि प्रवृत्ता इत्यर्थः । सरागैः साङ्गरागैः सानुरागैश्च, अङ्गैर्गात्रैः अनुरक्षयांबभूवुस्तद्वर्णाक्रान्तं चक्रुः । अन्यत्र त्वनुरक्तं चक्रुरित्यर्थः । श्लेषसंकीर्णेयमुपमा ॥ १७ ॥

 संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने ।
 विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषाम् १८

 संक्षोभमिति ॥ महेभकुम्भश्रीभाजा । तत्सदृशश्रीभाजेत्यर्थः । अत एवासंभवद्वस्तुसंबन्धो निदर्शनालंकारः । कुचयुगलेन । उल्लसितेनेति भावः । पयसि मुहुः संक्षोभं नीयमाने प्राप्यमाणे सति रथाङ्गनाम्नोर्युगं चक्रवाकयुगलं विश्लेषं वियोगमगमत् । वियोगासहमपीति भावः । तथा हि-उद्वृत्त उन्नतो वृत्तश्च, उद्वर्तनं यस्येति वा उद्वृत्तः, अन्यत्रोद्वृत्तः । उन्मार्गवर्तीति यावत् । स क इव को वा परेषां स्वेतरेषां सुखावहः सुखकरः । न कोऽपीत्यर्थः । अयं च श्लेषमूलातिशयोक्तिजीवितोऽर्थान्तरन्यासः ॥ १८ ॥

  आसीना तटभुवि सस्मितेन भर्त्रा
   रम्भोरूरवतरितुं सरस्यनिच्छुः ।

  धुन्वाना करयुगमीक्षितुं विलासा-
   ञ्शीतालुः सलिलगतेन सिच्यते स्म ॥ १९ ॥

 आसीनेति ॥ शीतं न सहत इति शीतालुः शीतभीरुः । 'शीतोष्णाभ्यां तदसहने आलुज्वक्तव्यः' (वा०) अत एव सरसि अवतरितुं प्रवेष्टुमनिच्छुरनभिलाषुका । अत एव तटभुवि आसीना उपविष्टा । आसेः कर्तरि शानच् । 'ईदासः' (७।२।८३) इतीकारः । रम्भे कदलीस्तम्भाविवोरू यस्याः सा रम्भोरूः स्त्री । 'ऊरूत्तरपदादौपम्ये' (४।१।६९) इत्यूङ्प्रत्ययः । सलिलगतेन स्वयं सलिलं प्रविष्टेन सस्मितेन भर्त्रा विलासानीक्षितुं करयुगं धुन्वाना कम्पयन्ती । धुनोतेः कर्तरि शानच् प्रत्ययः । सिच्यते स्म सिक्ता ॥ १९॥

  नेच्छन्ती समममुना सरोऽवगाढुं
   रोधस्तः प्रतिजलमीरिता सखीभिः ।
  आश्लिक्षद्भयचकितेक्षणं नवोढा
   वोढारं विपदि न दूषितातिभूमिः ॥२०॥

 नेच्छन्तीति ॥ अमुना सममनेन भर्त्रा सह सरोऽवगाढुमवगाहितुम् । 'स्वरतिसूतिसूयतिधूञूदितो वा' (७।२।४४) इति विकल्पान्नेडागमः। नेच्छन्ती लज्जयाऽनिच्छन्ती । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । अनञ्समासो वा । अथ सखीभिः प्रतिजलं जलं प्रति रोधस्तो रोधसः । पञ्चम्यास्तसिल् । ईरिता नुन्ना नवोढा नववधूः भयेन चकितेक्षणं संभ्रान्तदृष्टि यथा तथा वोढारं भर्तारमाश्लिक्षदालिङ्गितवती । 'श्लिष आलिङ्गने' इति धातोर्लुङि च्लेः क्सादेशः । न च धार्यदोषापत्तिरित्याह । विपदि विपत्तौ अतिक्रान्ता भूमिरतिभूमिरमर्यादा न दूषिता । 'आपत्काले नास्ति मर्यादा' इति न्यायादिति भावः । अर्थान्तरन्यासालंकारः॥२०॥

  तिष्ठन्तं पयसि पुमांसमंसमात्रे
   तद्दघ्नं तदवयती किलात्मनोऽपि ।
  अभ्येतुं सुतनुरभीरियेष मौग्ध्या-
   दाश्लेषि द्रुतममुना निमज्जतीति ॥ २१ ॥

 तिष्ठन्तमिति ॥ सुतनुः शुभाङ्गी स्त्री अंसः प्रमाणमस्येति अंसमात्रे अंसप्रमाणे । 'प्रमाणे द्वयसज्दघ्नञ्मात्रचः' (५।२।३७) इति मात्रच्प्रत्ययः । पयसि जले तिष्ठन्तं पुमांसम् । वीक्ष्येति शेषः । आत्मनोऽपि तत्पयः तद्दघ्नं तावन्मात्रमंसमानं अवयती जानती किल । तथा संभावयन्तीत्यर्थः । 'वार्तासंभाव्ययोः किल' इत्यमरः । अवपूर्वादिणः शतरि 'इणो यण' (६।४।८१) इति यणादेशः । 'उगितच' (४।१।६) इति ङीप् । किलशब्दस्यालीकार्थत्वे मौग्ध्यविरोधः । अत एव मौग्ध्यादविवेकादभीर्निर्भीका सती अभ्येतुं पुमांसमभिगन्तुमियेष इच्छति

स्म । अमुना पुंसा निमज्जतीति द्रुतमाश्लेषि आश्लिष्टा ॥ २१ ॥

  आनाभेः सरसि नतभ्रुवावगाढे
   चापल्यादथ पयसस्तरङ्गहस्तैः ।
  उच्छ्रायि स्तनयुगमध्यरोहि लब्ध-
   स्पर्शानां भवति कुतोऽथवा व्यवस्था ॥२२॥

 आनाभेरिति ॥ नतभ्रुवा स्त्रिया सरसि आनाभेर्नाभिपर्यन्तम् । 'आङ् मर्यादाभिविध्योः' (२।१।१३) इति विकल्पादसमासः । अवगाढे प्रविष्टे सति । गाहेः कर्मणि क्तः। अथ पयसश्चापल्याल्लौल्यात् । ब्राह्मणादिषु पाठात् ष्यञ्प्रत्ययः । तरङ्गैरेव हस्तैस्तरङ्गहस्तैरुच्छ्रायोऽस्यास्तीत्युच्छ्रायि उन्नतिमत् स्तनयुगमध्यरोहि अधिरूढम् । भिक्षुकपादप्रसारणन्यायादिति भावः । रोहतेः कर्मणि लुङ् । अथवा तथाहीत्यर्थः । लब्धस्पर्शानाम् । लब्धप्रवेशानामित्यर्थः । कुतः कुत्र वा । सार्वविभक्तिकस्तसिल् । व्यवस्था मर्यादा भवति । न कुत्रापीति भावः । प्रायेण सर्वेऽप्यसंभवब्रह्मचारिण एवेति भावः । अत्र चापल्यादिति द्वयोरपि लौल्ययोरभेदाध्यवसायमूलातिशयोक्त्या तरङ्गहस्तैरिति रूपकेण च पयसि कामित्वप्रतीतेः समासोक्तिः । तदुपजीवी चार्थान्तरन्यास इति संकरः ॥ २२ ॥

  कान्तानां कुवलयमप्यपास्तमक्ष्णोः
   शोभाभिर्न मुखरुचाहमेकमेव ।
  संहर्षादलिविरुतैरितीव गाय-
   ल्लोलोर्मौ पयसि महोत्पलं ननर्त ॥ २३ ॥

 कान्तानामिति ॥ लोलोर्मौ चपलोर्मिणि । 'तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य' (७।१।७४) इति विकल्पात्पुंवद्भावः । पयसि महोत्पलमरविन्दं कर्तृ । 'अरविन्दं महोत्पलम्' इत्यमरः । कान्तानां मुखरुचाऽहमेकमेव नापास्तं, किंतु तासामक्ष्णोः शोभाभिः कुवलयमप्यपास्तमिति संहर्षात्संतोषाद्धेतोरलिविरुतैर्गायत् । अलिरुतरूपं गानं कुर्वदिति रूपकम् । 'इत्थंभूतलक्षणे' (२।३।२१) इति तृतीया । ननर्तेव । 'न दुःखं पञ्चभिः सह' इति न्यायान्नृत्यति स्म । अत्रोर्मिचलनहेतुके महोत्पलचलने अलिनादसंहर्षहेतुकसमाननृत्यत्वोत्प्रेक्षणात् क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा वाच्या ॥ २३ ॥

  त्रस्यन्ती चलशफरीविघट्टितोरू-
   र्वामोरूरतिशयमाप विभ्रमस्य ।
  क्षुभ्यन्ति प्रसभमहो विनापि हेतो-
   र्लीलाभिः किमु सति कारणे रमण्यः ॥२४॥

 त्रस्यन्तीति ॥ चलाः शफर्यः यातुकामा मत्स्यः । 'प्रोष्ठी तु शफरी द्वयोः' इत्यमरः । ताभिर्विघट्टितौ विद्धावूरू यस्याः सा अत एव त्रस्यन्ती बिभ्यती । 'वा भ्राश-' (३।१।७०) इत्यादिना विकल्पात् श्यनि शतरि ङीप् । वामौ सुन्दरावूरू यस्याः सा वामोरूः स्त्री। 'संहितशफलक्षणवामादेश्च' (४।१।७०) इत्यूङ्प्रत्ययः । विभ्रमस्य विलासस्यातिशयमाप । तथा हि-रमण्यो हेतोर्विनापि कारणं विनापि । 'पृथग्विना-' (२।३।३२) इत्यादिना विकल्पात्पञ्चमी । लीलाभिर्विलासैः प्रसभं प्रकामं क्षुभ्यन्ति । अहो निष्कारणक्षोभादाश्चर्यमित्यर्थः । कारणे सति किमु वक्तव्यम् । अत्राप्रकृतनिष्कारणक्षोभकथनात्सकारणक्षोभस्य कैमुत्यन्यायलब्धत्ववर्णनादर्थापत्तिरलंकारः । 'दण्डापूपिकयार्थान्तरस्यापतनमर्थापत्तिः' इति सूत्रम् ॥ २४ ॥

  आकृष्टप्रतनुवपुर्लतैस्तरद्भि-
   स्तस्याम्भस्तदथ सरोमहार्णवस्य ।
  अक्षोभि प्रसृतविलोलबाहुपक्षै-
   र्योषाणामुरुभिरुरोजगण्डशैलैः ॥ २५ ॥

 आकृष्टेति ॥ अथानन्तरमाकृष्टाः प्रतनवो वपूंष्येव लता यैस्तैस्तरद्भिः प्लवमानैः प्रसृता आयता विलोलाश्चला बाहव एव पक्षा गरुन्ति येषां तैः । गिरिधर्मस्य पक्षवत्त्वस्य तदवयवेषूपचारः । उरुभिर्महद्भिर्योषाणां स्त्रीणामुरोजैरेव गण्डशैलैर्गिरिच्युतैः स्थूलोपलैस्तस्य सर एव महार्णवस्तस्य तदम्भः अक्षोभि । क्षुभ्यतेर्ण्यन्तादण्यन्ताद्वा कर्मणि लुङ् । समस्तवस्तुविषयकं सावयवं रूपकम् ॥ २५ ॥

  गाम्भीर्यं दधदपि रन्तुमङ्गनाभिः
   संक्षोभं जघनविघट्टनेन नीतः।
  अम्भोधिर्विकसितवारिजाननोऽसौ
   मर्यादां सपदि विलङ्घयांबभूव ॥ २६ ॥

 गाम्भीर्यमिति ॥ गाम्भीर्यमगाधत्वं, अविकारिचित्तत्वं च दधदपि गम्भीरः सन्नपि रन्तुं विहर्तुं संगन्तुं चाङ्गनाभिर्जघनस्य विघट्टनेन संघर्षेण संक्षोभं चलनं, चित्तविकारं च नीतः, अत एव विकसितं वारिजमाननमिव वारिजमिव चाननं यस्य सः अम्भांसि धीयन्तेऽस्मिन्निति अम्भोधिर्जलाशयः, असौ कश्चित्पुमांश्च तत्तुल्यो गम्यते । 'कर्मण्यधिकरणे च' (३।३।९३) इति किप्रत्ययः । सपदि मर्यादां सीमानं औचितीं च विलङ्घयांबभूव लङ्घितवान् । धीरोऽपि स्त्रीसंनिकर्षाद्विक्रियत इति भावः । अत्र गाम्भीर्यादिप्रकृताम्भोधिविशेषणसाम्यादप्रकृतविशेष्यपुरुषप्रतीतेः समासोक्तिरलंकारः । सा च प्रतीयमानाभेदाध्यवसायमूलातिशयोन्यनुप्राणितेति संकरः ॥ २६ ॥

  आदातुं दयितमिवावगाढमारा-
   दूर्मीणां ततिभिरभिप्रसार्यमाणः।
  कस्याश्चिद्विततचलच्छिखाङ्गुलीको
   लक्ष्मीवान् सरसि रराज केशहस्तः ॥ २७ ॥

 आदातुमिति ॥ सरसि वितताः प्रसारिताश्चलन्त्यश्च शिखा अग्राण्येवाङ्गुल्यो यस्य सः। 'नद्यृतश्च' (५।४।१५३) इति कप् । लक्ष्मीवान् शोभावान् । 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' (८।२।९) इति मतुपो मकारस्य वत्त्वम् । कस्याश्चित्केशहस्तः केशपाशः । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । हस्त इति करश्च ध्वन्यते । आरात्समीपे । 'आरादूरसमीपयोः' इत्यमरः । अवगाढमन्तर्मग्नं दयितमादातुं ग्रहीतुमिव ऊर्मीणां ततिभिः समूहैरभिप्रसार्यमाणोऽभितो व्यापार्यमाणः सन् रराज । अत्रादातुमिव प्रसार्यमाण इति प्रसारणस्यादानार्थत्वोत्प्रेक्षणादियं क्रियानिमित्ता क्रियाफलोत्प्रेक्षा । सा च चलच्छिखाङ्गुलीक इति रूपकानुप्राणितया हस्त इति श्लेषमूलया वाच्यस्य केशकलापस्य प्रतीयमानात्कराद्भेदे अभेदरूपातिशयोक्त्या निर्व्यूढेति संकरः ॥ २७ ॥

  उन्निद्रप्रियकमनोरमं रमण्या:
   संरेजे सरसि वपुः प्रकाशमेव ।
  युक्तानां विमलतया तिरस्क्रियायै
   नाक्रामन्नपि हि भवत्यलं जलौघः॥२८॥

 उन्निद्रेति ॥ उन्निद्रं यत् प्रियकं असनकुसुमम् । 'सर्जकासनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । तदिव मनोरमम् । कनकगौरमित्यर्थः । रमण्या वपुः सरसि प्रकाशमेव जलमग्नमपि वैमल्याल्लक्ष्यमेव संरेजे । तथा हि-जलौघो जलपूरो, जडौघो मूर्खजनौघश्च डलयोरभेदात् । आक्रामन्नावृण्वन्नपि, अन्यत्र अधिक्षिपन्नपि विमलतया वैमल्येन युक्तानां शुद्धानां तिरस्क्रियायै तिरोधानाय, परिभवाय च अलं समर्थो न भवति हि । श्लेषमूलया भेदेऽभेदरूपातिशयोक्त्यानुप्राणितोऽयमर्थान्तरन्यासः ॥ २८॥

  किं तावत्सरसि सरोजमतदारा-
   दाहोस्विन्मुखमवभासते युवत्याः।
  संशय्य क्षणमिति निश्चिकाय कश्चि-
   द्विव्वोकैर्बकसहवासिनां परोक्षैः ॥ २९ ॥

 किमिति ॥ सरस्याराद्दूरादेतत्पुरोवर्ति तावत्सरोजं किम् , आहोस्वित् उत युवत्या मुखमवभासत इति क्षणं संशय्य संदिह्य । शीङः क्त्वो ल्यप् । 'अयङ् यि क्ङिति' (७४।२२) इत्ययङादेशः । कश्चिद्विलासी बकसहवासिनां बकसहचारिणाम् । पद्मानामित्यर्थः । विलासशून्यताद्योतनार्थमित्थं निर्देशः । परोक्षैरप्रत्यक्षैरनुभूतचरैः । अविद्यमानैरिति यावत् । विव्वोकैः । विलासैरित्यर्थः । यद्यपि 'वियोकोऽनादरक्रिया' (दशरूपके २।४१) इत्युक्तम् , तथापि विशेषवाचिनां सामान्ये लक्षणेत्यदोषः । निश्चिकाय । विशेषदर्शनान्मुखमेवेति निश्चितवानित्यर्थः । संदेहालंकारोऽयम् । 'विषयो विषयी यत्र सादृश्यात्कविसंमतात् । संदेहगोचरौ स्यातां संदेहालंकृतिश्च सा ॥' इति लक्षणात् । सोऽप्यन्ते निश्चयोक्तेर्निश्चयान्तः ॥ २९ ॥  अथ जलक्रीडासंभारानाह-

  शृङ्गाणि द्रुतकनकोज्ज्वलानि गन्धाः
   कौसुम्भं पृथु कुचकुम्भसङ्गि वासः।
  मार्द्वीकं प्रियतमसंनिधानमास-
   न्नारीणामिति जलकेलिसाधनानि ॥३०॥

 शृङ्गाणीति ॥ द्रुतेन तप्तनिषिक्तेन कनकेनोज्ज्वलानि । लिप्तानीत्यर्थः । शृङ्गाणि क्रीडाम्बुयन्त्राणि । 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके' इति विश्वः । गन्धाश्चन्दनकुङ्कुमादिगन्धद्रव्याणि । अत एव पुंसि बहुत्वं च । 'गन्धस्तु सौरभे योगे गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः ॥' इत्यभिधानात् । पृथु विशालं कुचकुम्भसङ्गि कुचावरणं कुसुम्भेन रक्तं कौसुम्भम् । 'तेन रक्तं रागात्' (४।२।१) इत्यण् प्रत्ययः । वासो वस्त्रं मृद्वीकाया विकारो मार्द्वीकं द्राक्षामद्यम् । 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरः । किंच प्रियतमसंनिधानम् । सर्वसाफल्यकारणमिति भावः । इत्येतानि नारीणां जलकेलिसाधनानि जलक्रीडोपाया आसन् । उद्दीपकसंपत्तिरुक्ता । अत्र शृङ्गादीनां केलिसाधनत्वस्वरूपतुल्यधर्मयोगात्प्रकृतत्वाच्च केवलप्रकृतगोचरा तुल्ययोगिता ॥ ३०॥

  उत्तुङ्गादनिलचलांशुकास्तटान्ता-
   च्चेतोभिः सह भयदर्शिनां प्रियाणाम् ।
  श्रोणीभिर्गुरुभिरतूर्णमुत्पतन्त्य-
   स्तोयेषु द्रुततरमङ्गना निपेतुः॥३१॥

 उत्तुङ्गादिति ॥ अनिलेन वेगानिलेन चलांशुकाश्चलद्वसना अङ्गनाः उत्तुङ्गात्तटान्ताद्भयदर्शिनां भयोत्प्रेक्षिणाम् । अनर्थाशङ्किनामित्यर्थः । प्रियाणां चेतोभिः सह । तेषां तत्रैवावधानादिति भावः । गुरुभिर्गुर्वीभिः । 'वोतो गुणवचनात्' (४।१।४४) इति विकल्पादनीकारः । श्रोणीभिर्हेतुना अतूर्णं मन्दमुत्पतन्त्यस्तोयेषु द्रुततरं निपेतुः । गुरुत्वस्य पतनहेतुत्वादुत्पतनविरोधित्वाच्च शीघ्रपातो मन्दोत्पतनं चेति भावः । अत्र प्रियचेतःपाताङ्गनापातयोः कार्यकारणयोरसहभाविनोः सहभावोक्तेः कार्यकारणयोः पौर्वापर्यविध्वंसनरूपातिशयोक्त्युपजीविता सहोक्तिरलंकारः। 'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरिहेष्यते ॥' इति लक्षणात् । चेतोवत्पेतुरित्यौपम्यकल्पनया कार्यगताशुभावप्रतीतेश्चमत्कार इति रहस्यम् । तात्कालिकांशुकचलनादिसूक्ष्मस्वभावविशेषप्रकाशनात्स्वभावोक्तिश्चेति संकरः ॥ ३१ ॥

  मुग्धत्वादविदितकैतवप्रयोगा
   गच्छन्त्यः सपदि पराजयं तरुण्यः ।

  ताः कान्तैः सह करपुष्करेरिताम्बु
   व्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥ ३२ ॥

 मुग्धत्वादिति ॥ मुग्धत्वान्मूढत्वादविदिताः कैतवप्रयोगा मुखसेचनादिकपटाचरणानि याभिस्ताः, अत एव सपदि पराजयं गच्छन्त्यस्तास्तरुण्यः कान्तैः सहाभिसरणं स्वयमभिगमनं ग्लहो द्यूतं पणो यस्यास्ताम् । 'पणोऽक्षेषु ग्लहः' इत्यमरः । 'अक्षेषु ग्लहः' (३।३।७०) इति ग्रहेरेवाक्षपणे लत्वनिपातः । अप्प्रत्ययस्तु 'ग्रहवृदृनिश्चिगमश्च' (३।३।५८) इत्येव सिद्ध इति केचित् । अन्ये तु ग्लहिं प्रकृत्यन्तरमङ्गीकृत्याप्प्रत्ययस्यैव निपातो घञपवादीत्याहुः । करपुष्करैः करकमलैरीरितैरम्बुभिर्यां व्यात्युक्षीं व्यतिहारेणोक्षणम् । परस्पराभ्युक्षणमित्यर्थः । 'कर्मव्यतिहारे णच् स्त्रियाम्' (३।३।४३) इति णच्प्रत्ययः । 'णचः स्त्रियामञ्' (५।४।१४) इति स्वार्थिकोऽञ्प्रत्ययः । 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । तां व्यात्युक्षीमदीव्यन् । तया अक्रीडन्नित्यर्थः । 'दिवः कर्म च' (१।४।१४३) इति विकल्पात्कर्मत्वम् । अत्राविदितकैतवप्रयोगस्य विशेषणगत्या पराजयहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः॥ ३२ ॥

  योग्यस्य त्रिनयनलोचनानलार्चि-
   र्निर्दग्धस्मरपृतनाधिराज्यलक्ष्म्याः ।
  कान्तायाः करकलशोद्यतैः पयोभि-
   र्वक्त्रेन्दोरकृत महाभिषेकमेकः ॥ ३३ ॥

 योग्यस्येति ॥ त्रिनयनस्त्र्यम्बकः । 'क्षुभ्नादिषु च' (८।४।३९) इति निषेधात् 'पूर्वपदात्संज्ञायाम्' (८।४।३) इति णत्वाभावः । तस्य लोचनानलार्चिषा निर्दग्धस्य स्मरस्य याः पृतनास्तासामाधिराज्यमाधिपत्यं तदेव लक्ष्मीस्तस्या योग्यस्यार्हस्य । त्रैलोक्यविजयिनः स्थाने तादृशस्यैव स्थाप्यत्वादिति भावः । कान्ताया वक्त्रेन्दोः । स्मरसखत्वादस्येति भावः । करावञ्जलिरेव कलशस्तेनोद्यतैरुत्क्षिप्तैः पयोभिर्महाभिषेकमेकः कश्चित्कामी अकृत कृतवान् । करोतेर्लुङि तङ् । 'तनादिभ्यस्तथासोः' (२।४।७९) इति सिचो लुक् । अत्र जलक्रीडासेके महाभिषेकत्वोत्प्रेक्षा प्रतीयमानकरकलशेति रूपकानुप्राणितेति संकरः ॥ ३३ ॥

  सिञ्चन्त्याः कथमपि बाहुमुन्नमय्य
   प्रेयांसं मनसिजदुःखदुर्बलायाः।
  सौवर्णं वलयमवागलत्कराग्रा-
   ल्लावण्यश्रिय इव शेषमङ्गनायाः ॥ ३४ ॥

 सिञ्चन्त्या इति ॥ मनसिजदुःखेन स्मरपीडया दुर्बलाया अत एव कथमपि बाहुमुन्नमय्योद्यम्य प्रेयांसं प्रियतमम् । 'प्रियस्थिर-' (६।४।१५७) इत्यादिना प्रादेशः । सिञ्चन्त्याः स्नपयन्त्या अङ्गनायाः कराग्रात् सौवर्णं हिरण्मयं वलयं कंकणम् । 'कंकणं वलयोऽस्त्रियाम्' इत्यमरः । लवणैव लावण्यं कान्तिविशेषः । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । 'लवणो रसरक्षोब्धिभेदेषु लवणा त्विषि' इति विश्वः । यद्वा-'मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' तस्य श्रीः संपत् तस्याः शेषमतिरिक्तम् । शरीरसंपदवशिष्टमिति यावत् । 'शेषः संकर्षणेऽनन्त उपयुक्तेतरेऽन्यवत्' इति विश्वः । तदिवावागलदपतत् । शेषमिति गुणनिमित्तजातिस्वरूपोत्प्रेक्षा ॥ ३४ ॥

  नियन्ती दृशमपरा निधाय पूर्णं
   मूर्तेन प्रणयरसेन वारिणेव ।
  कंदर्पप्रवणमनाः सखीसिसिक्षा-
   लक्ष्येण प्रतियुवमञ्जलिं चकार ॥ ३५ ॥

 स्निह्यन्तीति ॥ कंदर्पप्रवणमनाः स्मरपरवशचित्ता अत एव दृशं निधाय पुंस्येव दृष्टिं कृत्वा स्निह्यन्ती । दृष्टिविशेषेण स्नेहं प्रकाशयन्तीत्यर्थः । अपरा स्त्री सख्याः सिसिक्षा सेक्तुमिच्छा तस्या लक्ष्येण व्याजेन बद्धाञ्जलिरेव तिष्ठन्ती न तु सिञ्चन्तीति द्योतनाय सिसिक्षेतीच्छायां सनः प्रयोगः । प्रतियुवं युवानं प्रति । 'अनश्च' (५।४।१०८) इत्यव्ययीभावे समासान्तः । मूतेन मूर्तिमता प्रणयरसेनेवेत्युत्प्रेक्षा । पाठादर्थस्य बलीयस्त्वादिवशब्दस्य व्यवहितेनान्वयः । वारिणा पूर्णमञ्जलिं चकार । प्रार्थयामासेत्यर्थः ॥ ३५ ॥

  आनन्दं दधति मुखे करोदकेन
   श्यामाया दयिततमेन सिच्यमाने ।
  ईर्ष्यन्त्या वदनमसिक्तमप्यनल्प-
   स्वेदाम्बुस्नपितमजायतेतरस्याः ॥३६॥

 आनन्दमिति ॥ आनन्दं दधति प्रियसंभावनया हर्षं दधाने श्यामाया मध्यमयौवनायाः स्त्रियः । 'श्यामा यौवनमध्यस्था' इत्युत्पलः । मुखे वदने दयिततमेन अतिशयेन दयितः प्रियः । अतिशये तमप्प्रत्ययः । तेन का करोदकेनाञ्जलिजलेन सिच्यमाने सति ईर्ष्यन्त्या असहमानायाः । 'परोत्कर्षाक्षमेर्ष्या स्यात्' इति लक्षणात् । इतरस्याः सपत्न्या वदनमसिक्तमपि । प्रियेणेति शेषः । अनल्पेन स्वेदाम्बुना स्नपितं सिक्तमजायताभवत् । ईर्ष्याकृतकोपकार्यत्वात् स्वेदादीनामिति भावः। असिक्तमपि सिक्तमिति विरोधः । तस्य स्वेदाख्यकारणोक्तेराभासत्वम् ॥३६॥

  उद्वीक्ष्य प्रियकरकुड्मलापविद्धै-
   र्वक्षोजद्वयमभिषिक्तमन्यनार्याः ।
  अम्भोभिर्मुहुरसिचद्वधूरमर्षा-
   दात्मीयं पृथुतरनेत्रयुग्ममुक्तैः ॥ ३७॥

 उद्वीक्ष्येति ॥ प्रियस्य करकुड्मलाभ्यां पाणिपुटाभ्यामपविद्धैः सिक्तैरम्भोभिरभिषिक्तम् । अन्यनार्याः सपत्न्या वक्षोजद्वयमुद्वीक्ष्य वधूर्नायिका अमर्षादीर्ष्याकृतकोपादात्मीयं वक्षोजद्वयं पृथुतरेण नेत्रयुग्मेन मुक्तैरम्भोभिर्बाष्पैर्मुहुरसिचदभि- षिक्तवती । तन्मत्सरादिवेति भावः । अतो वस्तुनालंकारध्वनिः। 'लिपिसिचिह्वश्च' (३॥१॥५३) इति सिञ्चतेर्लुङि च्लेरङादेशः॥ ३७ ॥

  कुर्वद्भिर्मुखरुचिमुज्ज्वलामजस्रं
   यैस्तोयैरसिचत वल्लभां विलासी ।
  तैरेव प्रतियुवतेरकारि दूरा-
   त्कालुष्यं शशधरदीधितिच्छटाच्छैः ॥ ३८ ॥

 कुर्वद्भिरिति ॥ मुखरुचिं मुखकान्तिं उज्वलां कुर्वद्भिर्यैस्तोयैर्विलासी विल- सनशीलः कामी । 'वौ कषलस-' (३।२।१४३) इत्यादिना घिनुण् प्रत्ययः । वल्लभामजस्रमसिचत सिक्तवान् । स्वरितेत्त्वादात्मनेपदम् । 'आत्मनेपदेष्वन्यतर- स्याम्' (२।४।४४) इति सिञ्चतेर्लुङि च्लेरङादेशः । शशधरदीधितिच्छटाच्छैः शशिकरनिकरस्वच्छैः तैरेव तोयैर्दूरात्प्रतियुवतेः सपत्न्याः कालुष्यमाविलत्वं, वैवर्ण्यं चाकारि । स्वच्छतोयैः कालुष्यं कृतमिति विरुद्धकार्योत्पत्तिरूपो विषमभेदः । तच्चान्यत्रेत्यसंगतिः वैवर्ण्यकालुष्ययोरभेदाध्यवसायादतिशयोक्तिस्तदुत्थापितेति संकरः ॥ ३८॥

  रागान्धीकृतनयनेन नामधेय-
   व्यत्यासादभिमुखमीरितः प्रियेण ।
  मानिन्या वपुषि पतन्निसर्गमन्दो
   भिन्दानो हृदयमसाहि नोदवज्रः ॥ ३९ ॥

 रागेति ॥ रागेण विपक्षानुरागेणान्धीकृतनयनेन प्रियेण नामधेयव्यत्यासाद्वि- पक्षनामपूर्वकमभिमुखमीरितः क्षिप्तो वपुषि पतन्निसर्गमन्दः स्वभावजडः तथापि हृदयं भिन्दानो विदारयन्नुदकमेव वज्रोऽशनिरुदवज्रः । 'मन्थौदन-' (६।३।६०) इत्यादिना विकल्पादुदादेशः । मानिन्या विपक्षनामग्रहणजनितकोपवत्या नायिकया नासाहि न सोढः । तीक्ष्णयोगादतीक्ष्णमपि तीक्ष्णं भवतीति भावः । उदवज्र इति केवलनिरवयवरूपकम् ॥ ३९॥

  प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः
   संतापं नवजलविप्रुषो गृहीत्वा ।
  उद्धूताः कठिनकुचस्थलाभिघाता-
   दासन्नां भृशमपराङ्गनामधाक्षुः॥४०॥

 प्रेम्णेति ॥ प्रणयिनि प्रेम्णा प्रियाया उरः सिञ्चति सति कठिनकुचस्थलाभि- घातादुद्धूता उत्पतिता नवजलस्य विप्रुषो बिन्दवः । 'पृषन्ति बिन्दुपृषताःपुमांसो विप्रुषः स्त्रियाम्' इत्यमरः । तस्याः सिक्तायाः संतापं गृहीत्वा आदाया- सन्नां समीपस्थामपराङ्गनां सपत्नीं भृशमधाक्षुः संतापयन्ति स्म । दहतेर्लुङि 'वदव्रज-' (७॥२॥३) इत्यादिना सिचि वृद्धिः घत्वादिकार्यम् । तत्सेकादेवापरस्याः तापोदयात्तत्तापस्यैवात्राधानमुत्प्रेक्ष्यते । सा च व्यञ्जकाप्रयोगाद्गम्या ॥ ४० ॥

  संक्रान्तं प्रियतमवक्षसोऽङ्गरागं
   साध्वस्याः सरसि हरिष्यतेऽधुनाम्भः ।
  तुष्ट्वैवं सपदि हृतेऽपि तत्र तेपे
   कस्याश्चित्स्फुटनखलक्ष्मणः सपत्न्या ॥४१॥

 संक्रान्तमिति ॥ प्रियतमवक्षसः सकाशात् संक्रान्तं गाढालिङ्गनात्कुचतटलग्न- मस्याः सिक्ताया अङ्गरागमधुनैव सरसि अम्भः कर्तृ । साधु निःशेषं हरिष्यते प्रमा- यति एवं तुष्ट्वा इति बुद्ध्वा सपदि तत्र तस्मिन्नङ्गरागे हृतेऽपि स्फुटनखलक्ष्मणो व्यक्तनखचिह्वायाः कस्याश्चिन्नायिकायाः संबन्धिनि सपत्न्या तेपे तप्तम् । भावे लिट् । तदिदमातपार्तस्य छायामन्विष्यतो दारुणदवदहनवेष्टनं यदङ्गरागमेव द्रष्टु- मक्षमाया नखक्षतसाक्षात्कार इति । अत्र संतापशान्त्यर्थेन विपक्षाङ्गनाङ्गरागक्षा- लनेन तद्विरुद्धसंतापोत्पादनाद्विरुद्धकार्योत्पत्तिरूपो विषमालंकारः॥४१॥

  हूतायाः प्रतिसखि कामिनान्यनाम्ना
   ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः ।
  अन्तर्धिं द्रुतमिव कर्तुमश्रुवर्षै-
   र्भूमानं गमयितुमीषिरे पयांसि ॥ ४२ ॥

 हूताया इति ॥ प्रतिसखि सख्याः समीपे । सखीसमक्षमित्यर्थः । समी- पार्थेऽव्ययीभावे नपुंसकत्वह्रस्वत्वे । कामिना प्रियेणान्यस्याः सपत्न्याः नाम्ना अन्य- नाम्ना । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । हूताया अत एव गलन्मुखेन्दुकान्तेः ह्रीमत्या लज्जितायाश्च । कस्याश्चिदिति शेषः । सरसि द्रुतं शीघ्रमन्तर्धिमन्तर्धा- नम् । श्रदन्तरोरुपसर्गवद्वृत्तिवचनात् 'उपसर्गे घोः किः' (३।३।९२) इति किप्रत्ययः । कर्तुमश्रुवर्षैः कर्तृभिः पयांसि सरोजलानि भूमानं गमयितुं वृद्धिं प्रापयितुम् । 'गतिबुद्धि-' (१।४।५२) इत्यादिना अणिकर्तुः कर्मत्वं प्राधान्याद- भिधानं च । ईषिरे इव इष्टानि किमु इत्युत्प्रेक्षेयमश्रुपातनिमित्ता । तथा मरणदुः- खादपि दुःसहं सपत्न्या दुःखमिति वस्तुध्वनिः ॥ ४२ ॥

  सिक्तायाः क्षणमभिषिच्य पूर्वमन्या-
   मन्यस्याः प्रणयवता बताबलायाः।
  कालिम्ना समधित मन्युरेव वक्त्रं
   प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥४३॥

 सिक्ताया इति ॥ प्रणयवता प्रियेण क्षणं पूर्वमन्यां सपत्नीमभिषिच्य पश्चात् सिक्ताया अन्यस्या अबलायाः स्त्रिया वक्त्रं कर्म मन्युः कोप एव कर्ता । कालिम्ना कार्ष्ण्येन । वैवर्ण्येन सहेति यावत् । समधित संदधे । बतेति खेदे । संपूर्वाद्द- धातेः कर्तरि लुङि तङ् 'स्थाध्वोरिच्च' (१।२।१७) इतीकारः । सिचः कित्त्वान्न गुणः । 'ह्रस्वादङ्गात्' (८।२।२७) इति सकारलोपः । गलत्स्रवदक्ष्णोः संबन्धिः अञ्जनाम्भः कज्जलोदकमपशब्दं वर्णस्यापवादं प्राप। कोपकालिमतिरोधानेन स्वका- लिम्न एव प्रकाशनादिति भावः । पूर्वेण वाक्यार्थेनोत्तरवाक्यार्थसमर्थनाद्वाक्यार्थ- हेतुकं काव्यलिङ्गम् ॥ ४३ ॥

  उद्वोढुं कनकविभूषणान्यशक्तः
   सध्रीचा वलयितपद्मनालसूत्रः ।
  आरूढप्रतिवनिताकटाक्षभार:
   साधीयो गुरुरभवद्भुजस्तरुण्याः ॥ ४४ ॥

 उद्वोढुमिति ॥ कनकविभूषणान्युद्वोढुमशक्तः । सौकुमार्यादिति भावः । अत एव सहाञ्चतीति सध्र्यङ् तेन सहचरेण कर्त्रा । ऋत्विगादिना क्विन्प्रत्ययः । 'सहस्य सध्रिः' (६।३।९५) इति सहशब्दस्य सध्र्यादेशः । 'अनिदिताम्-' (६।४।२४) इति नकारलोपः 'अचः' (६।४।१३८) इत्यकारलोपे 'चौ' (६॥३।१३८) इति दीर्घः । वलयितानि वलयीकृतानि पद्मनालसूत्राणि मृणालतन्तवो यस्य सः । मृणालकृतकङ्कण इत्यर्थः । तथापि आरूढ आरूढवान् प्रतिवनितायाः सपत्न्याः कटाक्ष एव भारो यस्य सः । तया सासूयं दृष्ट इत्यर्थः । अत एव तरुण्या भुजो बाहुः साधीयो बाढतरमिति क्रियाविशेषणम् । 'अन्तिकबाढयोर्नेदसाधौ' (५।३।६३) इति बाढशब्दस्य साधादेशः । गुरुर्भारवान् , श्लाघ्यश्चाभवत् । अत्र कनकभूषणा- भावेऽपि तत्कार्यगुरुत्ववर्णनाद्विभावना सा च गुरुरिति श्लेषप्रतिभोत्थापितातिश- योक्त्यनुप्राणितेति संकरः ॥ ४४ ॥

  आबद्धप्रचुरपरार्ध्यकिंकिणीको
   रामाणामनवरतोदगाहभाजाम् ।
  नारावं व्यतनुत मेखलाकलाप:
   कस्मिन्वा सजलगुणे गिरां पटुत्वम् ॥ ४५ ॥

 आबद्धेति ॥ उदकस्य गाहोऽवगाहनं उदगाहः । 'मन्थौदन-' (६।३।६०) इत्यादिनोदादेशः । तमनवरतं भजन्ति यास्तासामनवरतोदगाहभाजां रामाणां स्त्रीणां संबन्धी आबद्धाः प्रोताः प्रचुरा भूयिष्ठाः परार्ध्याः श्रेष्ठाश्च किंकिण्यो यस्मिन् स तथोक्तः । 'नद्यृतश्च' (५।४।१५३) इति कप् । मेखलाकलाप आरावं ध्वनिं न व्यतनुत । तथा हि-जलेन सह सजलो जलार्द्रो गुणः सूत्रं यस्य सः । तथा डलयोरभेदाज्जडगुणो जडधर्मो जाड्यं तेन सहेति सजडगुणो जडश्च तस्मिन् कस्मिन्वा मेखलाकलापे पुंसि वा गिरां वाचां, ध्वनीनां च पटुत्वं सामर्थ्यम् । न कुत्रापीत्यर्थः । श्लेषमूलाभेदातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः ॥ ४५ ॥

  पर्यच्छे सरसि हृतेंऽशुके पयोभि-
   र्लोलाक्षे सुरतगुरावपत्रपिष्णोः।

  सुश्रोण्या दलवसनेन वीचिहस्त-
   न्यस्तेन द्रुतमकृताब्जिनी सखीत्वम् ॥ ४६॥

 पर्यच्छ इति ॥ परि परितोऽच्छं स्वच्छम् । अन्तर्गतवस्त्वतिरोधायकमित्यर्थः। तस्मिन् सरसि पयोभिरंशुके स्त्रीपरिधाने हृते स्थानादपसारिते सति सुरतगुरौ रमणे च लोलाक्षे । श्रोण्यासक्तदृष्टौ सतीत्यर्थः । 'लोलश्चलसतृष्णयोः' इत्यमरः । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' (५।४।११३) अपत्रपिष्णोरपत्रपमाणायाः । 'लज्जा सापत्रपान्यतः' इत्यमरः । 'अलंकृञ्-' (३।२।१३६) इत्यादिना इष्णुच्प्र- त्ययः । सुश्रोण्याः प्रियायाः प्रस्तुतोचितनिर्देशोऽयम् । अब्जिनी नलिनी द्रुतं वीचिरेव हस्तस्तेन न्यस्तेन दलं पर्णमेव वसनं तेन । तद्दानेनेत्यर्थः । सखीत्वम- कृत । सखीकृत्यं चकारेत्यर्थः । अत्राब्जिन्यादिषु सखीत्वाद्यारोपात् समस्तवस्तुवृत्ति सावयवरूपकम् ॥ ४६ ॥

  नारीभिर्गुरुजघनस्थलाहताना-
   मास्यश्रीविजितविकासिवारिजानाम् ।
  लोलत्वादपहरतां तदङ्गरागं
   संजज्ञे स कलुष आशयो जलानाम् ॥ ४७॥

 नारीभिरिति ॥ नारीभिः कर्त्रीभिः गुरुजघनस्थलैराहतानाम् आस्यश्रीभि- र्मुखशोभाभिर्विजितानि विकासीनि वारिजानि पद्मानि येषां तेषां लोलत्वाच्चल- त्वात्सतृष्णत्वाच्च । 'लोलश्चलसतृष्णयोः' इत्यमरः । तासामङ्गरागमपहरतां क्षाल. यतां च जलानां तोयानां जडानां च स आशयो ह्रदो हृदयं च कलुषोऽप्रसन्नः क्षुभितश्च संजज्ञे संजातः । अपहर्तुस्ताडनस्वहरणादिभिराशयः कलुषो भव- तीति ध्वनिः । अभिधायाः प्रकृतार्थे नियन्त्रणान्न श्लेषः ॥ ४७ ॥

  सौगन्ध्यं दधदपि काममङ्गनानां
   दूरत्वाद्गतमहमाननोपमानम् ।
  नेदीयो जितमिति लज्जयेव तासा-
   मालोले पयसि महोत्पलं ममज्ज ॥४८॥

 सौगन्ध्यमिति ॥ कामं पर्याप्तं सौगन्ध्यं सुरभिगन्धित्वं संबन्धित्वं च । 'गन्धो गन्धक आमोदे लेशे संबन्धिगर्वयोः' इति विश्वः । दधदपि अहं दूरत्वात् पूर्वं दूरस्थत्वादङ्गनानामाननोपमानं मुखसादृश्यं गतम् । 'दूरस्थाः पर्वता रम्याः' इतिवदिति भावः । संप्रति पुनस्तासां नेदीयो नेदिष्ठमन्तिकतमं सत् । 'अन्तिकबा- ढयोर्नेदसाधौ' (५।३।६३) इत्यन्तिकशब्दस्य नेदादेशः । जितं परिभूतमभूव- मिति लज्जयेव महोत्पलमरविन्दम् आलोले चले पयसि ममज्ज । यथा 'दूरे साम्येन दृश्यमानः संबन्धी संनिधाववमानितः क्वचिल्लज्जया निलीयते तद्वदिति । अत्र पयश्चलनकृतेऽब्जमज्जने लज्जाहेतुकत्वमुत्प्रेक्ष्यत इति श्लेषमूलातिशयोक्तिहेतू-

त्प्रेक्षयोः संसृष्टिः ॥४८॥

  प्रभ्रष्टैः सरभसमम्भसोऽवगाह
   क्रीडाभिर्विदलितयूथिकापिशङ्गैः ।
  आकल्पैः सरसि हिरण्मयैर्वधूना
   मौर्वाग्निद्युतिशकलैरिव व्यराजि ॥ ४९ ॥

 प्रभ्रष्टैरिति ॥ सरभसं ससत्वरम् अम्भसोऽवगाहा एव क्रीडास्ताभिः प्रभ्रष्टैर्जलावगाहक्षोभादम्भसि च्युतैर्विदलिता विकसिता यूथिकाः पीतयूथिका हेमपुष्पिकापरपर्याया विवक्षिताः, अन्यथा पिशङ्गत्वायोगात् । 'गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका' इत्यमरः । तद्वत्पिशङ्गैर्हिरण्मयैः सौवर्णैः । 'दाण्डिनायन-' (६।४।१७४) इत्यादिना निपातः । वधूनामाकल्पैर्भूषणैः सरसि और्वाग्निद्युतिशकलैर्जलाशयत्वादत्रापि संनिहितैर्वडवानलज्वालाखण्डैरिवेत्युत्प्रेक्षा । व्यराजि विराजितम् । भावे लुङ्॥ ४९ ॥

  आस्माकी युवतिदृशामसौ तनोति
   च्छायैव श्रियमनपायिनीं किमेभिः ।
  मत्वैवं स्वगुणपिधानसाभ्यसूयैः
   पानीयैरिति विदधाविरेऽञ्जनानि ॥५०॥

 आस्माकीति ॥ अस्माकमियमास्माकी अस्मदीया । अस्मत्कारितेत्यर्थः । 'युष्मदस्मदोरन्यतरस्यां खञ्च' (४।३।१) इति चकारादण्प्रत्ययः । तस्मिन्नणि च युष्माकास्माकौ' (४।३।२) इति प्रकृतेरस्माकादेशः 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । असौ छाया कान्तिः। विमलेति यावत् । सैव युवतिदृशामनपायिनीं स्थायिनीं श्रियं तनोति एभिरञ्जनैः किमेतत्साध्यम् । न किंचिदस्तीत्यर्थः । गम्यमानसाधनापेक्षया करणत्वात्तृतीयेत्युक्तं प्राक् । एवं मत्वा । उक्तप्रकारेणाञ्जनवैफल्यं निश्चितेत्यर्थः । अत एव गम्योत्प्रेक्षेयम् । स्वगुणस्य स्वाविष्कृतदृङ्नैर्मल्यगुणस्य पिधानं तिरोधानम् । 'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । तेन साभ्यसूयैः सेर्ष्यैः पातुमर्हैः पानीयैः । 'अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बु शम्बरम्' इत्यमरः । 'तव्यत्तव्यानीयरः' (३।१।९६)इति पिबतेरनीयर् प्रत्ययः । अञ्जनानि कज्जलानि इति अनेन स्वगुणप्रकाशनयोग्यतया विवक्षितेन प्रकारेण । निःशेषत्वरूपेणेत्यर्थः । विदधाविरे विधौतानि । क्षालितानीत्यर्थः । 'धावु गतिशुद्ध्योः' इति धातोः कर्मणि लिट् ॥५०॥

  निर्धौते सति हरिचन्दने जलौघै
   रापाण्डोर्गतपरभागयाङ्गनायाः।
  अह्नाय स्तनकलशद्वयादुपेये
   विच्छेदः सहृदययेव हारयष्ट्या ॥५१॥

 निधौत इति ॥ हरिचन्दने रक्तचन्दने जलौघैर्निर्धौते क्षालिते सति । धावेः

कर्मणि क्तः । च्छ्वोः शूडनुनासिके च' (६।४।१९) इति वकारस्योठादेशः । 'एत्येधत्यूसु' (६।१।८९) इति वृद्धिरौकारः । आपाण्डोः पाण्डुवर्णादङ्गनायाः स्तनकलशद्वयात् गतपरभागया सावर्ण्याद्विगतवर्णोत्कर्षया । अत एव सामान्या- लंकारः । सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । हारयष्ट्या कर्त्र्या सहृदयया सचित्तयेवेत्युत्प्रेक्षा । निजपरभागहानिपरिज्ञानवत्येवेत्यर्थः । अह्नाय सपदि । 'स्राक् झटित्यञ्जसाह्नाय द्राङ् मंक्षु सपदि द्रुते' इत्यमरः । विच्छेदस्रुटनमुपेये प्राप्तः। हीनजीवनादजीवनमेव वरमिति भावः । उपपूर्वादिणः कर्मणि लिट् । विक्षोभहेतुकस्य हारविच्छेदस्य सहृदयहेतुकत्वोत्प्रेक्षा, सा चोक्तसामान्योत्थापितेति संकरः ॥ ५१ ॥

  अन्यूनं गुणममृतस्य धारयन्ती
   संफुल्लस्फुरितसरोरुहावतंसा ।
  प्रेयोभिः सह सरसी निषेव्यमाणा
   रक्तत्वं व्यधित वधूदृशां सुरा च ॥५२॥

अन्यूनमिति ॥ अन्यूनं समग्रममृतस्य पीयूषस्य गुणं माधुर्यादिकं धार- यन्ती। अगन्धमव्यक्तरसं शीतलं च तृषापहम् । अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते ॥' इति (सुश्रुते सू० स्था० अ० ४५), उक्तोदकगुणं च धारयन्ती सरसी । पक्षे 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले ध्रुवम्' इति विश्वः । संफु- ल्लानि विकचानि । उत्फुल्लसंफुल्लयोरुपसंख्यानान्निष्ठातस्य लत्वम् । स्फुरितान्युज्ज्व- लानि च यानि सरोरुहाण्येकत्र सहजानि, अन्यत्र संस्कारार्थं क्षिप्तानि तान्यवतंसो भूषणं यस्याः सा तथोक्ता । प्रेयोभिः सह निषेव्यमाणा । स्नानपानाभ्यामिति भावः । सरसी पुष्करिणी वधूदृशां रक्तत्वमारुण्यं व्यधित विधत्ते स्म । तथा सुरा च । व्यधितेति धाञः कर्तरि लुङि तङ् । इहोत्साहवर्धनाय मुहुः सेव्यत्वात् 'शृङ्गाणि-' (८।३०) इति श्लोके सलिलक्रीडासंभारेषु मार्द्वीकमिति परिगणनाच्च सरसीवत् सुराया अपि प्रकृतत्वविवक्षायां तुल्ययोगिता, तदविवक्षायां तु दीपकम् । 'सुरेव' इति पाठे त्वप्रकृतविवक्षैव कार्या । अन्यथा उपमानुपमा स्यात् । न च तुल्ययोगितावकाशः । इवशब्देन गम्यौपम्यलक्षणभङ्गादिति ॥ ५२ ॥

  स्नान्तीनां बृहदमलोदबिन्दुचित्रौ
   रेजाते रुचिरदृशामुरोजकुम्भौ ।
  हाराणां मणिभिरुपाश्रितौ समन्ता-
   दुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ॥ ५३ ॥

 स्नान्तीनामिति ॥ स्नान्तीनां जलमवगाहमानानां रुचिरदृशां सुदृशां संब- न्धिनौ बृहद्भिरमलैश्चोदबिन्दुभिश्चित्रौ । 'मन्थौदन-' (६।३।६०) इत्यादिना उदकशब्दस्योदादेशः । उरोजकुम्भौ उत्सूत्रैः हाराणां मुक्ताहाराणां मणिभिर्गुटिका- भिरुपहन्यते उपगम्यते, पीड्यते वा । 'उपन्न आश्रये' (३।३।८५) इति हन्तेर- प्प्रत्ययान्त उपधालोपीति निपातः । गुणवत औदार्यादिगुणवतः, सूत्रवतश्च उपघ्नस्य

पाठा०- -१ 'सुरेव.' काम्या आत्मन इच्छा गुणवदुपघ्नकाम्या तया गुणवदुपघ्नकाम्यया । आत्मनो गुण- वदाश्रयाकाङ्क्षयेत्यर्थः । 'काम्यच्च' (३।१।९) इति काम्यच्प्रत्यये प्रत्ययान्तधातु- त्वात् 'अप्प्रत्ययात्' (३।३।१०२) इति स्त्रियामप्प्रत्यये टाप् । समन्तादुपाश्रितौ संश्रिताविव रेजाते राजेते स्म । 'फणां च सप्तानाम्' (६।४।१२५) इति विक- ल्पादेकाराभ्यासलोपौ । गुणवच्छब्देन सूत्रशब्देन च सूत्रभेदे सूत्रान्तरमशिश्रिय- दिति प्रतीतेः श्लेषानुप्राणितयातिशयोक्त्यानुप्राणितेयमुत्प्रेक्षा ॥ ५३ ॥

  आरूढः पतित इति स्वसंभवोऽपि
   स्वच्छानां परिहरणीयतामुपैति ।
  कर्णेभ्यश्च्युतमसितोत्पलं वधूनां
   वीचीभिस्तटमनु यन्निरासुरापः ॥ ५४॥

 आरूढ इति ॥ स्वसंभवोऽप्यात्मसंभवोऽपि आरूढ उच्चस्थानगत उत्तमाश्रयश्च पतितस्तथा भ्रष्ट इति हेतोः । आरूढपतितत्वादित्यर्थः । स्वच्छानां निर्मलानां परिहरणीयतां त्याज्यत्वमुपैति । 'प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः' (याज्ञ० स्मृतौ-व्यव० १८३) इति स्मरणादिति भावः । वीचीभिस्तटमनु तटं प्रति निरासुश्चिक्षिपुः । कुतः । यस्मादापः वधूनां कर्णेभ्यश्च्युतमसितोत्पलम् । स्वसंभवमपीति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः समर्थन- वाक्यगतश्लेषमूलातिशयोक्त्या संकीर्णः ॥ ५४॥

  दन्तानामधरमयावकं पदानि
   प्रत्यग्रास्तनुमविलेपनां नखाङ्काः ।
  आनिन्युः श्रियमधितोयमङ्गनानां
   शोभायै विपदि सदाश्रिता भवन्ति ॥ ५५ ॥

 दन्तानामिति ॥ तोयेष्वधि अधितोयम् । विभक्त्यर्थेऽव्ययीभावः । अङ्गना- नामयावकं प्रक्षालितलाक्षारागमधरं दन्तानां पदानि दन्तक्षतानि । तथा अवि- लेपनां धौताङ्गरागां तनुं शरीरं प्रत्यग्रा नवा नखाङ्काश्च श्रियमानिन्युः प्रापया. मासुः । 'नीवह्योर्हरतेश्चैव' इति वचनाद्द्विकर्मकत्वम् । तथा हि-सतः सज्जनान् , सुन्दरांश्चाश्रिताः सदाश्रिताः, ये केचिदिति शेषः । विपदि विभवाभावकालेऽपि शोभायै वैभवाय भवन्ति । 'क्लपेः संपद्यमाने चतुर्थी वक्तव्या' (वा०) इति क्लृपेरर्थनिर्देशाच्चतुर्थी । अर्थान्तरन्यासः ॥ ५५ ॥

  कस्याश्चिन्मुखमनु धौतपत्रलेखं
   व्यातेने सलिलभरावलम्बिनीभिः ।
  किंजल्कव्यतिकरपिञ्जरान्तराभि-
   श्चित्रश्रीरलमलकाग्रवल्लरीभिः ॥ ५६ ॥

 कस्याश्चिदिति ॥ धौतपत्रलेखं क्षालितपत्रावलीकं कस्याश्चिन्मुखमनु मुखेन संबद्धं यथा तथा । मुखे इति यावत् । 'तृतीयाथै-' (१।४।८५) इत्यनोः कर्मप्रवचनीयत्वाद्द्वितीया । सलिलभरेणावलम्बिनीभिर्लम्बमानाभिः । आर्जवं गताभिरित्यर्थः। किंजल्कव्यतिकरेण केशरमिश्रणेन पिञ्जराण्यन्तराणि मध्यभागा यासां ताभिः । अलकाग्राणि वल्लर्यो मञ्जर्य इवेत्युपमितसमासः । 'वल्लरी मञ्जरी स्त्रियाम्' इत्यमरः । ताभिरलकाग्रवल्लरीभिश्चित्रश्रीर्मकरिकापत्रशोभा अलं व्यातेने संपादिता । तनोतेः कर्मणि लिट् । अत्र चित्रस्य श्रीरिव श्रीरिति निदर्श नाभेदः ॥५६॥

 अथ श्लोकद्वयेन पुंसामप्यवस्थाभेदं वर्णयति-

  वक्षोभ्यो घनमनुलेपनं यदूना-
   मुत्तंसानहरत वारि मूर्धजेभ्यः ।
  नेत्राणां मदरुचिरक्षतैव तस्थौ
   चक्षुष्यः खलु महतां परैरलङ्घ्यः ॥५७ ॥

 वक्षोभ्य इत्यादि ॥ वारि सरउदकं कर्तृ यदूनां यादवानां वक्षोभ्यो घनं सान्द्रमनुलेपनमङ्गरागमहरत । ञित्त्वात्तङ् । *अत्र 'वधूनाम्' इति क्वाचित्कः पाठो वक्षोजानुपेक्ष्य वक्षोमात्रनिर्देशादुत्तरश्लोके तेषामिति पुंलिङ्गपरामर्शाच्च न ग्राह्यः । मूर्धजेभ्यः शिरोरुहेभ्य उत्तंसान् शेखरानहरत । नेत्राणां मदरुचिर्मदरागोऽक्षतैव तथैव तस्थौ । वारिविहारस्यापि रागजनकत्वादिति भावः । अत एव रागद्वयस्या- प्यभेदाध्यवसायेन तदवस्थानिर्देशादतिशयोक्तिः । तथा हि-महतां चक्षुषि भव श्चक्षुष्यः प्रियोऽक्षिजश्च । 'प्रियेऽक्षिजे च चक्षुष्यः' इति विश्वः । 'शरीरावयवाच्च' (४।३।५५) इति यत् । परैरलङ्घ्यो दुर्धर्षः खलु । चक्षुष्य इति श्लेषमूलातिश- योक्तिः । तया पूर्वोक्तया च संकीर्णोऽयमर्थान्तरन्यासः॥ ५७ ॥

  यो बाह्यः स खलु जलैर्निरासि रागो
   यश्चित्ते स तु तदवस्थ एव तेषाम् ।
  धीराणां व्रजति हि सर्व एव नान्त:-
   पातित्वादभिभवनीयतां परस्य ॥ ५८॥

 य इति ॥ तेषां यदूनां बहिर्भवो बाह्यः । 'बहिषष्टिलोपो यञ्च' (वा०) इति वचनात् यञ् प्रत्ययः । यो रागोऽङ्गरागः स रागो जलैस्तोयैः, जडैश्च निरासि निरस्तः खलु । अस्यतेः कर्मणि लुङ् । चित्ते यो रागः स तु सैवावस्था यस्य स तदवस्थ एव । न निरस्त इत्यर्थः । अत्र रागयोरभेदाध्यवसायादतिशयोक्तिः । तथा हि सर्वोऽपि धीराणां महतामन्तःपातित्वात् । अन्तर्गतत्वादेवेति यावत् । परस्याभिभवनीयतां न व्रजति । अन्यथा व्रजत्येवेत्यर्थः । पूर्ववदलंकारः ॥ ५८ ॥

  फेनानामुरसिरुहेषु हारलीला
   चेलश्रीर्जघनतलेषु शैवलानाम् ।
  गण्डेषु स्फुटरचनाब्जपत्त्रवल्ली
   पर्याप्तं पयसि विभूषणं वधूनाम् ॥ ५९॥

 फेनानामिति ॥ वधूनाम् । भ्रष्टभूषणानामपीति भावः । पयसि विभूषणं


पर्याप्तम् । समग्रमासीदित्यर्थः । कुतः । फेनानां डिण्डीराणामुरसि रुहन्तीत्युर-

सिरहाः स्तनाः । 'सुपि-' (३।२।४) इति योगविभागात्कप्रत्ययः 'हलदन्तात्-' (६॥३॥९) इत्यलुक् । तेषु हारलीला मुक्तावलिश्रीः । जातेति शेषः । शैवलानां जघनतलेषु चेलश्रीर्वसनशोभा जाता। गण्डेषु कपोलेषु शैवल इति विभक्तिविप- रिणामादनुषङ्गः। स्फुटरचना व्यक्तविन्यासाब्जपत्रवल्ली पद्मपत्रलता, जातेति शेषः । अत्र फेनानां हारलीलेव लीला शैवलानां चेलश्रीरिव श्रीरिति निदर्शनाभ्यां शैवलाः पत्रवल्लीति रूपकेण च वाक्यार्थैश्चतुर्थवाक्यार्थसमर्थनात् तैरेवाङ्गाङ्गि- भावेन संकीर्ण वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ५९ ॥

  भ्रश्यद्भिर्जलमभि भूषणैर्वधूना-
   मङ्गेभ्यो गुरुभिरमज्जि लज्जयेव ।
  निर्माल्यैरथ ननृतेऽवधीरिताना-
   मप्युच्चैर्भवति लघीयसां हि धार्ष्ट्यम् ॥६०॥

 भ्रश्यद्भिरिति ॥ वधूनामङ्गेभ्यो भ्रश्यद्भिः पतद्भिर्गुरुभिः सौवर्ण्याद्गुरुत्व- युक्तैर्भूषणैर्लज्जया भ्रंशप्रयुक्तया ह्रियेवेत्युत्प्रेक्षा । जलमभि अमज्जि जले मग्नम् । भावे लुङ् । अथानन्तरमेव न तु विलम्बेनेति भावः । निर्माल्यैर्मुक्तोज्झितमा- ल्यैर्ननृते जलेऽनर्ति । भ्रंशेऽपि निर्लज्जैरिति भावः । तथा हि-अवधीरितानां तिरस्कृतानामपि लघीयसां तुच्छानामुच्चैर्धार्ष्ट्यं निर्लज्जत्वमेवाधिकं भवतीत्यर्था- न्तरन्यासः । महान्तः पदभ्रंशे लज्जिताः क्वचिन्निलीयन्ते, तुच्छास्तु निर्लज्जा विजृ- म्भन्त इति भावः । अप्सु गुरूणि मज्जन्ति लघूनि प्लवन्त इति परमार्थः ॥ ६०॥

  आमृष्टास्तिलकरुचः स्रजो निरस्ता
   नीरक्तं वसनमपाकृतोऽङ्गरागः ।
  कामः स्त्रीरनुशयवानिव स्वपक्ष-
   व्याघातादिति सुतरां चकार चारूः॥६१ ॥

 आमृष्टा इति ॥ तिलकरुचः पत्रशोभा आमृष्टाः । स्रजो माला निरस्ताः । वसनं कौसुम्भं वासो नीरक्तमरक्तम् । निरस्तरागमित्यर्थः । कृतमिति शेषः । अङ्गरागोऽपाकृतः । सर्वत्र जलैरित्यर्थः । इतीत्थं स्वपक्षव्याघातात् स्ववर्गक्षयात् अनुशयवाननुतापवानिवेत्युत्प्रेक्षा । कामः स्त्रीः स्त्रियः । 'वाम्शसोः' (६।४।८०) इतीयङादेशविकल्पात्पक्षे पूर्वसवर्णदीर्घः । सुतरां चारूः पूर्वतोऽपि रमणीया- श्चकार । स्त्रीणां काम एव भूषणमन्यद्वैरूप्यमेवेति भावः ॥ ६१ ॥

  शीतार्तिं बलवदुपेयुषेव नीरै-
   रासेकाच्छिशिरसमीरकम्पितेन ।
  रामाणामभिनवयौवनोष्मभाजो-
   राश्लेषि स्तनतटयोर्नवांशुकेन ॥ ६२ ॥

 शीतेति ॥ नीरैस्तोयैः आसेकादासेचनात् शीतार्तिं शीतव्यथां बलवत्सु

उपेयुषेव प्राप्तवतेवेत्युत्प्रेक्षा । अत एव शिशिरसमीरकम्पितेन शीतवातवेपितेन नवांशुकेन कर्त्रा अभिनवो यो यौवनोष्मा उष्णत्वं तद्भाजोः रामाणां स्तनतट, योराधारयोराश्लेषि आश्लिष्टं संसक्तम् । भावे लुङ् । सेकहेतुकस्यांशुकश्लेषस्य शीतार्तिहेतुकत्वमुप्रेक्ष्यत इति गुणहेतूत्प्रेक्षा ॥ ६२ ॥

 इत्थमासां जलक्रीडामुक्त्वा जलादुत्तरणं वर्णयति-

  श्च्योतद्भिः समधिकमात्तमङ्गसङ्गा-
   ल्लावण्यं तनुमदिवाम्बु वाससोऽन्तैः ।
  उत्तेरे तरलतरङ्गरङ्गलीला-
   निष्णातैरथ सरसः प्रियासमूहैः ॥ ६३ ॥

 श्योतद्भिरिति ॥ अथ जलक्रीडानन्तरम् , अङ्गसङ्गाद्गात्रसंपर्कात् , आत्तमु. पात्तम् । संसक्तमिति यावत् । समधिकमतिरिक्तं तनुमन्मूर्तिमत् लावण्यमिव कान्तिसारमिवेत्युत्प्रेक्षा । अम्बु श्च्योतद्भिः क्षरद्भिः । भौवादिकत्वाल्लघूपधगुणः । तरलाश्चपलास्तरङ्गा एव रङ्गा नृत्यस्थानानि तेषु लीला नर्तितानि तासु निष्णातैः कुशलैः । 'निनदीभ्यां स्नातेः कौशले' (८।३।८९) इति षत्वम् । वाससोऽन्तैर्व- स्त्रस्याञ्चलैरुपलक्षितैः प्रियासमूहैः स्त्रीसङ्घैः सरसो हृदादुत्तेरे उत्तीर्णम् । निर्गत- मित्यर्थः । तरतेर्भावे लिट् ॥ ६३ ॥

  दिव्यानामपि कृतविस्मयां पुरस्ता-
   दम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
  उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती-
   मस्मार्षीज्जलनिधिमन्थनस्य शौरिः॥६४॥

 दिव्यानामिति ॥ दिवि भवा दिव्यास्तेषामपि कृतविस्मयां न्दर्यातिरेकेण जनिताद्भुतरसां स्फुरदरविन्दाभ्यां चारू हस्तौ यस्यास्ताम् । पद्महस्तामित्यर्थः । पुरस्तादग्रतः अम्भस्तो जलात् । पञ्चम्यास्तसिल् । उत्तरन्तीं निष्क्रामन्तीं कांचि- त्स्त्रियं मथ्यमानात् समुद्रात् सद्यः प्रादुर्भवन्तीं श्रियमिव लक्ष्मीमिवोद्वीक्ष्य जलनिधिमन्थनस्य । समुद्रमन्थनमित्यर्थः । मन्थेर्भौवादिकस्येदित्त्वान्नुमागमः अधीगर्थ-' (२।३।५२) इत्यादिना कर्मणि षष्ठी । अस्मार्षीत् स्मृतवान् । अत्र समुद्रमन्थनस्मारिकया श्रियमिवेत्युपमया सादृश्यात् श्रीः स्मृतेति स्मरणालंकार- प्रतीतेरलंकारध्वनिः ॥ ६४ ॥

  श्लक्ष्णं यत्परिहितमेतयोः किलान्त-
   र्धानार्थं तदुदकसेकसक्तमूर्वोः ।
  नारीणां विमलतरौ समुल्लसन्त्या
   भासान्तर्दधतुरुरू दुकूलमेव ॥ ६५ ॥

 श्लक्ष्णमिति ॥ एतयोरूर्वोरन्तर्धानार्थं किल छादनार्थं श्लक्ष्णं स्निग्धं यद्दुकूलं परिहितमाच्छादितमुदकसेकेन संसक्तं संसृष्टं तत् दुकूलं कर्म । विमलतरौ नारीणामुरू पीवरावूरू एव कर्तारौ समुल्लसन्त्या स्फुरन्त्या भासा निजकान्त्याऽन्तर्दधतुः छादितवन्तौ । तदेतद्भूषणमिति भावः । अत्र दुकूलस्योरूच्छादकत्वेऽपि तदभा- वोक्तेरसंबन्धेऽपि संबन्धरूपातिशयोक्तिः । तदपेक्षया चोर्वोर्दुकूलानाच्छादक- योराच्छादकत्वोक्तेरसंबन्धे संबन्धरूपातिशयोक्त्यानुप्राणितेति सजातीयसंकरः, तदनुप्राणितश्च विषमालंकार इति विजातीयसंकरः । तेन चोर्वोर्लोकोत्तरं लावण्यं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ६५ ॥

  वासांसि न्यवसत यानि योषितस्ताः
   शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव ।
  अत्याक्षुः स्नपनगलज्जलानि यानि
   स्थूलाश्रुतिभिररोदि तैः शुचेव ॥ ६६ ॥

 वासांसीति ॥ ताः योषितो यानि वासांसि न्यवसत निवसितवत्यः । 'वस आच्छादने' इति धातोः कर्तरि लङ् । शुभ्राभ्राणां द्युतिरिव द्युतिर्येषां तैर्वा- सोभिर्मुदा नारीनिवसनानन्देनाहासीव हसितमिव । भावे लुङ् । स्नपनेन गल- ज्जलानि स्रवत्तोयानि यानि वासांसि अत्याक्षुस्त्यक्तवत्यः तैः शुचा स्थूला अश्रु- स्नुतिर्येषां तैररोदीव रोदनं कृतमिव । भावे लुङ् । अत्र धावल्यगुणजलगलन- क्रियानिमित्तयोर्हासरोदनक्रिययोः सजातीयोत्प्रेक्षयोः संकरः ॥ ६६ ॥

  आर्द्रत्वादतिशयिनीमुपेयिवद्भिः
   संसक्तिं भृशमपि भूरिशोऽवधूतैः ।
  अङ्गेभ्यः कथमपि वामलोचनानां
   विश्लेषो बत नवरक्तकैः प्रपेदे॥ ६७॥

 आर्द्रत्वादिति ॥ आर्द्रत्वाजलेन प्रेम्णा च सरसत्वादतिशयिनीमतिशय- वती संसक्तिं संश्लेषं, परिचयं चोपेयिवद्भिः प्राप्तवद्भिः अत एव भृशं भूरिशो बहुशोऽवधूतैर्निरस्तैरपि, अन्यत्र निष्कासितैरपि नवरक्तैरेव नवरक्तकैः नूतनर क्तवस्त्रैः, नवानुरागिभिश्च वामलोचनानां सुदृशामङ्गेभ्यो विश्लेषः बत खेदे कथ- मपि प्रपेदे प्राप्तः । एकत्रातिश्लेषादन्यत्रातिपरिचयाच्चेति भावः । अत्यासक्ताः कामिनो धनपरायणाभिर्वेश्याभिरवधूताः कथंचिन्मुञ्चन्तीत्यर्थान्तरप्रतीतिः । इह विशेष्यस्यापि श्लिष्टत्वाच्छब्दशक्तिमूलो ध्वनिरेव ॥ ६७ ॥

  प्रत्यंसं विलुलितमूर्धजा चिराय
   स्नार्द्ं, वपुरुदवापयत् किलैका ।
  नाजानादभिमतमन्तिकेऽभिवीक्ष्य
   खेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥ ६८ ॥

 प्रत्यंसमिति ॥ एका स्त्री प्रत्यंसमंसयोः । विभक्त त्त्यर्थेऽव्ययीभावः । विलुलि- तमूर्धजा, विकीर्णकेशा सती स्नानार्दं वपुः चिराय चिरमुदवापयन्निरवापयत् । अशोषयदिति यावत् । वयतेर्ण्यन्ताल्लजङ् । 'अर्तिर्हि-' (७|३।३६) इत्यादिना पुगागमः । किल खलु । पुनस्तद्वपुरभिमतं प्रियमन्तिकेऽभिवीक्ष्य स्वेदाम्बुनो द्रवम् । द्रवशब्दः शुक्लादिवद्गुणे पुंसि, गुणिनि भेद्यलिङ्गः । 'आपो द्रवाः सर्वाणि द्रवाणि तूदङ्मुखेन जुहोति' इत्यादिप्रयोगात् । अभवत्तराम् । अतिशयेनाभवदि- त्यर्थः । 'तिङश्च' (५।३।५६) इति तमप् 'किमेत्तिङ-' (५।४।११) इत्यादिना तिङन्तादामुप्रत्ययः । 'तद्धितश्वासर्वविभक्तिः' (१|१|३८) इत्यव्ययत्वम् । नाजानात् । वाक्यार्थः कर्म । तद्द्रवभवनं नाज्ञासीदित्यर्थः । अविरतस्रोहार्द्रताम- जानती स्नानार्द्रमेवेति मन्यमाना पुनःपुनर्वपुरुद्वापयन्त्येवास्त इति तात्पर्यार्थः । अत्र वपुष्मत्कर्तृकस्य वीक्षणस्य वपुष्युपचारात् द्रवणक्रियायाः समानकर्तृकत्वात्पू- र्वकालतानिर्वाहः । एषा च गर्वोत्सुक्यादिसंचारिसंकीर्णस्वेदरोमाञ्चादिसात्विकसं. पन्ना स्मिताद्यनुभाववती चेत्यनुसंधेयम् । अत्रोद्वापनरूपकारणे सति द्रवत्वनिवृ- त्तिरूपकार्यानुत्पत्तेस्तद्विरुद्धद्रवत्वप्रतिपादनमुखेनाभिधानाद्विशेषोक्तिरलंकारः । 'त- त्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते' इति लक्षणात् ॥ ६८ ॥

  सीमन्तं निजमनुबध्नती कराभ्या-
   मालक्ष्य स्तनतटबाहुमूलभागा।
  भर्तान्या मुहुरभिलष्यता निदध्ये
   नैवाहो विरमति कौतुकं प्रियेभ्यः ॥ ६९॥

 सीमन्तमिति ॥ निजमात्मीयं सीमन्तं मूर्धजमध्यपद्धतिम् । 'सीमन्तम- स्त्रियां स्त्रीणां केशमध्ये तु पद्धतिः' इति वैजयन्ती । कराभ्यामनुबघ्नती गृह्णन्ती । विभजन्तीत्यर्थः । अत एव आ समन्तात् लक्ष्या विभाव्याः स्तनतटे बाहुमूले च तेषां भागाः प्रदेशा यस्याः सा अन्या स्त्री अभिलष्यताभिलषता। 'वा भ्राश-' (३॥३॥७०) इत्यादिना वैकल्पिकः श्यन्प्रत्ययः । भर्ना मुहुर्निदध्ये ध्याता । तां निरीक्ष्येत्यर्थः । निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः । अहो आश्चर्ये । कौतुकमभिलाषः प्रीणन्तीति प्रिया विषयाः । 'इगुपधज्ञाप्रीकिरः कः' (३।१।१३५) इति कः । तेभ्यो न विरमति उपभोगेऽपि न निवर्तत इत्याश्च- र्यम् । 'न जातु कामः कामानामुपभोगेन शाम्यति' (श्रीमद्भागवते ९।१९।१४) इति भावः । 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' (वा०) इति पञ्चमी, 'व्याङ्परिभ्यो रमः' (१।३।८३) इति परस्मैपदम् । अर्थान्तरन्यासः ॥ ६९ ॥

  खच्छाम्भःस्नपनविधौतमङ्गमोष्ठ-
   स्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
  वासश्च प्रतनु विविक्तमस्त्वितीया-
   नाकल्पो यदि कुसुमेषुणा न शून्यः ॥ ७० ॥

 खच्छेति ॥ स्वच्छेनाम्भसा स्नपनेनाभिषेकेण विधीतं विमलितमङ्गं वपुः । ताम्बूलद्युत्या ताम्बूलरागेण विशद उज्वल ओष्ठोऽधरः । प्रतनु सूक्ष्मं विविक्तं विमलं वासश्च, अथवा विविक्तमेकान्तस्थानं च । 'विविक्तौ पूतविजनौ' इत्यमरः । इत्येवंरूप इयानेतावानेव विलासिनीनामाकल्पो नेपथ्यमस्तु, किमन्यैरित्यर्थः । कुसुमेषुणा कामेन शून्यो यदि न स्यात् । अन्यथा उद्विजितानामिव कनकभूष- णमपि भारायत एवेति भावः । एतेन विच्छित्याख्य आलम्बनचेष्टारूप उद्दीपन- विभाव उक्तः । 'स्तोकभूषणयोगेऽपि विच्छित्तिरिति गद्यते' इति लक्षणात् । अत्र स्नानताम्बूलादिपदार्थान्वितविशेषणगत्या अङ्गौष्ठादीनामाकल्पत्वप्रतिपादनार्थहे. तुकं काव्यलिङ्गमलंकारः ॥ ७० ॥

 अथोत्तरसर्गे सूर्यास्तमयादिवर्णनं प्रस्तौति-

  इति धौतपुरंध्रिमत्सरान्सरसि मज्जनेन
   श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः ।
  अवलोक्य तदैव यादवानपरवारिराशेः
   शिशिरेतररोचिषाप्यापां ततिषु मनङ्क्तुमीपे ॥ ७१॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
जलविहारवर्णनं नामाष्टमः सर्गः ॥ ८॥

 इतीति ॥ इतीत्थं सरसि मज्जनेन स्नानेन धौतपुरंध्रिमत्सरान् क्षालितमानिनी- मानान् अभीक्ष्णमतिशेतेऽतिशायिनीम् । आभीक्ष्ण्ये णिनिः । श्रियमाप्तवतः अप-मलाङ्गभासो विमलाङ्गकान्तीन् यादवानवलोक्य तदैव शिशिरेतररोचिषा उष्णांशु-नाप्यपरवारिराशेः पश्चिमाब्धेरपां ततिषु पूरेषु मङ्क्तुं प्रवेष्टुमीषे इष्टम् । भावे लिट् । परचेष्टासाक्षात्कारो विषयिणां तादृग्विषयाभिलाषमन्तराधत्त इति भावः । अत्र भानोः कालप्राप्तमज्जनस्य यादवमजनावलोकनहेतुकत्वमुत्प्रेक्ष्यते । अतिशायिनीवृ- त्तम् । 'ससजा भजतोऽतिशायिनी भवति गौ दिगश्वैः' इति छन्दोलक्षणात् ॥७१॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वकषाख्येऽष्टमः सर्गः ॥८॥